सांख्यदर्शनप्रतिपादितं गुणत्रयस्वरूपं व्याख्यात।

परिदृश्यमानमिदं जगत् सुखदुःखमोहात्मकम् अस्ति । चराचरेऽस्मिन् सत्त्वरजस्तमो गुणाः क्वचित् स्पष्टतया क्वचिच्च अस्पष्टतया परिलक्ष्यन्ते । इयं सृष्टिः त्रिगुणात्मिका उच्चावच्च रुपा च । गुणान् हि गुणीकृत्य जायते जगत् इति सांख्याः कथयन्ति । सांख्यनये गुणी प्रकृतिः भवति । सा च प्रकृतिः सत्त्वरजस्तमोगुणानां साम्यावस्थारूपा भवति । एते गुणाः अत्यन्तसूक्ष्माः । अतः प्रत्यक्षादि-इन्द्रियगोचराः न भवन्ति । परन्तु गुणानां कार्याणि दृष्ट्वा गुणाः सन्ति इति अनुमीयते । अथ के ते गुणाः ? किं तेषां स्वरुपं ? किं च तेषां कार्याणि ? किं वा तेषां प्रयोजनम् ? इति विषये किञ्चिदत्र विचार्यते ।
सत्त्वं लघुप्रकाशकमिष्टमुपष्टम्भकं चलं च रजः ।

गुरुवरणेकमेव तमः प्रदीपवच्चार्थतोऽवृत्तिः ॥
'

पञ्चविंशतितत्त्वेषु प्रकृतितत्त्वं प्रमुखमिति निर्विवादम् । तत् च प्रकृतितत्त्वं त्रिगुणात्मकं इति दर्शनेऽस्मिन् निश्चितम् । तच्च गुणत्रयं सत्वं रजः तमः इति आख्यातम् । तत्र सत्वं नाम सतः भावः इति । गुणविवक्षायां तु विकृते कारणे सति चित्तस्य अविकृतिः अथवा लघुत्वे सति ज्ञानसुखहेतु गुणः सत्त्वं भवति । अर्थात् सत्त्वगुणस्य कार्यं सुखम् इति । सत्त्वगुणः शुद्धतायाः प्रतीकः । स्वरूपतः प्रकाशकः लघुः । ज्ञानेन्द्रियेण सम्बन्धिः सत्त्वबाहुल्यात् अयं ज्ञानं जनयति । अन्तःकरणे सुखदाः भावनाः प्रकुर्वन्ति । तद्यथा - सरलता, श्रद्धा, प्रीतिः, संन्तोष:, विवेकः, दयाद्याः भवन्ति । तदुक्तं -

सत्वं लघुप्रकाशकम् इति ।

रजो नाम प्रेरकत्वे सति सक्रियत्वे सति दुःखहेतुत्वम् । एवं च रजोगुणः दुःखहेतुकम् । एतस्य स्वरुपम् अशुद्धं अयं च गुणः अशुद्धतायाः प्रतीकः । स्वरूपतः सक्रियः चलः उपष्टम्भकः संश्लेषः जनकश्च भवति । सर्वाः क्रियाः प्रवृत्तयश्च अनेन कारणेन सम्भवन्ति । एतदेव दुःखं जनयति । तद्यथा - अभिमानः, द्वेषः, मत्सरः, क्रोधः, मदाद्याः इति । एतस्य वर्णः रक्तवर्णः । तदुक्तं -

इष्टमुपष्टम्भकं चलं च रजः इति ।

तत्र तमो नाम गुरु आवरणकत्वे सति मोहकत्वम् । अर्थात् मोहात्मकः तमोगुणो भवति । तमोगुणः अज्ञानस्य प्रतीको भवति । स्वरुपेण गुरुः आच्छादकः प्रकाशावरोधकश्च भवति । क्रियायाः सुखस्य दुःखस्य प्रकाशस्य च अवरोधकरणं तमो गुणस्य कार्यं भवति । मोहस्वभावः अन्तःकरणे विपरीतां भावानां जनयति । तद्यथा - प्रमादरूपा, आलस्यरूपा, निद्रारूपा, अज्ञानरूपा, विषादरूपाद्याः इति ।

गुरुवरणकमेव तमः इति

एवं परस्परविलक्षणस्वभावकाः इमे त्रयो गुणाः प्रतिक्षणं सुखदुखमोहान् जनयन्ति । परस्परम् उपकुर्वन्ति परस्परं स्विकुर्वन्ति । एते परस्परं संयुक्ताः तिष्ठन्ति । तैलदीपवर्तिकाः मिलित्वा यथा प्रकाशरुपं त्रयं सम्पादयन्ति तथैव एते त्रयः गुणाः विचित्रां सृष्टिः रचयन्ति । अत एव उक्तं -

प्रदीपवत् चार्थोतो वृत्ति इति

एतेषां गुणानां विषये एवमुच्यते सांख्याचायैः -

'प्रीत्यप्रीतिविषादात्मकाः प्रकाशप्रवृत्तिनियमार्थाः ।

अन्योन्याऽभिभवाऽऽश्रयजननमिथुनवृत्तयश्च गुणाः

एतत् गुणत्रयं प्रत्येकेऽस्मिन् सुख-दुःखमोहभावं च जनयति । यथा सत्त्वगुणप्रतीकभूता सुन्दरी नारी स्वपत्युः सुखं जनयति, सपत्न्याः कृते दुःखं जनयति, कामीपुरुषाणां कृते च मोहं जनयति । एवमेव रजगुणः प्रतीक भवति कश्चित् वीरः स्ववीरत्वप्रदर्शनेन स्वजनानां सुखं जनयति, शतृणां कृते दुःखं जनयति अन्येषां च कृते मोहं जनयति । एवमेव तमोगुणप्रतीकभुतः मेध उष्ण पिडितान् सन्तोषयति । कृष्णकान् क्रियासु प्रवर्तयति, विरहिजनान् दुःखी करोति ।

सत्त्वगुणःश्वेतः, अमृतमयःसुखदश्च भवति । रजोगुणः रक्तः दुःखदश्च भवति । तमोगुणः कृष्णः विषमयः, मोहदश्च भवति । सत्त्वगुणस्य अधिकया मानवः ज्ञानी भवति । रजोगुणस्याधिक्यात् मानवः अत्यन्तक्रियाशीलः भवति । तमोगुणस्याधिक्यात् आलस्य परायणः कर्त्तव्यविमूढ भवति ।

एतेषां गुणानां कारणात् पुरुषाणां ज्ञाने प्रवृत्तौ लक्षणं दृश्यते । गुणानाम् एतेषां कार्य्यं महदारभ्य पथिव्यान्तं यावत् कार्याणां पृथिव्यादीनां धटादिरूपेण परिणामः विद्यते । घटादयः चक्षुरादिषु गृह्यन्ते शब्दादयः श्रोत्रादिविषयत्वात् गुणानां परमरूपं प्रधान अव्यक्तं प्रकृति वा । एतदुक्तं शास्त्रकारैः -

गुणानां परमं रूपं न दृष्टिपथमर्हति ।

'यत्तु दृष्टिपथं याति तं मायेव सुतुच्छकम् ॥