सुग्रीवेशः ...रक्षःकुलविनाशकृत्

मूलम्
सुग्रीवेशः कटिं पातु सक्थिनी हनुमत्प्रभुः । ऊरू रघूत्तमः पातु रक्षःकुलविनाशकृत् ॥८॥

पदच्छेदः
सुग्रीव-ईशः कटिं पातु सक्थिनी हनुमत्प्रभुः । ऊरू रघु-उत्तमः पातु रक्षःकुलविनाशकृत् ॥८॥

अन्वयः
सुग्रीव-ईशः कटिं पातु। हनुमत्प्रभुः सक्थिनी (पातु) ।रक्षःकुलविनाशकृत् रघु-उत्तमः ऊरू पातु ॥८॥

सरलार्थः
सुग्रीवस्य स्वामी रामः मम कटिं रक्षतु।हनुमतः प्रभुः रामः मम सक्थिद्वयं रक्षतु। रक्षःकुलस्य विनाशः येन कृतः, सः रघुकुले उत्तमः रामः मम ऊरुद्वयं रक्षतु॥८

सन्धिविग्रहः

सन्धिः विग्रहः सूत्रम्
सुग्रीवेशः सुग्रीव-ईशः आद्गुणः।६.१.८६
जाम्बवदाश्रयः जाम्बवत्-आश्रयः झलां जशोऽन्ते।८.२.३९
रघूत्तमः रघु-उत्तमः अकः सवर्णे दीर्घः।६.१.९९

समासविग्रहः ८
सुग्रीवेशः
शोभना ग्रीवा यस्य सः सुग्रीवः।... अनेकमन्यपदार्थे।२.२.२४
सुग्रीवस्य ईशः।... षष्ठी।२.२.८

हनुमत्प्रभुः
हनुमतः प्रभुः।... षष्ठी।२.२.८

रघूत्तमः
रघुषु उत्तमः।... सप्तमी शौण्डैः ।२.१.४०

रक्षःकुलविनाशकृत्
रक्षसां कुलं रक्षःकुलम्।... षष्ठी।२.२.८
रक्षःकुलस्य विनाशः रक्षकुलविनाशः।... षष्ठी।२.२.८।
रक्षःकुलविनाशं करोति इति रक्षःकुलविनाशकृत्।... उपपदमतिङ्।२.२.१९

रामरक्षास्तोत्रम् - सान्वयं सार्थम्