विषयाध्यायः

सम्पाद्यताम्

अथ त्रिविधदुःखात्यन्तनिवृत्तिः अत्यन्त पुरुषार्थः । सांख्यसूत्र-१.१ ।
(परमपुरुषार्थस्वरूपं)

न दृष्टात् तत्सिद्धिः, निवृत्ते ऽप्यनुवृत्ति दर्शनात् । सांख्यसूत्र-१.२ ।
(लौकिकोपायैः दुःखनिवृत्त्यनुपपत्तिः)

प्रात्यहिक क्षुत्प्रतीकारवत् तत्प्रतीकार चेष्टनात् पुरुषार्थत्वं । सांख्यसूत्र-१.३ ।
(लौकिकोपायैः दुःखनिवृत्त्यनुपपत्तिः)

सर्वासम्भवात्, सम्भवे ऽपि सत्तासम्भवात् हेयः प्रमाणकुशलैः । सांख्यसूत्र-१.४ ।
(लौकिकोपायैः दुःखनिवृत्त्यनुपपत्तिः)

उत्कर्षादपि मोक्षस्य सर्वोत्कर्षश्रुतेः । सांख्यसूत्र-१.५ ।
(लौकिकोपायैः दुःखनिवृत्त्यनुपपत्तिः)

अविशेषश्चोभयोः । सांख्यसूत्र-१.६ ।
(वैदिकोपायानामपि दुःखनिवृत्त्यनुपायता)

न स्वभावतो बद्धस्य मोक्षसाधनोपदेशविधिः । सांख्यसूत्र-१.७ ।
(बन्धस्य स्वाभाविकत्वानुपपत्तिः)

स्वभावस्यानपायित्वात्, अननुष्ठानलक्षणमप्रामाण्यं । सांख्यसूत्र-१.८ ।
(बन्धस्य स्वाभाविकत्वानुपपत्तिः)

नाशक्योपदेशविधिः, उपदिष्टे ऽप्यनुपदेशः । सांख्यसूत्र-१.९ ।
(बन्धस्य स्वाभाविकत्वानुपपत्तिः)

शुक्लपटवत् बीजवच्चेत् । सांख्यसूत्र-१.१० ।
(बन्धस्य स्वाभाविकत्वानुपपत्तिः), पू

शक्त्युद्भवानुद्भवाभ्यां नाशक्योपदेशः । सांख्यसूत्र-१.११ ।
(बन्धस्य स्वाभाविकत्वानुपपत्तिः), सि

न कालयोगतो व्यापिनो नित्यस्य सर्वसम्बन्धात् । सांख्यसूत्र-१.१२ ।
(बन्धस्य कालदेशनिमित्तकत्वानुपपत्तिः)

न देशयोगतो ऽप्यस्मात् । सांख्यसूत्र-१.१३ ।
(बन्धस्य कालदेशनिमित्तकत्वानुपपत्तिः)

नावस्थातो देहधर्मत्वात्तस्याः । सांख्यसूत्र-१.१४ ।
(बन्धस्य अवस्थाविशेषनिमित्तकत्वानुपपत्तिः)

असङ्गो ह्ययं पुरुष इति । सांख्यसूत्र-१.१५ ।
(बन्धस्य अवस्थाविशेषनिमित्तकत्वानुपपत्तिः)

न कर्मणान्यधर्मत्वात् अतिप्रसक्तेश्च । सांख्यसूत्र-१.१६ ।
(बन्धस्य अवस्थाविशेषनिमित्तकत्वानुपपत्तिः)

विचित्रभोगानुपपत्तिः अन्यधर्मत्वे । सांख्यसूत्र-१.१७ ।
(बन्धस्य चित्तगात्रधर्मत्वानुपपत्तिः)

प्रकृतिनिबन्धनाच्चेन्न तस्या अपि पारतन्त्र्यं । सांख्यसूत्र-१.१८ ।
(बन्धस्य प्रकृतिनिमित्तकत्वानुपपत्तिः)

न नित्यशुद्ध बुद्धमुक्त स्वभावस्य तद्योगस्तद्योगाहते । सांख्यसूत्र-१.१९ ।
(बन्धस्य प्रकृतिनिगित्तकत्वानुपपत्तिः)

नाविद्यातो ऽ प्यवस्तुना बन्धायोगात् । सांख्यसूत्र-१.२० ।
(बन्धस्य अविद्यानिमित्तकत्वनिरासः)

वस्तुत्वे सिन्धान्तहानिः । सांख्यसूत्र-१.२१ ।
(बन्धस्य अविद्यानिमित्तकत्वनिरासः)

विजातीयद्वैतापत्तिश्च । सांख्यसूत्र-१.२२ ।
(बन्धस्य अविद्यानिमित्तकत्वनिरासः)

विरुद्धोभयरूपा चेत् । सांख्यसूत्र-१.२३ ।
(बन्धस्य अविद्यानिमित्तकत्वनिरासः), पू

न तादृक्पदार्थाप्रतीतेः । सांख्यसूत्र-१.२४ ।
(बन्धस्य अविद्यानिमित्तकत्वनिरासः), सि

न वयं षट्पदार्थवादिनः वैशेषिकादिवत् । सांख्यसूत्र-१.२५ ।
(बन्धस्य अविद्यानिमित्तकत्वनिरासः), पू

अनियतत्वे ऽपि नायौक्तिकस्य संग्रहः, अन्यथा बालोन्मत्तादिसमत्वं । सांख्यसूत्र-१.२६ ।
(बन्धस्य अविद्यानिमित्तकत्वनिरासः), सि

नानादिविषयोपराग निमित्तको ऽप्यस्य । सांख्यसूत्र-१.२७ ।
(बन्धस्य विषयवासनानिमित्तकत्वनिरासः)

न बाह्याभ्यन्तरयोः उपरज्योपञ्जक भावो ऽपि देशव्यवधानात् स्रुघ्नस्थ पाटलिपुत्रस्थयोरिव । सांख्यसूत्र-१.२८ ।
(बन्धस्य विषयवासनानिमित्तकत्वनिरासः)

द्वयोरेकदेशलब्धोपरागान्न व्यवस्था । सांख्यसूत्र-१.२९ ।
(बन्धस्य विषयवासनानिमित्तकत्वनिरासः)

अदृष्टवशाच्चेत् । सांख्यसूत्र-१.३० ।
(बन्थस्य विषयवासनानिमित्तकत्वनिरासः), पू

न द्वयोरेककालयोगादुपकार्योपकारकभावः । सांख्यसूत्र-१.३१ ।
(बन्धस्य विषयवासनानिमित्तकत्वनिरासः), सि

पुत्रकर्मवदिति चेत् । सांख्यसूत्र-१.३२ ।
(बन्धस्य विषयवासनानिमित्तकत्वनिरासः), पू

नास्ति हि तत्र स्थिर एक आत्मा यो गर्भाधानादिकर्मणा संस्क्रियते । सांख्यसूत्र-१.३३ ।
(बन्धस्य विषयवासनानिमित्तकत्व निरासः), सि

स्थिरकार्यासिद्धेः क्षणिकत्वं । सांख्यसूत्र-१.३४ ।
(बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः) ,पु

न प्रत्यभिज्ञाबाधात् । सांख्यसूत्र-१.३५ ।
(बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः) ,सि

श्रुतिन्यायविरोश्र्वच्च । सांख्यसूत्र-१.३६ ।
(बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः)

दृष्टान्तासिद्धेश् च । सांख्यसूत्र-१.३७ ।
(बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः)

युगपज्जायमानयोः न कार्यकारणभावः । सांख्यसूत्र-१.३८ ।
(बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः)

पूर्वापाये उत्तरायोगात् । सांख्यसूत्र-१.३९ ।
(बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः)

तद्भावे तदयोगात् उभयव्यभिचारादपि न । सांख्यसूत्र-१.४० ।
(बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः)

पूर्वभावमात्रे न नियमः । सांख्यसूत्र-१.४१ ।
(बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः)

न विज्ञानमात्रं बाह्यप्रतीतेः । सांख्यसूत्र-१.४२ ।
(बन्धादीनां विज्ञानमात्रस्वरूपत्वनिरासः)

तदभावे तदभावात् शून्यं तर्हि । सांख्यसूत्र-१.४३ ।
(बन्धादीनां विज्ञानमात्रस्वरूपत्वनिरासः)

शून्यं तत्त्वं, भावो विनश्यति, वस्तुधर्मत्वात् विनाशस्य । सांख्यसूत्र-१.४४ ।
(सर्वशून्यतावादखण्डनं), पू

अपवादमात्रं अबुद्धानां । सांख्यसूत्र-१.४५ ।
(सर्वशून्यतावादखण्डनं), सि

उभयपक्षसमानक्षेमत्वादयमपि । सांख्यसूत्र-१.४६ ।
(सर्वशून्यतावादखण्डनं)

अपुरुषार्थत्वमुभयथा । सांख्यसूत्र-१.४७ ।
(सर्वशून्यतावादखण्डनं)

न गतिविशेषात् । सांख्यसूत्र-१.४८ ।
(आत्मनो गतिविशेषस्य बन्धनिमित्तत्वनिरासः)

निष्क्रियस्य तदसम्भवात् । सांख्यसूत्र-१.४९ ।
(आत्मनो गतिविशेषस्य बन्धनिमित्तत्वनिरासः)

मूर्तत्वात् घटादिवत् समानधर्मापत्तौ अपसिद्धान्तः । सांख्यसूत्र-१.५० ।
(आत्मनो गतिविशेषस्य बन्धनिमित्तत्वनिरासः)

गतिश्रुतिरपि उपाधियोगादाकाशवत् । सांख्यसूत्र-१.५१ ।
(आत्मनो गतिविशेषस्य बन्धनिमित्तत्वनिरासः)

न कर्मणाप्यतद्धर्मत्वात् । सांख्यसूत्र-१.५२ ।
(कर्मणो बन्धनिमित्तत्वनिरासः)

अतिप्रसक्तिः अन्यधर्मत्वे । सांख्यसूत्र-१.५३ ।
(कर्मणो बन्धनिमित्तत्वनिरासः)

निर्गुणादि श्रुतिविरोधश्चेति । सांख्यसूत्र-१.५४ ।
(कर्मणो बन्धनिमित्तत्वनिरासः)

तद्योगो ऽप्यविवेकान्न समानत्वं । सांख्यसूत्र-१.५५ ।
(अविवेकनिमित्तप्रकृतिपुरुषसंयोगस्यैव बन्धहेतुत्वं)

नियतकारणात्तदुच्छित्तिः ध्वान्तवत् । सांख्यसूत्र-१.५६ ।
(विवेकस्यैव अविवेक नाशहेतुत्वं)

प्रधानाविवेकात् अन्याविवेकस्य तद्धाने हानं । सांख्यसूत्र-१.५७ ।
(विवेकस्यैव अविवेक नाशहेतुत्वं)

वाड्मात्रं न तुतत्त्वं चित्तस्थितेः । सांख्यसूत्र-१.५८ ।
(चित्तस्थितस्यापि पुरुषसंक्रान्तस्य बन्धस्य स्वात्मसाक्षात्कार निवर्त्यत्वं)

युक्तितो ऽपि न बाध्यते दिङ्मूढवपरोक्षाहते । सांख्यसूत्र-१.५९ ।
(चित्तस्थितस्यापि पुरुषसंक्रान्तस्य बन्धस्य स्वात्मसाक्षात्कार निवर्त्यत्वं)

अचाक्षुषाणामनुमानेन बोधः धूमादिभिरिव वह्नैः । सांख्यसूत्र-१.६० ।
(प्रकृतिपुरुषयोरानुमानिकत्वं)

सत्वरजस्तमसां साम्यावस्था प्रकृतिः, प्रकृतेर्महान्, महातो ऽहङ्कारः, अहङ्कारात् पञ्चतन्मात्राणि, उभयमिन्द्रियं तन्मात्रेभ्यः,स्थूलभूतानि पुरुषः इति पञ्चविंशतिर्गणः । सांख्यसूत्र-१.६१ ।
(पञ्चविंशतितत्त्वसिद्धिः)

स्थूलात् पञ्चतन्मात्रस्य । सांख्यसूत्र-१.६२ ।
(पञ्चविंशतितत्त्वसिद्धिः)

बाह्याभ्यन्तराभ्यां तैश्चाहङ्कारस्य । सांख्यसूत्र-१.६३ ।
(पञ्चविंशतितत्त्वसिद्धिः)

तेनान्तः करणस्य । सांख्यसूत्र-१.६४ ।
(पञ्चविंशतितत्त्वसिद्धिः)

ततः प्रकृतेः । सांख्यसूत्र-१.६५ ।
(पञ्चविंशतितत्त्वसिद्धिः)

संहतपरार्थत्वात् पुरुषस्य । सांख्यसूत्र-१.६६ ।
(पञ्चविंशतितत्त्वसिद्धिः)

मूले मूलाभावादमूलं मूलं । सांख्यसूत्र-१.६७ ।
(प्रकृतेरेव सर्वजगन्मूलत्वं)

पारम्पयैऽपि एकत्र परिनिष्ठेति संज्ञामात्रं । सांख्यसूत्र-१.६८ ।
(प्रकृतेरेव सर्वजगन्मूलत्वं)

समाजः प्रकृतेर्द्वयोः । सांख्यसूत्र-१.६९ ।
(प्रकृतेरेव सर्वजगन्मूलत्वं)

अधिकारित्रैविध्यात् न नियमः । सांख्यसूत्र-१.७० ।
(विवेकमननस्य असार्वत्रिकत्वे हेतुः)

महदाख्यं आद्यं कार्यं तन्मनः । सांख्यसूत्र-१.७१ ।
(महत्तत्वस्वरूपं)

चरमो ऽहङ्कारः । सांख्यसूत्र-१.७२ ।
(अहङ्कारतत्वस्वरूपं)

तत्कार्यत्वमुत्तरेषां । सांख्यसूत्र-१.७३ ।
(तन्मात्रादीनां अहङ्कारकार्यत्वे ऽपि प्रकृतिकार्यत्वोपपतिः)

आद्यहेतुता तद्द्वारा पारम्पर्ये ऽप्यणुवत् । सांख्यसूत्र-१.७४ ।
(तन्मात्रादीनां अहङ्कारकार्यत्वे ऽपि प्रकृतिकार्यत्वोपपतिः)

पूर्वभावित्वे द्वयोरेकतरस्य हाने अन्यतरयोगः । सांख्यसूत्र-१.७५ ।
(प्रकृतेरेव सर्वकारणत्ते नियामकं)

न परिच्छिन्नं सर्वोपादानं । सांख्यसूत्र-१.७६ ।
(प्रकृतेरेव सर्वकारणत्वे नियामकं)

तदुत्पात्तिश्रुतेश्च । सांख्यसूत्र-१.७७ ।
(प्रकृतेरेव सर्वकारणत्वे नियामकं)

नावस्तुनो वस्तुसिद्धिः । सांख्यसूत्र-१.७८ ।
(शून्यस्य जगत्कारणतायाः,जगतः शून्यतायाश्च खण्डनं)

अबाधात् अदुष्टकारण जन्यत्वाच्च नावस्तुत्वं । सांख्यसूत्र-१.७९ ।
(शून्यस्य जगत्कारणतायाः,जगतः शून्यतायाश्च खण्डनं)

भावे तद्योगेन तत्सिद्धिः, अभावे तदभावात् कुतस्तरां तत्सिद्धिः । सांख्यसूत्र-१.८० ।
(शून्यस्य जगत्कारणतायाः,जगतः शून्यतायाश्च खण्डनं)

न कर्मण उपादानत्वायोगात् । सांख्यसूत्र-१.८१ ।
(कर्मणां जगदपादानाता निरासः)

नानुश्रविकादपि तत्सिद्धिः, साध्यत्वेनाऽवृत्तियोगादपुरुषार्थत्वं । सांख्यसूत्र-१.८२ ।
(लौकिक वैदिक कर्मणां परमपुरुषार्थहेतुत्वखण्डनं)

तत्र प्राप्तिविवेकस्य अनावृत्तिश्रुतिः । सांख्यसूत्र-१.८३ ।
(लौकिक वैदिक कर्मणां परमपुरुषार्थहेतुत्वखण्डनं)

दुःखाद्दुःखं जलभिषेकवन्न जाड्यविमोकः । सांख्यसूत्र-१.८४ ।
(लौकिक वैदिक कर्मणां परमपुरुषार्थहेतुत्वखण्डनं)

काम्ये ऽकाम्येपि साध्यत्वाविशेषात् । सांख्यसूत्र-१.८५ ।
(लौकिक वैदिक कर्मणां परमपुरुषार्थहेतुत्वखण्डनं)

विजमुक्तस्य बन्धध्वंसमात्रं, परं न समानत्वं । सांख्यसूत्र-१.८६ ।
(लौकिक वैदिक कर्मणां परमपुरुषार्थहेतुत्वखण्डनं)

द्वयोरेकतरस्यवाप्यसन्निकृष्टार्थपरिच्छित्तिः प्रमा, तत्साधकतमं यत्तत्त्रिविधं प्रमाणं । सांख्यसूत्र-१.८७ ।
(प्रमा स्वरूपं, प्रमाणेयत्ता च)

तत्सिद्धौ सर्वसिद्धेः नाधिक्यसिद्धिः । सांख्यसूत्र-१.८८ ।
(प्रमा स्वरूपं, प्रमार्णयत्ताच)

यत् संबद्धं सत् तदाकारोल्लेखि विज्ञानं तत् प्रत्यक्षं । सांख्यसूत्र-१.८९ ।
(प्रत्यक्षलक्षणं)

योगिनामबाह्यप्रत्यक्षत्वात् न दोषः । सांख्यसूत्र-१.९० ।
(प्रत्यक्षलक्षणं)

लीनवस्तुलब्धातिशयसम्बन्धाद्वादोषः । सांख्यसूत्र-१.९१ ।
(प्रत्यक्षलक्षणं)

ईश्वरासिद्धेः । सांख्यसूत्र-१.९२ ।
(तदङ्गतया ईश्वरसत्ता निरासः)

मुक्तामुक्तयोः अत्यतराभावान्न तत्सिद्धिः । सांख्यसूत्र-१.९३ ।
(तदङ्गतया ईश्वरसत्ता निरासः)

उभयथाप्यसत्करत्वं । सांख्यसूत्र-१.९४ ।
(तदङ्गतया ईश्वरसत्ता निरासः)

मुक्तात्मनः प्रशंसा उपासा सिद्धस्य वा । सांख्यसूत्र-१.९५ ।
(तदङ्गतया ईश्वरसत्ता निरासः)

तत्सन्निधानात् अधिष्ठातृत्वं मणिवत् । सांख्यसूत्र-१.९६ ।
(तदङ्गतया ईश्वरसत्ता निरासः)

विशेषकार्येष्वपि जीवानां । सांख्यसूत्र-१.९७ ।
(तदङ्गतया ईश्वरसत्ता निरासः)

सिद्धरूप बोद्धृत्वात् वाक्यार्थोपदेशः । सांख्यसूत्र-१.९८ ।
(तदङ्गतया ईश्वरसत्ता निरासः)

अन्तः करणस्य तदुज्ज्वलितत्वात् लोहवत् अधिष्ठातृत्वं । सांख्यसूत्र-१.९९ ।
(अन्तः करणस्यैव मुख्यमधिष्ठानत्वं)

प्रतिबन्धदृशः प्रतिबद्धज्ञानमनुमानं । सांख्यसूत्र-१.१०० ।
(अनुमान लक्षणं)

आप्तोपदेशः शब्दः । सांख्यसूत्र-१.१०१ ।
(शब्द लक्षणं)

उभयसिद्धिः प्रमाणात्तदुपदेशः । सांख्यसूत्र-१.१०२ ।
(प्रमाणस्वरूपविवेचन फलं)

सामान्यतो दृष्टादुभयसिद्धिः । सांख्यसूत्र-१.१०३ ।
(सामान्यतोदृष्टरूपानुमानविशेषनिरूपणं)

चिदवसानो भोगः । सांख्यसूत्र-१.१०४ ।
(निर्दुष्टं प्रमास्वरूपं)

अकर्तुरपि फलोपभोगो ऽन्नाद्यवत् । सांख्यसूत्र-१.१०५ ।
(कर्तृत्वफलभोगयोः वैयधिकरण्यशङ्कायाः समाधानं)

अविवेकाद्वा तत्सिद्धेः कर्तुः फलावगमः । सांख्यसूत्र-१.१०६ ।
(कर्तृत्वफलभोगयोः वैयधिकरण्यशङ्कायाः समाधानं)

नोभयं च तत्वाख्याने । सांख्यसूत्र-१.१०७ ।
(प्रकृत्यादेरिन्द्रियाविषयत्वोपाधयः)

विषयो ऽविषयो ऽप्यतिदूरादेर्हानोपादानाभ्यामिन्द्रियस्य । सांख्यसूत्र-१.१०८ ।
(प्रकृत्यादेरिन्द्रियाविषयत्वोपाधयः)

सौक्ष्म्यात्तदनुपलरुब्धिः । सांख्यसूत्र-१.१०९ ।
(प्रकृत्यादेरिन्द्रियाविषयत्वोपाधयः)

कार्यदर्शनात्तदुपलब्धेः । सांख्यसूत्र-१.११० ।
(प्रकृत्यादेरिन्द्रियाविषयत्वोपाधयः)

वादिविप्रतिपत्तेः तदसिद्धिरिति चेत् । सांख्यसूत्र-१.१११ ।
(सत्कार्यवाद निरूपणं), पू

तथाप्येकतरदृष्ट्या एकतरसिद्धेः नापलापः । सांख्यसूत्र-१.११२ ।
(सत्कार्यवाद निरूपणं), सि

त्रिविधविरोधापत्तेश्च । सांख्यसूत्र-१.११३ ।
(सत्कार्यवाद निरूपणं)

नासदुत्पादो नृशृङ्गवत् । सांख्यसूत्र-१.११४ ।
(असत्कार्यवादनिराकरणं)

उपादाननियमात् । सांख्यसूत्र-१.११५ ।
(असत्कार्यवादनिराकरणं)

सर्वत्र सर्वदा सर्वासम्भवात् । सांख्यसूत्र-१.११६ ।
(असत्कार्यवादनिराकरणं)

शक्तस्य शक्यकरणात् । सांख्यसूत्र-१.११७ ।
(असत्कार्यवादनिराकरणं)

कारणभावाच्च । सांख्यसूत्र-१.११८ ।
(असत्कार्यवादनिराकरणं)

न भावे भावयोगश्चेत् । सांख्यसूत्र-१.११९ ।
(सतः कार्यत्वोपपत्तिः), पू

नाभिव्यक्तिनिबन्धनौ व्यवहाराव्यवहारौ । सांख्यसूत्र-१.१२० ।
(सतः कार्यत्वोपपत्तिः), सि

नाशः कारणलयः । सांख्यसूत्र-१.१२१ ।
(नाशस्वरूपं)

पारम्पर्यतो ऽन्वेषणा बीजाङ्कुरवत् । सांख्यसूत्र-१.१२२ ।
(अभिव्यक्तिपक्षे अनवस्थापरिहारः)

उत्पत्तिवददोषः । सांख्यसूत्र-१.१२३ ।
(अभिव्यक्तिपक्षे अनवस्थापरिहारः)

हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गं । सांख्यसूत्र-१.१२४ ।
(कार्यस्वरूपं)

आञ्जस्यादभेदतोवा गुणसामान्यादेः तत्सिद्धिः प्रधानव्यपदेशाद्वा । सांख्यसूत्र-१.१२५ ।
(कार्यस्वरूपं)

त्रिगुणाचेतनत्वादि द्वयोः । सांख्यसूत्र-१.१२६ ।
(कार्यकारणयोः साधर्म्यवैधर्म्ये)

प्रीत्यप्रीतिविषादाद्यैः गुणानां अन्योन्यं वैधर्म्यं । सांख्यसूत्र-१.१२७ ।
(कार्यकारणयोः साधर्म्यवैधर्म्ये)

लध्वैदि धर्मैः साधर्म्यं च गुणानां । सांख्यसूत्र-१.१२८ ।
(कार्यकारणयोः साधर्म्यवैधर्म्ये)

उभयान्यत्वात् कार्यत्वं महदादेर्घटादिवत् । सांख्यसूत्र-१.१२९ ।
(महदादेः कार्यत्वोपपत्तिः)

परिमाणात् । सांख्यसूत्र-१.१३० ।
(महदादेः कार्यत्वोपपत्तिः)

समन्वयात् । सांख्यसूत्र-१.१३१ ।
(महदादेः कार्यत्वोपपत्तिः)

शक्तितश्चेति । सांख्यसूत्र-१.१३२ ।
(महदादेः कार्यत्वोपपत्तिः)

तद्धाने प्रकृतिः पुरुषो वा । सांख्यसूत्र-१.१३३ ।
(महदादेः कार्यत्वोपपत्तिः)

तयोरन्यत्वे तुच्छत्वं । सांख्यसूत्र-१.१३४ ।
(महदादेः कार्यत्वोपपत्तिः)

कार्यात्कारणानुमानं तत्साहित्यात् । सांख्यसूत्र-१.१३५ ।
(कार्यैः कारणानुमानविधिः)

अव्यक्तं त्रिगुणाल्लिङ्गात् । सांख्यसूत्र-१.१३६ ।
(कार्येभ्यः प्रकृतेः वैधर्म्यं)

तत्कार्यतस्तत्सिद्धेर्नापलापः । सांख्यसूत्र-१.१३७ ।
(कार्येभ्यः प्रकृतेः वैधर्म्यं)

सामान्येन विवादाभावात् धर्मवन्न साधनं । सांख्यसूत्र-१.१३८ ।
(पुरुषास्तित्व साधनं)

शरीरादिव्यतिरिक्तः पुमान् । सांख्यसूत्र-१.१३९ ।
(पुरुषास्तित्व साधनं)

संहतपरार्थत्वात् । सांख्यसूत्र-१.१४० ।
(पुरुषास्तित्व साधनं)

त्रिगुणादिविपर्ययात् । सांख्यसूत्र-१.१४१ ।
(पुरुषास्तित्व साधनं)

अधिष्ठानाच्चेति । सांख्यसूत्र-१.१४२ ।
(पुरुषास्तित्व साधनं)

भोतृभावात् । सांख्यसूत्र-१.१४३ ।
(पुरुषास्तित्व साधनं)

कैवल्यार्थं प्रवृत्तेश्च । सांख्यसूत्र-१.१४४ ।
(पुरुषास्तित्व साधनं)

जडप्रकाशायोगात्प्रकाशः । सांख्यसूत्र-१.१४५ ।
(पुरुषस्य प्रकाशस्वरूपत्वं)

निर्गुणत्वान्नचिद्धर्मा । सांख्यसूत्र-१.१४६ ।
(प्रकाशात्मनोः धर्मधर्मिभाव निराकरणं)

श्रुत्या सिद्धस्य नापलापस्तत्प्रत्यक्षबोधात् । सांख्यसूत्र-१.१४७ ।
(प्रकाशात्मनोः धर्मधर्मिभाव निराकरणं)

सुषुप्त्याद्यसाक्षित्वं । सांख्यसूत्र-१.१४८ ।
(प्रकाशात्मनोः धर्मधर्मिभाव निराकरणं)

जन्मादुव्यवस्थातः पुरुषबहुत्वं । सांख्यसूत्र-१.१४९ ।
(पुरुषबहुत्व साधनं)

उपाधिभेदे ऽप्येकस्य नानायोगः आकाशस्येव घटादिभिः । सांख्यसूत्र-१.१५० ।
(पुरुषबहुत्व साधनं)

उपाधिर्भिद्यते न तु तद्वान् । सांख्यसूत्र-१.१५१ ।
(पुरुषबहुत्व साधनं)

एवमेकत्वेन परिवर्तमानस्य न विरुद्ध धर्माध्यासः । सांख्यसूत्र-१.१५२ ।
(पुरुषबहुत्व साधनं)

अन्यधर्मत्वे ऽपि नारोपात्तत्सिद्धिरेकत्वात् । सांख्यसूत्र-१.१५३ ।
(पुरुषबहुत्व साधनं)

नाद्वैतश्रुतिविरोधो जातिपरत्वात् । सांख्यसूत्र-१.१५४ ।
(आत्मैक्यवादोपपत्तिः)

विदितबन्धकारणस्य दृष्ट्यातद्रूपं । सांख्यसूत्र-१.१५५ ।
(आत्मैक्यवादोपपत्तिः) नान्धादृष्ट्या चक्षुष्मतामनुपलम्भः । सांख्यसूत्र-१.१५६ ।
(आत्मैक्यवादोपपत्तिः)

वामदेवादिर्मुक्तो नाद्वैतं । सांख्यसूत्र-१.१५७ ।
(आत्मैक्यवादोपपत्तिः)

अनादावद्यावदभावाद्भविष्यदप्येवं । सांख्यसूत्र-१.१५८ ।
(आत्मैक्यवादोपपत्तिः)

इदीनीमिव सर्वत्र नात्यन्तोच्छेदः । सांख्यसूत्र-१.१५९ ।
(आत्मैक्यवादोपपत्तिः)

व्यावृत्तोभयरूपः । सांख्यसूत्र-१.१६० ।
(आत्मनां सदैकरूपत्वं)

साक्षात्सम्बन्धात्साक्षित्वं । सांख्यसूत्र-१.१६१ ।
(आत्मनां सदैकरूपत्वं)

नित्यमुक्तत्वं । सांख्यसूत्र-१.१६२ ।
(आत्मनां सदैकरूपत्वं)

औदासीन्यं चेति । सांख्यसूत्र-१.१६३ ।
(आत्मनां सदैकरूपत्वं)

उपरागात्कर्तृत्वं चित्सान्निध्यात् चित्सान्निध्यात् । सांख्यसूत्र-१.१६४ ।
(वस्तुतत्त्वविपरीततय पुरुषे कर्तृतायाः बुद्धौ ज्ञातृतायाश्च भाने हेतुः),



प्रधानकार्य

सम्पाद्यताम्

विमुक्तमोक्षार्थं स्वार्थं वा प्रधानस्य । सांख्यसूत्र-२.१ ।
(प्रकृतेः जगत्सृष्टौ निदानभूताः अंशाः)

विरक्तस्य तत्सिद्धेः । सांख्यसूत्र-२.२ ।
(प्रकृतेः जगत्सृष्टौ निदानभूताः अंशाः)

न श्रवणमात्रात्तत्सिद्धिः अनादिवासनायाः बलवत्त्वात् । सांख्यसूत्र-२.३ ।
(प्रकृतेः जगत्सृष्टौ निदानभूताः अंशाः)

बहुभृत्यवद्वा प्रत्येकं । सांख्यसूत्र-२.४ ।
(प्रकृतेः जगत्सृष्टौ निदानभूताः अंशाः)

प्रकृतिवास्तवे च पुरुषस्याध्याससिद्धिः । सांख्यसूत्र-२.५ ।
(पुरुषे स्रष्टृत्वनिराकरणं)

कार्यतस्तत्सिद्धेः । सांख्यसूत्र-२.६ ।
(पुरुषे स्रष्टृत्वनिराकरणं)

चेतनोद्देशान्नियमः कण्टकमोक्षवत् । सांख्यसूत्र-२.७ ।
(पुरुषे स्रष्टृत्वनिराकरणं)

अन्ययोगे ऽपि तात्सिद्धिर्नाञ्जस्येनायोदाहवत् । सांख्यसूत्र-२.८ ।
(पुरुषे स्रष्टृत्वनिराकरणं)

रागविरागयोः योगः सृष्टिश्च । सांख्यसूत्र-२.९ ।
(सृष्टिं प्रति मुख्यं निमित्तकारणं)

महदादिक्रमेण पञ्चभूतानां । सांख्यसूत्र-२.१० ।
(पुरुषमुक्तिनिमित्ता महदादिसृष्टिः)

आत्मार्थत्वात्सृष्टेः नैषामात्मार्थ आरम्भः । सांख्यसूत्र-२.११ ।
(पुरुषमुक्तिनिमित्ता महदादिसृष्टिः)

दिक्कालावाकाशादिभ्यः । सांख्यसूत्र-२.१२ ।
(दिक्कालयोः सृष्टिः)

अध्यवसायो बुद्धिः । सांख्यसूत्र-२.१३ ।
(महत्तत्व स्वरूप कार्यादिः)

तत्कार्यं धर्मादि । सांख्यसूत्र-२.१४ ।
(महत्तत्व स्वरूप कार्यादिः)

महदुपरागाद्विपरीतं । सांख्यसूत्र-२.१५ ।
(महत्तत्व स्वरूप कार्यादिः)

अभिमानो ऽहङ्कारः । सांख्यसूत्र-२.१६ ।
(अहङ्कारतत्वस्वरूपकार्यादिः)

एकादश पञ्चतन्मात्रं तत्कार्यं । सांख्यसूत्र-२.१७ ।
(अहङ्कारतत्वस्वरूपकार्यादिः)

सात्विकं एकादशकं प्रवर्तते वैकृतादहङ्कारात् । सांख्यसूत्र-२.१८ ।
(अहङ्कारतत्वस्वरूपकार्यादिः)

कर्मेन्द्रिय बुद्धीन्द्रियैरान्तरमेकादशकं । सांख्यसूत्र-२.१९ ।
(इन्द्रियाणां स्वरूपं)

आहङ्कारिकत्वश्रुतेः न भौतिकानि । सांख्यसूत्र-२.२० ।
(इन्द्रियाणां स्वरूपं)

देवतालयश्रुतिर्नारम्भकस्य । सांख्यसूत्र-२.२१ ।
(इन्द्रियाणां स्वरूपं)

तदुत्पत्तिश्रुतेर्विनाशदर्शनाच्च । सांख्यसूत्र-२.२२ ।
(इन्द्रियाणां अनित्यता)

अतीन्द्रियं इन्द्रियं भ्रान्तानामधिष्ठाने । सांख्यसूत्र-२.२३ ।
(गोलकानामेवेन्द्रियत्व निराकरणं)

शक्तिभेदे ऽपि भेदसिद्धौ नैकत्वं । सांख्यसूत्र-२.२४ ।
(एकेन्द्रियवादनिरासः)

न कल्पनाविरोधः प्रमाणदृष्टस्य । सांख्यसूत्र-२.२५ ।
(एकेन्द्रियवादनिरासः)

उभयात्मकं च मनः । सांख्यसूत्र-२.२६ ।
(मनसः ज्ञानकर्मोभयात्मकत्वं)

गुणपरिणामभेदान्नानात्वमवस्थावत् । सांख्यसूत्र-२.२७ ।
(मनसः ज्ञानकर्मोभयात्मकत्वं)

रूपादिरसमलान्त उभयोः । सांख्यसूत्र-२.२८ ।
(इन्द्रियाणां विषयाः)

द्रष्टृत्वादिरात्मनः करणत्वमिन्द्रियाणां । सांख्यसूत्र-२.२९ ।
(इन्द्रियाणां आत्मोकारकत्वं)

त्रयाणां स्वालक्षण्यं । सांख्यसूत्र-२.३० ।
(अन्तःकरणत्रयस्य असाधारण्यः साधारण्यश्च वृत्तयः)

सामान्यकरणवृत्तिः प्राणाद्याः वायवः पञ्च । सांख्यसूत्र-२.३१ ।
(अन्तःकरणत्रयस्य असाधारण्यः साधारण्यश्चवृत्तयः)

क्रमशो ऽक्रमशश्चेन्द्रियवृत्तिः । सांख्यसूत्र-२.३२ ।
(इन्द्रियवृत्तेः क्रमिकत्वनियमाभावः)

वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः । सांख्यसूत्र-२.३३ ।
(पञ्चविधाः धीवृत्तयः)

तन्निवृत्तावुपशान्तोपरागः स्वस्थः । सांख्यसूत्र-२.३४ ।
(वृत्त्युपसंहारदशायामेव पुरुषस्य स्वरूपे ऽवस्थितिः)

कुसुमवच्च मणिः । सांख्यसूत्र-२.३५ ।
(वृत्त्युपसंहारदशायामेव पुरुषस्य स्वरूपे ऽवस्थितिः)

पुरुषार्थं करणोद्भवो ऽप्यदृष्टोल्लासात् । सांख्यसूत्र-२.३६ ।
(इन्द्रियप्रवृत्त्युपाधिः)

धेनुवद्वत्साय । सांख्यसूत्र-२.३७ ।
(इन्द्रियप्रवृत्त्युपाधिः)

करणं त्रयोदशाविधं अवान्तरभेदात् । सांख्यसूत्र-२.३८ ।
(करणानां त्रयोदशत्वं)

इन्द्रियेषु साधकतमत्वगुणयोगात् कुठारवत् । सांख्यसूत्र-२.३९ ।
(करणानां त्रयोदशत्वं)

द्वयोः प्रधानं मनो लोकवत् भृत्यवर्गेषु । सांख्यसूत्र-२.४० ।
(करणेषु गौणमुख्यभावव्यवस्था)

अव्यभिचारात् । सांख्यसूत्र-२.४१ ।
(करणेषु गौणमुख्यभावव्यवस्था)

तथाशेषसंस्काराधारत्वात् । सांख्यसूत्र-२.४२ ।
(करणेषु गौणमुख्यभावव्यवस्था)

