शब्दप्रत्यक्षप्रमाणयो: बलाबलविषये...

प्र.- शब्दप्रत्यक्षप्रमाणयो: बलाबलविषये भामतीरीत्या चर्चां कुरुत।
उत्तरम्-
सन्दर्भ:-
अहम् इति प्रतीते: य: विषय:, स: आत्मा संसारी, कर्ता भोक्ता अस्ति इति प्रत्यक्षप्रमाणेन ज्ञायते।स एव आत्मा असंसारी, अकर्ता, अभोक्ता अस्ति इति श्रुत्या प्रतिपाद्यते।एते द्वे अपि प्रतिपादने मिथो विरुद्धे।अत: तयो: एकतरम् अङ्गीकार्यम्।एवं स्थिते यत् प्रबलेन प्रमाणेन सिद्ध्यति तद् अङ्गीकार्यम् ।तत: आरभ्यते एषा शब्दप्रत्यक्षप्रमाणयो: बलाबलविषये चर्चा।

प्रत्यक्षस्य सबलत्वं पूर्वपक्षत्वेन उच्यते वाचस्पतिमिश्रेण-
१ अनपेक्षितत्वात् प्रत्यक्षं प्रबलम्।
प्रत्यक्षप्रमाणं प्रमाणान्तरं नापेक्षते।अत: तद् अनपेक्षं प्रमाणमिति उच्यते। अनुमानार्थम् उपमानार्थं शब्दार्थमपि प्रत्यक्षप्रमाणस्य आवश्यकता विद्यते।परं प्रत्यक्षस्य कृते अन्येषां प्रमाणानां साहाय्यं नावश्यकम्।श्रुति: अपि शब्दप्रत्यक्षज्ञानाद् अनन्तरमेव स्वार्थं बोधयति। अत: प्रत्यक्षं श्रुतेरपि प्रबलम्।

२ ज्येष्ठत्वात् प्रत्यक्षं प्रबलम्
ज्ञानोत्पत्तिकाले प्रथमं प्रत्यक्षज्ञानम् उत्पद्यते अनन्तरम् अन्यत् ज्ञानम्। पूर्वोत्पन्नमेव ज्ञानं ग्राह्यं भवति, न उत्तरोत्पन्नम्।अत: शब्दात् प्रत्यक्षं प्रबलम्।
एवं द्वाभ्याम् एताभ्यां हेतुभ्यां प्रत्यक्षापेक्षया श्रुतिप्रमाणं दुर्बलम्।

इदानीं वाचस्पतिमिश्र: सिद्धान्तपक्षे प्रत्यक्षापेक्षया श्रुते: प्राबल्यं साधयति।तदेवम्-
१ प्रत्यक्षम् अनपेक्षं प्रमाणम् इति अनुमतम् व्यवहारे, न तु तात्त्विके अर्थे।तात्त्विके अर्थे तु अपौरुषेयस्य निर्दोषस्य वेदस्य एव प्रामाण्यं वयं मन्यामहे।
२ प्रत्यक्षस्य ज्येष्ठत्वं न शब्दबाधे प्रयोजकम्।
पूर्वात् परबलीयस्त्वं तत्र नाम प्रतीयताम्।
अन्योन्यनिरपेक्षाणां यत्र जन्म धियां भवेत्॥
यथा भ्रमस्थले शुक्तिं दृष्ट्वा ‘इदं रजतम्’ इति प्रत्यक्षज्ञानम् उत्पद्यते।तच्च प्रथमम् उत्पद्यते।‘इयं शुक्तिका’ इति शब्दज्ञानम् अनन्तरम् उत्पद्यते।प्रत्यक्षं ज्येष्ठमपि कनिष्ठेन शाब्देन अत्र बाधितं भवति।एवं प्रत्यक्षादपि शब्दप्रमाणं तात्त्विके अर्थे बलवत्तरम्। वाचस्पतिमिश्र: अनया रीत्या प्रत्यक्षापेक्षया श्रुते: प्राबल्यं स्थापयति

भामतीप्रश्नोत्तरसङ्ग्रह:     भामत्यां लघूत्तरप्रश्ना:     भामत्यां दीर्घोत्तरप्रश्ना: