व्याकरणमहाभाष्य खण्ड 59



(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-१/१३०) एकाचः इति किम् अयम् बहुव्रीहिः ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-२/१३०) एकः अच् अस्मिन् सः एकाच् ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-३/१३०) एकाचः इति ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-४/१३०) आहोस्वित् तत्पुरुषः अयम् समानाधिकरणः ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-५/१३०) एकः अच् एकाच् ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-६/१३०) एकाचः ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-७/१३०) किम् च अतः ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-८/१३०) यदि बहुव्रीहिः सिद्धम् पपाच पपाठ ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-९/१३०) इयाय ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-१०/१३०) आर इति न सिध्यति ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-११/१३०) अथ तत्पुरुषः समानाधिकरणः सिद्धम् इयाय ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-१२/१३०) आर इति ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-१३/१३०) पपाच पपाठ इति न सिध्यति ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-१४/१३०) अतः उत्तरम् पठति ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-१५/१३०) एकाचः द्वे प्रथमस्य इति बहुव्रीहिनिर्देशः ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-१६/१३०) एकाचः द्वे प्रथमस्य इति बहुव्रीहिनिर्देशः अयम् ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-१७/१३०) एकवर्णेषु कथम् ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-१८/१३०) एकवर्णेषु व्यपदेशिवद्वचनात् ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-१९/१३०) व्यपदेशिवत् एकस्मिन् कार्यम् भवति इति वक्तव्यम् ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-२०/१३०) एवम् एकवर्णेषु द्विर्वचनम् भविष्यति ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-२१/१३०) एकाचः द्वे भवतः इति उच्यते ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-२२/१३०) तत्र न ज्ञायते कस्य एकाचः द्वे भवतः इति ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-२३/१३०) वक्ष्यति लिटि धातोः अनभ्यासस्य इति ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-२४/१३०) तेन धातोः एकाचः इति विज्ञायते ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-२५/१३०) यदि धातोः एकाचः सिद्धम् पपाच पपाठ ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-२६/१३०) जजागार पुपुत्रीयिषति इति न सिध्यति ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-२७/१३०) धातोः इति न एषा एकाच्समानाधिकरणा षष्ठी ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-२८/१३०) धातोः एकाचः इति ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-२९/१३०) किम् तर्हि अवयवयोगा एषा षष्ठी ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-३०/१३०) धातोः यः एकाच् अवयवः इति ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-३१/१३०) अवयवयोगा एषा षष्ठी इति चेत् सिद्धम् जजागार पुपुत्रीयिषति इति ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-३२/१३०) पपाच पपाठ इति न सिध्यति ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-३३/१३०) एषः अपि व्यपदेशिवद्भावेन धातोः एकाच् अवयवः भवति ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-३४/१३०) एकाचः द्वे प्रथमस्य इति उच्यते ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-३५/१३०) तेन यत्र एव प्रथमः च अप्रथमः च तत्र द्विर्वचनम् स्यात् ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-३६/१३०) जजागार पुपुत्रीयिषति इति ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-३७/१३०) पपाच पपाठ इति अत्र न स्यात् ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-३८/१३०) प्रथमत्वे च ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-३९/१३०) प्रथमत्वे च किम् ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-४०/१३०) व्यपदेशिवद्वचनात् सिद्धम् इति एव ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-४१/१३०) सः तर्हि व्यपदेशिवद्भावः वक्तव्यः ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-४२/१३०) न वक्तव्यः ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-४३/१३०) उक्तम् वा ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-४४/१३०) किम् उक्तम् ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-४५/१३०) तत्र व्यपदेशिवद्वचनम् ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-४६/१३०) एकाचः द्वे प्रथमार्थम् ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-४७/१३०) षत्वे च आदेशसम्प्रत्ययार्थम् ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-४८/१३०) अवचनात् लोकविज्ञानात् सिद्धम् इति एव ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-४९/१३०) योगविभागः वा ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-५०/१३०) अथ वा योगविभागः करिष्यते ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-५१/१३०) एकाचः द्वे भवतः ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-५२/१३०) किमर्थः योगविभागः ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-५३/१३०) एकाज्मात्रस्य द्विर्वचनार्थः ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-५४/१३०) एकाज्मात्रय्त द्विर्वचनम् यथा स्यात् ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-५५/१३०) इयाय पपाच ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-५६/१३०) ततः प्रथमस्य ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-५७/१३०) प्रथमस्य एकाचः द्वे भवतः ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-५८/१३०) इदम् इदानीम् किमर्थम् ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-५९/१३०) नियमाऋथम् ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-६०/१३०) यत्र प्रथमः च अप्रथमः च अस्ति तत्र प्रथमस्य एकाचः द्विर्वचनम् यथा स्यात् ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-६१/१३०) अप्रथमस्य मा भूत् ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-६२/१३०) जजागार पुपुत्रीयिषति इति ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-६३/१३०) एकाचः अवयवैकाच्त्वात् अवयवानाम् द्विर्वचनप्रसङ्गः ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-६४/१३०) एकाचः अवयवैकाच्त्वात् अवयवानाम् द्विर्वचनम् प्राप्नोति ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-६५/१३०) नेनिजति इति अत्र निज्शब्दः अपि एकाच् इज्शब्दः अपि एकाच् इकारः अपि एकाच् निशब्दः अपि ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-६६/१३०) तत्र निज्शब्दस्य द्विर्वचने रूपम् सिद्धम् दोषाः च न सन्ति ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-६७/१३०) इज्शब्दस्य द्विर्वचने रूपम् न सिध्यति दोषाः च न सन्ति ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-६८/१३०) इकारस्य द्विर्वचने रूपम् न सिधति दोषाः च न सन्ति ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-६९/१३०) निशब्दस्य द्विर्वचने रूपम् सिद्धम् दोषाः तु सन्ति ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-७०/१३०) तत्र कः दोषः ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-७१/१३०) तत्र जुस्भाववचनम् ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-७२/१३०) तत्र जुस्भावः वक्तव्यः ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-७३/१३०) अनेनिजुः ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-७४/१३०) पर्यवेविषुः ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-७५/१३०) अभ्यस्तात् झेः जुस्भावः भवति इति जुस्भावः न प्राप्नोति जकारेणव्यवधानात् ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-७६/१३०) स्वरः च ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-७७/१३०) स्वरः च न सिध्यति ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-७८/१३०) नेनिजति ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-७९/१३०) यत् परिवेविषति इति ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-८०/१३०) अभ्यस्तानाम् आदिः उदात्तः भवति अजादौ लसार्वधातुके इति एषः स्वरः न प्राप्नोति ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-८१/१३०) अद्भावः च ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-८२/१३०) अद्भावः च न सिध्यति ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-८३/१३०) नेनिजति ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-८४/१३०) परिवेविषति इति ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-८५/१३०) अभ्यस्तात् इति अद्भावः न प्राप्नोति ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-८६/१३०) नुम्प्रतिषेधः च ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-८७/१३०) नुम्प्रतिषेधः च न सिध्यति ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-८८/१३०) नेनिजत् ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-८९/१३०) परिवेविषत् ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-९०/१३०) न अभ्यास्तात् शतुः इत् नुम्प्रतिषेधः न प्राप्नोति जकारेणव्यवधानात् ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-९१/१३०) शास्त्रहानिः च ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-९२/१३०) शास्त्रहानिः च भवति ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-९३/१३०) समुदायैकाचः शास्त्रम् हीयते ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-९४/१३०) सिद्धम् तु तत्समुदायैकाच्त्वात् शास्त्राहानेः ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-९५/१३०) सिद्धम् एतत् ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-९६/१३०) कथम् ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-९७/१३०) तत्समुदायैकाच्त्वात् ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-९८/१३०) किम् इदम् तत्समुदायैकाच्त्वात् इति ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-९९/१३०) तस्य समुदायः तत्समुदायः ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-१००/१३०) एकाज्भावः एकाच्त्वम् ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-१०१/१३०) तत्समुदायस्य एकाच्त्वम् तत्समुदायैकाच्त्वम् ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-१०२/१३०) तत्समुदायैकाच्त्वात् ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-१०३/१३०) तत्समुदायैकाचः द्विर्वचनम् भविष्यति ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-१०४/१३०) कुतः ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-१०५/१३०) शास्त्राहानेः ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-१०६/१३०) एवम् हि शास्त्रम् अहीनम् भवति ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-१०७/१३०) ननु च समुदायैकाचः द्विर्वचने क्रियमाणे अपि अवयवैकाचः शास्त्रम् हीयते ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-१०८/१३०) न हीयते ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-१०९/१३०) किम् कारणम् ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-११०/१३०) अवयवात्मकत्वात् समुदायस्य ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-१११/१३०) अवयवात्मकः समुदायः ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-११२/१३०) अभ्यन्तरः हि समुदाये अवयवः ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-११३/१३०) तत् यथा वृक्षः प्रचलन् सहावयवैः प्रचलति ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-११४/१३०) तत्र बहुव्रीहिनिर्देशे अनच्कस्य द्विर्वचनम् अन्यपदार्थत्वात् ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-११५/१३०) तत्र बहुव्रीहिनिर्देशे अनच्कस्य द्विर्वचनम् प्राप्नोति ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-११६/१३०) आटतुः ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-११७/१३०) आटुः ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-११८/१३०) किम् कारणम् ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-११९/१३०) अन्यपदार्थत्वात् बहुव्रीहेः ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-१२०/१३०) अन्यपदार्थे बहुव्रीहिः वर्तते ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-१२१/१३०) तेन यत् अन्यत् अचः तस्य द्विर्वचनम् स्यात् ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-१२२/१३०) तत् यथा चित्रगुः आनीयताम् इति उक्ते यस्य ताः गावः सन्ति सः आनीयते न गावः ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-१२३/१३०) सिद्धम् तु तद्गुणसंविज्ञानात् पाणिनेः यथा लोके ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-१२४/१३०) सिद्धम् एतत् ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-१२५/१३०) कथम् ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-१२६/१३०) तद्गुणसंविज्ञानात् भगवतः पाणिनेः आचार्यस्य यथा लोके ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-१२७/१३०) लोके शुक्लवाससम् आनय ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-१२८/१३०) लोहितोष्णीषाः प्रचरन्ति इति ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-१२९/१३०) तद्गुणः आनीयते तद्गुणाः च प्रचरन्ति ।

