शारीरकमीमांसाशास्त्रम् आरम्भणीयं वा?

प्रश्न:.- शारीरकमीमांसाशास्त्रम् आरम्भणीयं वा न वा? न्यायरक्षामणिसरण्या प्रतिपादयत।
उत्तरम्-
अथातो ब्रह्मजिज्ञासा इति आद्यसूत्रस्य व्याख्याने अयं विषय: न्या.र.मणिकारेण चर्चित:।तत्र प्रथमं पूर्वपक्ष: एवमुत्थापित:-
पूर्वपक्ष:- शारीरकमीमांसाशास्त्रं न आरम्भणीयं,
१ विषयासम्भवात् २ प्रयोजनासम्भवाच्च।
ब्रह्मात्मैक्यम् अस्य शास्त्रस्य प्रयोजनं, स एव विषय:।जीव: कर्तृत्वभोक्तृत्वादिमान्, ब्रह्म तु कर्तृत्वभोक्तृत्वादिरहितम्। अत: तयो: ऐक्यं नैव सम्भवति इति विषयासम्भव:।
श्रुतिप्रमाणका वयम्।तत्त्वमस्यादिवाक्यै: ऐक्यसिद्धि: स्यादिति अस्माकं मतम् इति न वाच्यम्।तादृग्वाक्यसहस्रैरपि विरुद्धधर्मयो: जीवब्रह्मणो: ऐक्यं न सम्भवति।
कर्तृत्वभोक्तृत्वादयो न वस्तुतो आत्मन: धर्मा:।ते अन्त:करणस्य अहङ्कारस्य वा धर्मा:। अत: ब्रह्मात्मैक्यं सम्भवति इति न वक्तव्यम्।‘अहं कर्ता अहं भोक्ता’ इत्यादिप्रत्यय: सर्वेषामस्ति।तत्र अहंपदवाच्य: जीव: एव।अत: साक्षात्प्रतीतस्य जीवधर्मस्य अभावं बोधयितुं श्रुति: न क्षमा।
स्थूलोऽहं कृशोऽहम् इत्यादिषु बहुषु प्रत्यक्षप्रत्ययेषु देहेन्द्रियाध्यास: दृष्ट:। अत: ‘अहं कर्ता अहं भोक्ता’ इति प्रत्ययोऽपि शङ्काकलुषित:।अत: स्वयं शङ्काग्रस्त: स: न श्रुतिबाधनक्षम: इति वचनमपि अनुचितम्।‘अहं स्थूल:’ इत्यादय: प्रत्यया: अध्यासरूपा: इत्येव न मन्यामहे।यतो हि आत्मनि युगपद् नैकेषाम् अध्यास: न सम्भवति।अत: एते प्रत्यया: गौणा: मन्तव्या:, न तु अध्यस्ता:।सिंहो देवदत्त: इत्यत्र सिंहदेवदत्तयो: भेद:निश्चित:।तथापि सिंहो देवदत्त: इति सामानाधिकरण्येन व्यवहार: भवति। स: गौण:। तद्वद् अहं स्थूल: इत्यादय: व्यवहारा: मन्तव्या:।
एवं चेद् ‘अहं कर्ता’ इति प्रत्यय: अपि गौण: किमर्थं न मन्यते? इति शङ्का न कार्या।अहं स्थूल: इति व्यवहार: गौण: यतो हि मम शरीरं स्थूलम् इति व्यवहार: क्वचिद्भवति।तथा मम अन्त:करणं कर्तृ इति व्यवहार; न कदापि दृश्यते।अत: तत्र गौणत्वं नाङ्गीक्रियते। तेन तत्त्वनसीत्यादिश्रुति: अप्रमाणा स्यादिति न मन्तव्यम्। प्रबलप्रत्यक्षविरोधेन ता: श्रुतय: अन्यथा व्याख्येया: इति पूर्वपक्ष:

सिद्धान्तपक्ष:-
स्थूलोऽहमिति अध्यास एव, न गौण प्रत्यय:।गौणत्वे कदाचित् नाहं स्थूल: इत्यादिभेदव्यवहारस्य उत्पत्ति: स्यात्।सा च न दृश्यते। २ मम देह: इति भेदेन व्यवहारो दृश्यते इति न वक्तव्यम्।मम इत्यत्र विद्यमाना षष्ठी सम्बन्धं द्योतयति।सम्बन्ध: च भेदापवादक: नास्ति। कार्यकारणभेदवादिनां मते ब्रह्मकार्यं प्रकृतिकार्यं वा कारणादभिन्नं तथापि ‘ब्रह्मण: जगत् कार्यम्’ ‘प्रकृते: जगत् कार्यम्’ इति षष्ठीप्रयोग: दृश्यते।अत: अपवादकभेदप्रत्ययरहित: सम्बन्ध: अभेदेन समानाधिकरण: सम्भवति।यत्र सम्बन्ध: तत्र भेद: इति न। परस्परं भेदेन गृह्यमाणयो: देहेन्द्रिययो: एकस्मिन् आत्मनि अध्यास: न शक्य: इति यदुक्तं तत्रोत्तरमेतद्-
देवदत्तसमीपे चैत्रमैत्रो निवसत:।चैत्र: अधीते।मैत्र: नाधीते।एवं सति देवदत्तं दृष्ट्वा ‘मैत्रोऽयमधीयान: तिष्ठति’ इति अध्यास: जायते। अत्र एकस्मिन् देवदत्ते यथा चैत्रमैत्रयो: अध्यास: जात: तथा एकस्मिन् आत्मनि देहेन्द्रिययो:अध्यास: शक्य: ।एवं बहुत्र स्थूलोऽहम् इत्यादय: प्रत्यया: अध्यासनिबन्धना: इति सिद्धम्। अत: अहं कर्ता इति प्रत्ययोऽपि पूतिकूष्माण्डायमान: श्रुतिं बाधितुम् असमर्थ:।अत: सविषयं सप्रयोजनमिदं शास्त्रम् आरम्भणीयम्।

न्यायरक्षामणिप्रश्नोत्तरसङ्ग्रह: