शब्दज्ञानोपायस्य सविस्तरं विवेचनं.....

शब्दज्ञानोपायस्य सविस्तरं विवेचनं पाणिनिदर्शनानुसारं कार्यम्।

‘व्याकरणाध्ययनं सप्रयोजनम् अस्ति’ इति स्थापितम्।ततः प्रश्नः उद्भवति यत् व्याकरणज्ञानस्य उपायः कः? तत्र द्वौ उपायौ विचारितौ।

१ प्रतिपदपाठेन व्याकरणाध्ययनम्-
अयम् अन्यतरः उपायः शब्दज्ञानस्य।प्रतिपदपाठः इत्युक्ते पदस्य पदस्य पाठः। यथा अग्निमीळे पुरोहितम् इत्यत्र अग्निम् इति पदस्य व्याकरणम् अध्येयम्।ततः ईळे इति पदस्य व्याकरणम् अध्येयम्।ततः पुरोहितम् इति पदस्य व्याकरणम् अध्येयम्।एषा प्रदीर्घः मार्गः। सकलेन आयुषा अपि मानवः व्याकरणस्य अध्ययनम् अनेन उपायेन कर्तुं न शक्नुयात्।अतः शब्दानुशासने अयं मार्गः न स्वीकृतः।

२ सामान्यविशेषाभ्याम् (उत्सर्गापवादाभ्यां) व्याकरणाध्ययनम्-
अस्मिन् शास्त्रे लक्ष्यं शब्दः, लक्षणं सूत्रम्।(लक्ष्य-लक्षणे व्याकरणम्।)लक्ष्यभूताः शब्दाः विपुलाः।तेषाम् अनुशासनाय किञ्चित् सामान्यलक्षणं (उत्सर्गसूत्रं) वक्तव्यं तथा किञ्चिद् विशेषलक्षणं (अपवादसूत्रं) वक्तव्यम्।अनेन लघुना उपायेन बहूनां शब्दानाम् अनुशासनं कर्तुं शक्यते।यथा – कर्मण्यण्(अष्टा.३.२.१)।
इति उत्सर्गसूत्रम्।कर्मणि उपपदे सति धातोः अण्-प्रत्ययः भवति इति अस्यार्थः।सर्वेषां धातूनां विषये एतत् सामान्यं सूत्रम्।अनेन सामान्यसूत्रेण (लक्षणेन) बहूनां लक्ष्याणाम् (शब्दानाम्) अनुशासनं सिद्ध्यति।
आतोऽनुपसर्गे कः(अष्टा.३.२.१८)
एतद् अपवादसूत्रम्। कर्मणि उपपदे सति उपसर्गरहिताद् आकारान्ताद् धातोः क-प्रत्ययः भवति इति अस्यार्थः।अनेन विशेषसूत्रेण (लक्षणेन) केषाञ्चित् लक्ष्याणाम् (शब्दानाम्) अनुशासनं सिद्ध्यति।
एवम् उत्सर्गापवादौ (सामान्यविशेषरूपेण सूत्ररचना) शब्दानुशासनज्ञानस्य लघुः उपायः।स एव अस्मिन् शास्त्रे आदृतः।


सर्वदर्शनसङ्ग्रह-प्रश्नोत्तराणि     सर्वदर्शनसङ्र्लहे पाणिनिदर्शनम्