(पा-६,१.१.१; अकि-३,१.१-३.२३; रो-४,२७९-२८७; भा-१३०/१३०) एवम् इह अपि ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-१/८७) अथ यस्य द्विर्वचनम् आरभ्यते किम् तस्य स्थाने भवति आहोस्वित् द्विःप्रयोगः इति ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-२/८७) कः च अत्र विशेषः ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-३/८७) स्थाने द्विर्वचने णिलोपवचनम् समुदायादेशत्वात् ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-४/८७) स्थाने द्विर्वचने णिलोपः वक्तव्यः ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-५/८७) आटिटत् ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-६/८७) आशिशत् ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-७/८७) किम् कारणम् ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-८/८७) समुदायादेशत्वात् ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-९/८७) समुदायस्य समुदायः आदेशः ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-१०/८७) तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययसमुदायस्य नष्टः णिः भवति इति णेः अनिटि इति णिलोपः न प्राप्नोति ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-११/८७) इदम् इह सम्प्रधार्यम् ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-१२/८७) द्विर्वचनम् क्रियताम् णिलोपः इति किम् अत्र कर्तव्यम् ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-१३/८७) परत्वात् णिलोपः ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-१४/८७) नित्यम् द्विर्वचनम् ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-१५/८७) कृते अपि णिलोपे प्राप्नोति अकृते अपि ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-१६/८७) द्विर्वचनम् अपि नित्यम् ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-१७/८७) अन्यस्य कृते णिलोपे प्राप्नोति अन्यस्य अकृते ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-१८/८७) शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-१९/८७) नित्यम् एव द्विर्वचनम् ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-२०/८७) कथम् ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-२१/८७) रूपस्य स्थानिवत्वात् ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-२२/८७) यत् च सन्यङन्तस्य द्विर्वचने ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-२३/८७) यत् च सन्यङन्तस्य द्विर्वचने चोद्यम् तत् इह अपि चोद्यम् ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-२४/८७) किम् पुनः तत् ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-२५/८७) सन्यङन्तस्य चेत् अशेः सनि अनिटः ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-२६/८७) दीर्घकुत्वप्रसारणषत्वम् अधिकस्य द्विर्वचनात् ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-२७/८७) आबृध्योः च अभ्यस्तविप्रतिषेधः ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-२८/८७) सङाश्रये च समुदायस्य समुदायादेशत्वात् झलाश्रये च अव्यपदेशः आमिश्रत्वात् इति ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-२९/८७) अस्तु तर्हि द्विःप्रयोगः द्विर्वचनम् ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-३०/८७) द्विःप्रयोगः इति चेत् णकारषकारादेशादेः एत्त्ववचनम् लिटि ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-३१/८७) द्विःप्रयोगः इति चेत् णकारषकारादेशादेः एत्त्वम् लिटि वक्तव्यम् ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-३२/८७) नेमतुः ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-३३/८७) नेमुः ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-३४/८७) सेहे ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-३५/८७) सेहाते ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-३६/८७) सहिरे ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-३७/८७) अनादेशादेः इति प्रतिषेधः प्राप्नोति ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-३८/८७) स्थाने पुनः द्विर्वचने सति समुदायस्य समुदायः आदेशः ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-३९/८७) तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः सः आदेशादिः भवति ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-४०/८७) द्विःप्रयोगे अपि द्विर्वचने सति न दोषः ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-४१/८७) वक्ष्यति तत्र लिड्ग्रहणस्य प्रयोजनम् ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-४२/८७) लिटि यः आदेशादिः तदादेः न इति ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-४३/८७) इड्वचनम् च यङ्लोपे ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-४४/८७) इट् च यङ्लोपे वक्तव्यः ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-४५/८७) बेभिदिता ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-४६/८७) बेभिदितुम् ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-४७/८७) एकाचः उपदेशे अनुदात्तात् इति इट्प्रतिषेधः प्राप्नोति ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-४८/८७) स्थाने पुनः द्विर्वचने सति समुदायस्य समुदायः आदेशः ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-४९/८७) तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः सः भवति यः एकाच् उपदेशे अनुदात्तः ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-५०/८७) द्विःप्रयोगे अपि द्विर्वचने सति न दोषः ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-५१/८७) एकाज्ग्रहणेन अङ्गम् विशेषयिष्यामः ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-५२/८७) एकाचः अङ्गात् इति ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-५३/८७) ननु च एकैकम् अत्र अङ्गम् ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-५४/८७) समुदाये या वाक्यपरिसमाप्तिः तस्य अङ्गसञ्ज्ञा भविष्यति ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-५५/८७) कुतः एतत् ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-५६/८७) शास्त्राहानेः ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-५७/८७) एवम् हि शास्त्रम् अहीनम् भवति । इड्दीर्घप्रतिषेधः च ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-५८/८७) इटः दीर्घत्वस्य च प्रतिषेधः वक्तव्यः ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-५९/८७) जरीगृहिता ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-६०/८७) जरीगृहितुम् ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-६१/८७) ग्रहः अलिटि दीर्घः इति दीर्घत्वम् प्राप्नोति ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-६२/८७) स्थाने पुनः द्विर्वचने समुदायस्य समुदायः आदेशः ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-६३/८७) तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः ग्रहिः ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-६४/८७) द्विःप्रयोगे अपि द्विर्वचने न दोषः ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-६५/८७) ग्रहिणा अङ्गम् विशेषयिष्यामः ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-६६/८७) ग्रहेः अङ्गात् इति ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-६७/८७) ननु च एकैकम् अत्र अङ्गम् ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-६८/८७) समुदाये या वाक्यपरिसमाप्तिः तस्य अङ्गसञ्ज्ञा भविष्यति ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-६९/८७) कुतः एतत् ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-७०/८७) शास्त्राहानेः ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-७१/८७) एवम् हि शास्त्रम् अहीनम् भवति । पदादिविधिप्रतिषेधः च ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-७२/८७) पदादिलक्षण विधेः प्रतिषेधः वक्तव्यः ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-७३/८७) सिषेच ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-७४/८७) सुष्वाप ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-७५/८७) सात्पदाद्योः इति षत्वप्रतिषेधः प्राप्नोति ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-७६/८७) स्थाने पुनः द्विर्वचने सति समुदायस्य समुदायः आदेशः ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-७७/८७) तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः सः पदादिः भवति ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-७८/८७) द्विःप्रयोगे च अपि द्विर्वचने न दोषः ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-७९/८७) सुप्तिङ्भ्याम् पदम् विशेषयिष्यामः ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-८०/८७) यस्मात् सुप्तिङ्विधिः तदादि सुबन्तम् तिङन्तम् च ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-८१/८७) ननु च एकैकस्मात् [अपि अत्र (ऋ)] सुप्तिङ्विधिः ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-८२/८७) समुदाये या वाक्यपरिसमाप्तिः तया पदसञ्ज्ञा भविष्यति ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-८३/८७) कुतः एतत् ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-८४/८७) शास्त्राहानेः ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-८५/८७) एवम् हि शास्त्रम् अहीनम् भवति । तौ एव सुप्तिङौ ततः परौ सा एव च प्रकृतिः आद्या ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-८६/८७) आदिग्रहणम् प्रकृतम् ।

(पा-६,१.१.२; अकि-३,३.२४-५.१९; रो-४,२८७-२९३; भा-८७/८७) समुदायपदत्वम् एतेन.

(पा-६,१.२.१; अकि-३,५.२१-२४; रो-४,२९४; भा-१/१०) द्वितीयस्य इति अवचनम् अजादेः इति कर्मधारयात् पञ्चमी ।

(पा-६,१.२.१; अकि-३,५.२१-२४; रो-४,२९४; भा-२/१०) द्वितीयस्य इति शक्यम् अवक्तुम् ।

(पा-६,१.२.१; अकि-३,५.२१-२४; रो-४,२९४; भा-३/१०) कथम् ।

(पा-६,१.२.१; अकि-३,५.२१-२४; रो-४,२९४; भा-४/१०) अजादेः इति न एषा बहुव्रीहेः षष्ठी ।

(पा-६,१.२.१; अकि-३,५.२१-२४; रो-४,२९४; भा-५/१०) अच् आदिः यस्य सः अयम् अजादिः ।

(पा-६,१.२.१; अकि-३,५.२१-२४; रो-४,२९४; भा-६/१०) अजादेः ।

(पा-६,१.२.१; अकि-३,५.२१-२४; रो-४,२९४; भा-७/१०) किम् तर्हि कर्मधारयात् पञ्चमी ।

(पा-६,१.२.१; अकि-३,५.२१-२४; रो-४,२९४; भा-८/१०) अच् आदिः अजादिः ।

(पा-६,१.२.१; अकि-३,५.२१-२४; रो-४,२९४; भा-९/१०) अजादेः परस्य इति ।

(पा-६,१.२.१; अकि-३,५.२१-२४; रो-४,२९४; भा-१०/१०) तत्र अन्तरेण द्वितीयग्रहणम् द्वितीयस्य एव भविष्यति ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-१/९९) द्वितीयद्विर्वचने प्रथमनिवृत्तिः प्राप्तत्वात् ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-२/९९) द्वितीयद्विर्वचने प्रथमस्य निवृत्तिः वक्तव्या ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-३/९९) अटिटिषति ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-४/९९) अशिशिषति इति ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-५/९९) किम् कारणम् ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-६/९९) प्राप्तत्वात् ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-७/९९) प्राप्नोति एकाचः द्वे प्रथमस्य इति ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-८/९९) ननु च द्वितीयद्विर्वचनम् प्रथमद्विर्वचनम् बाधिष्यते ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-९/९९) कथम् अन्यस्य उच्यमानस्य बाधकम् स्यात् ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-१०/९९) असति खलु अपि सम्भवे बाधनम् भवति अस्ति च सम्भवः यत् उभयम् स्यात् ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-११/९९) न वा प्रथमविज्ञाने हि द्वितीयाप्राप्तिः अद्वितीयत्वात् ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-१२/९९) न वा वक्तव्यम् ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-१३/९९) किम् कारणम् ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-१४/९९) प्रथमविज्ञाने हि सति द्वितीयस्य अप्राप्तिः स्यात् ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-१५/९९) किम् कारणम् ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-१६/९९) अद्वितीयत्वात् ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-१७/९९) न हि इदानीम् प्रथमद्विर्वचने कृते द्वितीयः द्वितीयः भवति ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-१८/९९) कः तर्हि ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-१९/९९) तृतीयः ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-२०/९९) तत् यथा द्वयोः आसीनयोः तृतीये उपजाते न द्वितीयः द्वितीयः भवति ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-२१/९९) कः तर्हि ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-२२/९९) तृतीयः ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-२३/९९) न हि किम् चित् उच्यते अकृते द्विर्वचने यः द्वितीयः तस्य भवितव्यम् इति ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-२४/९९) किम् तर्हि कृते द्विर्वचने यः द्वितीयः तस्य भविष्यति ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-२५/९९) अनारम्भसमम् एवम् स्यात् ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-२६/९९) अटेः प्रथमस्य द्विर्वचनम् स्यात् ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-२७/९९) हलादिशेषः ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-२८/९९) द्वितीयस्य द्विर्वचनम् ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-२९/९९) हलादिशेषः ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-३०/९९) त्रयाणाम् अकाराणाम् पररूपत्वे अटिषति इति एवम् रूपम् स्यात् ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-३१/९९) न अनारम्भसमम् ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-३२/९९) अटेः प्रथमस्य द्विर्वचनम् ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-३३/९९) हलादिशेषः ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-३४/९९) इत्त्वम् ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-३५/९९) द्वितीयस्य द्विर्वचनम् ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-३६/९९) हलादिशेषः ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-३७/९९) इत्त्वम् ड्वयोः इकारयोः सवर्णदीर्घत्वम् ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-३८/९९) अभ्यासस्य असवर्णे इति इयङादेशः ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-३९/९९) इयटिषति इति एतत् रूपम् यथा स्यात् ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-४०/९९) ओणेः च उवणिषति इति ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-४१/९९) न अनिष्टार्था शास्त्रप्रवृत्तिः भवितुम् अर्हति ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-४२/९९) यथा वा आदिविकारे अलः अन्त्यविकाराभावः ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-४३/९९) यथा वा आदिविविधौ अलः अन्त्यविधिः न भवति एवम् द्वितीयद्विर्वचने प्रथमद्विर्वचनम् न भविष्यति ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-४४/९९) विषमः उपन्यासः ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-४५/९९) न अप्राप्ते अलः अन्त्यविधौ आदिविधिः आरभ्यते ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-४६/९९) सः तस्य बाधकः भविष्यति ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-४७/९९) इदम् अपि एवञ्जातीयकम् ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-४८/९९) न अप्राप्ते प्रथमद्विर्वचने द्वितीयद्विर्वचनमारभ्यते ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-४९/९९) तत् बाधकम् भविष्यति ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-५०/९९) यत् अपि उच्यते असति खलु अपि सम्भवे बाधनम् भवति अस्ति च सम्भवः यत् उभयम् स्यात् इति ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-५१/९९) न एतत् अस्ति ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-५२/९९) सति अपि सम्भवे बाधनम् भवति ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-५३/९९) तत् यथा दधि ब्राह्मणेभ्यः दीयताम् तक्रम् कौण्डिन्याय इति ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-५४/९९) सति अपि दधिदानस्य सम्भवे तक्रदानम् निवर्तकम् भवति ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-५५/९९) एवम् इह अपि सति अपि सम्भवे प्रथमद्विर्वचनस्य द्वितीयद्विर्वचनम् बाधिष्यते ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-५६/९९) तत्र पूर्वस्य अचः निवृत्तौ व्यञ्जनस्य अनिवृत्तिः वक्तव्या ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-५७/९९) अटिटिषति इति ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-५८/९९) यथा एव अचः निवृत्तिः भवति एवम् व्यञ्जनस्य अपि प्राप्नोति ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-५९/९९) तत्र पूर्वस्य अचः निवृत्तौ व्यञ्जनानिवृत्तिः अशासनात् पूर्वस्य ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-६०/९९) तत्र पूर्वस्य अचः निवृत्तौ व्यञ्जनस्य अनिवृत्तिः सिद्धा ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-६१/९९) कुतः ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-६२/९९) अशासनात् पूर्वस्य ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-६३/९९) न इह वयम् पूर्वस्य प्रतिषेधम् शिष्मः ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-६४/९९) किम् तर्हि द्वितीयस्य द्विर्वचनम् आरभामहे ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-६५/९९) व्यञ्जनानि पुनः नटभार्यवत् भवन्ति ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-६६/९९) तत् यथा ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-६७/९९) नटानाम् स्त्रियः रङ्गम् गताः यः यः पृच्छति कस्य यूयम् कस्य यूयम् इति तम् तम् तव तव इति आहुः ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-६८/९९) एवम् व्यञ्जनानि यस्य यस्य अचः कार्यम् उच्यते तम् तम् भजन्ते ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-६९/९९) न्द्रादिप्रतिषेधात् च ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-७०/९९) यत् अयम् न न्द्राः संयोगादयः इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः पूर्वनिवृत्तौ व्यञ्जनस्य अनिवृत्तिः इति ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-७१/९९) तत्र द्वितीयाभावे प्रथमाद्विर्वचनम् प्रतिषिद्धत्वात् ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-७२/९९) तत्र द्वितीयस्य एकाचः अभावे प्रथमस्य द्विर्वचनम् न प्राप्नोति ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-७३/९९) आटतुः ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-७४/९९) आटुः ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-७५/९९) किम् कारणम् ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-७६/९९) प्रतिषिद्धत्वात् ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-७७/९९) अजादेः द्वितीयस्य इति प्रतिषेधात् ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-७८/९९) न एष दोषः ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-७९/९९) सति तस्मिन् प्रतिषेधः ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-८०/९९) सति द्वितीयद्विर्वचने प्रथमस्य प्रतिषेधः ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-८१/९९) सति तस्मिन् प्रतिषेधः इति चेत् हलादिशेषे दोषः ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-८२/९९) सति तस्मिन् प्रतिषेधः इति चेत् हलादिशेषे दोषः भवति ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-८३/९९) हलादिशेषे सति आद्ये हलि अनाद्यस्य लोपः स्यात् ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-८४/९९) इह एव स्यात् ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-८५/९९) पपाच ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-८६/९९) पपाठ इति ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-८७/९९) इह न स्यात् ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-८८/९९) आटतुः ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-८९/९९) आटुः इति ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-९०/९९) लोकवत् हलादिशेषे ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-९१/९९) लोकवत् हलादिशेषे सिद्धम् ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-९२/९९) तत् यथा लोके ईश्वरः आज्ञापयति ग्रामात् ग्रामात् मनुष्याः आनीयन्ताम् प्रागाङ्गम् ग्रामेभ्यः ब्राह्मणाः आनीयन्ताम् इति ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-९३/९९) येषु तत्र ग्रामेषु ब्राह्मणाः न सन्ति न तर्हि इदानीम् ततः अन्यस्य आनयनम् भवति ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-९४/९९) यथा तत्र क्व चित् अपि ब्राह्मणस्य सत्ता (ऋ॒ सर्वत्र) अब्राह्मणस्य निवर्त्तिका भवति एवम् इह अपि क्व चित् अपि हल् आद्यः सन् सर्वस्य अनाद्यस्य हलः निवर्तकः भवति ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-९५/९९) क्व चित् अन्यत्र लोपः इति चेत् द्विर्वचनम् ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-९६/९९) क्व चित् अन्यत्र लोपः इति चेत् द्विर्वचनम् अपि एवम् प्राप्नोति ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-९७/९९) क्व चित् अपि द्वितीयः सन् सर्वस्य प्रथमस्य निवर्तकः स्यात् ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-९८/९९) तस्मात् अस्तु सति तस्मिन् प्रतिषेधः इति एव. ननु च उक्तम् सति तस्मिन् प्रतिषेधः इति चेत् हलादिशेषे दोषः इति ।

