सन्ध्यधिकरणम्
सन्ध्ये सृष्टिराह हि।३.२.१
निर्मातारं चैके पुत्रादयश्च।३.२.२
पूर्व.-अपि चैके शाखिन: अस्मिन् सन्ध्ये स्थाने आत्मानं कामानां निर्मातारम् आमनन्ति- ‘य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाण:’ (कठो.५.८)।अत्र काम्यन्ते इति कामा: इत्यनया व्युत्पत्त्या पुत्रादयो विषया: कामशब्देनाभिधीयन्ते।
वेदान्तपक्ष:-ननु कामशब्दस्य अर्थ: इच्छाविशेष: ।
पूर्व.- न। प्रकृते पुत्रादिष्वेव कामशब्दस्य प्रयोग: कृत: श्रुत्या यतो हि -
१शतायुष: पुत्रपौत्रान् वृणीष्व (कठ.१.२३)इति प्रकृत्य अन्ते
२ कामानां त्वा कामभाजं करोमि(कठ.१.२४) इत्युपसंहार: कृत:।तस्मात् तथ्यरूपा एव सन्ध्ये सृष्टि:।
मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात्।३.२.३
वेदान्ती- तुशब्द: पूर्वपक्षव्यावर्तक:।सन्ध्ये सृष्टि: पारमार्थिकी इति पूर्वपक्षेण यदुक्तं, तद् न इत्यर्थ:।कार्त्स्न्येन अनभिव्यक्तस्वरूपत्वात् इति हेतु:।स्वप्ने पदार्थानां कार्त्स्न्येन परमार्थवस्तुधर्मेण अभिव्यक्ति: नास्ति अत: स्वप्नसृष्टि: मायामात्रमिति सूत्रस्याशय:।
पू.- किं नाम कार्त्स्न्यम् अत्राभिप्रेतम्?
वे.-देशसम्पत्ति: कालसम्पत्ति: निमित्तसम्पत्ति: अबाध: चेति सर्वमेतदत्र कार्त्स्न्यशब्देन अभिप्रेतम्।तेन स्वप्ने देशसम्पत्ति: नास्ति, कालसम्पत्ति: नास्ति, निमित्तसम्पत्ति: नास्ति, अबाध: नास्ति (बाध: अस्ति) इति एवं पदार्थानां स्वरूपम् अनभिव्यक्तं विद्यते।अत: सा सृष्टि: मिथ्या।
पू.- स्वप्ने देशसम्पत्ति: नास्तीत्युक्ते किम्?
वे.-परमार्थवस्तुविषय: य: देश: स: स्वप्ने न सम्भवति अत: स्वप्ने देशसम्पत्ति: नास्तीति उच्यते।स्वप्ने यान् रथादीन् पश्यति, ते पदार्था: संवृते देहदेशे न सम्भवन्ति।
पू.-तर्हि स्वप्नं देहाद् बहि: पश्यतीति मन्तव्यम्।तदर्थं श्रुतिप्रमाणमपि विद्यते-‘बहिष्कुलायादमृतं चरित्वा स ईयते अमृतो यत्र कामम्(बृ.४.३.१२)अस्मिन्वचने स्थितिगतिप्रत्यय: भवति।स्वप्नद्रष्टा देहाद् निष्क्रामति चेदेव ‘बहिश्चरित्वा’ इति एतादृशं प्रतिपादनं समञ्जसं भवति।अत: देहाद् बहि: स्वप्नस्य देशसम्पत्ति: सम्भवति।
वे.- न।जन्तो: स्वप्नकाले देहाद् बहिर्गमनं युक्तियुक्तं न प्रतिभाति यतो हि-
१ क्षणमात्रेण योजनाशतं गन्तुं पुनरागन्तुं च जन्तो: सामर्थ्यं नास्ति।
२ क्वचिज्जन्तु: प्रत्यागमनवर्जितं स्वप्नं पश्यति।स्वप्ने देशान्तरं गच्छति परं न प्रत्यागच्छति।तदा प्रबुद्धे सति स: शयनदेशे एव आत्मानमनुभवति।
३ येन देहेन स्वप्ने देशान्तरे सञ्चरति, स: देह: शय्यायामेव पार्श्वस्थजनै: अवलोक्यते।
४ जन्तु: स्वप्ने यथाभूतानि देशान्तराणि पश्यति, तानि तथाभूतानि एव सन्तीति न।
५ श्रुति: देहान्तर्गतमेव स्वप्नमुपदिशति- ‘स यत्रैतत्स्वप्नया चरति’ इत्युपक्रम्य ‘स्वे शरीरे यथाकामं परिवर्तते’ (बृ.२.१.१८) इति।
६ एवं श्रुत्या सह विरोधात् बहिष्कुलायश्रुति: गौणी मन्तव्या।बहिरिव कुलायादमृतश्चरित्वा इति तत्रार्थो ग्राह्य:।अतश्च स्थितिगतिप्रत्ययोऽपि विप्रलम्भ: एव मन्तव्य:।
पू.-स्वप्ने कालसम्पत्ति: नास्ति इत्यस्य को वार्थ:?
वे.- मुहूर्तमात्रं सुप्त: क्वचित् बहुवर्षात्मकं कालं स्वप्ने यापयति।अयमेव कालविसंवाद:।
पू.- निमित्तसम्पत् स्वप्ने नास्तीति उक्तं , तस्यार्थ: क:?
वे.-कर्मण: निमित्तानि, बोधस्य निमित्तानि च स्वप्ने न सन्ति।स्वप्ने सर्वेषां करणानाम् उपसंहारो विद्यते।थेन रथादिज्ञानाय चक्षुरादीनां करणानां स्वप्ने अभाव: एव।रथादिनिर्माणर्थं दारूणि निमित्तेभूतानि।तान्यपि स्वप्ने न सन्ति, न च निर्माणोचित: काल: लभ्यते।अत: स्वप्ने निमित्तसम्पत् नास्तीति उच्यते।
पू.-स्वाप्नपदार्थानां बाध: भवतीत्यस्य आशय: क:?
वे.- स्वप्ने दृष्टा: पदार्था: प्रबोधे बाध्यन्ते।किञ्च स्वप्नेऽपि ते बाध्यन्ते।वृक्ष: क्षणेन गज: भवति, गज: क्षणेन खग: भवति इति स्वप्नेऽपि बाध: स्वाप्नपदार्थानाम्।
सन्ध्ये रथादीनां पदार्थानामभाव: श्रुत्यापि प्रतिपादित:- न तत्र रथा रथयोगा न पन्थानो भवन्ति।(बृ.४.३.१०) अत: मायामयं स्वप्नदर्शनम्।
सूचकश्च हि श्रुते: आचक्षते च तद्विद:।३.२.४
पूर्वपक्ष:- स्वप्नो यदि मायामय:, तर्हि तत्र परमार्थगन्धोऽपि नास्ति वा?
वेदान्तपक्ष:- स्वप्न: परमार्थसूचक: भवति।तथा हि श्रूयते-
१ यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति।समृद्धिं तत्र जानीयात् तस्मिन् स्वप्ननिदर्शने॥(छा.५.२.९)
२ पुरुषं कृष्णं कृष्णदन्तं पश्यति, स एनं हन्ति।
स्वप्नविद: आचक्षते च ‘स्वप्ने कुञ्जरारोहणादीनि धन्यानि,खरयानादीनि अधन्यानीति। एवं केचन स्वप्ना: यथार्थगन्धिन: भवन्ति।
पू.प.- एवं चेत् स्वप्न: मायामय: इति किमर्थं मन्तव्यम्?
वेदान्तपक्ष:- सूच्यमानस्य वस्तुन: सत्यत्वं भवतु।सूचकस्य तु स्त्रीदर्शनादे: वैतथ्यम् एव, बाध्यमानत्वात्।अत: स्वप्न: मायामय: इत्युपपन्नम्।
पू.प.- परं सन्ध्ये सृष्टि: इति श्रुतिरेवाह हि ‘अथ रथान्रथयोगान, पथ: सृजते इति (बृ.४.३.१०)
वे.- तद्वचनं भाक्तम्।यथा ‘लाङ्गलं गामुद्वहति’ इति वचनम्।न तु प्रत्यक्षमेव लाङ्गलं गामुद्वहति।तथापि लाङ्गलं गवादे: उद्वहनस्य निमित्तं भवतीत्यत: लाङ्गलं गामुद्वहतीति प्रयोगो भवति।
एवमेवात्र सुप्त: साक्षाद्रथादीन न सृजति।स च निमित्तमात्रं भवति।अत: ‘स: कर्ता’ इति उच्यते।
पू.प.- स्वप्नसृष्टौ सुप्तस्य निमित्तत्वं कथम्?
वे.-
१ रथादीनां प्रतिभानं सुप्तस्य भवति।
२ तत: हर्षखेदौ सुप्तस्य भवत:।
३ तयो: निमित्तभूते सुकृतदुष्कृते सुप्तस्य भवत:।
अत: सुप्तस्य निमित्तत्वम्।अत: ‘अथ रथान्रथयोगान्पथ: सृजते’ इति रथादिसृष्टिवचनं भक्त्या तथा ‘न तत्र रथा न रथयोगा न पन्थानो भवन्ति’ इति सृष्ट्यभाववचनं श्रुत्या व्याख्यातव्यम्।
पू.प.- उभे अपि श्रुतिवचने।अन्यस्य व्याख्यानं श्रुत्या अन्यस्य भक्त्या इत्यत्र का वा विनिगमना?
वे.-आत्मा स्वयंज्योति: अस्तीति अत्र विवेचनमधिकृतम्।एतच्च विवेचनं प्रबोधनकाले दुष्करं यतो हि विषया:, इन्द्रियाणि, तेषां संयोग:, सूर्यप्रकाश: इत्यादीनि नैकानि ज्ञानोपकरणानि प्रबोधकाले उपस्थितानि सन्ति।अत: एतै: उपकरणै: रहित: स्वप्न: आत्मन: स्वयंज्योति:स्वरूपं वर्णयितुम् उपन्यस्त:।इदानीं तत्रापि रथादीनां सृष्टिं श्रुत्या अङ्गीकुर्म: चेत् आत्मन: स्वयंज्योतिष्ट्वं पुनं अनिर्णीतं स्यात्।अत: प्रकृते सृष्टिवचनं भक्त्या, सृष्ट्यभाववचनं श्रुत्या व्याख्येयम्।
पू.प.-प्राज्ञं निर्मातारमेके शाखिनः आमनन्ति – य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः (कठ.५.८) इति तस्य का गतिः ।
वेदा.- य एष निर्माता अत्र उक्त:,स: प्राज्ञ: इत्यत्र किं प्रमाणम्?
पू.प.- प्रकरणं वाक्यशेषश्चात्र प्रमाणम्।एतत् प्रकरणं (कठ.२.१४)प्राज्ञस्य।वाक्यशेषश्च एवम्- ‘तदेव शुक्रं तद् ब्रह्म, तदेवामृतमुच्यते।तस्मिंल्लोका: श्रिता: सर्वे तदु नात्येति कश्चन॥(कठ.५.८)।प्राज्ञकर्तृका जागरिता सृष्टि: तथ्यरूपा समधिगता।अत: तनैव कृता स्वप्नाश्रया सृष्टिरपि तथ्यरूपा भवितुमर्हति।
वे.-नैतदुचितम्।श्रुत्यन्तरे एवमुक्तम्- ‘स्वयं विहत्य स्वयं विनिर्माय स्वेन भासा स्वेन ज्योतिषा प्रस्वपिति।(बृ.४.३.९)
अत्र य एष सुप्तेषु जागर्ति (कठ.५.८) तस्यैव प्रसिद्धस्यानुवादात् जीव एव कामानां निर्माता, न तु प्राज्ञ:।
अपरं च अस्माभि: स्वप्ने प्राज्ञव्यापार: न प्रतिषिध्यते, तस्य सर्वासु अवस्थासु अधिष्ठातृत्वात्।तत्कृत: सन्ध्याश्रय: सर्ग: वियदादिसर्गवत् न पारमार्थिक: एतावदेवोच्यते।
पू.प.-तर्हि वियदादिसर्ग: पारमार्थिक: वा?
वे.-वियदादिसर्गोऽपि न आत्यन्तिक: पारमार्थिक:।तदनन्यत्वमारम्भणशब्दादिभ्य: (ब्र.सू.२.१.१४)इत्यत्र तथा उक्तम्।अत: समस्तस्य प्रपञ्चस्य मायामयत्वमेवाभिमतम्।
पू.प.- यदि जागरिताश्रय: प्रपञ्च: अपि मायामय:, सन्ध्याश्रय: प्रपञ्चोऽपि मायामय: तर्हि किं वैलक्षण्यमुभयो:?
वे.- ब्रह्मात्मैक्यसाक्षात्कारात् पूर्वं वियदादि: जागरिताश्रय: प्रपञ्च: व्यवस्थितरूप: अनुवर्तते।साक्षात्कारात्पूर्वं सन्ध्याश्रय: प्रपञ्च: प्रतिदिनं बाध्यते।एतदेव सन्ध्यस्य वैलक्षण्यम्।अत: एव तस्य पृथङ् मायामयत्वं प्रोक्तम्।
पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ।३.२.५
पू.प.- अग्ने: विस्फुलिङगा: तस्य अंशा:।तथैव आत्मनोंऽशा: जीवा:।अत: या आत्मनो ज्ञानशक्ति:, सैव जीवस्य।यात्मन: ऐश्वर्यशक्ति:, सैव जीवस्य।एवं स्थिते जीवस्य साङ्कल्पिकी रथादिसृष्टि: सम्भवति।
वे.- न।यद्यपि जीव: परमेश्वरस्य अंश: तथापि प्रत्यक्षं जीवस्य ईश्वरविपरीतधर्मत्वं दृश्यते।
पू.प.- तर्हि जीवेश्वरयो: समानधर्मत्वमस्ति अथवा नास्ति?