स्मृत्यानुमानाच्च । सांख्यसूत्र-२.४३ ।
(करणेषु गौणमुख्यभावव्यवस्था)

सम्भवेन्न स्वतः । सांख्यसूत्र-२.४४ ।
(करणेषु गौणमुख्यभावव्यवस्था)

आपेक्षिको गुणप्रधानभावः क्रियाविशेषात् । सांख्यसूत्र-२.४५ ।
(करणेषु गौणमुख्यभावव्यवस्था)

तत्कर्मार्जितत्वात् तदर्थमभिचेष्टा लोकवत् । सांख्यसूत्र-२.४६ ।
(करणेषु गौणमुख्यभावव्यवस्था)

समानकर्मयोगे बुद्धेः प्राधान्यं लोकवल्लोकवत् । सांख्यसूत्र-२.४७ ।
(करणेषु गौणमुख्यभावव्यवस्था)



वैराग्याध्याय:

सम्पाद्यताम्

अविशेषात् विशेषारम्भः । सांख्यसूत्र-३.१ ।
(पञ्चतन्मात्रेभ्यः संसृतिबीजस्थूलसृष्टिः)

तस्माच्छरीरस्य । सांख्यसूत्र-३.२ ।
(पञ्चतन्मात्रेभ्यः संसृतिबीजस्थूलसृष्टिः)

तदीजात् संसृतिः । सांख्यसूत्र-३.३ ।
(पञ्चतन्मात्रेभ्यः संसृतिबीजस्थूलसृष्टिः)

आविवेकाच्च प्रवर्तनमविशेषाणां । सांख्यसूत्र-३.४ ।
(संसृतेः विवेकपर्यन्तत्वं)

उपभोगादितरस्य । सांख्यसूत्र-३.५ ।
(संसृतेः विवेकपर्यन्तत्वं)

सम्प्रति परिमुक्तो द्वाभ्यां । सांख्यसूत्र-३.६ ।
(संसृतेः विवेकपर्यन्तत्वं) मातापितृजं स्थूलं प्रायशः इतरन्न तथा । सांख्यसूत्र-३.७ ।
(स्थूलनदिनर शरीरयोः भेदः)

पूर्वोत्पत्तेस्तत्कार्यत्वं भोगादेकस्य नेतरस्य । सांख्यसूत्र-३.८ ।
(स्थूलनदिनर शरीरयोः भेदाः)

सप्तदशैकं लिङ्गं । सांख्यसूत्र-३.९ ।
(लिङ्गशरीरं तत्कार्यं च)

व्यक्तिभेदः कर्मविशेषात् । सांख्यसूत्र-३.१० ।
(लिङ्गशरीरं तत्कार्यं च)

तदधिष्ठानाश्रये देहे तद्वादत्तद्वादः । सांख्यसूत्र-३.११ ।
(लिङ्गशरीराधिष्ठानसूक्ष्मदेहाश्रयत्वं स्थूलदेहस्य)

न स्वातन्त्र्यात्तदृते छायावच्चित्रवच्च । सांख्यसूत्र-३.१२ ।
(लिङ्गशरीराधिष्ठानसूक्ष्मशरीरसत्त्वावश्यकता)

मूर्तत्वे ऽपि न सङ्घातयोगात् तरणिवत् । सांख्यसूत्र-३.१३ ।
(लिङ्गशरीराधिष्ठानसूक्ष्मशरीरसत्त्वावश्यकता)

अणुपरिमाणं तत्कृतिश्रुतेः । सांख्यसूत्र-३.१४ ।
(लिङ्गशरीरपरिमाणं)

तदन्नमयत्वश्रुतेश्च । सांख्यसूत्र-३.१५ ।
(लिङ्गशरीरपरिमाणं)

पुरुषार्थं संसृतिः लिङ्गानां सूपकारवद्राज्ञः । सांख्यसूत्र-३.१६ ।
(लिङ्गशरीरसंसृतेः पुरुषार्थत्वं)

पाञ्चभौतिको देहः । सांख्यसूत्र-३.१७ ।
(स्थूलशरीरस्वरुपविषये मत भेदाः)

चातुर्भौतिकमित्येके । सांख्यसूत्र-३.१८ ।
(चैतन्यस्य भूतधर्मत्वा भावः)

ऐकभौतिकमित्यपरे । सांख्यसूत्र-३.१९ ।
(चैतन्यस्य भूतधर्मत्वा भावः)

न सांसिद्धिकं चैतन्यं प्रत्येकादृष्टेः । सांख्यसूत्र-३.२० ।
(चैतन्यस्य भूतधर्मत्वा भावः)

प्रपञ्चमरणाद्यभावश्च । सांख्यसूत्र-३.२१ ।
(चैतन्यस्य भूतधर्मत्वा भावः)

मदशक्तिवच्चेत् प्रत्येकपरिदृष्टे सांहत्ये तदुद्भवः । सांख्यसूत्र-३.२२ ।
(चैतन्यस्य भूतधर्मत्वा भावः)

ज्ञानान्मुक्तिः । सांख्यसूत्र-३.२३ ।
(ज्ञानविपर्ययाभ्यां मुक्तिबन्धौ)

बन्धो विपर्ययात् । सांख्यसूत्र-३.२४ ।
(ज्ञानविपर्ययाभ्यां मुक्तिबन्धौ)

नियतकारणत्वान्न समुच्चयविकल्पौ । सांख्यसूत्र-३.२५ ।
(तत्वज्ञानमात्रस्य मुक्तिहेतुत्वं)

स्वप्नजागराभ्यामिव मायिकामायिकाभ्यां नोभयोर्मुक्तिः पुरुषस्य । सांख्यसूत्र-३.२६ ।
(तत्वज्ञानमात्रस्य मुक्तिहेतुत्वं)

इतरस्यापि नात्यन्तिकं । सांख्यसूत्र-३.२७ ।
(उपासनात्मकज्ञानस्य मुक्तिहेतुत्वाभावः)

सङ्कल्पिते ऽप्येवं । सांख्यसूत्र-३.२८ ।
(उपासनात्मकज्ञानस्य मुक्तिहेतुत्वाभावः)

भावनोपचयात् शुद्धस्य सर्वं प्रकृतिवत् । सांख्यसूत्र-३.२९ ।
(उपासनाफलं)

रागोपहतिः ध्यानं । सांख्यसूत्र-३.३० ।
(ध्यानस्य मुक्तिसाधनज्ञानसाधनत्वं)

वृत्तिनिरोधात् तत्सिद्धिः । सांख्यसूत्र-३.३१ ।
(ध्यानसिद्ध्युपायः)

धारणासनस्वकर्मणा तत्सिद्धिः । सांख्यसूत्र-३.३२ ।
(ध्यानसाधनानि, तेषां लक्षणानि च)

निरोधः छर्दिविधारणाभ्यां । सांख्यसूत्र-३.३३ ।
(ध्यानसाधनानि, तेषां लक्षणानि च)

स्थिरसुखमासनं । सांख्यसूत्र-३.३४ ।
(ध्यानसाधनानि, तेषां लक्षणानि च)

स्वकर्म स्वाश्रमविहितकर्मानुष्ठानं । सांख्यसूत्र-३.३५ ।
(ध्यानसाधनानि, तेषां लक्षणानि च)

वैराग्यात् अभ्यासाच्च । सांख्यसूत्र-३.३६ ।
(मुख्याधिकारिणः यमादिपञ्चकापेक्षाभावः)

विपर्ययभेदाः पञ्च । सांख्यसूत्र-३.३७ ।
(बन्धहेतुविपर्ययविभागः)

अशक्तिरष्टविशतिधा तु । सांख्यसूत्र-३.३८ ।
(विपर्ययहेतूनां अशक्तीनां भेदाः)

तुष्टिर्नवधा । सांख्यसूत्र-३.३९ ।
(बुद्ध्यशक्ति संपादकयोः तुष्टिसिद्ध्योः विभागः)

सिद्धिरष्टधा । सांख्यसूत्र-३.४० ।
(बुद्ध्यशक्ति संपादकयोः तुष्टिसिद्ध्योः विभागः)

अवान्तरभेदाः पूर्ववत् । सांख्यसूत्र-३.४१ ।
(विपर्ययाशक्तितुष्टिसिद्धीनां किञ्चिद्विवरणं)

एवमितरस्याः । सांख्यसूत्र-३.४२ ।
(विपर्ययाशक्तितुष्टिसिद्धीनां किञ्चिद्विवरणं)

आध्यत्मिकादि भेदात् नवधा तुष्टिः । सांख्यसूत्र-३.४३ ।
(विपर्ययाशक्तितुष्टिसिद्धीनां किञ्चिद्विवरणं)

ऊहादिभिः सिद्धिरष्टधा । सांख्यसूत्र-३.४४ ।
(विपर्ययाशक्तितुष्टिसिद्धीनां किञ्चिद्विवरणं)

नेतरादितरहानेन विना । सांख्यसूत्र-३.४५ ।
(तप आदि सिद्धेः तात्त्विकसिद्धित्वाभावः)

दैवादिप्रभेदा । सांख्यसूत्र-३.४६ ।
(दैवादिसृष्टिप्रभेदाः तदवधयश्च)

आब्रह्मस्तम्बपर्यन्तं तत्कृते सृष्टिः आविवेकात् । सांख्यसूत्र-३.४७ ।
(दैवादिसृष्टिप्रभेदाः तदवधयश्च)

ऊर्ध्वं सत्वविशाला । सांख्यसूत्र-३.४८ ।
(गुणप्रभेदेन सृष्टिभेदाः)

तमोविशालामूलतः । सांख्यसूत्र-३.४९ ।
(गुणप्रभेदेन सृष्टिभेदाः)

मध्ये रजोविशाला । सांख्यसूत्र-३.५० ।
(गुणप्रभेदेन सृष्टिभेदाः)

कर्मवैचित्र्यात् प्रधानचेष्टा गर्भदासवत् । सांख्यसूत्र-३.५१ ।
(विचित्रसृष्टीनां निमित्तं)

आवृत्तिस्त्तत्राप्युत्तरोत्तरयोगाद्धेयः । सांख्यसूत्र-३.५२ ।
(आमुक्ति सृष्टीनां हेयत्वं)

समानं जरामरणादिनं दुःखं । सांख्यसूत्र-३.५३ ।
(आमुक्ति सृष्टीनां हेयत्वं)

न कारणलयात् कृतकृत्यता मग्नवदुत्थानात् । सांख्यसूत्र-३.५४ ।
(प्रकृतिलयस्यापि आत्यन्तिकमुक्तिरूपत्वाभावः)

अकार्यत्वे ऽपि तद्योगः पारवश्यात् । सांख्यसूत्र-३.५५ ।
(प्रकृतिलयस्यापि आत्यन्तिकमुक्तिरूपत्वाभावः)

स हि सर्ववित् सर्वकर्ता । सांख्यसूत्र-३.५६ ।
(प्रकृतिलयस्यापि आत्यन्तिकमुक्तिरूपत्वाभावः)

ईदृशेश्वरसिद्धिः सिद्धा । सांख्यसूत्र-३.५७ ।
(प्रकृतिलीनस्यैव जन्येश्वरत्वं)

प्रधानसृष्टिः परार्थं स्वतो ऽप्यभोक्तृत्वात् । सांख्यसूत्र-३.५८ ।
(प्रधानकर्तृकसृष्टेः उपपात्तिः प्रयोजनं च)

उष्ट्रकुङ्कुमवहनवत् । सांख्यसूत्र-३.५९ ।
(प्रधानकर्तृकसृष्टेः उपपात्तिः प्रयोजनं च)

अचेतनत्वे ऽपि क्षीरवच्चेष्टितं प्रधानस्य । सांख्यसूत्र-३.६० ।
(प्रधानकर्तृकसृष्टेः उपपात्तिः प्रयोजनञ्च)

कर्मवत् दृष्टेर्वा कालादेः । सांख्यसूत्र-३.६१ ।
(प्रधानकर्तृकसृष्टेः उपपात्तिः प्रयोजनञ्च)

स्वभावाच्चेष्टितमनभिसन्धानात् भृत्यवत् । सांख्यसूत्र-३.६२ ।
(प्रधानकर्तृकसृष्टेः उपपात्तिः प्रयोजनञ्च)

कर्माकृष्टेर्वानादितः । सांख्यसूत्र-३.६३ ।
(प्रधानकर्तृकसृष्टेः उपपात्तिः प्रयोजनञ्च)

विविक्तबोधात् सृष्टिनिवृत्तिः प्रधानस्य सूदवत् पाके । सांख्यसूत्र-३.६४ ।
(सृष्टिनिवृत्तिहेतुः)

