सर्वाङ्गसुन्दराविवृतौ सूत्रस्थाने अध्याय: ४

मूत्रजेषु च पाने च प्राग्भक्तं शस्यते घृतम् |
जीर्णान्तिक चोत्तमया मात्रया योजनाद्वयम अवपीडकमेतच्च संज्ञितम् || अ.हृ.सू ४ /६-७
सर्वाङ्गसुन्दरापदपाठः
मूत्ररोधजेषु पुनः प्रारग्भक्तं भोजनात् पूर्व घृतं च शस्यते | कथम् ? उत्तमया मात्रया , अहोरात्र - जरणलक्षणया | योजनाद्वयम एतद् अवपीडकसंज्ञितम् , अवपीडकम् उच्चते | योजनयो: द्वयं योजनाद्वयम | प्राग्भक्तस्नेहयोजना जीर्णान्तिक स्नेहयोजना च | तत्र प्राग्भक्तं यत्र घृतपानसमनन्तरं भक्तं भुज्यते , जीर्णान्तिक यत् हयस्तने अन्ने जीर्णे घृतं प्रयुज्यते | प्रदेशान्तरेषु अवपीडकशब्देन योजनाद्वयम एतद् अस्मिन् तन्त्रे वेद्यम् | तथा च वक्ष्यति (हृ.चि.८/१ २ ४ ) रसै: कोष्णैश्च सर्पिभिर्र: अवपीडकयोजितै: | इति | तथा अष्टाङ्गवतारे मूत्रोदावर्त-चिकित्सायाम् `अवपीडक-सर्पि: च विशेषात् मूत्रजे गदे `` इति |
ननु वेगधारणेन बाहुल्येन मरुत: एव कोप:| तथा च वक्ष्यति (अस्मिन् एव अध्याये श्लो २३ ) " ततः च अनेकधा प्रायः पवन: यत् प्रकुप्यति " इति | पवनविजये च तैलं यथा वरं , न तथा घृतम् | अतः तैलस्य एव अवपीडकयोजनम् अत्र उचितम्,न सर्पिष:| अत्र उच्चते - तैलस्य वातजित: अपि बध्दविट्कम -अल्पमूत्र -स्वभावात अत्र अयोग्यं पानम् | तथा च वक्ष्यति ( हृ.सू.अ.५/५५ )
"तैलं स्वयोनिवत्" इति आरभ्य "बध्दविट्कम" इति | स्वयोनिवत् इति उक्ते: च अल्पमूत्रत्वम् | तथा च वक्ष्यति (अ.हृ.सू. ६/२१) "उष्ण: त्वच्य: हिम: स्पशे केश्य: बल्य: तिल: गुरु:|अल्पमूत्र: "इति | तद् एवं तैलस्य बध्दविट्क -अल्पमूत्र -स्वभावतया तदिय: अवपीडक: मूत्ररोधोत्थेषु रोगेषु औषधत्वेन न युक्त: अपि तु सर्पिष: एव युक्त: |

धारणात्पुनः॥ अ.हृ.सू.४.७ ॥उद्गारस्यारुचिः कम्पो विबन्धो हृदयोरसोः ।
आध्मानकासहिध्माश्च हिध्मावत्तत्र भेषजम् ॥ अ.हृ.सू.४.८ ॥
सर्वाङ्गसुन्दरापदपाठः
पुनः इति व्यतिरेके । उद्गारस्य धारणात् अरूचि-आदयः भवन्ति । उरो - वक्षः, तस्य अधः हृदयम्, तयोः विबन्धः –अन्तस्तम्भः इव । तत्र - तेषु रोगेषु , हिध्मावद् भेषजम् – श्वासहिध्मा-चिकित्सिते हिध्मायाः चिकित्सितं वक्ष्यति ।

अङ्गभङ्गारुचिग्लानिकार्श्यशूलभ्रमाः क्षुधः।१२ तत्र योज्यं लघु स्निग्धमुष्णमल्पं च भोजनम् ॥ अ.हृ.सू. ४.१३
सर्वाङ्गसुन्दरापदपाठः
क्षुध इति - निग्रहाद् इति अनुवृत्तिः, निग्रह अपेक्षया षष्ठी ।एवं निद्राया इति अत्र अपि योज्यम् । क्षुधो - बुभुक्षायाः ,निग्रहात् अङ्गभङ्गादयः षट् भवन्ति । सामान्येन अपि शूलशब्दनिर्देशे पक्वाशयगतः शूलो गृह्यते।क्षुद् वेग निग्रहेण निर आवरणः प्रभञ्जनः कुप्यति । तस्य च स्थानं पक्वाशयः ।वक्ष्यति हि ( हृ. सू. अ. १२/१ ) –‘पक्वाशयकटी’ इति आरभ्य यावत् ‘पक्वाधानं विशेषतः’ इति ।तत्र - क्षुत्-निग्रहे, भोजनं लघु स्निग्धम् उष्णम् अल्पम् च योज्यम् ।

