स्नेहात्प्रस्कन्दनं जन्तु:...

विषयः
स्नेहात्प्रस्कन्दनं जन्तुः त्रिरात्रोपरतः पिबेत्।स्नेहवद्द्रवमुष्णं च त्र्यहं भुक्त्वा रसौदनम्॥च.सू. १३.८०

संशयः
अत्र संशयो यद् सोमवासरे प्रभाते चरमे स्नेहपाने कृते प्रस्कन्दनं कदा पेयम्? गुरुवासरे आहोस्वित् शुक्रवासरे?

पूर्वपक्षः
गुरुवासरे इति। कुतः? सोमवासररात्रिः मङ्गलवासररात्रिः बुधवासररात्रिः चेति स्नेहपानात् त्रिरात्रोपरतस्य जन्तोः प्रस्कन्दनपानं गुरुवासरे प्राप्तम्।

उत्तरपक्षः
त्र्यहं रसौदनभोजनम् इति लिङ्गात् (शब्दसामर्थ्यात्) शुक्रवासर एव ग्राह्यः। गुरुवासरे एव प्रस्कन्दनं पीयते चेत्, मङ्गलवासरः बुधवासरः चेति द्व्यहमेव रसौदनभोजनं शक्यम्।गुरुवासरे संसर्जनक्रमस्य विहितत्वात्।

पूर्वपक्षः
सोमवासरेऽपि रसौदनभोजनं शक्यम्।तेन सोमवासरः मङ्गलवासरः बुधवासरः चेति त्र्यहं रसौदनभोजनस्य विधानं सार्थं भविष्यति।

उत्तरपक्षः
सोमवासरे रसौदनभोजनं न शक्यम्।स्नेहपानाद् उपरतस्य एव रसौदनभोजनम् उपदिष्टम्।स्नेहपानाद् उपरतिस्तु ‘वर्चः स्निग्धमसंहतम्’ इत्यादीनि स्नेहनस्य समयोगलक्षणानि दृष्ट्वा निर्णीयते।तेषां लक्षणानां दर्शनं सम्भवति सोमवासरे अपराह्णे अथवा मङ्गलवासरे प्रभाते।अतः सोमवासरे रसौदनभोजनं न शक्यम्।

निर्णयः-
तस्मात् त्र्यहं रसौदनभोजनम् इति लिङ्गात् (शब्दसामर्थ्यात्) प्रस्कन्दनपानाय शुक्रवासर एव ग्राह्यः।

भिषग् भिषजा सह