इतरैतरवत्तद्दोषात् । सांख्यसूत्र-३.६५ ।
(सृष्टिनिवृत्तिहेतुः)

द्वयोरेकतस्य वौदासीन्यमपवर्गः । सांख्यसूत्र-३.६६ ।
(सृष्टिनिवृत्तिहेतुः)

अन्यसृष्ट्युपरागे ऽपि न विरज्य
(म) ते प्रबुद्धरज्जुतत्वस्येवोरगः । सांख्यसूत्र-३.६७ ।
(सृष्टिविशेषनिवृत्तेः सृष्ट्यन्तरप्रवृत्त्युपघातकत्वाभावः)

कर्मनिमित्तयोगाच्च । सांख्यसूत्र-३.६८ ।
(सृष्टिविशेषनिवृत्तेः सृष्ट्यन्तरप्रवृत्त्युपघातकत्वीभावः)

नैरपेक्ष्ये ऽपि प्रकृत्युपकारे ऽविवेको निमित्तं । सांख्यसूत्र-३.६९ ।
(प्रकृतिप्रवृत्तिनिवृत्त्योः नियामकोपपादनं)

नर्तकीवत् प्रवृत्तस्यापि निवृत्तिः चारितार्थ्यात् । सांख्यसूत्र-३.७० ।
(प्रकृतिप्रवृत्तिनिवृत्त्योः नियामकोपपादनं)

दोषबोधे ऽपि नोपसर्पणं प्रधानस्य कुलवधूवत् । सांख्यसूत्र-३.७१ ।
(प्रकृतिप्रवृत्तिनिवृत्त्योः नियामकोपपादनं)

नैकान्ततो बन्धमोक्षौ पुरुषस्य अविवेकादृते । सांख्यसूत्र-३.७२ ।
(बन्धमोक्षयोः आत्मगतत्वाभावः)

प्रकृतेराञ्जस्यात् ससङ्गत्वात् पशुवत् । सांख्यसूत्र-३.७३ ।
(बन्धमोक्षयोः आत्मगतत्वाभावः)

रूपैः सप्तभिः आत्मानं बध्नाति प्रधानं कोशकारवद्विमोचयेत्येकरूपेण । सांख्यसूत्र-३.७४ ।
(बन्धमोक्षनिमित्तानि)

निमित्तत्वमविवेकस्य न दृष्टहानिः । सांख्यसूत्र-३.७५ ।
(बन्धमोक्षनिमित्तानि)

तत्वाभ्यासान्नेति नेतीति त्यागात् विवेकसिद्धिः । सांख्यसूत्र-३.७६ ।
(तत्त्वाभ्यासस्यैव विवेकहेतुत्वं)

अधिकारिप्रभेदान्न नियमः । सांख्यसूत्र-३.७७ ।
(तत्त्वाभ्यासस्यैव विवेकहेतुत्वं)

बाधितानुवृत्त्या मध्यविवेकतो ऽप्युपभोगः । सांख्यसूत्र-३.७८ ।
(विवेकविशेषस्यैव निस्तारोपायत्वं)

जीवन्मुक्तश्च । सांख्यसूत्र-३.७९ ।
(विवेकविशेषस्यैव निस्तारोपायत्वं)

उपदेश्योपदेष्टृत्वात्तत्सिद्धिः । सांख्यसूत्र-३.८० ।
(जीवन्मुक्तिसाधनं)

श्रुतिश्च । सांख्यसूत्र-३.८१ ।
(जीवन्मुक्तिसाधनं)

इतरथा अन्धपरम्परा । सांख्यसूत्र-३.८२ ।
(जीवन्मुक्तिसाधनं)

चक्रभ्रमणवत् धृतशरीरः । सांख्यसूत्र-३.८३ ।
(जीवन्मुक्तिसाधनं)

संस्कारलेशतः तत्सिद्धिः । सांख्यसूत्र-३.८४ ।
(जीवन्मुक्तिसाधनं)

विवेकान्निः शेषदुःखनिवृत्तौ कृतकृत्यो नेतरान्नेतरात् । सांख्यसूत्र-३.८५ ।
(पुरुषे विवेकस्यैव कृतकृत्यताहेतुत्वं)

आख्यायिका

सम्पाद्यताम्

राजपुत्रवत् तत्वोपदेशात् । सांख्यसूत्र-४.१ ।
(तत्त्वोपदेशस्य विवेकहेतुत्वं)

पिशाचवदन्यार्थोपदेशे ऽपि । सांख्यसूत्र-४.२ ।
(तत्त्वोपदेशस्य विवेकहेतुत्वं)

आवृत्तिरसकृदुपदेशात् । सांख्यसूत्र-४.३ ।
(तत्त्वोपदेशस्य विवेकहेतुत्वं)

पितापुत्रवदुभयोर्दृष्टत्वात् । सांख्यसूत्र-४.४ ।
(क्वचिदनुमानात् देहस्य भङ्गुरताज्ञानोपपत्तिः)

श्येनवत् सुखदुःखी त्याग वियोगाभ्यां । सांख्यसूत्र-४.५ ।
(ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः)

अहिनिर्ल्वयिनीवत् । सांख्यसूत्र-४.६ ।
(ज्ञाननिष्पत्त्यङ्ग मनोधमोः)

छिन्नहस्तवद्वा । सांख्यसूत्र-४.७ ।
(ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः)

असाधनानुचिन्तनं बन्धाय भरतवत् । सांख्यसूत्र-४.८ ।
(ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः)

बहुभिर्योगे विरोधः रागादिभिः कुमारी कङ्कण
(शङ्ख) वत् । सांख्यसूत्र-४.९ ।
(ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः)

द्वाभ्यामपि तथैव । सांख्यसूत्र-४.१० ।
(ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः)

निराशः सुखी पिङ्गलावत् । सांख्यसूत्र-४.११ ।
(ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः)

अनारम्भे ऽपि परगृहे सुखी सर्पवत् । सांख्यसूत्र-४.१२ ।
(ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः)

बहुशास्त्र गुरूपासने ऽपि सारादानं षट्पदवत् । सांख्यसूत्र-४.१३ ।
(सारग्रहणावश्यकता)

इषुकारवन्नैकचित्तस्य समाधिहानिः । सांख्यसूत्र-४.१४ ।
(एकाग्रतावश्यकता)

कृतनियमलङ्घनादानर्थक्यं लोकवत् । सांख्यसूत्र-४.१५ ।
(शास्त्रविहितनियमानुल्लङ्घनावश्यकता)

तद्विस्मरणे ऽपि भेकीवत् । सांख्यसूत्र-४.१६ ।
(शास्त्रविहितनियमस्मरणावश्यकता)

नोपदेशश्रवणे ऽपि कृतकृत्यता परामर्शादृते विरोचनवत् । सांख्यसूत्र-४.१७ ।
(श्रुतार्थमननावश्यकता)

दृष्टस्तयोरिन्द्रस्य । सांख्यसूत्र-४.१८ ।
(श्रुतार्थमननावश्यकता)

प्रणतिब्रह्मचर्योपसर्पणानि कृत्वा सिद्धिः बहुकालात् तद्वत् । सांख्यसूत्र-४.१९ ।
(गुरुसेवा)

न कालनियमो वामदेववत् । सांख्यसूत्र-४.२० ।
(ज्ञाननिष्पत्तेः कालदेशादिनियमाभावः)

अध्यस्तरूपोपासनात् पारम्पर्येण यज्ञोपासकानामिव । सांख्यसूत्र-४.२१ ।
(ज्ञाननिष्पत्तेः कालदेशादिनियमाभावः)

इतरलाभे ऽप्यावृत्तिः पञ्चाग्नियोगतो जन्मश्रुतेः । सांख्यसूत्र-४.२२ ।
(पुनरावृत्तिहेतुभूतान्युपासनानि)

विरक्तस्य हेयहानमुपादेयोपादानं हंसक्षीरवत् । सांख्यसूत्र-४.२३ ।
(ज्ञाननिष्पत्त्यधिकारः)

लब्धातिशययोगाद्वा तद्वत् । सांख्यसूत्र-४.२४ ।
(ज्ञाननिष्पत्त्यधिकारः)

न कामचारित्वं रागोपहते शुकवत् । सांख्यसूत्र-४.२५ ।
(रागदोषाः तच्छमनोपायाश्च)

गुणयोगात् बद्धः शुकवत् । सांख्यसूत्र-४.२६ ।
(रागदोषाः तच्छमनोपायाश्च)

न भोगाद्रागशान्तिः मुनिवत् । सांख्यसूत्र-४.२७ ।
(रागदोषाः तच्छमनोपायाश्च)

दोषदर्शनादुभयोः । सांख्यसूत्र-४.२८ ।
(रागदोषाः तच्छमनोपायाश्च)

न मलिनचेतस्युपदेश बीजप्ररोहो ऽजवत् । सांख्यसूत्र-४.२९ ।
(रागदोषाः तच्छमनोपायाश्च)

नाभासमात्रमपि मलिनदर्पणवत् । सांख्यसूत्र-४.३० ।
(रागदोषाः तच्छमनोपायाश्च)

न तज्जस्यापि तद्रपता पङ्कजवत् । सांख्यसूत्र-४.३१ ।
(रागदोषाः तच्छमनोपायाश्च)

न भूतियोगे ऽपि कृतकृत्यता उपास्यसिद्धिवत् उपास्यसिद्धिवत् । सांख्यसूत्र-४.३२ ।
(अष्टैश्वर्याणामपि मुक्तिसाम्याभावः)



परमतनिर्जयः

सम्पाद्यताम्

मङ्गलाचरणं शिष्टाचारात् फलदर्शनात् श्रुतितश्चेति । सांख्यसूत्र-५.१ ।
(मङ्गलाचरणप्रयोजनं)

नेश्वराधिष्ठिते फलनिष्पत्तिः कर्मणा तत्सिद्धेः । सांख्यसूत्र-५.२ ।
(ईश्वरस्य फलदातृत्वाभवः)

स्वोपकारादधिष्ठानं लोकवत् । सांख्यसूत्र-५.३ ।
(ईश्वरस्य फलदातृत्वाभवः)

लौकिकेश्वरवदितरथा । सांख्यसूत्र-५.४ ।
(ईश्वरस्य फलदातृत्वाभवः)

पारिभाषिको वा । सांख्यसूत्र-५.५ ।
(ईश्वरस्य फलदातृत्वाभवः)

न रागादृते तत्सिद्धिः प्रतिनियतकारणत्वात् । सांख्यसूत्र-५.६ ।
(ईश्वरस्य फलदातृत्वाभवः)

तद्योगे ऽपि न नित्यमुक्तः । सांख्यसूत्र-५.७ ।
(ईश्वरस्य फलदातृत्वाभवः)

प्रधानशक्तियोगाच्चेत् सङ्गापत्तिः । सांख्यसूत्र-५.८ ।
(ईश्वरस्य फलदातृवाभवः)

सत्तामात्राच्चेत्सर्वैश्वर्यं । सांख्यसूत्र-५.९ ।
(ईश्वरस्य फलदातृत्वाभवः)

प्रमाणाभावान्न तत्सिद्धिः । सांख्यसूत्र-५.१० ।
(ईश्वरे प्रमाणाभावः)

सम्बन्धाभावान्नानुमानं । सांख्यसूत्र-५.११ ।
(ईश्वरे प्रमाणाभावः)

श्रुतिरपि प्रधानकार्यत्वस्य । सांख्यसूत्र-५.१२ ।
(ईश्वरे प्रमाणाभावः)

नाविद्याशक्तियोगो निस्सङ्गस्य । सांख्यसूत्र-५.१३ ।
(बन्धस्य अविद्यानिमित्तकत्ववादनिरासः)

तद्योगे तत्सिद्धावन्योन्याश्रयत्वं । सांख्यसूत्र-५.१४ ।
(बन्धस्य अविद्यानिमित्तकत्ववादनिरासः)

न बीजाङ्कुरवत् सादिसंसारश्रुतेः । सांख्यसूत्र-५.१५ ।
(बन्धस्य अविद्यानिमित्तकत्ववादनिरासः)

विद्यातो ऽन्यत्वे ब्रह्मबाधप्रसङ्गः । सांख्यसूत्र-५.१६ ।
(बन्धस्य अविद्यानिमित्तकत्ववादनिरासः)

अबाधे नैष्फल्यं । सांख्यसूत्र-५.१७ ।
(बन्धस्य अविद्यानिमित्तकत्ववादनिरासः)

विद्याबाध्यत्वे जगतो ऽप्येवं । सांख्यसूत्र-५.१८ ।
(बन्धस्य अविद्यानिमित्तकत्ववादनिरासः)