(पा-६,१.२.२; अकि-३,६.१-८.७; रो-४,२९४-३०१; भा-९९/९९) प्रतिविधास्यते हलादिशेषे ।

(पा-६,१.३; अकि-३,८.९-२२; रो-४,३०१-३०२; भा-१/२२) किमर्थम् इदम् उच्यते ।

(पा-६,१.३; अकि-३,८.९-२२; रो-४,३०१-३०२; भा-२/२२) न्द्रादेः द्विर्वचनप्रसङ्गः तत्र न्द्राणाम् प्रतिषेधः ।

(पा-६,१.३; अकि-३,८.९-२२; रो-४,३०१-३०२; भा-३/२२) न्द्रादेः एकाचः द्विर्वचनम् प्राप्नोति ।

(पा-६,१.३; अकि-३,८.९-२२; रो-४,३०१-३०२; भा-४/२२) तत्र न्द्राणाम् संयोगादीनाम् प्रतिषेधः उच्यते ।

(पा-६,१.३; अकि-३,८.९-२२; रो-४,३०१-३०२; भा-५/२२) ईर्ष्यतेः तृतीयस्य ।

(पा-६,१.३; अकि-३,८.९-२२; रो-४,३०१-३०२; भा-६/२२) ईर्ष्यतेः तृतीयस्य द्वे भवतः इति वक्तव्यम् ।

(पा-६,१.३; अकि-३,८.९-२२; रो-४,३०१-३०२; भा-७/२२) के चित् तावत् आहुः एकाचः इति ।

(पा-६,१.३; अकि-३,८.९-२२; रो-४,३०१-३०२; भा-८/२२) ईर्ष्यिषिषति ।

(पा-६,१.३; अकि-३,८.९-२२; रो-४,३०१-३०२; भा-९/२२) अपरः आह ॒व्यञ्जनस्य इति ॒ ईर्ष्यियिषति ।

(पा-६,१.३; अकि-३,८.९-२२; रो-४,३०१-३०२; भा-१०/२२) कण्ड्वादीनाम् च ।

(पा-६,१.३; अकि-३,८.९-२२; रो-४,३०१-३०२; भा-११/२२) कण्ड्वादीनाम् च तृतीयस्य द्वे भवतः इति वक्तव्यम् ।

(पा-६,१.३; अकि-३,८.९-२२; रो-४,३०१-३०२; भा-१२/२२) कण्डूयियिषति ।

(पा-६,१.३; अकि-३,८.९-२२; रो-४,३०१-३०२; भा-१३/२२) असूयियिषति ।

(पा-६,१.३; अकि-३,८.९-२२; रो-४,३०१-३०२; भा-१४/२२) वा नामधातूनाम् ।

(पा-६,१.३; अकि-३,८.९-२२; रो-४,३०१-३०२; भा-१५/२२) वा नामधातूनाम् तृतीयस्य द्वे भवतः इति वक्तव्यम् ।

(पा-६,१.३; अकि-३,८.९-२२; रो-४,३०१-३०२; भा-१६/२२) अश्वीयियिषति ।

(पा-६,१.३; अकि-३,८.९-२२; रो-४,३०१-३०२; भा-१७/२२) अशिश्वीयिषति ।

(पा-६,१.३; अकि-३,८.९-२२; रो-४,३०१-३०२; भा-१८/२२) अपरः आह यथेष्टम् वा ।

(पा-६,१.३; अकि-३,८.९-२२; रो-४,३०१-३०२; भा-१९/२२) यथेष्टम् वा नामधातूनाम् इति ।

(पा-६,१.३; अकि-३,८.९-२२; रो-४,३०१-३०२; भा-२०/२२) पुपुत्रीयिषति ।

(पा-६,१.३; अकि-३,८.९-२२; रो-४,३०१-३०२; भा-२१/२२) पुतित्रीयिषति ।

(पा-६,१.३; अकि-३,८.९-२२; रो-४,३०१-३०२; भा-२२/२२) पुत्रीयियिषति ।

(पा-६,१.४; अकि-३,९.२-७; रो-४,३०२; भा-१/१६) पूर्वः अभ्यासः इति उच्यते ।

(पा-६,१.४; अकि-३,९.२-७; रो-४,३०२; भा-२/१६) कस्य पूर्वः अभ्याससञ्ज्ञः भवति ।

(पा-६,१.४; अकि-३,९.२-७; रो-४,३०२; भा-३/१६) द्वे इति वर्तते ।

(पा-६,१.४; अकि-३,९.२-७; रो-४,३०२; भा-४/१६) द्वयोः इति वक्तव्यम् ।

(पा-६,१.४; अकि-३,९.२-७; रो-४,३०२; भा-५/१६) सः तर्हि तथा निर्देशः कर्तव्यः ।

(पा-६,१.४; अकि-३,९.२-७; रो-४,३०२; भा-६/१६) न कर्तव्यः ।

(पा-६,१.४; अकि-३,९.२-७; रो-४,३०२; भा-७/१६) अर्थात् विभक्तिविपरिणामः भविष्यति ।

(पा-६,१.४; अकि-३,९.२-७; रो-४,३०२; भा-८/१६) तत् यथा ।

(पा-६,१.४; अकि-३,९.२-७; रो-४,३०२; भा-९/१६) उच्चानि देवदत्तस्य गृहाणि ।

(पा-६,१.४; अकि-३,९.२-७; रो-४,३०२; भा-१०/१६) आमन्त्रयस्व एनम् ।

(पा-६,१.४; अकि-३,९.२-७; रो-४,३०२; भा-११/१६) देवदत्तम् इति गम्यते ।

(पा-६,१.४; अकि-३,९.२-७; रो-४,३०२; भा-१२/१६) देवदत्तस्य गावः अश्वाः हिरण्यम् इति ।

(पा-६,१.४; अकि-३,९.२-७; रो-४,३०२; भा-१३/१६) आढ्यः वैधवेयः ।

(पा-६,१.४; अकि-३,९.२-७; रो-४,३०२; भा-१४/१६) देवदत्तः इति गम्यते ।

(पा-६,१.४; अकि-३,९.२-७; रो-४,३०२; भा-१५/१६) पुरस्तात् षष्ठीनिर्दिष्टम् सत् अर्थात् द्वितीयानिर्दिष्टम् प्रथमानिर्दिष्टम् च भवति ।

