शास्त्रयोनित्वात् इति सूत्रस्य मध्वमतेन .....
शास्त्रयोनित्वात् इति सूत्रस्य मध्वमतेन व्याख्यां कुरुत।
शास्त्रयोनित्वात् इति ब्रह्मसूत्रस्य प्रथमाध्याये प्रथमपादे तृतीयं सूत्रम्।एतस्मात् पूर्वतने सूत्रे (जन्माद्यस्य यतः।) ब्रह्मणः लक्षणम् उक्तम्।अत्र ब्रह्मसद्भावे प्रमाणम् उच्यते।
शास्त्रशब्देन अत्र वेदः ग्राह्यः।योनिः इति प्रमाणम्।शास्त्रं योनिः प्रमाणं यस्य तत् शास्त्रयोनि ब्रह्म।तस्य भावः शास्त्रयोनित्वम्।तस्मात् इति सूत्रार्थः।
ब्रह्मणः ज्ञानार्थं श्रुतिः इति एकमेव प्रमाणं विद्यते।प्रमाणान्तरं तत्र न सम्भवति इति मध्वमतम्।
ईश्वरः तावत् न प्रत्यक्षस्य विषयः, अतीन्द्रियत्वात्।
न्यायादिषु दर्शनेषु अनुमानेन तस्य सिद्धिः क्रियते यथा -
महार्णवादिकं सकर्तृकं,
कार्यत्वात्
घटवत्।
एतदनुमानं मध्वाचार्यैः स्वतन्त्रतया न अङ्गीक्रियते, स्वतन्त्रानुमानसाधितस्य अर्थस्य अनिश्चयात्। श्रुतिसाहाय्यम् अनुमानम् एव निश्चितार्थं साधयति।अतः श्रुतिसहायस्य अनुमानस्य एव अस्मिन् मते प्रामाण्यम्।
शास्त्रशब्देन मध्वमते एतद् अभिमतम् –
ऋग्यजुःसामाथर्वा च भारतं पाञ्चरात्रकम्।
मूलरामायणं चैव शास्त्रमित्यभिधीयते॥
तस्मात् यद्यपि अनुमानेन ईश्वरः सिद्ध्यति तथापि शास्त्रसहितस्य अनुमानस्य एव प्रामाण्याङ्गीकारः।अतः शास्त्रैकगम्यः ईश्वरः अस्मिन् मते।
सर्वदर्शनसङ्ग्रह-प्रश्नोत्तराणि सर्वदर्शनसङ्र्लहे माध्वमतम्