तद्रूपत्वे सादित्वं । सांख्यसूत्र-५.१९ ।
(बन्धस्य अविद्यानिमित्तकत्ववादनिरासः)

न धर्मापलापः प्रकृतिकार्यवैचित्र्यात् । सांख्यसूत्र-५.२० ।
(प्रधानप्रवृत्तेः कर्मनिमित्तकत्वनिरासः)

श्रुतिलिङ्गादिभिः तत्सिद्धिः । सांख्यसूत्र-५.२१ ।
(प्रधानप्रवृत्तेः कर्मनिमित्तकत्वनिरासः)

न नियमः प्रमाणान्तरावकाशात् । सांख्यसूत्र-५.२२ ।
(प्रधानप्रवृत्तेः कर्मनिमित्तकत्वनिरासः)

उभयत्राप्येवं । सांख्यसूत्र-५.२३ ।
(प्रधानप्रवृत्तेः कर्मनिमित्तकत्वनिरासः)

अर्थात् सिद्धिश्चेत्समानमुभयोः । सांख्यसूत्र-५.२४ ।
(प्रधानप्रवृत्तेः कर्मनिमित्तकत्वनिरासः)

अन्तः करणधर्मत्वं धर्मादीनां । सांख्यसूत्र-५.२५ ।
(धर्माधर्मयोः अन्तः करणधर्मत्वं)

गुणादीनां च नात्यन्तबाधः । सांख्यसूत्र-५.२६ ।
(सत्वादिगुणतद्धर्माणां अत्यन्त निषेधस्यायुक्तता)

पञ्चावयवयोगात् सुखसंवित्तिः । सांख्यसूत्र-५.२७ ।
(सत्वादिगुणतद्धर्माणां अत्यन्त निषेधस्यायुक्तता)

न सकृद्ग्रहणात्सम्बन्ध सिद्धिः । सांख्यसूत्र-५.२८ ।
(व्याप्तिस्वरूपं तत्साधनं च), पू

नियतधर्मसाहित्यमुभयोरेकतरस्य वा व्याप्तिः । सांख्यसूत्र-५.२९ ।
(व्याप्तिस्वरूपं तत्साधनं च), सि

न तत्वान्तरं वस्तुकल्पनाप्रसक्तेः । सांख्यसूत्र-५.३० ।
(परोक्तव्याप्तिस्वरूपादिखण्डनं)

निजशक्त्युद्भवमित्याचार्याः । सांख्यसूत्र-५.३१ ।
(परोक्तव्याप्तिस्वरूपादिखण्डनं)

आधेयशक्तियोग इति पञ्चशिखः । सांख्यसूत्र-५.३२ ।
(परोक्तव्याप्तिस्वरूपादिखण्डनं)

न स्वरूपशक्तिर्नियमः पुनर्वादप्रसक्तेः । सांख्यसूत्र-५.३३ ।
(परोक्तव्याप्तिस्वरूपादिखण्डनं)

विशेषेणानर्थक्य प्रसक्तेः । सांख्यसूत्र-५.३४ ।
(परोक्तव्याप्तिस्वरूपादिखण्डनं)

पल्लवादिष्वनुपपत्तेश्च । सांख्यसूत्र-५.३५ ।
(परोक्तव्याप्तिस्वरूपादिखण्डनं)

आधेयशक्तिसिद्धौ निजशक्तियोगः समानन्यायात् । सांख्यसूत्र-५.३६ ।
(परोक्तव्याप्तिस्वरूपादिखण्डनं)

वाच्यवाचक भावः सम्बन्धः शब्दार्थयोः । सांख्यसूत्र-५.३७ ।
(शब्दप्रामाण्यसाधनं)

त्रिभिस्साम्बन्धसिद्धिः । सांख्यसूत्र-५.३८ ।
(लोकवेदयोः शक्तिग्रहणोपायाः)

न कार्ये नियमः उभयथा दर्शनात् । सांख्यसूत्र-५.३९ ।
(लोकवेदयोः शक्तिग्रहणोपायाः)

लोके व्युत्पन्नस्य वेदार्थप्रतीतिः । सांख्यसूत्र-५.४० ।
(लोकवेदयोः शक्तिग्रहणोपायाः)

न त्रिभिरपौरुषेयत्वाद्वेदस्य तदर्थस्याप्यतीन्द्रियत्वात् । सांख्यसूत्र-५.४१ ।
(वेदस्य अतीन्द्रियार्थत्वनिराकरणं), पू

न यज्ञादेः स्वरूपतो धर्मत्वं वैशिष्ट्यात् । सांख्यसूत्र-५.४२ ।
(वेदस्य अतीन्द्रियार्थत्वनिराकरणं), सि

निजशक्तिः व्युत्पत्त्या व्यवच्छिद्यते । सांख्यसूत्र-५.४३ ।
(वैदिकशब्दशक्तिग्रहव्यवस्था)

योग्यायोग्येषु प्रतीतिजनकत्वात्तत्सिद्धिः । सांख्यसूत्र-५.४४ ।
(वैदिकशब्दशक्तिग्रहव्यवस्था)

न नित्यत्वं वेदानां कार्यत्वश्रुतेः । सांख्यसूत्र-५.४५ ।
(वेदस्य नित्यत्वापौरूषेयत्वयोर्निरासः)

न पौरुषेयत्वं तत्कर्तुः पुरुषस्याभावात् । सांख्यसूत्र-५.४६ ।
(वेदस्य नित्यत्वापौरूषेयत्वयोर्निरासः)

मुक्तामुक्तयोरयोग्यत्वात् । सांख्यसूत्र-५.४७ ।
(वेदस्य नित्यत्वापौरूषेयत्वयोर्निरासः)

नापौरुषेयत्वान्नित्यत्वमङ्कुरादिवत् । सांख्यसूत्र-५.४८ ।
(वेदस्य नित्यत्वापौरूषेयत्वयोर्निरासः)

तेषामपि तद्योगे दृष्टबाधादिप्रसक्तिः । सांख्यसूत्र-५.४९ ।
(वेदस्य नित्यत्वापौरूषेयत्वयोर्निरासः)

यस्मिन् अदृष्टे ऽपि कृतबुद्धिरुपजायते तत्पौरुषेयं । सांख्यसूत्र-५.५० ।
(वेदस्य नित्यत्वापौरूषेयत्वयोर्निरासः)

निजशक्त्यभिव्यक्तेः स्वतः प्रामाण्यं । सांख्यसूत्र-५.५१ ।
(वेदानां स्वतः प्रामाण्यं)

नासतः ख्यानं नृशृङ्गवत् । सांख्यसूत्र-५.५२ ।
(गुणानां नात्यन्तासत्त्वं अनिर्वचनीयत्वं वा)

न सतो बाधदर्नात् । सांख्यसूत्र-५.५३ ।
(गुणानां नात्यन्तासत्त्वं अनिर्वचनीयत्वं वा)

नानिर्वचनीयस्य तदभावात् । सांख्यसूत्र-५.५४ ।
(गुणानां नात्यन्तासत्त्वं अनिर्वचनीयत्वं वा)

नान्यथाख्यातिः स्ववचोव्याघातात् । सांख्यसूत्र-५.५५ ।
(अन्यथाख्यातिनिरासः)

सदसत्ख्यातिः बाधाबाधात् । सांख्यसूत्र-५.५६ ।
(सदसत्ख्याति निरासः)

प्रतीत्यप्रतीतिभ्यां न स्फोटात्मकः शब्दः । सांख्यसूत्र-५.५७ ।
(स्फोटनिरासः)

न शब्दनित्यत्वं कार्यताप्रतीतेः । सांख्यसूत्र-५.५८ ।
(वर्णनित्यत्वनिरासः)

पूर्वसिद्ध सत्त्वस्याभिव्यक्तिः दीपेनेव घटस्य । सांख्यसूत्र-५.५९ ।
(वर्णनित्यत्वनिरासः), पू

सत्कार्यसिद्धान्तश्चेत् सिद्धसाधनं । सांख्यसूत्र-५.६० ।
(वर्णनित्यत्वनिरासः), सि

नाद्वैतमात्मनो लिङ्गात् तद्भेदप्रतीतेः । सांख्यसूत्र-५.६१ ।
(आत्माद्वैत निरासः)

नानात्मापि प्रत्यक्षबाधात् । सांख्यसूत्र-५.६२ ।
(आत्माद्वैत निरासः)

नोभाभ्यां तेनैव । सांख्यसूत्र-५.६३ ।
(आत्माद्वैत निरासः)

अन्यपरत्वमविवेकानां तत्र । सांख्यसूत्र-५.६४ ।
(आत्माद्वैतनिरासः)

नात्माविद्या नोभयं जगदुपादानकारणं निस्सङ्गत्वात् । सांख्यसूत्र-५.६५ ।
(आत्माद्वैतनिरासः)

नैकस्यानन्दचिद्रूपत्वे द्वयोर्भेदात् । सांख्यसूत्र-५.६६ ।
(आत्माद्वैतनिरासः)

दुःखनिवृत्तेर्गौणः । सांख्यसूत्र-५.६७ ।
(आत्माद्वैतनिरासः)

विमुक्तिप्रशंसा मन्दानां । सांख्यसूत्र-५.६८ ।
(आत्माद्वैतनिरासः) न व्यापकत्वं मनसः करणत्वादिन्द्रियत्वाद्वा वास्यादिवच्चक्षुरादिवच्च । सांख्यसूत्र-५.६९ ।
(मनसोनिरवयवत्व विभुत्वनित्यनां निरासः)

सक्रियत्वात् गतिश्रुतेः । सांख्यसूत्र-५.७० ।
(मनसोनिरवयवत्व विभुत्वनित्यनां निरासः)

न निर्भागत्वं तद्योगात् घटवत् । सांख्यसूत्र-५.७१ ।
(मनसोनिरवयवत्व विभुत्वनित्यनां निरासः)

प्रकृतिपुरुषयोरन्यत्सर्वमनित्यं । सांख्यसूत्र-५.७२ ।
(प्रकृतिपुरुषातिरिक्तस्य सर्वस्यानित्यत्वं)

न भागलाभो भागिनो निर्भागत्वश्रुतेः । सांख्यसूत्र-५.७३ ।
(प्रकृतिपुरुषातिरिक्तस्य सर्वस्यानित्यत्वं)

नानन्दाभिव्यक्तिर्मुक्तिः निर्धर्मत्वात् । सांख्यसूत्र-५.७४ ।
(मुक्तेः आनन्दाभिव्यक्तिरूपत्वाभावः)

न विशेषगुणोच्छित्तिस्तद्वत् । सांख्यसूत्र-५.७५ ।
(मुक्तेः विशेषगुणोच्छेदस्वरूपत्वाभावः)

न विशेषगतिः निष्क्रियस्य । सांख्यसूत्र-५.७६ ।
(मुक्तेः लोकान्तरगतिरूपत्वाभावः)

नाकारोपरागोच्छित्तिः क्षणिकत्वादिदोषात् । सांख्यसूत्र-५.७७ ।
(मुक्तेः उपरागनाश, सर्वोच्छित्तिरूपत्वाभावः)

न सर्वोच्छित्तिरपुरुषार्थत्वादिदेषात् । सांख्यसूत्र-५.७८ ।
(मुक्तेः शून्यादिरूपत्वानुपपत्तिः)

एवं शून्यमपि । सांख्यसूत्र-५.७९ ।
(मुक्तेः शून्यादिरूपत्वानुपपत्तिः)

संयोगाश्च विभागान्ता इति न देशादिलाभो ऽपि । सांख्यसूत्र-५.८० ।
(मुक्तेः स्वाम्यविशेषादिरूपत्वाभावः)

न भागियोगो भागस्य । सांख्यसूत्र-५.८१ ।
(मुक्तेः लयरूपत्वाभावः)

नाणिमादियोगो ऽप्यवश्यंभावित्वात् तदुच्छित्तेरितरयोगवत् । सांख्यसूत्र-५.८२ ।
(मुक्तेः ऐश्वर्य पदवीविशेषादिरूपत्वाभावः)

नेन्द्रादिपदयोगो ऽपि तद्वत् । सांख्यसूत्र-५.८३ ।
(मुक्तेः ऐशेवर्य पदवीविशेषादिरूपत्वाभावः)

न भूतप्रकृतिकत्वमिन्द्रियाणामाहङ्कारिकत्वश्रुतेः । सांख्यसूत्र-५.८४ ।
(इन्द्रियाणां भूतप्रकृतिकत्वनिरासः)