(पा-६,१.४; अकि-३,९.२-७; रो-४,३०२; भा-१६/१६) एवम् इह अपि पुरस्तात् प्रथमानिर्दिष्टम् सत् अर्थात् षष्ठीनिर्दिष्टम् भविष्यति ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-१/९७) अभ्यस्तसञ्ज्ञायाम् सहवचनम् ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-२/९७) अभ्यस्तसञ्ज्ञायाम् सहग्रहणम् कर्तव्यम् ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-३/९७) किम् प्रयोजनम् ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-४/९७) आद्युदात्तत्वे पृथगप्रसङ्गार्थम् ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-५/९७) आद्युदात्तत्वम् सह भूतयोः यथा स्यात् ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-६/९७) एकैकस्य मा भूत् इति ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-७/९७) यस्मिन् एव अभ्यस्तकार्ये अदोषः तत् एव पठितम् अनुदात्तम् पदम् एकवर्जम् इति ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-८/९७) न अस्ति यौगपद्येन सम्भवः ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-९/९७) पर्यायः तर्हि प्रसज्येत ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-१०/९७) पर्यायः च ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-११/९७) पूर्वस्य तावत् परेण रूपेण व्यवहितत्वात् न भविष्यति ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-१२/९७) परस्य तर्हि स्यात् ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-१३/९७) तत्र आचार्यप्रवृत्तिः ज्ञापयति न परस्य भवति इति यत् अयम् बिभेत्यादीनाम् पिति प्रत्ययात् पूर्वम् उदात्तम् भवति इति आह ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-१४/९७) एवम् व्यवधानात् न पूर्वस्य ज्ञापकात् न परस्य उच्यते च इदम् अभ्यस्तानाम् आदिः उदात्तः भवति इति ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-१५/९७) तत्र सः एव दोषः पर्यायः प्रसज्येत ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-१६/९७) तस्मात् सहग्रहणम् कर्तव्यम् ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-१७/९७) न कर्तव्यम् ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-१८/९७) उभेग्रहणम् क्रियते ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-१९/९७) तत् सहार्थम् विज्ञास्यते ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-२०/९७) अस्ति अन्यत् उभेग्रहणस्य प्रयोजनम् ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-२१/९७) किम् ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-२२/९७) उभेग्रहणम् सञ्ज्ञिनिर्देशार्थम् ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-२३/९७) अन्तरेण अपि उभेग्रहणम् प्रक्ल्̥प्तः सञ्ज्ञिनिर्देशः ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-२४/९७) कथम् ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-२५/९७) द्वे इति वर्तते ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-२६/९७) इदम् तर्हि प्रयोजनम् ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-२७/९७) यत्र उभे शब्दरूपे श्रूयेते तत्र अभ्यस्तसञ्ज्ञा यथा स्यात् ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-२८/९७) इह मा भूत् ॒ ईर्त्सन्ति , ईप्सन्ति , ईर्त्सन् , ईप्सन् , ऐर्त्सन् , ऐप्सन् ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-२९/९७) किम् च स्यात् ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-३०/९७) अद्भावः नुम्प्रतिषेधः जुस्भावः इति एते विधयः प्रसज्येरन् ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-३१/९७) अद्भावे तावत् न दोषः ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-३२/९७) सप्तमे योगविभागः करिष्यते ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-३३/९७) इदम् अस्ति ॒ अत् अभ्यस्तात् ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-३४/९७) ततः आत्मनेपदेषु ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-३५/९७) आत्मनेपदेषु च अत् भवति ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-३६/९७) अनतः इति उभयोः शेषः ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-३७/९७) यत् अपि उच्यते नुम्प्रतिषेधः इति एकादेशे कृते व्यपवर्गाभावात् न भविष्यति ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-३८/९७) इदम् इह सम्प्रधार्यम् ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-३९/९७) नुम्प्रतिषेधः क्रियताम् एकादेशः इति ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-४०/९७) किम् अत्र कर्तव्यम् ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-४१/९७) परत्वात् नुम्प्रतिषेधः ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-४२/९७) नित्यः एकादेशः ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-४३/९७) कृते अपि नुम्प्रतिषेधे प्राप्नोति अकृते अपि ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-४४/९७) एकादेशः अपि नित्यः ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-४५/९७) अन्यस्य कृते नुम्प्रतिषेधे प्राप्नोति अन्यस्य अकृते ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-४६/९७) शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-४७/९७) अन्तरङ्गः तर्हि एकादेशः ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-४८/९७) का अन्तरङ्गता ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-४९/९७) वर्णौ आश्रित्य एकादेशः ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-५०/९७) विधिविषये नुम्प्रतिषेधः विधिः च नुमः सर्वनामस्थाने प्राक् तु सर्वनामस्थानोत्पत्तेः एकादेशः ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-५१/९७) तत्र नित्यत्वात् च अन्तरङ्गत्वात् च एकादेशः ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-५२/९७) एकादेशे कृते व्यपवर्गाभावात् न भविष्यति ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-५३/९७) यत् अपि उच्यते जुस्भावः इति एकादेशे कृते व्यपवर्गाभावात् न भविष्यति ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-५४/९७) एकादेशे इति उच्यते केन च अत्र एकादेशः ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-५५/९७) अन्तिना ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-५६/९७) न अत्र अन्तिभावः प्राप्नोति ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-५७/९७) किम् कारणम् ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-५८/९७) जुस्भावेन बाध्यते ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-५९/९७) न अत्र जुस्भावः प्राप्नोति ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-६०/९७) किम् कारणम् ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-६१/९७) शपा व्यवहितत्वात् ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-६२/९७) एकादेशे कृते न अस्ति व्यवधानम् ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-६३/९७) एकादेशः पूर्वविधौ स्थानिवत् भवति इति व्यवधानम् एव ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-६४/९७) किम् पुणः कारणम् निमित्तवान् अन्तिः एकादेशम् तावत् प्रतीक्षते न पुनः तावति एव निमित्तम् अस्ति इति अन्तिभावेन भाव्यम् ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-६५/९७) इह अपि तर्हि तावति एव निमित्तम् अस्ति इति अन्तिभावः स्यात् ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-६६/९७) अनेनिजुः ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-६७/९७) पर्यवेविषुः इति ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-६८/९७) अस्तु ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-६९/९७) अन्तिभावे कृते स्थानिवद्भावात् झिग्रहणेन ग्रहणात् जुस्भावः भविष्यति ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-७०/९७) अथ वा यदि अपि निमित्तवान् अन्तिः अयम् तस्य जुस्भावः अपवादः ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-७१/९७) न च अपवादविषये उत्सर्गाः अभिनिविशन्ते ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-७२/९७) पूर्वम् हि अपवादाः अभिनिविशन्ते पश्चात् उत्सर्गाः ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-७३/९७) प्रकल्प्य वा अपवादविषयम् ततः उतस्र्गः प्रवर्तते ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-७४/९७) न तावत् अत्र कदा चित् अपि अन्तिभावः भवति ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-७५/९७) अपवादम् जुस्भावम् प्रतीक्षते ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-७६/९७) न खलु अपि क्व चित् अभ्यस्तानाम् झेः च आनन्तर्यम् ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-७७/९७) सर्वत्र विकरणैः व्यवधानम् ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-७८/९७) तेन अनेन अवश्यम् विकरणनाशः प्रतीक्ष्यः क्व चित् लुका क्व चित् श्लुना क्व चित् एकादेशेन ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-७९/९७) सः यथा श्लुलुकौ प्रतीक्षते एवम् एकादेशम् अपि प्रतीक्षते ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-८०/९७) एवम् तर्हि इदम् इह व्यपदेश्यम् सत् आचार्यः न व्यपदिशति ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-८१/९७) किम् ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-८२/९७) स्थानिवद्भावम् ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-८३/९७) स्थानिवद्भावात् व्यवधानम् ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-८४/९७) व्यवधानात् न भविष्यति ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-८५/९७) पूर्वविधौ स्थानिवद्भावः न च अयम् पूर्वस्य विधिः ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-८६/९७) पूर्वस्मात् अपि विधिः पूर्वविधिः ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-८७/९७) तत् एतत् असति प्रयोजने उभेग्रहणम् सहार्थम् विज्ञास्यते ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-८८/९७) कथम् कृत्वा एकैकस्य अभ्यस्तसञ्ज्ञा प्राप्नोति ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-८९/९७) प्रत्येकम् वाक्यपरिसमाप्तिः दृष्टा ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-९०/९७) तत् यथा ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-९१/९७) वृद्धिगुणसञ्ज्ञे प्रत्येकम् भवतः ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-९२/९७) ननु च अयम् अपि अस्ति दृष्टान्तः समुदाये वाक्यपरिसमाप्तिः इति ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-९३/९७) तत् यथा ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-९४/९७) गर्गाः शतम् दण्ड्यन्ताम् इति ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-९५/९७) अर्थिनः च राजानः हिरण्येन भवन्ति न च प्रत्येकम् दण्डयन्ति ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-९६/९७) सति एतस्मिन् दृष्टान्ते यदि तत्र प्रत्येकम् इति उच्यते इह अपि सहग्रहणम् कर्तव्यम् ।

(पा-६,१.५; अकि-३,९.९-११.३; रो-४,३०२-३०७; भा-९७/९७) अथ तत्र अन्तरेण प्रत्येकम् इति वचनम् प्रत्येकम् गुण्वृद्धिसञ्ज्ञे भवतः इह अपि न अर्थः सहग्रहणेन ।

(पा-६,१.६; अकि-३,११.६-१९; रो-४,३०७-३०९; भा-१/३०) जक्षित्यादिषु सप्तग्रहणम् वेवीत्यर्थम् ।

(पा-६,१.६; अकि-३,११.६-१९; रो-४,३०७-३०९; भा-२/३०) जक्षित्यादिषु सप्तग्रहणम् कर्तव्यम् ।

(पा-६,१.६; अकि-३,११.६-१९; रो-४,३०७-३०९; भा-३/३०) सप्त जक्षित्यादयः अभ्यस्तसञ्ज्ञकाः भवन्ति इति वक्तव्यम् ।

(पा-६,१.६; अकि-३,११.६-१९; रो-४,३०७-३०९; भा-४/३०) किम् प्रयोजनम् ।

(पा-६,१.६; अकि-३,११.६-१९; रो-४,३०७-३०९; भा-५/३०) वेवीत्यर्थम् ।

(पा-६,१.६; अकि-३,११.६-१९; रो-४,३०७-३०९; भा-६/३०) वेवीतेः अभ्यस्तसञ्ज्ञा यथा स्यात् ।

(पा-६,१.६; अकि-३,११.६-१९; रो-४,३०७-३०९; भा-७/३०) वेव्यते ।

(पा-६,१.६; अकि-३,११.६-१९; रो-४,३०७-३०९; भा-८/३०) अपरिगणनम् वा आगणान्तत्वात् ।

(पा-६,१.६; अकि-३,११.६-१९; रो-४,३०७-३०९; भा-९/३०) न वा अर्थः परिगणनेन ।

(पा-६,१.६; अकि-३,११.६-१९; रो-४,३०७-३०९; भा-१०/३०) अस्तु आगणान्तम् अभ्यस्तसञ्ज्ञा ।

