प्र.-शास्त्रयोनित्वात् इति सूत्रं न्यायमणिकाररीत्या व्याख्यात।
सङ्गति:-
पूर्वतनसूत्रं जन्माद्यस्य यत:।तत्र जगत: कारणं ब्रह्म इति प्रतिपादितम्। तेन अर्थापत्त्या ‘ब्रह्म सर्वज्ञम्’ इति सिद्धम्।अस्मिन् सूत्रे वेदकारणत्वात् इति हेतुना ब्रह्मण: तदेव सर्वज्ञत्वं साध्यते।वेदानां नित्यत्वात् ब्रह्मण: सर्वकारणत्वं न सम्भवतीति आशङ्कापि निरस्ता भविष्यति।
आशङ्का-
वस्तुत: जिज्ञास्यं ब्रह्म निर्विशेषम्।मायाशबलितस्य जगत्कारणरूपस्य ब्रह्मण: सर्वज्ञत्वं किमिति आटोपेन साध्यते?
उ.-
जीवव्यावर्तनं स्थिरीकर्तुम्।पूर्वसूत्रे ‘अस्य’ इति पदेन वैविध्यपूर्णस्य जगत: कारणं जीवो न सम्भवतीति सूचितम्।जन्म आद्यस्य यत: इति सूत्रानुवृत्त्या हिरण्यगर्भस्य जगत्कारणत्वं निराकृतम्।तदेव जीवव्यावर्तनम् अत्र स्थिरं क्रियते- ‘ईश्वर: शास्त्रस्य योनि: इति वचनेन। आशङ्का-
तदर्थं वेदकारणत्वरूप: हेतु: किमर्थं दीयते? जगत्कारणत्वेन सर्वशक्तिमत्त्वं सिद्धम्।तेनैव जीवव्यावर्तनमपि सिद्ध्यति।
समा.-
वेदानां नित्यत्वमादाय ‘ईश्वरे सर्वज्ञत्वस्य असम्भव:’ इति शङ्काया: निरास: अपि अनेन भविष्यति।एतमानुषङ्गिकं लाभं मनसि कृत्वा ईश्वरस्य वेदकारणत्वमत्र उच्यते।
विषय:-
अस्य महतो भूतस्य नि:श्वसितमेतद् यदृग्वेदो यजुर्वेद: सामवेद: (बृ.२.४.१०)
विशय:-
वाक्यमिदं ब्रह्मण: वेदकारणत्वेन सर्वज्ञत्वं साधयति न वा?
पूर्वपक्ष:-
न साधयति।वेद: ब्रह्मकर्तृक: मत: चेत्-
१ वेदस्य अपौरुषेयत्वप्रसङ्ग:।
२अथापि वेदस्य ब्रह्मकर्तृकत्वम् अङ्गीकृतं चेदपि ब्रह्म वेदशक्तिकं, वेदोपादानत्वात्। यद् यदुपादानं तत् तच्छक्तिकम् इति अनुमातुं न शक्यते।यतो हि ‘यद् यदुपादानं तत् तच्छक्तिकम्’ इति व्याप्तिरेव नास्ति।या शक्ति: कार्यस्य सैव शक्तिरुपादनस्य इति नियमेन नोपलभ्यते।घटे या जलाहरणधारणशक्तिर्विद्यते, सा घटोपादाने मृत्पिण्डे नास्ति।अत: ब्रह्मण: वेदोपादानत्वं सिद्धं चेदपि वेदवत् सर्वार्थप्रकाशकत्वं न सिद्ध्यति। ३ कथञ्चिद् वेदोपादानस्य ब्रह्मण: सर्वज्ञत्वं साधितं चेद् अज्ञत्वमपि ब्रह्मण: आपतति।यतो हि अज्ञ: वेद: सर्वार्थप्रकाशक:।तदुपादानभूतेऽपि सा ‘अज्ञत्वे सति सर्वार्थप्रकाशकत्वम्’ इति शक्ति: मन्तव्या।
४ अथापि ब्रह्मण: वेदकर्तृत्वं मतं चेदपि तस्य सर्वज्ञत्वं न सिद्ध्यति।यतो हि वेद: नदीवालुकादिसङ्ख्यादिकं न प्रकाशयति।अत: ब्रह्मणोऽपि तदप्रकाशकत्वं प्राप्तम्।तेन सर्वज्ञत्वं बाधितम्।
उत्तरपक्ष:-
ब्रह्म सर्वज्ञं, वेदकर्तृत्वात्।वेदकर्तृत्वरूपहेतुना ब्रह्मण: सर्वज्ञत्वं सिद्ध्यति।
१ अनेन वेदस्य अपौरुषेयत्वं न बाध्यते।पौरुषेयत्वं नाम सापेक्षत्वम्।अपौरुषेयत्वं नाम निरपेक्षत्वम्।तत्तु ईश्वरकृतेऽपि वेदे विद्यते तदेवम्-
ईश्वर: सामान्यलोकवत् अर्थमुपलभ्य वेदवर्णान् रचयति इति न।
ईश्वर: उपाध्यायवत् अन्यकृतं वेदं केवलमुच्चारयति इति न।
ईश्वर: पूर्वकल्पस्थवेदक्रममनपेक्ष्य कविवत् स्वतन्त्ररीत्या क्रमं विरचयति इति न।
