शब्दादिभेदाधिकरणम्।(३.३.५८)
अधिकरणसङ्गति:-
पूर्वस्मिन् अधिकरणे उक्तं यद् वैश्वानरोपासनायां व्यस्तायां सत्यामपि समस्तोपासना श्रेष्ठा, उपास्यैक्यात्।एवमेव अन्यत्र अन्यत्र उक्तासु दहरशाण्डिल्याद्युपासनासु अभेदोऽस्तु इति दृष्टान्तसङ्गत्या इदमधिकरणम् तृतीयाध्याये तृतीयपादे आरब्धम्।अत्रेदं सूत्रम्-
नाना शब्दादिभेदात्।(३.३.५८)
विषय:-
सगुणब्रह्मोपासनापराणि सर्वाणि वचनानि।
विशय:-
एषा सर्वा एका एव विद्या मन्तव्या अथवा नाना?
पूर्वपक्ष:-
एका एव मन्तव्या, यतो हि सर्वत्र सगुणं ब्रह्म एव उपास्यम्। उपास्यस्याभेदाद् उपासनानाम् अपि अभेद:।
उत्तरपक्ष:-
नाना ।यतो हि सर्वत्र शब्दभेद: अस्ति यथा ‘वेद’ ‘उपासीत’ ‘कुर्वीत’ इति।
१ यथा शब्दभेद: अस्ति तथा अनुबदन्धादिषु अपि भेद: अस्ति।
२ सर्वत्र अधिकारादिवचनमस्ति अत: परस्पराकाङ्क्षा नास्ति।तेषां परस्परं गुणप्रधानभावो न सम्भवति।यतो हि तथा सति विनिगमना नास्ति।
३ सत्यकामादय: गुणा: असकृत् श्रूयन्ते। यदि एका एव एषा विद्या तर्हि एतद् असकृत् श्रवणमनर्थकं स्यात्।
निर्णय:-
उपासना: नाना।

३.३   ब्रह्मसूत्रशाङ्करभाष्य-प्रश्नोत्तरसङ्ग्रह:
"https://sa.wikibooks.org/w/index.php?title=शब्दादिभेदाधिकरणम्...&oldid=5724" इत्यस्माद् प्रतिप्राप्तम्