सरसिजम् अनुविध्दं..... आकृतीनाम् ॥१.२० ॥
सरसिजमनुविध्दं शैवलेनापि रम्यं
मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति ।
इयमधिकमनोज्ञा वल्कलेनापि तन्वी
किमिव हि मधुराणां मण्डनं नाकृतीनाम् ॥१.२० ॥
पदच्छेदः-
सरसिजम् अनुविध्दं शैवलेन अपि रम्यं
मलिनम् अपि हिमांशोः लक्ष्म लक्ष्मीं तनोति ।
इयम् अधिकमनोज्ञा वल्कलेन अपि तन्वी
किम् इव हि मधुराणां मण्डनं न आकृतीनाम् ॥१.२० ॥
अन्वयः-
शैवलेन अनुविध्दम् अपि सरसिजं रम्यम्।मलिनम् अपि लक्ष्म हिमांशोः लक्ष्मीं तनोति । वल्कलेन अपि इयं तन्वी अधिकमनोज्ञा।हि मधुराणाम् आकृतीनाम् किम् इव मण्डनं न ?१.२० ॥
सन्दर्भः-
सरलार्थः-
शैवलेन परिवृतं भवति चेदपि कमलं रम्यम् एव भासते।चन्द्रकलङ्कः मलिनः अस्ति चेदपि चन्द्रस्य शोभां वर्धयति एव।एषा सुन्दरी वल्कलेन अपि अधिकमनोज्ञा दृश्यते।यतो हि सुन्दरशरीराणां किं वस्तु भूषणं न भवति?१.२०
वृत्तम् –
मालिनी
अभिज्ञानशाकुन्तले प्रथमाङ्के पद्यानि अभिज्ञानशाकुन्तले मालिनी-वृत्तनिबद्धानि पद्यानि अधरः ..... सन्नध्दम् ॥१.२१॥