(पा-६,१.६; अकि-३,११.६-१९; रो-४,३०७-३०९; भा-११/३०) इह अपि तर्हि प्राप्नोति ।

(पा-६,१.६; अकि-३,११.६-१९; रो-४,३०७-३०९; भा-१२/३०) आङः शासु ।

(पा-६,१.६; अकि-३,११.६-१९; रो-४,३०७-३०९; भा-१३/३०) अस्तु ।

(पा-६,१.६; अकि-३,११.६-१९; रो-४,३०७-३०९; भा-१४/३०) अभ्यस्तकार्याणि कस्मात् न भवन्ति ।

(पा-६,१.६; अकि-३,११.६-१९; रो-४,३०७-३०९; भा-१५/३०) भूयिष्ठानि परस्मैपदेषु आत्मनेपदी च अयम् ।

(पा-६,१.६; अकि-३,११.६-१९; रो-४,३०७-३०९; भा-१६/३०) स्वरः तर्हि प्राप्नोति ।

(पा-६,१.६; अकि-३,११.६-१९; रो-४,३०७-३०९; भा-१७/३०) यत्र अपि अस्य आत्मनेपदेषु अभ्यस्तकार्यम् स्वरः तत्र अपि अनुदात्तेतः परम् लसार्वधातुकम् अनुदात्तम् भवति इति अनुदात्तत्वे कृते न अस्ति विशेषः धातुस्वरेण उदात्तत्वे सति अभ्यस्तस्वरेण वा ।

(पा-६,१.६; अकि-३,११.६-१९; रो-४,३०७-३०९; भा-१८/३०) षसिवशी छान्दसौ ।

(पा-६,१.६; अकि-३,११.६-१९; रो-४,३०७-३०९; भा-१९/३०) दृष्टानुविधिः छन्दसि भवति ।

(पा-६,१.६; अकि-३,११.६-१९; रो-४,३०७-३०९; भा-२०/३०) चर्करीतम् अभ्यस्तम् एव ।

(पा-६,१.६; अकि-३,११.६-१९; रो-४,३०७-३०९; भा-२१/३०) ह्नुङः तर्हि प्राप्नोति ।

(पा-६,१.६; अकि-३,११.६-१९; रो-४,३०७-३०९; भा-२२/३०) अस्तु ।

(पा-६,१.६; अकि-३,११.६-१९; रो-४,३०७-३०९; भा-२३/३०) अभ्यस्तकार्याणि कस्मात् न भवन्ति ।

(पा-६,१.६; अकि-३,११.६-१९; रो-४,३०७-३०९; भा-२४/३०) भूयिष्ठानि परस्मैपदेषु आत्मनेपदी च अयम् ।

(पा-६,१.६; अकि-३,११.६-१९; रो-४,३०७-३०९; भा-२५/३०) स्वरः तर्हि प्राप्नोति ।

(पा-६,१.६; अकि-३,११.६-१९; रो-४,३०७-३०९; भा-२६/३०) अह्न्विङोः इति प्रतिषेधविधानसामर्थ्यात् स्वरः न भविष्यति ।

(पा-६,१.६; अकि-३,११.६-१९; रो-४,३०७-३०९; भा-२७/३०) अथ वा सप्त एव इमे धातवः पठ्यन्ते ।

(पा-६,१.६; अकि-३,११.६-१९; रो-४,३०७-३०९; भा-२८/३०) जक्ष् अभ्यस्तसञ्ज्ञः भवति ।

(पा-६,१.६; अकि-३,११.६-१९; रो-४,३०७-३०९; भा-२९/३०) इत्यादयः च षट् ।

(पा-६,१.६; अकि-३,११.६-१९; रो-४,३०७-३०९; भा-३०/३०) जक्ष् इत्यादयः षट् इति ।

(पा-६,१.७; अकि-३,११.२१-१२.९; रो-४,३०९-३१०; भा-१/२१) तुजादिषु छन्दःप्रत्ययग्रहणम् ।

(पा-६,१.७; अकि-३,११.२१-१२.९; रो-४,३०९-३१०; भा-२/२१) तुजादिषु छन्दःप्रत्ययग्रहणम् कर्तव्यम् ।

(पा-६,१.७; अकि-३,११.२१-१२.९; रो-४,३०९-३१०; भा-३/२१) छन्दसि तुजादीनाम् दीर्घः भवति इति वक्तव्यम् ।

(पा-६,१.७; अकि-३,११.२१-१२.९; रो-४,३०९-३१०; भा-४/२१) अस्मिन् च अस्मिन् च प्रत्यये इति वक्तव्यम् ।

(पा-६,१.७; अकि-३,११.२१-१२.९; रो-४,३०९-३१०; भा-५/२१) इह मा भूत् ।

(पा-६,१.७; अकि-३,११.२१-१२.९; रो-४,३०९-३१०; भा-६/२१) तुतोज शबलान् हरान् ।

(पा-६,१.७; अकि-३,११.२१-१२.९; रो-४,३०९-३१०; भा-७/२१) अनारम्भः वा अपरिगणितत्वात् ।

(पा-६,१.७; अकि-३,११.२१-१२.९; रो-४,३०९-३१०; भा-८/२१) अनारम्भः वा छन्दसि दीर्घत्वस्य न्याय्यः ।

(पा-६,१.७; अकि-३,११.२१-१२.९; रो-४,३०९-३१०; भा-९/२१) कुतः ।

(पा-६,१.७; अकि-३,११.२१-१२.९; रो-४,३०९-३१०; भा-१०/२१) अपरिगणितत्वात् ।

(पा-६,१.७; अकि-३,११.२१-१२.९; रो-४,३०९-३१०; भा-११/२१) न हि छन्दसि दीर्घत्वस्य परिगणनम् कर्तुम् शक्यम् ।

(पा-६,१.७; अकि-३,११.२१-१२.९; रो-४,३०९-३१०; भा-१२/२१) किम् कारणम् ।

(पा-६,१.७; अकि-३,११.२१-१२.९; रो-४,३०९-३१०; भा-१३/२१) अन्येषाम् च दर्शनात् ।

(पा-६,१.७; अकि-३,११.२१-१२.९; रो-४,३०९-३१०; भा-१४/२१) येषाम् अपि दीर्घत्वम् न आरभ्यते तेषाम् अपि छन्दसि दीर्घत्वम् दृश्यते ।

(पा-६,१.७; अकि-३,११.२१-१२.९; रो-४,३०९-३१०; भा-१५/२१) तत् यथा पूरुषः ।

(पा-६,१.७; अकि-३,११.२१-१२.९; रो-४,३०९-३१०; भा-१६/२१) नारकः इति ।

(पा-६,१.७; अकि-३,११.२१-१२.९; रो-४,३०९-३१०; भा-१७/२१) अनेकान्तत्वात् च ।

(पा-६,१.७; अकि-३,११.२१-१२.९; रो-४,३०९-३१०; भा-१८/२१) येषाम् च अपि आरभ्यते तेषाम् अपि अनेकान्तः ।

(पा-६,१.७; अकि-३,११.२१-१२.९; रो-४,३०९-३१०; भा-१९/२१) यस्मिन् एव च प्रत्यये दीर्घत्वम् दृश्यते तस्मिन् एव च न दृश्यते ।

(पा-६,१.७; अकि-३,११.२१-१२.९; रो-४,३०९-३१०; भा-२०/२१) मामहानः उक्थपात्रम् ।

(पा-६,१.७; अकि-३,११.२१-१२.९; रो-४,३०९-३१०; भा-२१/२१) ममहानः इति च ।

(पा-६,१.८; अकि-३,१२.११-१३.५; रो-४,३१०-३११; भा-१/३३) धातोः इति किमर्थम् ।

(पा-६,१.८; अकि-३,१२.११-१३.५; रो-४,३१०-३११; भा-२/३३) ईहाम् चक्रे ।

(पा-६,१.८; अकि-३,१२.११-१३.५; रो-४,३१०-३११; भा-३/३३) न एतत् अस्ति ।

(पा-६,१.८; अकि-३,१२.११-१३.५; रो-४,३१०-३११; भा-४/३३) लिटि इति उच्यते न च अत्र लिटम् पश्यामः ।

(पा-६,१.८; अकि-३,१२.११-१३.५; रो-४,३१०-३११; भा-५/३३) प्रत्ययलक्षणेन ।

(पा-६,१.८; अकि-३,१२.११-१३.५; रो-४,३१०-३११; भा-६/३३) न लुमता तस्मिन् इति प्रत्ययलक्षणप्रतिषेधः ।

(पा-६,१.८; अकि-३,१२.११-१३.५; रो-४,३१०-३११; भा-७/३३) इदम् तर्हि ।

(पा-६,१.८; अकि-३,१२.११-१३.५; रो-४,३१०-३११; भा-८/३३) ससृवांसः विशृण्विरे ।

(पा-६,१.८; अकि-३,१२.११-१३.५; रो-४,३१०-३११; भा-९/३३) लिटि द्विर्वचने जागर्तेः वावचनम् ।

(पा-६,१.८; अकि-३,१२.११-१३.५; रो-४,३१०-३११; भा-१०/३३) लिटि द्विर्वचने जागर्तेः वा इति वक्तव्यम् ।

