व्याकरणमहाभाष्य खण्ड 28
(पा-२,३.२८; अकि-१,४५५.४-४५६. ५; रो-२,७९७-८००; भा-१/४४) पञ्चमीविधाने ल्यब्लोपे कर्मणि उपसङ्ख्यानम् ।
(पा-२,३.२८; अकि-१,४५५.४-४५६. ५; रो-२,७९७-८००; भा-२/४४) पञ्चमीविधाने ल्यब्लोपे कर्मणि उपसङ्ख्यानम् कर्तव्यम् ।
(पा-२,३.२८; अकि-१,४५५.४-४५६. ५; रो-२,७९७-८००; भा-३/४४) प्रासादम् आरुह्य प्रेक्षते ।
(पा-२,३.२८; अकि-१,४५५.४-४५६. ५; रो-२,७९७-८००; भा-४/४४) प्रासादात्प्रेक्षते ।
(पा-२,३.२८; अकि-१,४५५.४-४५६. ५; रो-२,७९७-८००; भा-५/४४) अधिकरणे च ।
(पा-२,३.२८; अकि-१,४५५.४-४५६. ५; रो-२,७९७-८००; भा-६/४४) अधिकरणे च उपसङ्ख्यानम् कर्तव्यम् ।
(पा-२,३.२८; अकि-१,४५५.४-४५६. ५; रो-२,७९७-८००; भा-७/४४) आसनात् प्रेक्षते ।
(पा-२,३.२८; अकि-१,४५५.४-४५६. ५; रो-२,७९७-८००; भा-८/४४) शयनात् प्रेक्षते ।
(पा-२,३.२८; अकि-१,४५५.४-४५६. ५; रो-२,७९७-८००; भा-९/४४) प्रश्नाख्यानयोः च ।
(पा-२,३.२८; अकि-१,४५५.४-४५६. ५; रो-२,७९७-८००; भा-१०/४४) प्रश्नाख्यानयोः च पञ्चमी वक्तव्या ।
(पा-२,३.२८; अकि-१,४५५.४-४५६. ५; रो-२,७९७-८००; भा-११/४४) कुतः भवान् ।
(पा-२,३.२८; अकि-१,४५५.४-४५६. ५; रो-२,७९७-८००; भा-१२/४४) पाटलिपुत्रात् ।
(पा-२,३.२८; अकि-१,४५५.४-४५६. ५; रो-२,७९७-८००; भा-१३/४४) यतः च अध्वकालनिर्माणम् । यतः च अध्वकालनिर्माणम् तत्र पञ्चमी वक्तव्या ।
(पा-२,३.२८; अकि-१,४५५.४-४५६. ५; रो-२,७९७-८००; भा-१४/४४) गवीधुमतः सावकाश्यईम् चत्वारि योजनानि ।
(पा-२,३.२८; अकि-१,४५५.४-४५६. ५; रो-२,७९७-८००; भा-१५/४४) कार्तिक्याः आग्रहायणी मासे ।
(पा-२,३.२८; अकि-१,४५५.४-४५६. ५; रो-२,७९७-८००; भा-१६/४४) तद्युक्तात् काले सप्तमी । तद्युक्तात् काले सप्तमी वक्तव्या ।
(पा-२,३.२८; अकि-१,४५५.४-४५६. ५; रो-२,७९७-८००; भा-१७/४४) कार्तिक्याः आग्रहायणी मासे ।
(पा-२,३.२८; अकि-१,४५५.४-४५६. ५; रो-२,७९७-८००; भा-१८/४४) अध्वनः प्रथमा च । अध्वनः प्रथमा च सप्तमी च वक्तय्वा ।
(पा-२,३.२८; अकि-१,४५५.४-४५६. ५; रो-२,७९७-८००; भा-१९/४४) गवीधुमतः सावकाश्यईम् चत्वारि योजनानि चतुर्षु योजनेषु ।
(पा-२,३.२८; अकि-१,४५५.४-४५६. ५; रो-२,७९७-८००; भा-२०/४४) तत् तर्हि इदं बहु वक्तव्यम् ।
(पा-२,३.२८; अकि-१,४५५.४-४५६. ५; रो-२,७९७-८००; भा-२१/४४) न वक्तव्यम् ।
(पा-२,३.२८; अकि-१,४५५.४-४५६. ५; रो-२,७९७-८००; भा-२२/४४) अपादाने इति एव सिद्धम् ।
(पा-२,३.२८; अकि-१,४५५.४-४५६. ५; रो-२,७९७-८००; भा-२३/४४) इह तावत् प्रासादात् प्रेक्षते ।
(पा-२,३.२८; अकि-१,४५५.४-४५६. ५; रो-२,७९७-८००; भा-२४/४४) शयनात् प्रेक्षते इति ।
(पा-२,३.२८; अकि-१,४५५.४-४५६. ५; रो-२,७९७-८००; भा-२५/४४) अपक्रामति तत् तस्मात् दर्शनम् ।
(पा-२,३.२८; अकि-१,४५५.४-४५६. ५; रो-२,७९७-८००; भा-२६/४४) यदि अपक्रामति किम् न अत्यन्ताय अपक्रामति ।
(पा-२,३.२८; अकि-१,४५५.४-४५६. ५; रो-२,७९७-८००; भा-२७/४४) सन्ततत्वात् ।
(पा-२,३.२८; अकि-१,४५५.४-४५६. ५; रो-२,७९७-८००; भा-२८/४४) अथ वा अन्यान्यप्रादुर्भावा ।
(पा-२,३.२८; अकि-१,४५५.४-४५६. ५; रो-२,७९७-८००; भा-२९/४४) प्रश्नाख्यानयोः च पञ्चमी वक्तव्या इति ।
(पा-२,३.२८; अकि-१,४५५.४-४५६. ५; रो-२,७९७-८००; भा-३०/४४) इदम् अत्र प्रयोक्तव्यम् सत् न प्रयुज्यते ।
(पा-२,३.२८; अकि-१,४५५.४-४५६. ५; रो-२,७९७-८००; भा-३१/४४) कुतः भवान् आगच्छति ।
(पा-२,३.२८; अकि-१,४५५.४-४५६. ५; रो-२,७९७-८००; भा-३२/४४) पाटलिपुत्रात् आगच्छमि इति ।
(पा-२,३.२८; अकि-१,४५५.४-४५६. ५; रो-२,७९७-८००; भा-३३/४४) यतः च अध्वकालनिर्माणम् तत्र पञ्चमी वक्तव्या इति ।
(पा-२,३.२८; अकि-१,४५५.४-४५६. ५; रो-२,७९७-८००; भा-३४/४४) इदम् अत्र प्रयोक्तव्यम् सत् न प्रयुज्यते गवीधुमतः निःसृत्य साङ्काश्यम् चत्वारि योजनानि ।
(पा-२,३.२८; अकि-१,४५५.४-४५६. ५; रो-२,७९७-८००; भा-३५/४४) कार्तिक्याः आग्रहायणी मासे इति ।
(पा-२,३.२८; अकि-१,४५५.४-४५६. ५; रो-२,७९७-८००; भा-३६/४४) इदम् अत्र प्रयोक्तव्यम् सत् न प्रयुज्यते ।
(पा-२,३.२८; अकि-१,४५५.४-४५६. ५; रो-२,७९७-८००; भा-३७/४४) कार्त्तिक्याः प्रभृति आग्रहायणी मास इति ।
(पा-२,३.२८; अकि-१,४५५.४-४५६. ५; रो-२,७९७-८००; भा-३८/४४) तद्युक्तात् काले सप्तमी वक्तव्या इति ।
(पा-२,३.२८; अकि-१,४५५.४-४५६. ५; रो-२,७९७-८००; भा-३९/४४) इदम् अत्र प्रयोक्तव्यम् सत् न प्रयुज्यते ।
(पा-२,३.२८; अकि-१,४५५.४-४५६. ५; रो-२,७९७-८००; भा-४०/४४) कार्त्तिक्याः आग्रहायणी गते मासे इति ।
(पा-२,३.२८; अकि-१,४५५.४-४५६. ५; रो-२,७९७-८००; भा-४१/४४) अध्वनः प्रथमा च सप्तमी च इति ।
(पा-२,३.२८; अकि-१,४५५.४-४५६. ५; रो-२,७९७-८००; भा-४२/४४) इदम् अत्र प्रयोक्तव्यम् सत् न प्रयुज्यते ।
(पा-२,३.२८; अकि-१,४५५.४-४५६. ५; रो-२,७९७-८००; भा-४३/४४) गवीधुमतो निःसृत्य यदा चत्वारि योजनानि गतानि भवन्ति ततः साङ्काश्यम् ।
(पा-२,३.२८; अकि-१,४५५.४-४५६. ५; रो-२,७९७-८००; भा-४४/४४) चतुर्षु योजनेषु गतेषु साङ्काश्यम् इति ।
(पा-२,३.२९; अकि-१,४५६.७-८; रो-२,८००; भा-१/३) अञ्चूत्तरपदग्रहणम् किमर्थम् न दिक्शब्दैः योगे इति एव सिद्धम् ।
(पा-२,३.२९; अकि-१,४५६.७-८; रो-२,८००; भा-२/३) षष्ठी अतसर्थप्रत्ययेन इति वक्ष्यति ।
(पा-२,३.२९; अकि-१,४५६.७-८; रो-२,८००; भा-३/३) तस्य अयम् पुरस्तात् अपकर्षः ।