न षट् पदार्थनियमस्तद्बोधान्मुक्तिः । सांख्यसूत्र-५.८५ ।
(परोक्त पदार्थसंख्यानियमस्य, तद्धोधस्य मुक्तिहेतुतायाश्च निरासः)

षोडशादिष्वप्येवं । सांख्यसूत्र-५.८६ ।
(परोक्त पदार्थसंख्यानियमस्य, तद्धोधस्य मुक्तिहेतुतायाश्च निरासः)

नाणुनित्यता तत्कार्यत्वश्रुतेः । सांख्यसूत्र-५.८७ ।
(अणूनां नित्यत्वनिरासः)

न निर्भागत्वं कार्यत्वात् । सांख्यसूत्र-५.८८ ।
(अणूनां नित्यत्वनिरासः)

न रूपनिबन्धनात् प्रत्यक्षनियमः । सांख्यसूत्र-५.८९ ।
(परिमाणस्वरूपादि निर्णयः)

न परिमाणचातुर्विध्यं द्वाभ्यां तद्योगात् । सांख्यसूत्र-५.९० ।
(सामान्यसाधनं, तत्स्वरूपं च)

अनित्यत्वे ऽपि स्थिरतायोगात् प्रत्यभिज्ञानं सामान्यस्य । सांख्यसूत्र-५.९१ ।
(सामान्यसाधनं, तत्स्वरूपं च)

न तदपलापस्तस्मात् । सांख्यसूत्र-५.९२ ।
(सामान्यसाधनं, तत्स्वरूपं च)

नान्यनिवृत्तिरूपत्वं भावप्रतीतेः । सांख्यसूत्र-५.९३ ।
(साहश्यस्य तत्त्वान्तरता निराकरणं)

न तत्त्वान्तरं सादृश्य प्रत्यक्षोपलब्धेः । सांख्यसूत्र-५.९४ ।
(सादृश्यस्य तत्त्वान्तरता निराकरणं)

निजशक्त्यभिव्यक्तिर्वा वैशिष्ट्यात्तदुपलब्धेः । सांख्यसूत्र-५.९५ ।
(सादृश्यस्य तत्त्वान्तरता निराकरणं)

न संज्ञासंज्ञि सम्बन्धो ऽपि । सांख्यसूत्र-५.९६ ।
(सादृश्यस्य तत्त्वान्तरता निराकरणं)

न सम्बन्धनित्यतोभयानित्यत्वात् । सांख्यसूत्र-५.९७ ।
(सादृश्यस्य तत्त्वान्तरता निराकरणं)

नाजः सम्बन्धः धर्मिग्राहकप्रमाणबाधात् । सांख्यसूत्र-५.९८ ।
(सादृश्यस्य तत्त्वान्तरता निराकरणं)

न समवायो ऽस्ति प्रमाणाभावात् । सांख्यसूत्र-५.९९ ।
(समवाय निरासः)

उभयत्राप्यन्यथासिद्धेर्न प्रत्यक्षमनुमानं वा । सांख्यसूत्र-५.१०० ।
(समवायनिरासः)

नानुमेयत्वमेव क्रियायाः नेदिष्ठस्य तत्तद्वतोरेवापरोक्षप्रतीतेः । सांख्यसूत्र-५.१०१ ।
(क्रियायाः अनुमेयतानैयत्यनिरासः)

न पाञ्चभौतिकं शरीरं बहूनामुपादानायोगात् । सांख्यसूत्र-५.१०२ ।
(शरीरस्य पाञ्चभौतिकत्वनिरासः)

न स्थूलमिति नियमः आतिवाहिकस्यापि विद्यामानत्वात् । सांख्यसूत्र-५.१०३ ।
(शरीरसामान्यस्य स्थूलत्वनिरासः)

नाप्राप्तप्रकाशकत्वमिन्द्रियाणां अप्राप्तेः सर्वप्राप्तेर्वा । सांख्यसूत्र-५.१०४ ।
(इन्द्रियाणां प्राप्यकारित्वनिरूपणं)

न तेजो ऽपसर्पणात् तैजस चक्षुः वृत्तितस्तत्सिद्धेः । सांख्यसूत्र-५.१०५ ।
(इन्द्रियाणां प्राप्यकारित्वनिरूपणं)

प्राप्तर्थप्रकाशलिङ्गात् वृत्तिसिद्धिः । सांख्यसूत्र-५.१०६ ।
(इन्द्रियाणां प्राप्यकारित्वनिरूपणं)

भागगुणाभ्यां तत्वान्तरं वृत्तिः सम्बन्धार्थं सर्पतीति । सांख्यसूत्र-५.१०७ ।
(वृत्तेः स्वरूपं)

न द्रव्यनियमस्तद्योगात् । सांख्यसूत्र-५.१०८ ।
(वृत्तेः स्वरूपं)

न देशभेदे ऽप्यन्योपादानतास्मदादिवन्नियमः । सांख्यसूत्र-५.१०९ ।
(इन्द्रियाणां अभौतिकत्वं)

निमित्तव्यपदेशात् तदव्यपदेशः । सांख्यसूत्र-५.११० ।
(इन्द्रियाणां अभौतिकत्वं)

ऊष्मजाण्डजजरायुजोद्भिज्जसाङ्काल्पिक सांसिद्धिकं चेति न नियमः । सांख्यसूत्र-५.१११ ।
(स्थूलशरीरविशेषाः)

सर्वेषु पृथिव्युपादानं असाधारण्यात् तद्व्यपदेशः पूर्ववत् । सांख्यसूत्र-५.११२ ।
(स्थूलशरीरविशेषाः)

न देहारम्भकस्य प्राणत्वमिन्द्रियशक्तितस्तत्सिद्धेः । सांख्यसूत्र-५.११३ ।
(प्रणस्य देहारम्भकत्वाभावः)

भोक्तुराधिष्ठानात् भोगायतननिर्माणं अन्यथा पूतिभावप्रसङ्गात् । सांख्यसूत्र-५.११४ ।
(देहाधिष्ठातृ निर्णयः)

भृत्यद्वारा स्वाम्यधिष्ठितिर्नैकान्त्यात् । सांख्यसूत्र-५.११५ ।
(देहाधिष्ठातृ निर्णयः)

समाधिसुषुप्तिमोक्षेषु ब्रह्मरूपता । सांख्यसूत्र-५.११६ ।
(आत्मनो नित्यमुक्तत्वोपपादनं)

द्वयोः सबीजमन्यत्र तद्धतिः । सांख्यसूत्र-५.११७ ।
(सुषुप्तिसमाधिभ्यां मोक्षे विशेषः)

द्वयोरिव त्रयस्यापि दृष्टत्वात् न तु द्वौ । सांख्यसूत्र-५.११८ ।
(मोक्षे प्रमाणं)

वासनया न स्वार्थख्यापनं दोषयोगे ऽपि न निमित्तस्य प्रधानबाधकत्वं । सांख्यसूत्र-५.११९ ।
(सुषुप्तौ आत्मनः ब्रह्मरूपत्व साधनं)

एकः संस्कारः क्रियानिर्वर्तकः न तु प्रतिक्रियं संस्कारभेदा बहुकल्पनाप्रसक्तेः । सांख्यसूत्र-५.१२० ।
(जीवन्मुक्ते ऽपि संस्कारानुवृत्तिः)

न बाह्यबुद्धिनियमः वृक्षगुल्मलतौषधिवनस्पतितृणवीरूधादीनामपि भोक्तृभोगायतनत्वं पूर्ववत् । सांख्यसूत्र-५.१२१ ।
(शरीरसामान्ये बाह्यज्ञानसत्तानियमाभावः)

स्मृतेश्च । सांख्यसूत्र-५.१२२ ।
(शरीरसामान्ये बाह्यज्ञानसत्तानियमाभावः)

न देहमात्रतः कर्माधिकारित्वं वैशिष्टयश्रुतेः । सांख्यसूत्र-५.१२३ ।
(शरीरसामान्ये बाह्यज्ञानसत्तानियमाभावः)

त्रिधात्रयाणां व्यवस्था कर्मदेहोपभोगदेहोभयदेहाः । सांख्यसूत्र-५.१२४ ।
(देहेषु चातुर्विध्यं)

न किञ्चिदप्यनुशयिनः । सांख्यसूत्र-५.१२५ ।
(देहेषु चातुर्विध्यं)

न बुद्ध्यादिनित्यत्वं आश्रयाविशेषे ऽपि वह्निवत् । सांख्यसूत्र-५.१२६ ।
(बुद्धीच्छादीनां नित्यतानिरासः)

आश्रयासिद्धेश्च । सांख्यसूत्र-५.१२७ ।
(बुद्धीच्छादीनां नित्यतानिरासः)

योगसिद्धयो ऽप्यौषधादिसिद्विवन्नापलापनीयाः । सांख्यसूत्र-५.१२८ ।
(सिद्धीनां सत्यता)

न भूतचैतन्यं प्रत्येकादृष्टेः सांहत्ये ऽपि च सांहत्ये ऽपि च । सांख्यसूत्र-५.१२९ ।
(भूतचैतन्यवाद निरासः)



तन्त्राध्यायः

सम्पाद्यताम्

अस्त्यात्मा नास्तित्वसाधनाभावात् । सांख्यसूत्र-६.१ ।
(आत्मास्तित्व निरूपणं)

देहादिव्यतिरिक्तो ऽसौ वैचित्र्यात् । सांख्यसूत्र-६.२ ।
(आत्मास्तित्व निरूपणं)

षष्ठीव्यपदेशादपि । सांख्यसूत्र-६.३ ।
(आत्मास्तित्व निरूपणं)

न शिलापुत्रवत्, धर्मिग्राहकमानबाधात् । सांख्यसूत्र-६.४ ।
(आत्मास्तित्व निरूपणं)

अत्यन्तदुःखनिवृत्त्या कृतकृत्यता । सांख्यसूत्र-६.५ ।
(आत्मनः कृतकृत्यतानिमित्तं)

यथा दुःखात् क्लेशः पुरुषस्य, न तथा सुखाभिलाषः । सांख्यसूत्र-६.६ ।
(आत्मनः कृतकृत्यतानिमित्तं)

कुत्रापि को ऽपि सुखीति । सांख्यसूत्र-६.७ ।
(दुःखनिवृत्तेरेव पुरुषार्थत्वं)

तदपि दुःखशबलितमिति दुःखपक्षे निक्षिपन्ते विवेचकाः । सांख्यसूत्र-६.८ ।
(दुःखनिवृत्तेरेव पुरुषार्थत्वं)

सुखलाभाभावादपुरुषार्थत्वामिति चेन्न द्वैविध्यात् । सांख्यसूत्र-६.९ ।
(दुःखनिवृत्तेरेव पुरुषार्थत्वं)

निर्गुणत्वमात्मनो ऽसङ्गत्वादिश्रुतेः । सांख्यसूत्र-६.१० ।
(गुणबन्धस्यैव अविवेकमूलत्वं), पू

परमधर्मत्वे ऽपि तत्सिद्धिरविवेकात् । सांख्यसूत्र-६.११ ।
(गुणबन्धस्यैव अविवेकमूलत्वं), सि

अनादिरविवेकः अन्यथा दोषद्वयप्रसक्तेः । सांख्यसूत्र-६.१२ ।
(अविवेकस्यानादित्वं)

न नित्यः स्यादात्मवदन्यथानुच्छित्तिः । सांख्यसूत्र-६.१३ ।
(अविवेकस्यानादित्वं)

प्रतिनियतकारण नाश्यत्वमस्य ध्वान्तवत् । सांख्यसूत्र-६.१४ ।
(मुक्तिकारणविवरणं)

अत्रापि प्रतिनियमो ऽन्वयव्यतिरेकात् । सांख्यसूत्र-६.१५ ।
(मुक्तिकारणविवरणं)

प्रकारान्तरासम्भवादविवेक एव बन्धः । सांख्यसूत्र-६.१६ ।
(बन्धस्वरूपं)

न मुक्तस्य पुनर्बन्धयोगो ऽप्यनावृत्ति श्रुतेः । सांख्यसूत्र-६.१७ ।
(मुक्तेर्नित्यत्वं)

अपुरुषार्थत्वमन्यथा । सांख्यसूत्र-६.१८ ।
(मुक्तेर्नित्यत्वं)

अविशेषापत्तिरुभयोः । सांख्यसूत्र-६.१९ ।
(मुक्तेर्नित्यत्वं)

मुक्तिरन्तराय ध्वस्तेर्न परः । सांख्यसूत्र-६.२० ।
(अन्तरायध्वंसमात्रस्य मुक्तिरूपत्वं)

तत्राप्यविरोधः । सांख्यसूत्र-६.२१ ।
(अन्तरायध्वंसमात्रस्य मुक्तिरूपत्वं)