(पा-६,१.८; अकि-३,१२.११-१३.५; रो-४,३१०-३११; भा-११/३३) यः जागर तम् ऋचः कामयन्ते ।

(पा-६,१.८; अकि-३,१२.११-१३.५; रो-४,३१०-३११; भा-१२/३३) यः जजागार तम् ऋचः कामयन्ते ।

(पा-६,१.८; अकि-३,१२.११-१३.५; रो-४,३१०-३११; भा-१३/३३) अनभ्यासस्य इति किम् ।

(पा-६,१.८; अकि-३,१२.११-१३.५; रो-४,३१०-३११; भा-१४/३३) कृष्णः नोनाव वृषभः यदि इदम् ।

(पा-६,१.८; अकि-३,१२.११-१३.५; रो-४,३१०-३११; भा-१५/३३) नोनूयतेः नोनाव ।

(पा-६,१.८; अकि-३,१२.११-१३.५; रो-४,३१०-३११; भा-१६/३३) अभ्यासप्रतिषेधानर्थक्यम् च छन्दसि वावचनात् ।

(पा-६,१.८; अकि-३,१२.११-१३.५; रो-४,३१०-३११; भा-१७/३३) अभ्यासप्रतिषेधः च अनर्थकः ।

(पा-६,१.८; अकि-३,१२.११-१३.५; रो-४,३१०-३११; भा-१८/३३) किम् कारणम् ।

(पा-६,१.८; अकि-३,१२.११-१३.५; रो-४,३१०-३११; भा-१९/३३) छन्दसि वावचनात् ।

(पा-६,१.८; अकि-३,१२.११-१३.५; रो-४,३१०-३११; भा-२०/३३) अवश्यम् छन्दसि वा द्वे भवतः इति वक्तव्यम् ।

(पा-६,१.८; अकि-३,१२.११-१३.५; रो-४,३१०-३११; भा-२१/३३) किम् प्रयोजनम् ।

(पा-६,१.८; अकि-३,१२.११-१३.५; रो-४,३१०-३११; भा-२२/३३) प्रयोजनम् आदित्यान् याचिषामहे ।

(पा-६,१.८; अकि-३,१२.११-१३.५; रो-४,३१०-३११; भा-२३/३३) यियाचिषामहे इति प्राप्ते ।

(पा-६,१.८; अकि-३,१२.११-१३.५; रो-४,३१०-३११; भा-२४/३३) देवता नो दाति प्रियाणि ।

(पा-६,१.८; अकि-३,१२.११-१३.५; रो-४,३१०-३११; भा-२५/३३) ददाति प्रियाणि ।

(पा-६,१.८; अकि-३,१२.११-१३.५; रो-४,३१०-३११; भा-२६/३३) मघवा दातु ।

(पा-६,१.८; अकि-३,१२.११-१३.५; रो-४,३१०-३११; भा-२७/३३) मघवा ददातु ।

(पा-६,१.८; अकि-३,१२.११-१३.५; रो-४,३१०-३११; भा-२८/३३) सः नः स्तुतः वीरवत् धातु ।

(पा-६,१.८; अकि-३,१२.११-१३.५; रो-४,३१०-३११; भा-२९/३३) वीरवत् दधातु ।

(पा-६,१.८; अकि-३,१२.११-१३.५; रो-४,३१०-३११; भा-३०/३३) यावता इदानीम् छन्दसि वा द्वे भवतः इति उच्यते धातुग्रहणेन अपि न अर्थः ।

(पा-६,१.८; अकि-३,१२.११-१३.५; रो-४,३१०-३११; भा-३१/३३) कस्मात् न भवति ससृवांसः विशृण्विरे इति ।

