श्रीरामचन्द्रचरणौ... शरणं प्रपद्ये

मूलम्
श्रीरामचन्द्रचरणौ मनसा स्मरामि ।श्रीरामचन्द्रचरणौ वचसा गृणामि ।
श्रीरामचन्द्रचरणौ शिरसा नमामि ।श्रीरामचन्द्रचरणौ शरणं प्रपद्ये ॥२९॥

पदच्छेदः
श्रीरामचन्द्रचरणौ मनसा स्मरामि ।श्रीरामचन्द्रचरणौ वचसा गृणामि ।
श्रीरामचन्द्रचरणौ शिरसा नमामि ।श्रीरामचन्द्रचरणौ शरणं प्रपद्ये ॥२९॥

अन्वयः
(अहं)श्रीरामचन्द्रचरणौ मनसा स्मरामि ।(अहं)श्रीरामचन्द्रचरणौ वचसा गृणामि । (अहं)श्रीरामचन्द्रचरणौ शिरसा नमामि ।(अहं)श्रीरामचन्द्रचरणौ शरणं प्रपद्ये ॥२९॥

सरलार्थः
(अहं)श्रीरामचन्द्रचरणौ मनसा स्मरामि ।(अहं)श्रीरामचन्द्रचरणौ वाण्या स्तौमि। (अहं)श्रीरामचन्द्रचरणौ शिरसा नमामि ।(अहं)श्रीरामचन्द्रचरणौ शरणं गच्छामि।२९॥

समासविग्रहः २९
श्रीरामचन्द्रचरणौ
श्रिया सहितः श्रीसहितः।... श्रीसहितः रामः श्रीरामः।...शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसङख्यानम्। (वार्तिकम्)

श्रीरामः चन्द्रः इव श्रीरामचन्द्रः।... उपमितं व्याघ्रादिभिः सामान्याप्रयोगे।२.१.५६
श्रीरामचन्द्रस्य चरणौ श्रीरामचन्द्रचरणौ।... षष्ठी।२.२.८


रामरक्षास्तोत्रम् - सान्वयं सार्थम्