शोषाङ्गसादबाधिर्यसंमोहभ्रमहृद्गदाः॥ अ.हृ.सू. ४.११॥तृष्णाया निग्रहात्तत्र शीतः सर्वो विधिर्हितः
सर्वाङ्गसुन्दरापदपाठः
तृष्णायाः निग्रहात्-निरोधात्,शोष-आदयो भवन्ति।तत्र-तृष्णायाः रोधजेषु विकारेषु,सर्वः शीतः विधिः–स्नान-अन्नपान-आदिकः हितः।

शिरोर्तीन्द्रियदौर्बल्यमन्यास्तम्भार्दितं क्षुतेः।तीक्ष्णधूमाञ्जनाघ्राणनावनार्कविलोकनैः॥
प्रवर्तयेत्क्षुतिं सक्तां स्नेहस्वेदौ च शीलयेत् । अ.हृ.सू. ४.९/१०
सर्वाङ्गसुन्दरापदपाठः
क्षुतेः - क्षवथोः,धारणात्-शिरः-अर्ति-आदयः स्युः।दुर्बलस्य भावः दौर्बल्यम्, गुणवचन-इत्यदिना ष्यञ्। इन्द्रियाणां दर्शन-आदीनां. दौर्बल्यं-विषयग्रहण-अशक्तित्वम्, इन्द्रियदौर्बल्यम् । अर्दितं - वातव्याधिनिदाने वक्ष्यते ।

क्षुतिं सक्तां - अप्रवर्तमानां , तीक्ष्णधूमादिभिः प्रवर्तयेत् । तीक्ष्णधूमः - धूमपानविधौ वक्ष्यते । तीक्ष्णं च अञ्जनं अक्षिरोगेषु । तीक्ष्ण-आघ्राणं - यत् नासया मरिचादिग्रहणम् । तीक्ष्णं नावनं -नस्यविधौ वक्ष्यति । स्नेहश्च स्वेदश्च तौ च शीलयेत् -अभ्यस्येत ।क्षुतिं - क्षुतम् । सुश्रुते च उक्तम् (शा.अ. ४/५० टीकायाम्) ‘प्राणोदानौ समौ स्यातां मूर्ध्निं स्रोतःपथे स्थितौ।नस्तः प्रवर्तते शब्दः क्षुतं तत् च विनिर्दिशेत्॥’ इति

निद्राया मोहमूर्धाक्षिगौरवालस्यजृम्भिकाः।अङ्गमर्दश्च तत्रेष्टः स्वप्नः संवाहनानि च।
सर्वाङ्गसुन्दरापदपाठः
निद्रायाः निग्रहात् मोह-aaआदयः भवन्ति।तत्र निद्रा-वेग-रोधोत्थे विकारे स्वप्नः इष्टः।संवाहनानि स्वल्पानि मर्दनानि च।

कासस्य रोधात्तद्वृद्धिः श्वासारुचिहृदामयाः ।शोषो हिध्मा च कार्योऽत्र कासहा सुतरां विधिः॥अ.हृ.सू.४.१३,१४
सर्वाङ्गसुन्दरापदपाठः
कासस्य कासवेगस्य ।रोधात् तद्वृद्धिः।तस्य कासस्य ।वृद्धिः आधिक्यं स्यात्। तथा श्वास-आदयः।तत्र कासहा कासचिकित्सित-उक्तः सुतराम् अतिशयेन विधिः कार्यः।

गुल्महृद्रोगसंमोहाः श्रमश्वासाद्विधारितात्।हितं विश्रमणं तत्र वातघ्नश्च क्रियाक्रमः।। अ.हृ.सू.४
सर्वाङ्गसुन्दरापदपाठः
श्रमेण - अध्वव्यायाम आदिना साहसेन, सद्यो जातः श्वासः श्रमश्वासः । तस्माद् विधारितात् – तद्-वेगरोधात् ,गुल्म-आदयःस्युः।तत्र विश्रमणं हितम् । वातघ्नश्च क्रियाक्रमो हितः ।

सर्वाङ्गसुन्दराविवृतौ सूत्रस्थानम्