स्पष्टीकुरुत- ज्ञानमात्रे वृथा शास्त्रं.....

स्पष्टीकुरुत-
ज्ञानमात्रे वृथा शास्त्रं साक्षाद् दृष्टिस्तु दुर्लभा।पञ्चार्थाद् अन्यतो नास्ति यथावत् तत्त्वनिश्चयः॥

पाशुपतदर्शने उद्धृतम् इदं वचनम्।पाशुपतशास्त्रस्य विशेषः कः इति प्रश्नस्य उत्तरम् अत्र दत्तम्।
अन्येषु शास्त्रेषु अपि ‘ज्ञानात् मोक्षः’ इति तत्त्वम् अङ्गीकृतम्।पाशुपतशास्त्रे अपि तदेव उच्यते।एवं चेत् अन्यशास्त्रेभ्यः पाशुपतशास्त्रस्य विशेषः कः इति प्रश्नः उत्पन्नः।तस्य उत्तरम् अस्मिन् पद्ये दत्तम्।

सरलार्थः –
केवलं ज्ञानेन यदि मोक्षः सम्भवति, तर्हि शास्त्रं व्यर्थं भवति।ईश्वरस्य साक्षाद् दर्शनं (दृष्टिः) तु दुर्लभा। पञ्चार्थप्रतिपादकात् अन्यत्र यथार्थः तत्त्वनिश्चयः न भवति।

स्पष्टीकरणम् -
आदौ त्रिविधम् विकल्पम् उत्पादयति पाशुपतशास्त्रकारः।ततः च ‘एकः अपि विकल्पः न घटते’ इति दर्शयति। अतः ‘विकल्पासहिष्णुत्वात् पाशुपतशास्त्रं सविशेषम्’ इति प्रस्थापयति।
त्रिविधः विकल्पः एवम् -ज्ञानात् मोक्षः इति अन्यशास्त्रेषु अपि प्रतिपादितं, तथापि ज्ञानपदेन किम् अभिप्रेतम्?
शाब्दज्ञानम् अथवा
साक्षात्कारः अथवा
तत्त्वज्ञानम्?
यदि शाब्दज्ञानमात्रेण मोक्षः सम्भवति तर्हि ‘वृथा शास्त्रम्’।देवानाम् अधिपो महादेवः इति शब्दैः ज्ञाते सति मोक्षः भविष्यति।तदा शास्त्रमनर्थकं स्यात्।
‘शब्दज्ञानमात्रेण मोक्षः न भवति, ईशसाक्षात्कारः मोक्षहेतुः’ इति चेत् साक्षाद् ईशदर्शनं मलिनचित्तानां पशूनां कृते दुर्लभम्।अतः अनिर्मोक्षप्रसङ्गः। ‘तत्त्वनिश्चयात् मोक्षः भवति’ इति चेत् तदेव अस्माकं मतम्।तत्त्वनिश्चयः च पञ्चार्थ-प्रतिपादकात् पाशुपतशास्त्राद् एव यथावत् भवति, न अन्यतः इति अस्मन्मतम्।
एवं सत्सु अपि मोक्षप्रतिपादकेषु शास्त्रान्तरेषु पाशुपतदर्शनं विशिष्यते ।

सर्वदर्शनसङ्ग्रह-प्रश्नोत्तराणि     सर्वदर्शनसङ्र्लहे पाशुपतदर्शनम्