(पा-२,३.३०; अकि-१,४५६.१०-१५; रो-२,८०१; भा-१/११) अर्थग्रहणम् किमर्थम् ।
(पा-२,३.३०; अकि-१,४५६.१०-१५; रो-२,८०१; भा-२/११) षष्ठी अतस्प्रत्ययेन इति उच्यमाने इह एव स्यात् ।
(पा-२,३.३०; अकि-१,४५६.१०-१५; रो-२,८०१; भा-३/११) दक्षिणतो ग्रामस्य उत्तरतो ग्रामस्य इति ।
(पा-२,३.३०; अकि-१,४५६.१०-१५; रो-२,८०१; भा-४/११) इह न स्यात् ।
(पा-२,३.३०; अकि-१,४५६.१०-१५; रो-२,८०१; भा-५/११) उपरि ग्रामस्य उपरिष्टात् ग्रामस्य इति ।
(पा-२,३.३०; अकि-१,४५६.१०-१५; रो-२,८०१; भा-६/११) अर्थग्रहणे पुनः क्रियमाणे अतस्प्रत्ययेन च सिद्धम् भवति यः च अन्यः तेन समानार्थः ।
(पा-२,३.३०; अकि-१,४५६.१०-१५; रो-२,८०१; भा-७/११) अथ प्रत्ययग्रहणम् किमर्थम् ।
(पा-२,३.३०; अकि-१,४५६.१०-१५; रो-२,८०१; भा-८/११) इह मा भूत् ।
(पा-२,३.३०; अकि-१,४५६.१०-१५; रो-२,८०१; भा-९/११) प्राक् ग्रामात् प्रत्यक् ग्रामात् ।
(पा-२,३.३०; अकि-१,४५६.१०-१५; रो-२,८०१; भा-१०/११) अञ्चूत्तरपदस्य अपि एतत् प्रयोजनम् उक्तम् ।
(पा-२,३.३०; अकि-१,४५६.१०-१५; रो-२,८०१; भा-११/११) तत्र अन्यतरत् शक्यम् अकर्तुम् ।
(पा-२,३.३२; अकि-१,४५६.१६-४५७.१५; रो-२,८०१-८०३; भा-१/३८) पृथगादिषु पञ्चमीविधानम् ।
(पा-२,३.३२; अकि-१,४५६.१६-४५७.१५; रो-२,८०१-८०३; भा-२/३८) पृथगादिषु पञ्चमीविधेया ।
(पा-२,३.३२; अकि-१,४५६.१६-४५७.१५; रो-२,८०१-८०३; भा-३/३८) पृथक् देवदत्तात् ।
(पा-२,३.३२; अकि-१,४५६.१६-४५७.१५; रो-२,८०१-८०३; भा-४/३८) किमर्थम् न प्रकृतम् पञ्चमीग्रहणम् अनुवर्तते ।
(पा-२,३.३२; अकि-१,४५६.१६-४५७.१५; रो-२,८०१-८०३; भा-५/३८) क्व प्रकृतम् ।
(पा-२,३.३२; अकि-१,४५६.१६-४५७.१५; रो-२,८०१-८०३; भा-६/३८) अपादाने पञ्चमी इति. अनधिकारात् ।
(पा-२,३.३२; अकि-१,४५६.१६-४५७.१५; रो-२,८०१-८०३; भा-७/३८) अनधिकारः सः ।
(पा-२,३.३२; अकि-१,४५६.१६-४५७.१५; रो-२,८०१-८०३; भा-८/३८) अधिकारे हि द्वितीयाषष्ठीविषये प्रतिषेधः ।
(पा-२,३.३२; अकि-१,४५६.१६-४५७.१५; रो-२,८०१-८०३; भा-९/३८) अधिकारे हि द्वितीयाषष्ठीविषये प्रतिषेधः वक्तव्यः स्यात् ।
(पा-२,३.३२; अकि-१,४५६.१६-४५७.१५; रो-२,८०१-८०३; भा-१०/३८) दक्षिणेन ग्रामम् , दक्षिणतः ग्रामस्य ।
(पा-२,३.३२; अकि-१,४५६.१६-४५७.१५; रो-२,८०१-८०३; भा-११/३८) एवम् तर्हि अन्यतरस्याङ्ग्रहणसामर्थ्यात् पञ्चमी भविष्यति ।
(पा-२,३.३२; अकि-१,४५६.१६-४५७.१५; रो-२,८०१-८०३; भा-१२/३८) अस्ति अन्यत् अन्यतरस्याङ्ग्रहणस्य प्रयोजनम् ।
(पा-२,३.३२; अकि-१,४५६.१६-४५७.१५; रो-२,८०१-८०३; भा-१३/३८) किम् ।
(पा-२,३.३२; अकि-१,४५६.१६-४५७.१५; रो-२,८०१-८०३; भा-१४/३८) यस्याम् न अप्राप्तायाम् तृतीया आरभ्यते सा यथा स्यात् ।
(पा-२,३.३२; अकि-१,४५६.१६-४५७.१५; रो-२,८०१-८०३; भा-१५/३८) कस्याम् च न अप्राप्तायाम् ।
(पा-२,३.३२; अकि-१,४५६.१६-४५७.१५; रो-२,८०१-८०३; भा-१६/३८) अन्ततः षष्ठ्याम् ।
(पा-२,३.३२; अकि-१,४५६.१६-४५७.१५; रो-२,८०१-८०३; भा-१७/३८) तत् तर्हि वक्तव्यम् ।
(पा-२,३.३२; अकि-१,४५६.१६-४५७.१५; रो-२,८०१-८०३; भा-१८/३८) न वक्तव्यम् ।
(पा-२,३.३२; अकि-१,४५६.१६-४५७.१५; रो-२,८०१-८०३; भा-१९/३८) प्रकृतम् अनुवर्तते ।
(पा-२,३.३२; अकि-१,४५६.१६-४५७.१५; रो-२,८०१-८०३; भा-२०/३८) क्व प्रकृतम् ।
(पा-२,३.३२; अकि-१,४५६.१६-४५७.१५; रो-२,८०१-८०३; भा-२१/३८) अपादाने पञ्चमी इति ।
(पा-२,३.३२; अकि-१,४५६.१६-४५७.१५; रो-२,८०१-८०३; भा-२२/३८) ननु च उक्तम् अनधिकारः सः अधिकारे हि द्वितीयाषष्ठीविषये प्रतिषेधः इति ।
(पा-२,३.३२; अकि-१,४५६.१६-४५७.१५; रो-२,८०१-८०३; भा-२३/३८) एवम् तर्हि सम्बन्धम् अनुवर्तिष्यते ।
(पा-२,३.३२; अकि-१,४५६.१६-४५७.१५; रो-२,८०१-८०३; भा-२४/३८) अपादाने पञ्चमी ।
(पा-२,३.३२; अकि-१,४५६.१६-४५७.१५; रो-२,८०१-८०३; भा-२५/३८) अन्यारादितरर्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते पञ्चमी ।
(पा-२,३.३२; अकि-१,४५६.१६-४५७.१५; रो-२,८०१-८०३; भा-२६/३८) षष्ठी अतसर्थप्रत्ययेन अन्यारादिभिः योगे पञ्चमी ।
(पा-२,३.३२; अकि-१,४५६.१६-४५७.१५; रो-२,८०१-८०३; भा-२७/३८) एनपा द्वितीया अन्यारादिभिर्योगे पञ्चमी ।
(पा-२,३.३२; अकि-१,४५६.१६-४५७.१५; रो-२,८०१-८०३; भा-२८/३८) पृथग्विनानानाभिः तृतीया अन्यतरस्याम् ।
(पा-२,३.३२; अकि-१,४५६.१६-४५७.१५; रो-२,८०१-८०३; भा-२९/३८) पञ्चमीग्रहणम् अनुवर्तते अन्यारादिभिः योगे इति निवृत्तम् ।
(पा-२,३.३२; अकि-१,४५६.१६-४५७.१५; रो-२,८०१-८०३; भा-३०/३८) अथ वा मण्डूकगतयः अधिकाराः ।
(पा-२,३.३२; अकि-१,४५६.१६-४५७.१५; रो-२,८०१-८०३; भा-३१/३८) तत्. यथा मण्डूकाः उत्प्लुत्य उत्प्लुत्य गच्छन्ति तद्वत् अधिकाराः ।
(पा-२,३.३२; अकि-१,४५६.१६-४५७.१५; रो-२,८०१-८०३; भा-३२/३८) अथ वा अन्यवचनात् चकाराकरणात् प्रकृतस्य अपवादः विज्ञायते यथा उत्सर्गेण प्रसक्तस्य ।
(पा-२,३.३२; अकि-१,४५६.१६-४५७.१५; रो-२,८०१-८०३; भा-३३/३८) अन्यस्या विभक्तेः वचनात् चकारस्य अनुकर्षणार्थस्य अकरणात् प्रकृतायः पञ्चम्याः द्वितीयाषष्ठ्यौ बाधिके भविष्यतः यथा उत्सर्गेण प्रसक्तस्य अपवादः बाधकः भवति ।
(पा-२,३.३२; अकि-१,४५६.१६-४५७.१५; रो-२,८०१-८०३; भा-३४/३८) अथ वा वक्ष्यति एतत् ।
(पा-२,३.३२; अकि-१,४५६.१६-४५७.१५; रो-२,८०१-८०३; भा-३५/३८) अनुवर्तन्ते च नाम विधयः ।