(पा-६,१.८; अकि-३,१२.११-१३.५; रो-४,३१०-३११; भा-३२/३३) छन्दसि वावचनात् ।

(पा-६,१.८; अकि-३,१२.११-१३.५; रो-४,३१०-३११; भा-३३/३३) तत् एतत् धातुग्रहणम् सान्न्यासिकम् तिष्ठतु तावत् ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-१/१५९) किम् इयम् षष्ठी आहोस्वित् सप्तमी ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-२/१५९) कुतः सन्देहः ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-३/१५९) समानः निर्देशः ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-४/१५९) किम् च अतः ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-५/१५९) यदि षष्ठी सन्यङन्तस्य द्विर्वचनेन भवितव्यम् ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-६/१५९) अथ सप्तमी सन्यङोः परतः पूर्वस्य द्विर्वचनम् ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-७/१५९) कः च अत्र विशेषः ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-८/१५९) सन्यङोः परतः इति चेत् इटः द्विर्वचनम् परादित्वात् ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-९/१५९) सन्यङोः परतः इति चेत् इटः द्विर्वचनम् कर्तव्यम् ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-१०/१५९) अटिटिषति ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-११/१५९) अशिशिषति ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-१२/१५९) किम् पुनः कारणम् न सिध्यति ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-१३/१५९) परादित्वात् ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-१४/१५९) इट् परादिः ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-१५/१५९) हन्तेः च ईटः ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-१६/१५९) हन्तेः च ईटः द्विर्वचनम् कर्तव्यम् ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-१७/१५९) जेघ्नीयते ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-१८/१५९) ननु च यस्य अपि सन्यङन्तस्य द्विर्वचनम् तस्य अपि स्थानिवद्भावप्रसङ्गः ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-१९/१५९) ईटि स्थानिवद्भावात् ईटः द्विर्वचनम् न प्राप्नोति ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-२०/१५९) न एषः दोषः ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-२१/१५९) द्विर्वचननिमित्ते अचि स्थानिवत् इति उच्यते न च असौ द्विर्वचननिमित्तम् ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-२२/१५९) यस्मिन् अपि द्विर्वचनम् यस्य अपि द्विर्वचनम् सर्वः असौ द्विर्वचननिमित्तम् ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-२३/१५९) तस्मात् ईटः द्विर्वचनम् ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-२४/१५९) तस्मात् उभाभ्याम् ईटः द्विर्वचनम् कर्तव्यम् ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-२५/१५९) यः च उभयोः दोषः न तम् एकः चोद्यः भवति ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-२६/१५९) एकाचः उपदेशे अनुदात्तात् इति उपदेशवचनम् उदात्तविशेषणम् चेत् सनः इट्प्रतिषेधः ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-२७/१५९) एकाचः उपदेशे अनुदात्तात् इति उपदेशवचनम् उदात्तविशेषणम् चेत् सनः इट्प्रतिषेधः वक्तव्यः ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-२८/१५९) बिभित्सति ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-२९/१५९) चिच्छित्सति ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-३०/१५९) द्विर्वचने कृते उपदेशे अनुदात्तात् एकाचः श्रूयमाणात् इति इट्प्रतिषेधः न प्राप्नोति ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-३१/१५९) अस्तु तर्हि सन्यङन्तस्य ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-३२/१५९) सन्यङन्तस्य इति चेत् अशेः सनि अनिटः ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-३३/१५९) सन्यङन्तस्य इति चेत् अशेः सनि अनिटः द्विर्वचनम् वक्तव्यम् ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-३४/१५९) इयक्षमाणाः भृगुभिः सजोषाः ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-३५/१५९) यस्य अपि सन्यङोः परतः द्विर्वचनम् तेन अपि अत्र अवश्यम् इडभावे यत्नः कर्तव्यः ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-३६/१५९) किम् कारणम् ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-३७/१५९) अशेः हि प्रतिपदम् इट् विधीयते स्मिपूङ्रञ्ज्वशाम् सनि इति ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-३८/१५९) तेन एव द्वितीयद्विर्वचनम् अपि न भविष्यति ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-३९/१५९) अथ वा न एतत् अशेः रूपम् ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-४०/१५९) यजेः एषः छान्दसः वर्णलोपः ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-४१/१५९) तत् यथा तुभ्य इदम् अग्ने ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-४२/१५९) तुभ्यम् इदम् अग्ने इति प्राप्ते ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-४३/१५९) अम्बानाम् चरुम् ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-४४/१५९) नाम्बानाम् चरुम् इति प्राप्ते ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-४५/१५९) आव्याधिनीः उगणाः ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-४६/१५९) सुगणाः इति प्राप्ते ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-४७/१५९) इष्कर्तरम् अध्वरस्य ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-४८/१५९) निष्कर्तारम् इति प्राप्ते ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-४९/१५९) शिवा उद्रस्य भेषजी ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-५०/१५९) शिवा रुद्रस्य भेषजी इति प्राप्ते ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-५१/१५९) अश्यर्थः वै गम्यते ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-५२/१५९) कः पुनः अशेः अर्थः ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-५३/१५९) अश्नोतिः व्यप्तिकर्मा ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-५४/१५९) यजिः अपि अश्यर्थे वर्तते ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-५५/१५९) कथम् पुनः अन्यः नाम अन्यस्य अर्थे वर्तते ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-५६/१५९) बह्वर्थाः अपि धातवः भवन्ति इति ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-५७/१५९) तत् यथा ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-५८/१५९) वपिः प्रकिरणे दृष्टः छेदने च अपि वर्तते ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-५९/१५९) केशान् वपति इति ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-६०/१५९) ईडिः स्तुदिचोदनायाच्ञासु दृष्टः ईरणे च अपि वर्तते ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-६१/१५९) अग्निः वै इतः वृष्टिम् ईट्टे ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-६२/१५९) मरुतः अमुतः च्यावयन्ति ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-६३/१५९) करोतिः अयम् अभूतप्रादुर्भावे दृष्टः निर्मलीकरणे च अपि वर्तते ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-६४/१५९) पृष्ठम् कुरु ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-६५/१५९) पादौ कुरु ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-६६/१५९) उन्मृदान इति गम्यते ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-६७/१५९) निक्षेपणे च अपि दृश्यते ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-६८/१५९) कटे कुरु ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-६९/१५९) घटे कुरु ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-७०/१५९) अश्मानम् इतः कुरु ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-७१/१५९) स्थापय इति गम्यते ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-७२/१५९) एवम् तर्हि दीर्घकुत्वप्रसारणषत्वम् अधिकस्य द्विर्वचनात् । दीर्घत्वम् द्विर्वचनाधिकस्य न सिध्यति ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-७३/१५९) चिचीषति ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-७४/१५९) तुष्टूषति ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-७५/१५९) समुदायस्य समुदायः आदेशः ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-७६/१५९) तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः सन् भवति ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-७७/१५९) तत्र अजन्तानाम् सनि इति दीर्घत्वम् न प्राप्नोति ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-७८/१५९) इदम् इह सम्प्रधार्यम् दीर्घत्वम् क्रियताम् द्विर्वचनम् इति किम् अत्र कर्तव्यम् ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-७९/१५९) परत्वात् दीर्घत्वम् ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-८०/१५९) नित्यम् द्विर्वचनम् ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-८१/१५९) कृते अपि दीर्घत्वे प्राप्नोति अकृते अपि प्राप्नोति ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-८२/१५९) दीर्घत्वम् अपि नित्यम् ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-८३/१५९) कृते अपि द्विर्वचने प्राप्नोति अकृते अपि प्राप्नोति ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-८४/१५९) अनित्यम् दीर्घत्वम् ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-८५/१५९) न हि कृते द्विर्वचने प्राप्नोति ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-८६/१५९) किम् कारणम् ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-८७/१५९) समुदायस्य समुदायः आदेशः ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-८८/१५९) तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य अजन्तता न अस्ति इति दीर्घत्वम् न प्राप्नोति ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-८९/१५९) द्विर्वचनम् अपि अनित्यम् ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-९०/१५९) अन्यस्य कृते दीर्घत्वे प्राप्नोति अन्यस्य अकृते ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-९१/१५९) शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-९२/१५९) उभयोः अनित्ययोः परत्वात् दीर्घत्वम् ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-९३/१५९) यत् तर्हि न अकृते द्विर्वचने दीर्घत्वम् तत् न सिध्यति ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-९४/१५९) जुहूषति इति ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-९५/१५९) कुत्वम् द्विर्वचनाधिकस्य न सिध्यति ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-९६/१५९) जिघांसति ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-९७/१५९) जङ्घन्यते ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-९८/१५९) किम् कारणम् ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-९९/१५९) समुदायस्य समुदायः आदेशः ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-१००/१५९) तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः हन्तिः भवति ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-१०१/१५९) तत्र अभ्यासात् हन्तिहकारस्य इति कुत्वम् न सिध्यति ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-१०२/१५९) सम्प्रसारणम् च द्विर्वचनाधिकस्य न सिध्यति ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-१०३/१५९) जुहूषति. जोहूयते ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-१०४/१५९) समुदायस्य समुदायः आदेशः ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-१०५/१५९) तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः हवयतिः भवति ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-१०६/१५९) तत्र ह्वः सम्प्रसारणम् अभ्यस्तस्य इति सम्प्रसारणम् न प्राप्नोति ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-१०७/१५९) न एषः दोषः ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-१०८/१५९) वक्ष्यति हि एतत् ह्वः अभ्यस्तनिमित्तस्य इति ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-१०९/१५९) यावता च इदानीम् ह्वः अभ्यस्तनिमित्तस्य इति उच्यते सः अपि अदोषः भवति यत् उक्तम् यत् तर्हि न अकृते द्विर्वचने दीर्घत्वम् तत् न सिध्यति इति ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-११०/१५९) षत्वम् च द्विर्वचनाधिकस्य न सिध्यति ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-१११/१५९) पिपक्षति ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-११२/१५९) यियक्षति ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-११३/१५९) समुदायस्य समुदायः आदेशः ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-११४/१५९) तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः सन् भवति ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-११५/१५९) तत्र इण्कुभ्याम् उत्तरस्य प्रत्ययसकारस्य इति षत्वम् न प्रापोति ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-११६/१५९) इदम् इह सम्प्रधार्यम् द्विर्वचनम् क्रियताम् षत्वम् इति किम् अत्र कर्तव्यम् ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-११७/१५९) परत्वात् षत्वम् ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-११८/१५९) पूर्वत्रासिद्धे षत्वम् सिद्धासिद्धयोः च न अस्ति सम्प्रधारणा ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-११९/१५९) आबृध्योः च अभ्यस्तविधिप्रतिषेधः ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-१२०/१५९) आबृध्योः च अभ्यस्ताश्रयः विधिः प्राप्नोति ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-१२१/१५९) सः प्रतिषेध्यः ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-१२२/१५९) ईप्सति ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-१२३/१५९) ईर्त्सति ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-१२४/१५९) ईप्सन् ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-१२५/१५९) ईर्त्सन् ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-१२६/१५९) ऐप्सन् ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-१२७/१५९) ऐर्त्सन् ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-१२८/१५९) किम् च स्यात् ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-१२९/१५९) अद्भावः नुम्प्रतिषेधः जुस्भावः इति एते विधयः प्रसज्येरन् ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-१३०/१५९) न एषः दोषः ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-१३१/१५९) उक्ताः अत्र परिहाराः ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-१३२/१५९) सङाश्रये च समुदायस्य समुदायादेशत्वात् झलाश्रये च अव्यपदेशः आमिश्रत्वात् ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-१३३/१५९) सङाश्रये च कार्ये समुदायस्य समुदायादेशत्वात् झलाश्रये च अव्यपदेशः ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-१३४/१५९) किम् कारणम् ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-१३५/१५९) आमिश्रत्वात् ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-१३६/१५९) आमिश्रीभूतम् इदम् भवति ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-१३७/१५९) तत् यथा ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-१३८/१५९) क्षीरोदके सम्पृक्ते ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-१३९/१५९) आमिश्रत्वात् न ज्ञायते कियत् क्षीरम् कियत् उदकम् इति ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-१४०/१५९) कस्मिन् अवकाशे क्षीरम् कस्मिन् अवकाशे उदकम् इति ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-१४१/१५९) एवम् इह अपि आमिश्रत्वात् न ज्ञायते का प्रकृतिः कः प्रत्ययः कस्मिन् अवकाशे प्रकृतिः कस्मिन् अवकाशे प्रत्ययः इति ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-१४२/१५९) तत्र कः दोषः ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-१४३/१५९) सङि झलि इति कुत्वादीनि न सिध्यन्ति ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-१४४/१५९) इदम् इह सम्प्रधार्यम् द्विर्वचनम् क्रियताम् कुत्वादीनि इति किम् अत्र कर्तव्यम् ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-१४५/१५९) परत्वात् कुत्वादीनि ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-१४६/१५९) पूर्वत्रासिद्धे कुत्वादीनि सिद्धासिद्धयोः च न अस्ति सम्प्रधारणा ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-१४७/१५९) एवम् तर्हि पूर्वत्रासिद्धीयम् अद्विर्वचने इति वक्तव्यम्. तत् च अवश्यम् वक्तव्यम् ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-१४८/१५९) विभाषिताः प्रयोजयन्ति ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-१४९/१५९) द्रोग्धा द्रोग्धा ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-१५०/१५९) द्रोढा द्रोढा ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-१५१/१५९) यावता च इदानीम् पूर्वत्रासिद्धीयम् अद्विर्वचने इति उच्यते सः अपि अदोषः भवति यत् उक्तम् षत्वम् न सिध्यति ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-१५२/१५९) इह स्थाने द्विर्वचने णिलोपः अपरिहृतः ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-१५३/१५९) सन्यङोः परतः द्विर्वचने इटः द्विर्वचनम् वक्तव्यम् ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-१५४/१५९) सन्यङन्तस्य द्विर्वचने हन्तेः कुत्वम् अपरिहृतम् ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-१५५/१५९) तत्र सन्यङन्तस्य द्विर्वचनम् द्विःप्रयोगः च इति एषः पक्षः निर्दोषः ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-१५६/१५९) तत्र इदम् अपरिहृतम् सनः इटः प्रतिषेधः इति ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-१५७/१५९) एतस्य अपि परिहारम् वक्ष्यति उभयविशेषणत्वात् सिद्धम् इति ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-१५८/१५९) कथम् जेघ्नीयते ।

(पा-६,१.९; अकि-३,१३.७-१६.७; रो-४,३११-३१७; भा-१५९/१५९) वक्ष्यति एतत् यङ्प्रकरणे हन्तेः हिंसायाम् घ्नी इति ।