अधिकारित्रैविध्यान्न नियमः । सांख्यसूत्र-६.२२ ।
(अधिकारिभेदेन अन्तरायध्वसनिष्पत्तिभेदः)

दार्ढ्यार्थमुत्तरेषां । सांख्यसूत्र-६.२३ ।
(नियमानां आवश्यकता)

स्थिरसुखमासनमिति न नियमः । सांख्यसूत्र-६.२४ ।
(नियमानां आवश्यकता)

ध्यानं निर्विषयं मनः । सांख्यसूत्र-६.२५ ।
(ध्यानस्वरूपं)

उभयथाप्यविशेषश्चेन्नैवमुपरागनिरोधाद्विशेषः । सांख्यसूत्र-६.२६ ।
(योगस्यावश्कता)

निस्सङ्गे ऽप्युपरागो ऽविवेकात् । सांख्यसूत्र-६.२७ ।
(उपरागहेतुः)

जपास्फटिकयोरिव नोपरागः किन्त्वभिमानः । सांख्यसूत्र-६.२८ ।
(उपरागहेतुः)

ध्यानधारणाभ्यास वैराग्यादिभिः तन्निरोधः । सांख्यसूत्र-६.२९ ।
(उपराग निरोधहेतुः)

लयविक्षेपयोर्व्यावृत्त्येत्याचार्याः । सांख्यसूत्र-६.३० ।
(उपराग निरोधहेतुः)

न स्थाननियमः चित्तप्रसादात् । सांख्यसूत्र-६.३१ ।
(उपराग निरोधहेतुः)

प्रतेराद्योपादानतान्येषां कार्यत्वश्रुतेः । सांख्यसूत्र-६.३२ ।
(प्रकृतेरेव जगन्मूलता)

नित्यत्वे ऽपि नात्मनो योग्यत्वाभावात् । सांख्यसूत्र-६.३३ ।
(प्रकृतेरेव जगन्मूलता)

श्रुतिविरोधान्न कुतर्कापसदस्यात्मलाभः । सांख्यसूत्र-६.३४ ।
(प्रकृतेरेव जगन्मूलता)

पारम्पर्ये ऽपि प्रधानानुवृत्तिरणुवत् । सांख्यसूत्र-६.३५ ।
(प्रकृतेरेव जगन्मूलता)

सर्वत्र कार्यदर्शनात् विभुत्वं । सांख्यसूत्र-६.३६ ।
(प्रकृतेरेव जगन्मूलता)

गतियोगे ऽप्याद्यकारणताहानिरणुवत् । सांख्यसूत्र-६.३७ ।
(प्रकृतेरेव जगन्मूलता)

प्रसिद्धाधिक्यं प्रधानस्य न नियमः । सांख्यसूत्र-६.३८ ।
(प्रकृतेरेव जगन्मूलता)

सत्त्वादीनामतद्धर्मत्वं तद्रूपत्वात् । सांख्यसूत्र-६.३९ ।
(प्रकृतेः गुणरूपतासाधनं)

अनुपभोगे ऽपि पुमर्थं सृष्टिः प्रधानस्योष्ट्रकुङ्कुमवहनवत् । सांख्यसूत्र-६.४० ।
(प्रधानप्रवृत्तिहेतुः)

कर्मवैचित्र्यात्सृष्टिवैचित्र्यं । सांख्यसूत्र-६.४१ ।
(प्रधानप्रवृत्तिहेतुः)

साम्यवैषम्याभ्यां कार्यद्वयं । सांख्यसूत्र-६.४२ ।
(सृष्टिप्रलनिमित्ते)

विमुक्तबोधान्न सृष्टिः प्रधानस्य लोकवत् । सांख्यसूत्र-६.४३ ।
(प्रधानस्यसृष्ट्युपरमनिमित्तादि निरूपणं)

नान्योपसर्पणे ऽपि मुक्तोपभोगः निमित्ताभावात् । सांख्यसूत्र-६.४४ ।
(प्रधानस्यसृष्ट्युपरमनिमित्तादि निरूपणं)

पुरुषबहुत्वं व्यवस्थातः । सांख्यसूत्र-६.४५ ।
(प्रघानस्यसृष्ट्युपरमनिमित्तादि निरूपणं)

उपाधिश्चेत् तत्सिद्धौ पुनर्द्वैतं । सांख्यसूत्र-६.४६ ।
(उपाधिभेदात् बन्धमोक्षव्यवस्थाभावः)

द्वाभ्यामपि प्रमाणविरोधः । सांख्यसूत्र-६.४७ ।
(अविद्यापुरुषयोरस्तित्वाङ्गीकारे अद्वैद्यविरोधः)

द्वाभ्यामप्यविरोधान्नपूर्वमुत्तरं च साधाकाभावात् । सांख्यसूत्र-६.४८ ।
(अविधापुरुषयोरास्तित्वाङ्गीकारे अद्वैद्यविरोधः)

प्रकाशतस्तत्सिद्धौ कर्मकर्तृविरोधः । सांख्यसूत्र-६.४९ ।
(आत्मनः प्रकाशस्वरूपत्वे दोषः)

जडव्यावृत्तो जडं प्रकाशयति चिद्रूपः । सांख्यसूत्र-६.५० ।
(आत्मनः प्रकाशस्वरूपत्वे दोषः)

न श्रुतिविरोधो रागिणां वेराग्याय तत्सिद्धेः । सांख्यसूत्र-६.५१ ।
(अद्वैतश्रुतेः स्वपक्षे सामरस्यं)

जगत्सत्यत्वमदुष्टकरणजन्यत्वम् बाधकाभावात् । सांख्यसूत्र-६.५२ ।
(जगत्सत्यत्वसाधनं)

प्रकारान्तरासंभवात्सदुत्पत्तिः । सांख्यसूत्र-६.५३ ।
(सत्कार्यवादस्यैव साधुता)

अहङ्कारः कर्ता न पुरुषः । सांख्यसूत्र-६.५४ ।
(अहङ्कारस्यैव कर्तृत्वं)

चिदवसाना भुक्तिः तत्कर्मार्जितत्वात् । सांख्यसूत्र-६.५५ ।
(भोगोपाधिः)

चन्द्रादिलोकेप्यावृत्तिः निमित्तसद्भावात् । सांख्यसूत्र-६.५६ ।
(पुनरावृत्तिहेतुः)

लोकस्य नोपदेशात् सिद्धिः पूर्ववत् । सांख्यसूत्र-६.५७ ।
(पुनरावृत्तिहेतुः)

पाराम्पर्येण तत्सिद्धौ विमुक्तिश्रुतिः । सांख्यसूत्र-६.५८ ।
(पुनरावृत्तिहेतुः)

गतिश्रुतेश्च व्यापकत्वे ऽपि उपाधियोगात् भोगदेशकाललाभः व्योमवत् । सांख्यसूत्र-६.५९ ।
(आत्मनो गतिश्रुत्युपपत्तिः)

अनधिष्ठितस्य पूतिभावप्रसङ्गान्न तत्सिद्धिः । सांख्यसूत्र-६.६० ।
(देहरचनां प्रति भोक्त्रधिष्ठानस्यावश्यकता)

अदृष्टद्वाराचेदसम्बद्धस्य तदसम्भवाज्जलादिवदङ्कुरे । सांख्यसूत्र-६.६१ ।
(देहरचनां प्रति भोक्त्रधिष्ठानस्यावश्यकता)

निर्गुणत्वात्तदसम्भवादहङ्कार धर्माते । सांख्यसूत्र-६.६२ ।
(देहरचनां प्रति भोक्त्रधिष्ठानस्यावश्यकता)

विशिष्टस्य जीवत्वमन्वयव्यतिरेकात् । सांख्यसूत्र-६.६३ ।
(जीवत्वोपाधिः)

अहङ्कारकर्त्रधीना कार्यसिद्धिर्नेश्वराधीना प्रमाणाभावात् । सांख्यसूत्र-६.६४ ।
(सृष्ट्यादीनां कालमात्रनिमित्ताहङ्कारादिकार्यता)

अदृष्टोद्भूतिवत्समानत्वं । सांख्यसूत्र-६.६५ ।
(सृष्ट्यादीनां कालमात्रनिमित्ताहङ्कारादिकार्यता)

महतो ऽन्यत् । सांख्यसूत्र-६.६६ ।
(सृष्ट्यादीनां कालमात्रनिमित्ताहङ्कारादिकार्यता)

कर्मनिमित्तः प्रकृतेः स्वस्वामिभावो ऽप्यनादिः बीजाङ्कुरवत् । सांख्यसूत्र-६.६७ ।
(प्रकृतिपुरुषयोः भोग्यभोक्तृभावस्य अनादिकर्मनिमित्तकत्वं)

अविवेकनिमित्तो वा पञ्चशिखः । सांख्यसूत्र-६.६८ ।
(तत्रैव मतभेदः)

लिङ्गशरीरनिमित्तक इति सनन्दनाचार्यः । सांख्यसूत्र-६.६९ ।
(पुरुषार्थस्वरूपनिगमनं)

तत्त्व समाससूत्राणि । सांख्यसूत्र-६.७० ।


(कपिलमहर्षिप्रणीतानि)



तत्त्वपादः

सम्पाद्यताम्

अथातस्तत्त्वसमासः । सांख्यसूत्र_संयुक्त-२.१.१ ।

अष्टौ प्रकृतयः । सांख्यसूत्र_संयुक्त-२.१.२ ।

षोडश विकाराः । सांख्यसूत्र_संयुक्त-२.१.३ ।

पुरुषः । सांख्यसूत्र_संयुक्त-२.१.४ ।

त्रैगुण्यं । सांख्यसूत्र_संयुक्त-२.१.५ ।

सञ्चरः । सांख्यसूत्र_संयुक्त-२.१.६ ।

प्रतिसञ्चरः । सांख्यसूत्र_संयुक्त-२.१.७ ।

अध्यात्मं । सांख्यसूत्र_संयुक्त-२.१.८ ।

अधिभूतं । सांख्यसूत्र_संयुक्त-२.१.९ ।

अधिदैवतं । सांख्यसूत्र_संयुक्त-२.१.१० ।


प्रकीर्णपादः

सम्पाद्यताम्

पञ्चाभिबुद्धयः । सांख्यसूत्र_संयुक्त-२.२.१ ।

पञ्च कर्मयोनयः । सांख्यसूत्र_संयुक्त-२.२.२ ।

अञ्च वायवः । सांख्यसूत्र_संयुक्त-२.२.३ ।

पञ्च कर्मात्मानः । सांख्यसूत्र_संयुक्त-२.२.४ ।

पञ्चपर्वाविद्या । सांख्यसूत्र_संयुक्त-२.२.५ ।

अष्टाविंशतिधाशक्तिः । सांख्यसूत्र_संयुक्त-२.२.६ ।

नवधा तुष्टिः । सांख्यसूत्र_संयुक्त-२.२.७ ।

अष्टधा सिद्धिः । सांख्यसूत्र_संयुक्त-२.२.८ ।

दशमूलिकार्थाः । सांख्यसूत्र_संयुक्त-२.२.९ ।

अनुग्रहः सर्गः । सांख्यसूत्र_संयुक्त-२.२.१० ।

चतुर्दशविधो भूतसर्गः । सांख्यसूत्र_संयुक्त-२.२.११ ।

त्रिविधो बन्धः । सांख्यसूत्र_संयुक्त-२.२.१२ ।

त्रिविधो मोक्षः । सांख्यसूत्र_संयुक्त-२.२.१३ ।

त्रिविधं प्रमाणं । सांख्यसूत्र_संयुक्त-२.२.१४ ।

त्रिविधं दुःखं । सांख्यसूत्र_संयुक्त-२.२.१५ ।

एतत्परं याथातथ्यं । सांख्यसूत्र_संयुक्त-२.२.१६ ।

एतत्ज्ञात्वा कृतकृत्यः स्यात् । सांख्यसूत्र_संयुक्त-२.२.१७ ।

नासौ पुनः त्रिविधेन दुःखेनाभिभूयते नाभिभीयते । सांख्यसूत्र_संयुक्त-२.२.१८ ।

  • उपरोक्त सामग्री

यहाँ से रोमन यूनिकोड में ली गयी
और Diacritic Conversion - diCrunch v2.00:b5 की सहायता से इसे देवनागरी में परिवर्तित करके तथा कुछ अन्य आवश्यक परिवर्तनों के बाद यहाँ रखा गया। (26-01-2008)


"https://sa.wikibooks.org/w/index.php?title=सांख्यसूत्र&oldid=6148" इत्यस्माद् प्रतिप्राप्तम्