(पा-२,३.३२; अकि-१,४५६.१६-४५७.१५; रो-२,८०१-८०३; भा-३६/३८) न च अनुवर्तनात् एव भवन्ति ।
(पा-२,३.३२; अकि-१,४५६.१६-४५७.१५; रो-२,८०१-८०३; भा-३७/३८) किम् तर्हि ।
(पा-२,३.३२; अकि-१,४५६.१६-४५७.१५; रो-२,८०१-८०३; भा-३८/३८) यत्नात् भवन्ति इति ।
(पा-२,३.३५; अकि-१,४५७.१७-२३; रो-२,८०३-८०४; भा-१/७) दूरान्तिकार्थेभ्यः पञ्चमीविधाने तद्युक्तात् पञ्चमीप्रतिषेधः ।
(पा-२,३.३५; अकि-१,४५७.१७-२३; रो-२,८०३-८०४; भा-२/७) दूरान्तिकार्थेभ्यः पञ्चमीविधाने तद्युक्तात्पञ्चम्याः प्रतिषेधः वक्तव्यः ।
(पा-२,३.३५; अकि-१,४५७.१७-२३; रो-२,८०३-८०४; भा-३/७) दूराद् ग्रामस्य ।
(पा-२,३.३५; अकि-१,४५७.१७-२३; रो-२,८०३-८०४; भा-४/७) न वा तत्र अपि दर्शनात् अप्रतिषेधः ।
(पा-२,३.३५; अकि-१,४५७.१७-२३; रो-२,८०३-८०४; भा-५/७) न वा तत्र अपि दर्शनात् पञ्चम्याः प्रतिषेधः अनर्थकः ।
(पा-२,३.३५; अकि-१,४५७.१७-२३; रो-२,८०३-८०४; भा-६/७) तत्र अपि पञ्चमी दृश्यते ।
(पा-२,३.३५; अकि-१,४५७.१७-२३; रो-२,८०३-८०४; भा-७/७) दूरात् आवसथात् मूत्रम् दूरात् पादावसेचनम् दूरात् च भाव्यम् दस्युभ्यः दूरात् च कुपितात् गुरोः ।
(पा-२,३.३६; अकि-१,४५८.२-२९; रो-२,८०४-८०६; भा-१/२७) सप्तमीविधाने क्तस्य इन्विषयस्य कर्मणि उप्सङ्ख्यानम् ।
(पा-२,३.३६; अकि-१,४५८.२-२९; रो-२,८०४-८०६; भा-२/२७) सप्तमीविधाने क्तस्य इन्विषयस्य कर्मणि उप्सङ्ख्यानम् वक्तव्यम् ।
(पा-२,३.३६; अकि-१,४५८.२-२९; रो-२,८०४-८०६; भा-३/२७) अधीती व्याकरणे ।
(पा-२,३.३६; अकि-१,४५८.२-२९; रो-२,८०४-८०६; भा-४/२७) परिगणिती याज्ञिक्ये ।
(पा-२,३.३६; अकि-१,४५८.२-२९; रो-२,८०४-८०६; भा-५/२७) आम्नाती च्छन्दसि ।
(पा-२,३.३६; अकि-१,४५८.२-२९; रो-२,८०४-८०६; भा-६/२७) साध्वसाधुप्रयोगे च ।
(पा-२,३.३६; अकि-१,४५८.२-२९; रो-२,८०४-८०६; भा-७/२७) साध्वसाधुप्रयोगे च सप्तमी वक्तव्या ।
(पा-२,३.३६; अकि-१,४५८.२-२९; रो-२,८०४-८०६; भा-८/२७) साधुः देवदत्तः मातरि ।
(पा-२,३.३६; अकि-१,४५८.२-२९; रो-२,८०४-८०६; भा-९/२७) असाधुः पितरि ।
(पा-२,३.३६; अकि-१,४५८.२-२९; रो-२,८०४-८०६; भा-१०/२७) कारकार्हाणाम् च कारकत्वे ।
(पा-२,३.३६; अकि-१,४५८.२-२९; रो-२,८०४-८०६; भा-११/२७) कारकार्हाणाम् च कारकत्वे सप्तमी वक्तव्या ।
(पा-२,३.३६; अकि-१,४५८.२-२९; रो-२,८०४-८०६; भा-१२/२७) ऋद्धेषु भुञ्जानेषु दरिद्राः आसते ।
(पा-२,३.३६; अकि-१,४५८.२-२९; रो-२,८०४-८०६; भा-१३/२७) ब्राह्मणेषु तरत्सु वृषलाः आसते ।
(पा-२,३.३६; अकि-१,४५८.२-२९; रो-२,८०४-८०६; भा-१४/२७) अकारकार्हाणाम् चाकारकत्वे ।
(पा-२,३.३६; अकि-१,४५८.२-२९; रो-२,८०४-८०६; भा-१५/२७) अकारकार्हाणाम् चाकारकत्वे सप्तमी वक्तव्या ।
(पा-२,३.३६; अकि-१,४५८.२-२९; रो-२,८०४-८०६; भा-१६/२७) मूर्खेषु आसीनेषु वृद्धाः भुञ्जते ।
(पा-२,३.३६; अकि-१,४५८.२-२९; रो-२,८०४-८०६; भा-१७/२७) वृषलेषु आसीनेषु ब्राह्मणाः तरन्ति ।
(पा-२,३.३६; अकि-१,४५८.२-२९; रो-२,८०४-८०६; भा-१८/२७) तद्विपर्यासे च ।
(पा-२,३.३६; अकि-१,४५८.२-२९; रो-२,८०४-८०६; भा-१९/२७) तद्विपर्यासे च सप्तमी वक्तव्या ।
(पा-२,३.३६; अकि-१,४५८.२-२९; रो-२,८०४-८०६; भा-२०/२७) ऋद्धेषु आसीनेषु मूर्खाः भुञ्जते ।
(पा-२,३.३६; अकि-१,४५८.२-२९; रो-२,८०४-८०६; भा-२१/२७) ब्राह्मणेषु आसीनेषु वृषलाः तरन्ति ।
(पा-२,३.३६; अकि-१,४५८.२-२९; रो-२,८०४-८०६; भा-२२/२७) निमित्तात् कर्मसंयोगे ।
(पा-२,३.३६; अकि-१,४५८.२-२९; रो-२,८०४-८०६; भा-२३/२७) निमित्तात्कर्मसंयोगे सप्तमी वक्तव्या ।
(पा-२,३.३६; अकि-१,४५८.२-२९; रो-२,८०४-८०६; भा-२४/२७) चर्मणि द्वीपिनम् हन्ति ।
(पा-२,३.३६; अकि-१,४५८.२-२९; रो-२,८०४-८०६; भा-२५/२७) दन्तयोः हन्ति कुञ्जरम् ।
(पा-२,३.३६; अकि-१,४५८.२-२९; रो-२,८०४-८०६; भा-२६/२७) केषेषु चमरीम् हन्ति ।
(पा-२,३.३६; अकि-१,४५८.२-२९; रो-२,८०४-८०६; भा-२७/२७) सीम्नि पुष्कलकः हतः ।
(पा-२,३.३७; अकि-१,४५८.२१-४५९.१०; रो-२,८०६-८०७; भा-१/२२) भावलक्षणे सप्तमीविधाने अभावलक्षणे उपसङ्ख्यानम् ।
(पा-२,३.३७; अकि-१,४५८.२१-४५९.१०; रो-२,८०६-८०७; भा-२/२२) भावलक्षणे सप्तमीविधाने अभावलक्षणे उपसङ्ख्यानम् कर्तव्यम् ।
(पा-२,३.३७; अकि-१,४५८.२१-४५९.१०; रो-२,८०६-८०७; भा-३/२२) अग्निषु हूयमानेषु प्रस्थितः हुतेषु आगतः ।
(पा-२,३.३७; अकि-१,४५८.२१-४५९.१०; रो-२,८०६-८०७; भा-४/२२) गोषु दुह्यमानासु प्रस्थितः दुग्धासु आगतः ।
(पा-२,३.३७; अकि-१,४५८.२१-४५९.१०; रो-२,८०६-८०७; भा-५/२२) किम् पुनः कारणम् न सिध्यति ।
(पा-२,३.३७; अकि-१,४५८.२१-४५९.१०; रो-२,८०६-८०७; भा-६/२२) लक्षणम् हि नाम तत् भवति येन पुनः पुनः लक्ष्यते ।
(पा-२,३.३७; अकि-१,४५८.२१-४५९.१०; रो-२,८०६-८०७; भा-७/२२) सकृत् च असौ कथम् चित् अग्निषु हूयमानेषु प्रस्थितः हुतेषु आगतः गोषु दुह्यमानासु प्रस्थितः दुग्धासु आगतः ।
(पा-२,३.३७; अकि-१,४५८.२१-४५९.१०; रो-२,८०६-८०७; भा-८/२२) सिद्धम् तु भावप्रवृत्तौ यस्य भावारम्भवचनात् ।
(पा-२,३.३७; अकि-१,४५८.२१-४५९.१०; रो-२,८०६-८०७; भा-९/२२) सिद्धमेतत् ।
(पा-२,३.३७; अकि-१,४५८.२१-४५९.१०; रो-२,८०६-८०७; भा-१०/२२) कथम् ।
(पा-२,३.३७; अकि-१,४५८.२१-४५९.१०; रो-२,८०६-८०७; भा-११/२२) यस्य भावप्रवृत्तौ द्वितीयः भावः आरभ्यते तत्र सप्तमी वक्तव्या ।
(पा-२,३.३७; अकि-१,४५८.२१-४५९.१०; रो-२,८०६-८०७; भा-१२/२२) सिध्यति ।
