मूलम्
सुरगुरुमभिपूज्य स्वर्ग-मोक्षैक-हेतुं।
पठति यदि मनुष्यः प्राञ्जलिर्नान्य-चेताः।।
व्रजति शिव-समीपं किन्नरैः स्तूयमानः।
स्तवनमिदममोघं पुष्पदन्तप्रणीतम्।। ३८।।

पदच्छेदः-
सुरगुरुम् अभिपूज्य स्वर्ग-मोक्ष-एक-हेतुं।पठति यदि मनुष्यः प्राञ्जलिः न-अन्य-चेताः।।
व्रजति शिव-समीपं किन्नरैः स्तूयमानः।स्तवनम् इदम् अमोघं पुष्पदन्त-प्रणीतम्।। ३८।।

अन्वयः-
यदि प्राञ्जलिः न-अन्य-चेताः मनुष्यः पुष्पदन्त-प्रणीतम् सुरवरमुनिपूज्यं स्वर्ग-मोक्ष-एक-हेतुं इदम् अमोघं स्तवनम् पठति, (तर्हि सः) किन्नरैः स्तूयमानः शिव-समीपं व्रजति ।।। ३८।।

सरलार्थः-
पुष्पदन्तेन विरचितम् एतत् स्तोत्रं देवैः पूजितं, मुनिभिः च अपि पूजितम्। एतद् एकम् अमोघं स्तोत्रं स्वर्गं ददाति, मोक्षम् अपि ददाति।मनुष्यः आदरेण अनन्यचित्तेन यदि एतत् स्तवनं पठति तर्हि सः शिवलोकं गच्छति।किन्नराः तस्य स्तुतिं गायन्ति॥३८

शिवस्तोत्राणि      शिवमहिम्न: स्तोत्रं सपदच्छेदान्वयार्थम्
"https://sa.wikibooks.org/w/index.php?title=सुरगुरुमभिपूज्यं...&oldid=7151" इत्यस्माद् प्रतिप्राप्तम्