सर्वे शब्दाः परमात्मनः एव वाचकाः।– स्पष्टीकुरुत।

सर्वे शब्दाः परमात्मनः एव वाचकाः।– स्पष्टीकुरुत।

रामानुजमते सर्वे शब्दाः परमात्मवाचकाः सन्ति।तदर्थम् एषा उपपत्तिः तेन दत्ता –
देवदत्तः इति शब्दः देवदत्तस्य देहमात्रस्य वाचकः नास्ति।देवदत्तदेहप्रकारक-तदभिमानिजीवविशेष्यक-सङ्घातस्य वाचकः अस्ति इति लोके मान्यम्। अनया एव युक्त्या सः शब्दः देवदत्ताभिमानिजीवप्रकारक-तदन्तर्यामीशविशेष्यक-सङ्घातस्य अपि वाचकः भवति।

एवं घटः पटः इत्यादयः सर्वे अचित्पदार्थवाचकाः शब्दाः अपि तदभिमानिनः चित्पदार्थस्य, तदन्तर्यामिणः ईशस्य च वाचकाः भवन्ति।

आक्षेपः
यदि घटः अपि परमात्मवाचकः शब्दः, पटः अपि परमात्मवाचकः शब्दः तर्हि घटपटौ पर्यायौ जातौ।
रामानुजमते उत्तरम्
न एवं भवति, द्वारभेदात्।घटः इति शब्दः घटपदार्थद्वारा परमात्मवाचकः भवति।पटः इति शब्दः पटपदार्थद्वारा परमात्मवाचकः भवति।अतः तौ मिथः पर्यायौ न भवतः।
तस्मात् घटपटादयः सर्वेशब्दाः घटपटादीनां प्रकाराणां, तदभिनानिनां जीवानां तथा तदन्तर्यामिणः ईशस्य च वाचकाः भवन्ति।

सर्वदर्शनसङ्ग्रह-प्रश्नोत्तराणि     सर्वदर्शनसङ्र्लहे रामानुजमतम्