(पा-२,३.३७; अकि-१,४५८.२१-४५९.१०; रो-२,८०६-८०७; भा-१३/२२) सूत्रम् तर्हि भिद्यते ।
(पा-२,३.३७; अकि-१,४५८.२१-४५९.१०; रो-२,८०६-८०७; भा-१४/२२) यथान्यासम् एव अस्तु ।
(पा-२,३.३७; अकि-१,४५८.२१-४५९.१०; रो-२,८०६-८०७; भा-१५/२२) ननु च उक्तम् भावलक्षणे सप्तमीविधाने अभावलक्षणे उपसङ्ख्यानम् इति ।
(पा-२,३.३७; अकि-१,४५८.२१-४५९.१०; रो-२,८०६-८०७; भा-१६/२२) न एषः दोषः ।
(पा-२,३.३७; अकि-१,४५८.२१-४५९.१०; रो-२,८०६-८०७; भा-१७/२२) न खलु अवश्यम् तत् एव लक्षणम् भवति येन पुनः पुनः लक्ष्यते ।
(पा-२,३.३७; अकि-१,४५८.२१-४५९.१०; रो-२,८०६-८०७; भा-१८/२२) सकृत् अपि यत् निमित्तत्वाय कल्पते तत् अपि लक्षणम् भवति ।
(पा-२,३.३७; अकि-१,४५८.२१-४५९.१०; रो-२,८०६-८०७; भा-१९/२२) तत् यथा ।
(पा-२,३.३७; अकि-१,४५८.२१-४५९.१०; रो-२,८०६-८०७; भा-२०/२२) अपि भवान् कमण्डलुपाणिम् छात्रम् अद्राक्षीत् इति ।
(पा-२,३.३७; अकि-१,४५८.२१-४५९.१०; रो-२,८०६-८०७; भा-२१/२२) सकृत् असौ कमण्डलुपाणिः दृष्टः छात्रः ।
(पा-२,३.३७; अकि-१,४५८.२१-४५९.१०; रो-२,८०६-८०७; भा-२२/२२) तस्य तत् एव लक्षणम् भवति ।
(पा-२,३.४२; अकि-१,४५९.१२-१६; रो-२,८०७; भा-१/१३) इह कस्मात् न भवति ।
(पा-२,३.४२; अकि-१,४५९.१२-१६; रो-२,८०७; भा-२/१३) कृष्णा गवाम् सम्पन्नक्षीरतमा इति ।
(पा-२,३.४२; अकि-१,४५९.१२-१६; रो-२,८०७; भा-३/१३) विभक्ते इति उच्यते ।
(पा-२,३.४२; अकि-१,४५९.१२-१६; रो-२,८०७; भा-४/१३) न च एतत् विभक्तम् ।
(पा-२,३.४२; अकि-१,४५९.१२-१६; रो-२,८०७; भा-५/१३) विभक्तमेतत् ।
(पा-२,३.४२; अकि-१,४५९.१२-१६; रो-२,८०७; भा-६/१३) गोभ्यः कृष्णा विभज्यते ।
(पा-२,३.४२; अकि-१,४५९.१२-१६; रो-२,८०७; भा-७/१३) विभक्तम् एव यत् नित्यम् तत्र भवितव्यम् ।
(पा-२,३.४२; अकि-१,४५९.१२-१६; रो-२,८०७; भा-८/१३) न च एतत् नित्यम् विभक्तम् ।
(पा-२,३.४२; अकि-१,४५९.१२-१६; रो-२,८०७; भा-९/१३) किम् वक्तव्यम् एतत् ।
(पा-२,३.४२; अकि-१,४५९.१२-१६; रो-२,८०७; भा-१०/१३) न हि ।
(पा-२,३.४२; अकि-१,४५९.१२-१६; रो-२,८०७; भा-११/१३) कथम् अनुच्यमानम् गंस्यते ।
(पा-२,३.४२; अकि-१,४५९.१२-१६; रो-२,८०७; भा-१२/१३) विभक्तग्रहणसामर्थ्यात् ।
(पा-२,३.४२; अकि-१,४५९.१२-१६; रो-२,८०७; भा-१३/१३) यदि हि यत् विभक्तम् च अविभक्तम् च तत्र स्यात् विभाक्तग्रहणम् अनर्थकम् स्यात् ।
(पा-२,३.४३; अकि-१,४५९.१८-१९; रो-२,८०८; भा-१/४) अप्रत्यादिभिः इति वक्तव्यम् ।
(पा-२,३.४३; अकि-१,४५९.१८-१९; रो-२,८०८; भा-२/४) इह अपि यथा स्यात् ।
(पा-२,३.४३; अकि-१,४५९.१८-१९; रो-२,८०८; भा-३/४) साधुः देवदत्तः मातरम् परि ।
(पा-२,३.४३; अकि-१,४५९.१८-१९; रो-२,८०८; भा-४/४) मातरम् अनु ।
(पा-२,३.४४; अकि-१,४५९.२१-२२; रो-२,८०८; भा-१/५) प्रसितः इति उच्यते कः प्रसितः नाम ।
(पा-२,३.४४; अकि-१,४५९.२१-२२; रो-२,८०८; भा-२/५) यः तत्र नित्यम् प्रतिबद्धः ।
(पा-२,३.४४; अकि-१,४५९.२१-२२; रो-२,८०८; भा-३/५) कुतः एतत् ।
(पा-२,३.४४; अकि-१,४५९.२१-२२; रो-२,८०८; भा-४/५) सिनोतिः अयम् बध्नात्यर्थे वर्तते ।
(पा-२,३.४४; अकि-१,४५९.२१-२२; रो-२,८०८; भा-५/५) बद्धः इव असौ तत्र भवति ।
(पा-२,३.४५; अकि-१,४६०.२; रो-२,८०८; भा-१/४) इह कस्मात् न भवति ।
(पा-२,३.४५; अकि-१,४६०.२; रो-२,८०८; भा-२/४) अद्य पुष्यः ।
(पा-२,३.४५; अकि-१,४६०.२; रो-२,८०८; भा-३/४) अद्य मघा इति ।
(पा-२,३.४५; अकि-१,४६०.२; रो-२,८०८; भा-४/४) अधिकरणे इति वर्तते ।
(पा-२,३.४६.१; अकि-१,४६१.२-२२; रो-२,८०९-८१४; भा-१/४७) प्रातिपदिकग्रहणम् किमर्थम् ।
(पा-२,३.४६.१; अकि-१,४६१.२-२२; रो-२,८०९-८१४; भा-२/४७) उच्चैः नीचैः इति आपि यथा स्यात् ।
(पा-२,३.४६.१; अकि-१,४६१.२-२२; रो-२,८०९-८१४; भा-३/४७) किम् पुनः अत्र प्रथमया प्रार्थ्यते ।
(पा-२,३.४६.१; अकि-१,४६१.२-२२; रो-२,८०९-८१४; भा-४/४७) पदत्वम् ।
(पा-२,३.४६.१; अकि-१,४६१.२-२२; रो-२,८०९-८१४; भा-५/४७) न एतत् अस्ति ।षष्ठ्या अत्र पदत्वम् भविष्यति ।
(पा-२,३.४६.१; अकि-१,४६१.२-२२; रो-२,८०९-८१४; भा-६/४७) इदम् तर्हि प्रयोजनम् ।
(पा-२,३.४६.१; अकि-१,४६१.२-२२; रो-२,८०९-८१४; भा-७/४७) ग्रामः उचैः ते स्वम् ।
(पा-२,३.४६.१; अकि-१,४६१.२-२२; रो-२,८०९-८१४; भा-८/४७) ग्रामः उच्चैः तव स्वम् ।
(पा-२,३.४६.१; अकि-१,४६१.२-२२; रो-२,८०९-८१४; भा-९/४७) सपूर्वायाः प्रथमायाः विभाषा इति एषः विधिः यथा स्यात् ।
(पा-२,३.४६.१; अकि-१,४६१.२-२२; रो-२,८०९-८१४; भा-१०/४७) अथ लिङ्गग्रहणम् किमर्थम् ।
(पा-२,३.४६.१; अकि-१,४६१.२-२२; रो-२,८०९-८१४; भा-११/४७) स्त्री पुमान् नपुंसकम् इति अत अपि यथा स्यात् ।
(पा-२,३.४६.१; अकि-१,४६१.२-२२; रो-२,८०९-८१४; भा-१२/४७) न एतत् अस्ति प्रयोजनम् ।
(पा-२,३.४६.१; अकि-१,४६१.२-२२; रो-२,८०९-८१४; भा-१३/४७) एषः एव अत्र प्रातिपदिकार्थः ।
(पा-२,३.४६.१; अकि-१,४६१.२-२२; रो-२,८०९-८१४; भा-१४/४७) इदम् तर्हि ।
(पा-२,३.४६.१; अकि-१,४६१.२-२२; रो-२,८०९-८१४; भा-१५/४७) कुमारी वृक्षः कुण्डम् इति ।
(पा-२,३.४६.१; अकि-१,४६१.२-२२; रो-२,८०९-८१४; भा-१६/४७) अथ परिमाणग्रहणम् किमर्थम् ।
(पा-२,३.४६.१; अकि-१,४६१.२-२२; रो-२,८०९-८१४; भा-१७/४७) द्रोणः खारी आढकम् इति अत्र अपि यथा स्यात् ।
(पा-२,३.४६.१; अकि-१,४६१.२-२२; रो-२,८०९-८१४; भा-१८/४७) अथ वचनग्रहणम् किमर्थम् ।
(पा-२,३.४६.१; अकि-१,४६१.२-२२; रो-२,८०९-८१४; भा-१९/४७) इह समुदाये वाक्यपरिसमाप्तिः दृश्यते ।
(पा-२,३.४६.१; अकि-१,४६१.२-२२; रो-२,८०९-८१४; भा-२०/४७) तत् यथा ।
(पा-२,३.४६.१; अकि-१,४६१.२-२२; रो-२,८०९-८१४; भा-२१/४७) गर्गाः शतम् दण्ड्यन्ताम् इति ।
(पा-२,३.४६.१; अकि-१,४६१.२-२२; रो-२,८०९-८१४; भा-२२/४७) अर्थिनः च राजानः हिरण्येन भवन्ति न च प्रत्येकम् दण्डयन्ति ।
(पा-२,३.४६.१; अकि-१,४६१.२-२२; रो-२,८०९-८१४; भा-२३/४७) सति एतस्मिन् दृष्टान्ते यत्र एतानि समुदितानि भवन्ति तत्र एव स्यात् ।
(पा-२,३.४६.१; अकि-१,४६१.२-२२; रो-२,८०९-८१४; भा-२४/४७) द्रोणः खारी आढकम् इति ।
(पा-२,३.४६.१; अकि-१,४६१.२-२२; रो-२,८०९-८१४; भा-२५/४७) इह न स्यात् ।
(पा-२,३.४६.१; अकि-१,४६१.२-२२; रो-२,८०९-८१४; भा-२६/४७) कुमारी वृक्षः कुण्डम् इति ।
(पा-२,३.४६.१; अकि-१,४६१.२-२२; रो-२,८०९-८१४; भा-२७/४७) न एतत् अस्ति प्रयोजनम् ।
(पा-२,३.४६.१; अकि-१,४६१.२-२२; रो-२,८०९-८१४; भा-२८/४७) प्रत्येकम् अपि वाक्यपरिसमाप्तिः दृश्यते ।
(पा-२,३.४६.१; अकि-१,४६१.२-२२; रो-२,८०९-८१४; भा-२९/४७) तत् यथा वृद्धिगुणसञ्ज्ञे प्रत्येकम् भवतः ।
(पा-२,३.४६.१; अकि-१,४६१.२-२२; रो-२,८०९-८१४; भा-३०/४७) इदम् तर्हि प्रयोजनम् उक्तेषु अपि एकत्वादिषु प्रथमा यथा स्यात् ।
(पा-२,३.४६.१; अकि-१,४६१.२-२२; रो-२,८०९-८१४; भा-३१/४७) एकः द्वौ बहवः इति ।
(पा-२,३.४६.१; अकि-१,४६१.२-२२; रो-२,८०९-८१४; भा-३२/४७) अथ मात्रग्रहणम् किमर्थम् ।
(पा-२,३.४६.१; अकि-१,४६१.२-२२; रो-२,८०९-८१४; भा-३३/४७) एतन्मात्रे एव प्रथमा यथा स्यात् कर्मादिविशिष्टे मा भूत् इति ।
(पा-२,३.४६.१; अकि-१,४६१.२-२२; रो-२,८०९-८१४; भा-३४/४७) कटम् करोति ।
(पा-२,३.४६.१; अकि-१,४६१.२-२२; रो-२,८०९-८१४; भा-३५/४७) न एतत् अस्ति प्रयोजनम् ।
(पा-२,३.४६.१; अकि-१,४६१.२-२२; रो-२,८०९-८१४; भा-३६/४७) कर्मादिषु द्वितीयाद्याः विभक्तयः ताः कर्मादिविशिष्टे बाधिकाः भविष्यन्ति ।
(पा-२,३.४६.१; अकि-१,४६१.२-२२; रो-२,८०९-८१४; भा-३७/४७) अथ वा आचार्यप्रवृत्तिः ज्ञापयति न कर्मादिविशिष्टे प्रथमा भवति इति यत् अयम् सम्बोधने प्रथमाम् शास्ति ।
(पा-२,३.४६.१; अकि-१,४६१.२-२२; रो-२,८०९-८१४; भा-३८/४७) न एतत् अस्ति ज्ञापकम् ।
(पा-२,३.४६.१; अकि-१,४६१.२-२२; रो-२,८०९-८१४; भा-३९/४७) अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् ।
(पा-२,३.४६.१; अकि-१,४६१.२-२२; रो-२,८०९-८१४; भा-४०/४७) किम् ।
(पा-२,३.४६.१; अकि-१,४६१.२-२२; रो-२,८०९-८१४; भा-४१/४७) सा आमन्त्रितम् इति वक्ष्यामि इति ।
(पा-२,३.४६.१; अकि-१,४६१.२-२२; रो-२,८०९-८१४; भा-४२/४७) यत् तर्हि योगविभागम् करोति ।
(पा-२,३.४६.१; अकि-१,४६१.२-२२; रो-२,८०९-८१४; भा-४३/४७) इतरथा हि सम्बोधने आमन्त्रितम् इति एव ब्रूयात् ।
(पा-२,३.४६.१; अकि-१,४६१.२-२२; रो-२,८०९-८१४; भा-४४/४७) इदम् तर्हि उक्तेषु अपि एकत्वादिषु प्रथमा यथा स्यात् ।
(पा-२,३.४६.१; अकि-१,४६१.२-२२; रो-२,८०९-८१४; भा-४५/४७) एकः द्वौ बहवः इति ।
(पा-२,३.४६.१; अकि-१,४६१.२-२२; रो-२,८०९-८१४; भा-४६/४७) वचनग्रहणस्य अपि एतत् प्रयोजनम् उक्तम् ।
(पा-२,३.४६.१; अकि-१,४६१.२-२२; रो-२,८०९-८१४; भा-४७/४७) अन्यतरत् शक्यम् अकर्तुम् ।
(पा-२,३.४६.२; अकि-१,४६१.२३-४६३.७; रो-२,८१४-८१८; भा-१/५४) प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमालक्षणे पदसामानाधिकरण्ये उपसङ्ख्यानम् अधिकत्वात् ।
(पा-२,३.४६.२; अकि-१,४६१.२३-४६३.७; रो-२,८१४-८१८; भा-२/५४) प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमालक्षणे पदसामानाधिकरण्ये उपसङ्ख्यानम् कर्तव्यम् ।
(पा-२,३.४६.२; अकि-१,४६१.२३-४६३.७; रो-२,८१४-८१८; भा-३/५४) वीरः पुरुषः ।
(पा-२,३.४६.२; अकि-१,४६१.२३-४६३.७; रो-२,८१४-८१८; भा-४/५४) किम् पुनः कारणम् न सिध्यति ।
(पा-२,३.४६.२; अकि-१,४६१.२३-४६३.७; रो-२,८१४-८१८; भा-५/५४) अधिकत्वात् ।
(पा-२,३.४६.२; अकि-१,४६१.२३-४६३.७; रो-२,८१४-८१८; भा-६/५४) व्यतिरिक्तः प्रातिपदिकार्थः इति कृत्वा प्रथमा न प्राप्नोति ।
(पा-२,३.४६.२; अकि-१,४६१.२३-४६३.७; रो-२,८१४-८१८; भा-७/५४) कथम् व्यतिरिक्तिः ।
(पा-२,३.४६.२; अकि-१,४६१.२३-४६३.७; रो-२,८१४-८१८; भा-८/५४) पुरुषे वीरत्वम् ।
(पा-२,३.४६.२; अकि-१,४६१.२३-४६३.७; रो-२,८१४-८१८; भा-९/५४) न वा वाक्यार्थत्वात् ।
(पा-२,३.४६.२; अकि-१,४६१.२३-४६३.७; रो-२,८१४-८१८; भा-१०/५४) न वा वक्तव्यम् ।
(पा-२,३.४६.२; अकि-१,४६१.२३-४६३.७; रो-२,८१४-८१८; भा-११/५४) किम् कारणम् ।
(पा-२,३.४६.२; अकि-१,४६१.२३-४६३.७; रो-२,८१४-८१८; भा-१२/५४) वाक्यार्थत्वात् ।
(पा-२,३.४६.२; अकि-१,४६१.२३-४६३.७; रो-२,८१४-८१८; भा-१३/५४) यत् अत्र आधिक्यम् वाक्यार्थः सः ।
(पा-२,३.४६.२; अकि-१,४६१.२३-४६३.७; रो-२,८१४-८१८; भा-१४/५४) अथ वा अभिहिते प्रथमा इति एतत् लक्षणम् करिय्ष्यते ।
(पा-२,३.४६.२; अकि-१,४६१.२३-४६३.७; रो-२,८१४-८१८; भा-१५/५४) अभिहितलक्षणायाम् अनभिहिते प्रथमाविधिः । अभिहितलक्षणायामनभिहिते प्रथमा विधेया ।
(पा-२,३.४६.२; अकि-१,४६१.२३-४६३.७; रो-२,८१४-८१८; भा-१६/५४) वृक्षः प्लक्षः इति ।
(पा-२,३.४६.२; अकि-१,४६१.२३-४६३.७; रो-२,८१४-८१८; भा-१७/५४) उक्तम् वा । किम् उक्तम् ।
