सुषुप्त्युक्रान्त्यधिकरणम्

सुषुप्त्युत्क्रान्त्यधिकरणम् ॥ सुषुप्त्युत्क्रान्त्योर्भेदेन।१.३.४२
पत्यादिशब्देभ्य:।१.३.४३

वे.-
१ अस्मिन् वाक्ये पति:, वशी, ईशान:, इत्येवंजातीयका: शब्दा: सन्ति- ।
‘सर्वस्य वशी सर्वस्येशान: सर्वस्याधिपति:’।
एते शब्दा: असंसारित्वप्रतिपादका:।अत: असंसारित्वप्रतिपादनपरमेवैतद्वचनमवगन्तव्यम्
२ ‘स न साधुना कर्मणा भूयान्, नो एवासाधुना कनीयान्’। इति च संसारिस्वभावप्रतिषेधपरं वचनम्।

ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम्   प्रथमाध्याये तृतीय: पाद: