मूलम्
श्मशानेष्वाक्रीडा स्मरहर पिशाचाः सहचराः।
चिता-भस्मालेपः स्रगपि नृकरोटी-परिकरः।।
अमङ्गल्यं शीलं तव भवतु नामैवमखिलं।
तथापि स्मर्तॄणां वरद परमं मङ्गलमसि।। २४।।

पदच्छेदः-
श्मशानेषु आक्रीडा स्मरहर पिशाचाः सहचराः।चिता-भस्म-आलेपः स्रग् अपि नृकरोटी परिकरः।।
अमङ्गल्यं शीलं तव भवतु नाम एवम् अखिलं।तथा अपि स्मर्तॄणां वरद परमं मङ्गलम् असि।। २४।।

अन्वयः
हे स्मरहर, श्मशानेषु आक्रीडा, सहचराः पिशाचाः ,चिता-भस्म-आलेपः, स्रग् अपि नृकरोटी परिकरः (इति) एवं तव अखिलं शीलं अमङ्गल्यं भवतु नाम ।तथा अपि हे वरद , (त्वं) स्मर्तॄणां परमं मङ्गलम् असि।। २४।।

सरलार्थः-
हे स्मरहर, (तव) क्रीडा श्मशानेषु भवति, (तव) सहचराः पिशाचाः सन्ति, (तव) आलेपः चिताभस्म भवति, (तव) माला अपि नरमुण्डैः रचिता ।एवं तव सर्वं वर्तनम् अमङ्गलम् अस्ति।तदस्तु।तथापि ये त्वां स्मरन्ति, तेषां त्वं मङ्गलम् एव करोषि॥२४

शिवस्तोत्राणि      शिवमहिम्न: स्तोत्रं सपदच्छेदान्वयार्थम्
"https://sa.wikibooks.org/w/index.php?title=श्मशानेष्वाक्रीडा...&oldid=6179" इत्यस्माद् प्रतिप्राप्तम्