(पा-२,३.४६.२; अकि-१,४६१.२३-४६३.७; रो-२,८१४-८१८; भा-१८/५४) अस्तिः भवन्तीपरः प्रथमपुरुषः अप्रयुज्यमानः अपि अस्ति इति ।
(पा-२,३.४६.२; अकि-१,४६१.२३-४६३.७; रो-२,८१४-८१८; भा-१९/५४) वृक्षः प्लक्षः ।
(पा-२,३.४६.२; अकि-१,४६१.२३-४६३.७; रो-२,८१४-८१८; भा-२०/५४) अस्ति इति गम्यते ।
(पा-२,३.४६.२; अकि-१,४६१.२३-४६३.७; रो-२,८१४-८१८; भा-२१/५४) अभिहितानभिहिते प्रथमाभावः । अभिहितानभ्हिते प्रथमा प्राप्नोति ।
(पा-२,३.४६.२; अकि-१,४६१.२३-४६३.७; रो-२,८१४-८१८; भा-२२/५४) क्व ।
(पा-२,३.४६.२; अकि-१,४६१.२३-४६३.७; रो-२,८१४-८१८; भा-२३/५४) प्रासादे आस्ते ।
(पा-२,३.४६.२; अकि-१,४६१.२३-४६३.७; रो-२,८१४-८१८; भा-२४/५४) शयने आस्ते ।
(पा-२,३.४६.२; अकि-१,४६१.२३-४६३.७; रो-२,८१४-८१८; भा-२५/५४) सदिप्रत्ययेन अभिहितम् अधिकरणम् इति कृत्वा प्रथमा प्राप्नोति ।
(पा-२,३.४६.२; अकि-१,४६१.२३-४६३.७; रो-२,८१४-८१८; भा-२६/५४) एवम् तर्हि तिङ्समानाधिकरणे प्रथमा इति एतत् लक्षणं करिष्यते ।
(पा-२,३.४६.२; अकि-१,४६१.२३-४६३.७; रो-२,८१४-८१८; भा-२७/५४) तिङ्समानाधिकरणे इति चेत् तिङः अप्रयोगे प्रथमाविधिः । तिङ्समानाधिकरणे इति चेत् तिङः अप्रयोगे प्रथमा विधेया ।
(पा-२,३.४६.२; अकि-१,४६१.२३-४६३.७; रो-२,८१४-८१८; भा-२८/५४) वृक्षः प्लक्ष इति ।
(पा-२,३.४६.२; अकि-१,४६१.२३-४६३.७; रो-२,८१४-८१८; भा-२९/५४) उक्तम् पूर्वेण ।
(पा-२,३.४६.२; अकि-१,४६१.२३-४६३.७; रो-२,८१४-८१८; भा-३०/५४) किम् उक्तम् ।
(पा-२,३.४६.२; अकि-१,४६१.२३-४६३.७; रो-२,८१४-८१८; भा-३१/५४) अस्तिः भवन्तीपरः प्रथमपुरुषः अप्रयुज्यमानः अपि अस्ति इति ।
(पा-२,३.४६.२; अकि-१,४६१.२३-४६३.७; रो-२,८१४-८१८; भा-३२/५४) वृक्षः प्लक्षः ।
(पा-२,३.४६.२; अकि-१,४६१.२३-४६३.७; रो-२,८१४-८१८; भा-३३/५४) अस्ति इति गम्यते ।
(पा-२,३.४६.२; अकि-१,४६१.२३-४६३.७; रो-२,८१४-८१८; भा-३४/५४) शतृशानचोः च निमित्तभावात् तिङः अभावः तयोः अपवादत्वात् ।
(पा-२,३.४६.२; अकि-१,४६१.२३-४६३.७; रो-२,८१४-८१८; भा-३५/५४) शतृशानचोः च निमित्तभावात् तिङः अभावः ।
(पा-२,३.४६.२; अकि-१,४६१.२३-४६३.७; रो-२,८१४-८१८; भा-३६/५४) क्व ।
(पा-२,३.४६.२; अकि-१,४६१.२३-४६३.७; रो-२,८१४-८१८; भा-३७/५४) पचति ओदनम् देवदत्तः इति ।
(पा-२,३.४६.२; अकि-१,४६१.२३-४६३.७; रो-२,८१४-८१८; भा-३८/५४) किम् कारणम् ।
(पा-२,३.४६.२; अकि-१,४६१.२३-४६३.७; रो-२,८१४-८१८; भा-३९/५४) तयोः अपवादत्वात् ।
(पा-२,३.४६.२; अकि-१,४६१.२३-४६३.७; रो-२,८१४-८१८; भा-४०/५४) शतृशानचौ तिङपवादौ ।
(पा-२,३.४६.२; अकि-१,४६१.२३-४६३.७; रो-२,८१४-८१८; भा-४१/५४) तौ च अत्र बाधकौ ।
(पा-२,३.४६.२; अकि-१,४६१.२३-४६३.७; रो-२,८१४-८१८; भा-४२/५४) न च अपवादविषये उत्सर्गः अभिनिविशते ।
(पा-२,३.४६.२; अकि-१,४६१.२३-४६३.७; रो-२,८१४-८१८; भा-४३/५४) पूर्वम् हि अपवादाः अभिनिविशन्ते पश्चात् उत्सर्गः ।
(पा-२,३.४६.२; अकि-१,४६१.२३-४६३.७; रो-२,८१४-८१८; भा-४४/५४) प्रकल्प्य वा अपवादविषयम् ततः उत्सर्गः अभिनिविशते ।
(पा-२,३.४६.२; अकि-१,४६१.२३-४६३.७; रो-२,८१४-८१८; भा-४५/५४) तत् न तावत् अत्र कदा चित् तिङादेशो भवति ।
(पा-२,३.४६.२; अकि-१,४६१.२३-४६३.७; रो-२,८१४-८१८; भा-४६/५४) अपवादौ तावत् शतृशानचौ प्रतीक्षते ।
(पा-२,३.४६.२; अकि-१,४६१.२३-४६३.७; रो-२,८१४-८१८; भा-४७/५४) पाक्षिकः एषः दोषः ।
(पा-२,३.४६.२; अकि-१,४६१.२३-४६३.७; रो-२,८१४-८१८; भा-४८/५४) कतरस्मिन् पक्षे ।
(पा-२,३.४६.२; अकि-१,४६१.२३-४६३.७; रो-२,८१४-८१८; भा-४९/५४) शतृशानचोः द्वैतम् भवति ।
(पा-२,३.४६.२; अकि-१,४६१.२३-४६३.७; रो-२,८१४-८१८; भा-५०/५४) अप्रथमा वा विधिना आश्रीयते प्रथमा वा प्रतिषेधेन इति ।
(पा-२,३.४६.२; अकि-१,४६१.२३-४६३.७; रो-२,८१४-८१८; भा-५१/५४) विभक्तिनियमे च अपि द्वैतम् भवति ।
(पा-२,३.४६.२; अकि-१,४६१.२३-४६३.७; रो-२,८१४-८१८; भा-५२/५४) विभक्तिनियमः वा स्यात् अर्थनियमः वा इति ।
(पा-२,३.४६.२; अकि-१,४६१.२३-४६३.७; रो-२,८१४-८१८; भा-५३/५४) तत् यदा तावत् अर्थनियमः अप्रथमा च विधिना आश्रीयते तदा एष दोषः भवति ।
(पा-२,३.४६.२; अकि-१,४६१.२३-४६३.७; रो-२,८१४-८१८; भा-५४/५४) यदा हि विभक्तिनियमः यदि एव अप्रथमा विधिना आश्रीयते अथ अपि प्रथमा प्रतिषेधेन न तदा दोषः भवति
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-१/७२) शेषे इति उच्यते. कः शेषः नाम ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-२/७२) कर्मादिभ्यः ये अन्ये अर्थाः सः शेषः ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-३/७२) यदि एवम् शेषः न प्रकल्पते ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-४/७२) न हि कर्मादिभ्यः अन्ये अर्थाः सन्ति ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-५/७२) इह तावत् राज्ञः पुरुषः इति राजा कर्ता पुरुषः सम्प्रदानम् ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-६/७२) वृक्षस्य शाखा इति वृक्षः शाख्यायाः अधिकरणम् ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-७/७२) तथा यत् एतत् स्वम् नाम चतुर्भिः एतत् प्रकारैः भवति क्रयणात् अपहरणात् याञ्चायाः विनिमयात् इति ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-८/७२) अत्र च सर्वत्र कर्मादयः सन्ति. एवम् तर्हि कर्मादीनाम् अविवक्षा शेषः ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-९/७२) कथम् पुनः