स्पष्टीकुरुत- ऋजुवक्रादिकाभासम्...विज्ञानस्पन्दितं तथा।

ऋजुवक्रादिकाभासम् अलातस्पन्दितं यथा ।ग्रहणग्राहकाभासं विज्ञानस्पन्दितं तथा

पदच्छेदः
ऋजुवक्रादिक-आभासम् अलातस्पन्दितं यथा ।ग्रहणग्राहक-आभासं विज्ञानस्पन्दितं तथा।

अन्वयः
यथा अलातस्पन्दितं ऋजुवक्रादिक-आभासम्, तथा विज्ञानस्पन्दितं ग्रहणग्राहक-आभासं (भवति)।

अनुवादः
वह्निविस्फुलिङ्गं यदा स्पन्दते, तदा क्वचिद् सरलं दृश्यते क्वचिद् वक्रं दृश्यते।तथा विज्ञानं यदा स्पन्दते तदा क्वचिद् विषयरूपं भासते, क्वचिद् विषयिरूपं भासते॥

स्पष्टीकरणम्
अलातशान्तिप्रकरणे एषा कारिका विद्यते।
विज्ञानं मूलतः जन्मरहितम् अस्ति (अजाति), क्रियारहितम् अस्ति (अचलम्) तथा धर्मरहितम् अस्ति (अवस्तु) ।तथापि तद् जातम् इति आभासते (जात्याभासम्), चलम् इति भासते (चलाभासम्), वस्तु इति भासते (वस्त्वाभासम्)।एषः आशयः पूर्वम् उक्तः।
अस्य आशयस्य दृढीकरणाय प्रकृतपद्ये अलातस्य दृष्टान्तः उच्यते।अलातम् इति वह्निकणिका, विस्फुलिङ्गम्।एतद् विस्फुलिङ्गं स्वतः सरलं नास्ति, वक्रमपि नास्ति।परं तद् यदा स्पन्दते तदा क्वचिद् सरलरेखावद् दृश्यते, क्वचिद् मण्डलाकारं दृश्यते, क्वचिद् वक्ररेखा इव दृश्यते।कारिकायाः पूर्वार्धे अयं दृष्टान्तः उक्तः।
कारिकायाः उत्तरार्धे सिद्धान्तः उच्यते। यथा अलातं तथा विज्ञानम् इति।विज्ञानं स्वयं जन्मरहितम् अस्ति, गतिरहितम् अस्ति तथा धर्मरहितम् अस्ति।तथापि तद् यदा स्पन्दते तदा जन्मयुक्तं गतियुक्तं तथा धर्मयुक्तं भासते।
देवदत्तः जातः इति जन्म, देवदत्तः चलति इति गतिः तथा देवदत्तः स्थूलः गौरः इति देवदत्तस्य वस्तुत्वं (धर्मित्वम्) इति एतत् सर्वम् आभासमात्रम् अस्ति, न पारमार्थिकम्।एतत् सर्वं विज्ञानस्य स्पन्दितम् अस्ति।
अचलस्य विज्ञानस्य स्पन्दितं कथम् इति सन्देहे ‘अविद्यया स्पन्दनम् इव’ इति उत्तरम् उच्यते।
अलातस्य स्पन्दनं यदा विरमति, तदा तद् भासरहितं वर्तते।एवमेव विज्ञानस्य स्पन्दनं यदा विरमति, तदा तद् अपि आभासरहितं भवति। अलातं यदा स्पन्दते तदा तस्य ऋजुत्वादयो धर्माःदृश्यन्ते।ते धर्माः अन्यतः कुतश्चित् आगत्य अलातं प्रविशन्ति इति न ।ते अलाताद् एव स्पन्दमानात् प्रादुर्भवन्ति।एवमेव विज्ञाने स्पन्दिते ये भासाः भवन्ति, ते विज्ञानाद् एव अविद्यया स्पन्दमानात् आविर्भवन्ति। न अन्यतः कुतश्चिद् आयान्ति।
अलातस्पन्दनं यदा शाम्यति, तदा तस्य ऋजुत्वादयो धर्माः तिरोभवन्ति।ते न क्वचिद् अपगच्छन्ति।अलाते एव ते विलीयन्ते।एवमेव विज्ञान-स्पन्दिते विरते सति ये भावाः शाम्यन्ति ते अन्यत्र क्वचिदपि न अपगच्छन्ति। विज्ञाने एव ते विलयं यान्ति।
ऋजुवक्रादयो भासाः असन्तः एव।तथापि अलातमात्रे ऋजुवक्रादिबुद्धिः भवति।एवं जातिगतिधर्मित्वभावाः विज्ञाने नैव सन्ति।तथापि विज्ञानमात्रे ते भावाः भासन्ते इति सारार्थः।

गौडपादकारिका-प्रश्नोत्तरसङ्ग्रहः     गौडपादकारिका-लघूत्तरप्रश्नाः     गौडपादकारिका-दीर्घोत्तरप्रश्नाः