ईश्वरस्तु स्वकृतेनैव क्रमेण पूर्वकल्पे कृतं वेदं करोति।अतीतानागतेषु कालेषु विद्यमानस्य वर्णस्वरक्रमस्य अनुसन्धानमीश्वरस्य विद्यते।एतच्च न मानान्तरात्। यतो हि तस्य अन्त:करणादिकं नास्ति।अनावृतस्वरूपचैतन्यबलात् यावत्स्वसंसृष्टप्रकाशवत् ब्रह्म इति सिद्ध्यति।
ईश्वरस्य वेदोपादानत्वे तस्य सर्वज्ञत्वं सिद्ध्यति।घटशक्ति: मृत्पिण्डे नास्ति यत: तत्र प्रतिबन्धकमस्ति।दीपगता प्रकाशशक्ति: तदुपादानभूते वह्नौ दृश्यते।अत: कार्योपादानयो: एकशक्तिकत्वम् औत्सर्गिकम्।घट-मृत्पिण्डादिषु स्थलेषु प्रतिबन्धक-सत्त्वात् तद् नास्ति।
दार्ष्टान्तिके वेदगतप्रकाशनशक्ते: तदुपादाने ब्रह्मणि सद्भाव: अङ्गीकार्य:, यतो हि तत्र प्रतिबन्धकं किमपि नास्ति।वेदगता प्रकाशनशक्ति: तदुपादानभूतब्रह्मण: इति ब्रह्मण: सार्वज्ञं सिद्ध्यति।
अथवा
कार्यगतशक्ति: तदुपादानगता इति प्रतिज्ञा नैव क्रियते।वेदगतसर्वार्थप्रकाशनशक्ति: तदुपादानगता इति विशिष्टा प्रतिज्ञा क्रियते। वेदगतसर्वार्थाप्रकाशनशक्ति: तदुपादानगता कार्यगतप्रकाशशक्तित्वात्। दीपगतप्रकाशशक्तिवत्।
अत्र अविद्यावरणनिवृत्त्यनुकूला शक्ति: प्रकाशनशक्तिरिति उच्यते।सा वेदेऽस्ति इति नाश्रयासिद्धि:।सा दीपेऽस्ति इति न दृष्टान्तासिद्धि:।
४ वेदाविषयस्य नदीवालुकाकणसङ्ख्यादे: प्रकाशकत्वं ब्रह्मण: न स्यादिति आशङ्कापि नोचिता, यतो हि यावत्स्वसंसृष्टप्रकाशकं ब्रह्म इति अस्माभि: अभ्युपगतम्।
आक्षेप:-
वेदबाह्या: आगमा: अपि ब्रह्मोपादका:।यदि ते भ्रान्ता:, तर्हि तदुपादानं ब्रह्मापि भ्रान्तं स्यात्।
समा.-
न।यावत्स्वसंसर्गिपदार्थप्रकाशकं ब्रह्म।वेदबाह्यानामागमानामर्था: असन्त: पदार्था: एव।अत: तै: सह ब्रह्मण: संसर्ग एव नोपपद्यते। आक्षेप:-
स्वसंसर्गिपरार्थप्रकाशकं ब्रह्म।तर्हि अतीतानागतवस्तुज्ञानं तस्य न स्यात्। ततश्च सार्वज्ञासिद्धि:।
समाधानम् १-
अतीतस्य वस्तुन: ज्ञानसूक्ष्मावस्थारूप:संस्कार: नित्येऽपि ब्रह्मणि भवति।तेन अतीतवस्त्ववभासकत्वं ब्रह्मण: उपपद्यते।
सृष्टे: प्राक् सृज्यमाननिखिलपदार्थरूपेण माया विवर्तते।तत्राध्यक्षत्वं ब्रह्मण:।अत: अनागतवस्तुज्ञानमपि ब्रह्मण: साक्षित्वेन अस्ति। एवं कालत्रयवृत्तिवस्तुविषयत्वं ब्रह्मण: उपपद्यते।
अस्याक्षेपस्यापरं समाधानमित्थम्-
समाधानम् २-
स्वरूपज्ञानेन एव ब्रह्मण: सर्वज्ञत्वम्।अतीतवस्तूनि नाम अविद्यारूपायां चित्रभित्तौ विमृष्टं चित्रम्।अनागतवस्तूनि नाम अविद्यारूपायां चित्रभित्तौ अनुन्मिलितं चित्रम्।उभयो: संस्कारा: वर्तमानायां चित्रभित्तौ सन्ति।तेषां च संस्काराणाम् अध्यक्षरूपेण ब्रह्म अस्ति।एवं कालत्रयवर्तमानवस्तुज्ञत्वं ब्रह्मण: उपपन्नम्।
ब्रह्मण: सर्वज्ञत्वं वृत्तिज्ञानै: नास्ति, अपि तु स्वरूपज्ञानेन एवास्ति।

न्यायरक्षामणिप्रश्नोत्तरसङ्ग्रह:
"https://sa.wikibooks.org/w/index.php?title=शास्त्रयोनित्वात्...१&oldid=5745" इत्यस्माद् प्रतिप्राप्तम्