वे.-अस्ति, तथापि जीवस्य ईश्वरसमानधर्मत्वं तिरोहितं वर्तते, अविद्याव्यवधानात्।तच्च तिरोहितम् ईश्वरसामर्थ्यं परस्यात्मन: अभिध्यानात् कस्यचिदेव आविर्भवति, न सर्वेषाम्।
पू.प.- ईश्वराभिध्यानाद् जीवस्य ईश्वरसाधर्म्यम् आविर्भवतीत्यत्र किं प्रमाणम्?
वे.- तत: ईश्वरादेव अस्य जीवस्य बन्धमोक्षौ भवत: इति श्रुति: अत्र प्रमाणम्।‘ज्ञात्वा देवं सर्वपाशापहानि: क्षीणै: क्लेशै: जन्ममृत्युप्रहाणि:।तस्याभिध्यानात् तृतीयं देहभेदे विश्वैश्वर्यं केवल आत्मकाम: (श्वेता.१.११) इति ईश्वरस्वरूपस्य ज्ञानान्मोक्ष:, तत्स्वरूपस्य अज्ञानाद् बन्ध:।
देहयोगाद्वा सोऽपि।३.२.६
पू.प.-वह्ने: विस्फुलिङगम् अंश:।विस्फुलिङ्गे दहनप्रकाशनशक्ती विद्येते।यदि जीव: ईश्वरस्यांश:, तर्हि तस्मिन् ज्ञानैश्वर्यशक्ती भवितुमर्हत:।
वे.- तथापि न भवत:, देहयोगात्।देहेन्द्रियबुद्धिविषयवेदनादियोगात् जीवस्य ज्ञानैश्वर्यादे: तिरोभाव: भवति।यथा दहनप्रकाशनक्षमोऽप्यग्नि: यदा अरणिगतो भवति, तदा तस्य दहनप्रकाशनशक्त्यो: तिरोभाव: भवति तथैवात्रापि।
पू.प.- तर्हि अन्य एव जीव: ईश्वराद् इति मन्तव्यम्।तिरस्कृतज्ञानैश्वर्यत्वात्।किं देहयोगकल्पनया?
वे.-एतां शङ्कां निराकर्तुं ‘वा’ इति पदं सूत्रे विद्यते।
१ जीवस्य ईश्वरादन्यत्वं नोपपद्यते, आत्मशब्देन जीवस्य देवतया परामर्शात्- ‘अनेन जीवेनात्मना अनुप्रविश्य’ (छा.६.३.२) इति वचने जीवस्य आत्मशब्देन परामर्श: कृत:।
२ तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो इत्युपदेशोऽपि जीवाय ईश्वरात्मत्वम् उपदिशति।अत: जीव: ईश्वरादनन्य:।तथापि स देहयोगात् तिरोहितज्ञानैश्वर्य: भवति।
स्वप्ने जीवस्य साङ्कल्पिकी सृष्टि: नास्तीत्यत्र अपरापि युक्ति: अस्ति।
पू.प.- सा का?
वे.- जीवस्य स्वाप्नसृष्टि: यदि साङ्कल्पिकी तर्हि अनिष्टं स्वप्नं कोऽपि न पश्येत्।न हि कश्चिद् अनिष्टं सङ्कल्पते।
पू.प.प्राज्ञकर्तृका जागरिताश्रया सृष्टि: तथ्यारूपा तथैव स्वप्नाश्रयापि सृष्टि: भवितुमर्हति। तथा च श्रुति: अपि विद्यते-अथो खल्वाहु: जागरितदेश एव अस्यैष इति यानि ह्येव जाग्रत्पश्यति तानि सुप्त:।(बृ.४.३.१४)
वे.- एतत् साम्यवचनं न सत्यत्वाभिप्रायम्-
१ स्वयंज्योतिष्ट्वविरोधात्
२ श्रुत्यैव च रथाद्यभावस्य दर्शितत्वात्।
पू.प.- तर्हि किमभिप्रायमेतद्वचनम्?
वे.- ‘जागरिततुल्यनिर्भासत्वं स्वप्नस्य’ इत्येतेन अभिप्रायेण तत्साम्यं व्याख्येयम्।यतो हि जागरितप्रभववासनानिमित्ता सन्ध्ये सृष्टि:।
तृतीयाध्याये द्वितीय: पाद: ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम्