कार्यं कारणव्यापारात् पूर्वं विद्यते न वा इति प्रश्नः।न विद्यते इति नैयायिकाः।विद्यते इति साङ्ख्याः। कारणव्यापारात् पूर्वम् अपि ‘कार्यं सत्’ इति अयं पक्षः सत्कार्यवादः इति विख्यातः।

.....कारणभावाच्च सत्कार्यम्।सांका.९

कार्यं कारणे अव्यक्तरूपेण विद्यते।कार्यकारणयोः तत्त्वतः अभेदः अस्ति।कारणव्यापाराद् अनन्तरं तदेव कार्यं व्यक्तं भवति।कार्यं कारणस्वरूपमेव अस्ति अतः तत् कारणव्यापारात् पूर्वम् अपि सत् इति अस्याः कारिकायाः आशयः।अयमाशयः इतोऽपि स्पष्टतया साङ्ख्यदर्शने प्रतिपादितः -

कार्यकारणयोरभेदाच्च कारणात् पृथक् कार्यस्य सत्त्वं न भवति।पटः तन्तुभ्यो न भिद्यते, तद्धर्मत्वात्...। -सर्वदर्शनसङ्ग्रहे साङ्ख्यदर्शनम्

आयुर्वेदे सत्कार्यावादस्वीकारः सम्पाद्यताम्

आयुर्वेदे'च अयं सत्कार्यवादः अनुमतः।कार्यकारणयोः तत्त्वतः अभेदः अस्ति इति अङ्गीकृतम्।एतम् अभेदम् आदाय कृतानि नैकानि वचनानि दृश्यन्ते यथा -

१ रोगस्तु दोषवैषम्यम्...।
सम्पाद्यताम्

रोगस्तु दोषवैषम्यम्...।अ.हृ.सू.१.२०
कार्यकारणयोरभेदेन पठितो रोगः इति।–अरुणदत्तः

प्रकृते दोषवैषम्यम् इति कारणम्।रोगः इति कार्यम्।अतः ‘रोगः दोषवैषम्यजः’ इति वस्तुतः वक्तव्यम्।तथापि कार्यकारणयोः अभेदः अनुमतः अतः कारणं दोषवैषम्यं तथा च कार्यम् रोगः इति एतयोः अभेदेन वचनं ग्रन्थकारेण कृतम्।सत्कार्यवादस्य अङ्गीकारे तादृशं वचनं न दुष्यति।

२ विकारो धातुवैषम्यम्.....॥ सम्पाद्यताम्

२विकारो धातुवैषम्यम्.....॥ च.सू.९.४
अत्र च धातुवैषम्येण कारणेनोपचारात्तत्कार्यज्वरादयोऽभिधीयन्ते, यतो धातुवैषम्यजो हि विकारो न धातुवैषम्यमात्रं, … ।-च.सू.९.४ चक्रपाणिः

अत्रापि तथैव।विकारः कार्यम्।धातुवैषम्यं कारणम्।तयोः अभेदम् मनसि कृत्वा एतद् वचनं मुनिना उक्तम्।

3 प्रज्ञापराधः सम्पाद्यताम्

३धीधृतिस्मृतिविभ्रष्टः कर्म यत् कुरुतेऽशुभम्।प्रज्ञापराधं तं विद्यात् सर्वदोषप्रकोपणम्॥च.शा.१.१०२॥

य़स्य धीः भ्रष्टा भवति, धृतिः भ्रष्टा भवति अथवा स्मृतिः भ्रष्टा भवति, सः नरः अशुभं कर्म आचरति।सः प्रज्ञापराधः।एषः सर्वदोषाणां प्रकोपं करोति।एषः सूत्रस्य अर्थः।
एवं बुद्धि-आदिभ्रंश-त्रयरूप-प्रज्ञापराध-जन्यं कर्म प्रज्ञापराधत्वेन दर्शयन् आह धी-इत्यादि। - च.शा.१.१०२ चक्रपाणिः

बुद्ध्या विषमविज्ञानं विषमं च प्रवर्तनम्।प्रज्ञापराधं जानीयात् मनसः गोचरं हि तत्॥च.शा.१.१०९॥

धीधृतिस्मृतिविभ्रंशः नाम प्रज्ञापराधः, तादृशविभ्रंशजन्यम् अशुभं कर्म अपि प्रज्ञापराधः।अत्र प्रज्ञापराधः इति संज्ञा मुख्यतः धीधृतिस्मवतिविभ्रंशस्य अस्ति।तस्याः कार्यम् अशुभं कर्म।तत्रापि प्रज्ञापराधसंज्ञा विहिता यतो हि कार्यकारणयोः तात्त्विकः अभेदः सम्मतः अस्ति।
एवं बहुत्र कार्यकारणयोः अभेदं मत्वा उक्तानि वचनानि श्रूयन्ते।तत्र सर्वत्र सत्कार्यवादस्य अङ्गीकारः एव कारणम्।

साङ्ख्यायुर्वेदयोः 
"https://sa.wikibooks.org/w/index.php?title=सत्कार्यवादः&oldid=7234" इत्यस्माद् प्रतिप्राप्तम्