आशङ्का-शास्त्रयोनित्वात् इत्यस्य द्वितीयं वर्णकं किमर्थमारभ्यते?
उ.-
जन्माद्यस्य यत: इत्यत्र नैयायिकाद्यभिमतस्यानुमानस्य भ्रम: न स्यादिति वर्णकान्तरम् आरभ्यते।सिद्धान्तमते अनुमानेनेश्वरसिद्धि: न अभिमता, अपि तु श्रुतेरेव।
द्वितीयवर्णकस्य विषय:- तं त्वौपनिषदं पुरुषं पृच्छामि(बृ.३.९.२६)
विशय:- एतद्वाक्यं ब्रह्मण: वेदान्तमात्रगम्यत्वं प्रतिपादयति न वा?
पूर्वपक्ष:-न प्रतिपादयति।अनुमानेनापि ईश्वरसिद्धि: भवति।ईश्वरस्य ये कार्यप्रयोजका: गुणा: तै: कार्यलिङ्गकमनुमानं सम्भवति।केचन गुणा: कार्यप्रयोजका: न सन्तीति मान्यम्।तेषां सिद्धि: तावदुपनिषत्प्रमाणेन भवतु।न तेन आनुमानिकत्वस्य हानि: भवति।सगुणेश्वरस्य सिद्धि: तावत् तै: उपनिषद्वचनै: भविष्यति।यद् जिज्ञास्यं निर्विशेषं चैतन्यं, तस्य सिद्धिस्तु अनुमानेन भवत्येव। प्रत्यक्चैतन्यस्य प्रत्यक्षसिद्धत्वात् न तत्र श्रुति: अपेक्षिता।अनुमानेन निर्विशेषत्वस्य सिद्धि: अपि शक्या।
सिद्धान्त:- उदाहृता श्रुति: ब्रह्मण: उपनिषदेकगम्यत्वं प्रतिपादयितुं क्षमा। ईश्वरानुमानं,प्रपञ्चमिथ्यात्वानुमानं च शक्यं, तथापि प्रत्यनुमानेन प्रतितर्केण च तस्य बाध: सम्भवति।अत: श्रुतिगृहीतं प्रमाणमेव ब्रह्मसिद्धौ नितरामुपकारकम्।
वर्णकद्वयस्य सङ्क्षेपत: स्वरूपमेवम्-
१ ब्रह्म सर्वज्ञम् (शास्त्रस्य उपादानकारणमस्ति अत:)
२ ब्रह्म वेदान्तप्रतिपाद्यम् शास्त्रं प्रमाणमस्ति अस्य अत:।
आक्षेप:- प्रथमवर्णके शब्दयोनित्वात् इति हेतु: पर्याप्त:, यतो हि लौकिका वैदिकाश्च शब्दा: तावता गृहीता: भवन्ति।तेषां योनित्वेन सर्वज्ञत्वसिद्धि: भवति।
समा.- तथापि वेदनित्यत्ववादिनां शङ्का स्यादेव यद् लौकिकशब्दानां योनि: ब्रह्मास्तु, वैदिकशब्दानां तु न भविष्यति इति।तां शङ्कां निराकर्तुं ‘शास्त्रम्’ इति विशिष्टग्रहणमावश्यकम्। न तु ‘शब्दम्’ इति सामान्यग्रहणम्।
अपरं प्रयोजनं नाम द्वितीयवर्णकस्य सिद्धौ सौकर्यम्।द्वितीयवर्णके ‘शास्त्रं योनि: प्रमाणमस्य अत:’ इति हेतु:।तेन ब्रह्मण: उपनिषद्गम्यत्वम् अनायासेन सिद्ध्यति। ‘शब्दं प्रमाणम् अस्य’ इति हेतु: भवति चेत् पुन: उपनिषच्छब्द: प्रमाणमस्य इति साधनीयं भवति।अत: शास्त्रयोनित्वात् इत्येव हेतु: उचित:।
आक्षेप:-द्वितीयवर्णकमेवम्- ब्रह्म वेदान्तप्रतिपाद्यम्, उपनिषत्प्रमाणकत्वात्।अस्मिन् अनुमाने हेतु: साध्याविशिष्ट:।वेदान्तप्रतिपाद्यत्वं तथा उपनिषतप्रमाणकत्वमिति उभयो: अर्थ: समान:।
समा.- हेतु: सावधारण: मन्तव्य:।शास्त्रम् एव प्रमाणमस्य अत: इति अनेन हेतुना ब्रह्म प्रमाणान्तरगम्यं नास्तीत्यर्थो लभ्यते। अतः ‘शास्त्रयोनित्वात्’ इत्यस्य हेतोः ‘प्रमाणान्तरागम्यत्वात्’ इति पर्यवसानं भवति।यथा ‘अब्भक्षो मुनि:’ इत्यत्र ‘अम्मात्रभक्षो मुनि:’ इति सावधारणतया अर्थ: क्रियते।अन्यथा अन्येऽपि जना: आप: भक्षयन्ति एव। तेभ्य: मुने: वैलक्षण्यं न ज्ञायते।

न्यायरक्षामणिप्रश्नोत्तरसङ्ग्रह:
"https://sa.wikibooks.org/w/index.php?title=शास्त्रयोनित्वात्...२&oldid=5746" इत्यस्माद् प्रतिप्राप्तम्