सतः नाम अवाविवक्षा स्यात् ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-१०/७२) सतः अपि अविवक्षा भवति ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-११/७२) तत् यथा ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-१२/७२) अलोमिका एडका ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-१३/७२) अनुदरा कन्या इति ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-१४/७२) असतः च विवक्षा भवति ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-१५/७२) समुद्रः कुण्डिका ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-१६/७२) विन्ध्यः वर्धितकम् इति ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-१७/७२) किमर्थम् पुनः शेषग्रहणम् ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-१८/७२) प्रत्ययावधारणात् शेषवचनम् । प्रत्ययावधारणात् शेषवचनम् कर्तव्यम् ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-१९/७२) प्रत्ययाः नियताः अर्थाः अनियताः तत्र षष्ठी प्राप्नोति ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-२०/७२) तत्र शेषग्रहणम् कर्तव्यम् षष्ठीनियमार्थम् ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-२१/७२) शेषे एव षष्ठी भवति न अन्यत्र इति ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-२२/७२) अर्थावधारणात् वा ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-२३/७२) अथ वा अर्थाः नियताः प्रत्ययाः अनियताः ते शेषे अपि प्राप्नुवन्ति ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-२४/७२) तत्र शेषग्रहणम् कर्तव्यम् शेषनियमार्थम् ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-२५/७२) शेषे षष्ठी एव भवति न अन्या इति ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-२६/७२) अर्थनियमे शेषग्रहणम् शक्यम् अकर्तुम् ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-२७/७२) कथम् ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-२८/७२) अर्थाः नियताः प्रत्ययाः अनियताः ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-२९/७२) ततः वक्ष्यामि षष्ठी भवति इति ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-३०/७२) तत् नियमार्थम् भविष्यति ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-३१/७२) यत्र षष्ठी च अन्या च प्राप्नोति षष्ठी एव तत्र भवति इति ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-३२/७२) षष्ठी शेषे इति चेत् विशेष्यस्य प्रतिषेधः ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-३३/७२) षष्ठी शेषे इति चेत् विशेष्यस्य प्रतिषेधः वक्तव्यः ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-३४/७२) राज्ञः पुरुषः इति अत्र राजा विशेषणम् पुरुषः विशेष्यः ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-३५/७२) तत्र प्रातिपदिकार्थः व्यतिरिक्तः इति कृत्वा प्रथमा न प्राप्नोति ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-३६/७२) तत्र षष्ठी स्यात् ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-३७/७२) तस्याः प्रतिषेधः वक्तव्यः ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-३८/७२) तत्र प्रथमाविधिः ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-३९/७२) तत्र षष्ठीम् प्रतिषिध्य प्रथमा विधेया ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-४०/७२) राज्ञः पुरुषः इति ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-४१/७२) उक्तम् पूर्वेण ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-४२/७२) किमुक्तम् ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-४३/७२) न वा वाक्यार्थत्वात् इति ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-४४/७२) यदत्रादिख्यम् वाक्यार्थः सः ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-४५/७२) कुतः नु खलु एतत् पुरुषे यत् आदिख्यम् सः वाक्यार्थः इति न पुनः राजनि यत् आधिक्यम् सः वाक्यार्थः स्यात् ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-४६/७२) अन्तरेण अपि पुरुषशब्दप्रयोगम् राजनि सः अर्थः गम्यते ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-४७/७२) न पुनः अन्तरेण राजशब्दप्रयोगम् पुरुषे सः अर्थः गम्यते ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-४८/७२) अस्ति कारणम् येन एतत् एवम् भवति ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-४९/७२) किम् कारणम् ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-५०/७२) राजशब्दात् हि भवान् षष्ठीम् उच्चारयति. अङ्ग हि भवान् पुरुषशब्दात् अपि उच्चारयतु गंस्यते सः अर्थः ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-५१/७२) ननु च न एतेन एवम् भवितव्यम् ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-५२/७२) न हि शब्दकृतेन नाम अर्थेन भवितव्यम् ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-५३/७२) अर्थकृतेन नाम शब्देन भवितव्यम् ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-५४/७२) तत् एतत् एवम् दृश्यताम् ॒ अर्थरूपम् एव एतत् एवञ्जातीयकम् येन अत्र अन्तरेण अपि पुरुषशब्दप्रयोगम् राजनि सः अर्थः गम्यते ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-५५/७२) किम् पुनः तत् ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-५६/७२) स्वामित्वम् ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-५७/७२) किङ्कृतम् पुनः तत् ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-५८/७२) स्वकृतम् ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-५९/७२) तत् यथा ॒ प्रातिपदिकार्थानाम् क्रियाकृताः विशेषाः उपजायन्ते तत्कृताः च आख्याः प्रादुर्भवन्ति कर्म करणम् अपादानं सम्प्रदानम् अधिकरणम् इति ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-६०/७२) ताः च पुनः विभक्तीनाम् उत्पत्तौ कदा चित् निमित्तत्वेन उपादीयन्ते कदा चित् न ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-६१/७२) कदा च विभक्तीनाम् उत्पत्तौ निमित्तत्वेन उपादीयन्ते ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-६२/७२) यदा व्यभिचरन्ति प्रातिपदिकार्थम् ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-६३/७२) यदा हि न व्यभिचरन्ति आख्याभूताः एव तदा भवन्ति कर्म करणम् अपादानम् सम्प्रदानम् अधिकरणम् इति ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-६४/७२) यथा एव तर्हि राजनि स्वकृतम् स्वामित्वम् तत्र षष्ठी एवम् पुरुषे अपि स्वामिकृतम् स्वत्वम् ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-६५/७२) तत्र षष्ठी प्राप्नोति ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-६६/७२) राजशब्दात् उत्पद्यमानया षष्ठ्या अभिहितः सः अर्थः इति कृत्वा पुरुषशब्दात् षष्ठी न भविष्यति ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-६७/७२) न तर्हि इदानीम् इदम् भवति पुरुषस्य राजा इति ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-६८/७२) भवति ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-६९/७२) राजशब्दात् तु तदा प्रथमा ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-७०/७२) न तर्हि इदानीम् इदम् भवति ॒ राज्ञः पुरुषस्य इति ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-७१/७२) भवति ।
(पा-२,३.५०; अकि-१,४६३.९-४६४.२७; रो-२,८१९-८२५; भा-७२/७२) बाह्यम् अर्थम् अभिसमीक्ष्य ।
(पा-२,३.५२; अकि-१,४६५.२-१७; रो-२,८२६-८२७; भा-१/३९) कर्मादिषु अकर्मकवद्वचनम् । कर्मादिषु अकर्मकवद्भावः वक्तव्यः ।
(पा-२,३.५२; अकि-१,४६५.२-१७; रो-२,८२६-८२७; भा-२/३९) किम् प्रयोजनम् ।
(पा-२,३.५२; अकि-१,४६५.२-१७; रो-२,८२६-८२७; भा-३/३९) अकर्मकाणाम् भावे लः भवति ।
(पा-२,३.५२; अकि-१,४६५.२-१७; रो-२,८२६-८२७; भा-४/३९) भावे लः यथा स्यात् ।
(पा-२,३.५२; अकि-१,४६५.२-१७; रो-२,८२६-८२७; भा-५/३९) मातुः स्मर्यते ।
(पा-२,३.५२; अकि-१,४६५.२-१७; रो-२,८२६-८२७; भा-६/३९) पितुः स्मर्यते ।
(पा-२,३.५२; अकि-१,४६५.२-१७; रो-२,८२६-८२७; भा-७/३९) अथ वत्करणम् किमर्थम् ।
(पा-२,३.५२; अकि-१,४६५.२-१७; रो-२,८२६-८२७; भा-८/३९) स्वाश्रयम् अपि यथा स्यात् ।
(पा-२,३.५२; अकि-१,४६५.२-१७; रो-२,८२६-८२७; भा-९/३९) माता स्मर्यते ।
(पा-२,३.५२; अकि-१,४६५.२-१७; रो-२,८२६-८२७; भा-१०/३९) पिता स्मर्यते इति ।
(पा-२,३.५२; अकि-१,४६५.२-१७; रो-२,८२६-८२७; भा-११/३९) कर्माभिधाने हि लिङ्गवचनानुपपत्तिः ।
(पा-२,३.५२; अकि-१,४६५.२-१७; रो-२,८२६-८२७; भा-१२/३९) कर्माभिधाने हि सति लिङ्गवचनयोः अनुपपत्तिः स्यात् ।
(पा-२,३.५२; अकि-१,४६५.२-१७; रो-२,८२६-८२७; भा-१३/३९) मातुः स्मृतम् ।
(पा-२,३.५२; अकि-१,४६५.२-१७; रो-२,८२६-८२७; भा-१४/३९) मात्रोः स्मृतम् ।
(पा-२,३.५२; अकि-१,४६५.२-१७; रो-२,८२६-८२७; भा-१५/३९) माटृ̄णाम् स्मृतम् इति ।
(पा-२,३.५२; अकि-१,४६५.२-१७; रो-२,८२६-८२७; भा-१६/३९) मातुः यत् लिङ्गम् वचनम् च तत् स्मृतशब्दस्य अपि प्राप्नोति ।
(पा-२,३.५२; अकि-१,४६५.२-१७; रो-२,८२६-८२७; भा-१७/३९) षष्ठीप्रसण्गः च ।
(पा-२,३.५२; अकि-१,४६५.२-१७; रो-२,८२६-८२७; भा-१८/३९) षष्ठी च प्राप्नोति ।
(पा-२,३.५२; अकि-१,४६५.२-१७; रो-२,८२६-८२७; भा-१९/३९) कुतः ।
(पा-२,३.५२; अकि-१,४६५.२-१७; रो-२,८२६-८२७; भा-२०/३९) स्मृतशब्दात् ।
(पा-२,३.५२; अकि-१,४६५.२-१७; रो-२,८२६-८२७; भा-२१/३९) मातुः सामानाधिकरण्यात् षष्ठी प्राप्नोति ।
(पा-२,३.५२; अकि-१,४६५.२-१७; रो-२,८२६-८२७; भा-२२/३९) अपरः आह ॒ षष्ठीप्रसङ्गः च ।
(पा-२,३.५२; अकि-१,४६५.२-१७; रो-२,८२६-८२७; भा-२३/३९) षष्ठी च प्रसङ्क्तव्या ।
(पा-२,३.५२; अकि-१,४६५.२-१७; रो-२,८२६-८२७; भा-२४/३९) कुतः ।
(पा-२,३.५२; अकि-१,४६५.२-१७; रो-२,८२६-८२७; भा-२५/३९) मातृशब्दात् ।
(पा-२,३.५२; अकि-१,४६५.२-१७; रो-२,८२६-८२७; भा-२६/३९) स्मृतशब्देन भिहितम् कर्म इति कृत्वा षष्ठी न प्राप्नोति ।
(पा-२,३.५२; अकि-१,४६५.२-१७; रो-२,८२६-८२७; भा-२७/३९) तत् तर्हि वक्तव्यम् ।
(पा-२,३.५२; अकि-१,४६५.२-१७; रो-२,८२६-८२७; भा-२८/३९) न वक्तव्यम् ।
(पा-२,३.५२; अकि-१,४६५.२-१७; रो-२,८२६-८२७; भा-२९/३९) अविवक्षिते कर्मणि षष्ठी भवति ।
(पा-२,३.५२; अकि-१,४६५.२-१७; रो-२,८२६-८२७; भा-३०/३९) किम् वक्तव्यम् एतत् ।
(पा-२,३.५२; अकि-१,४६५.२-१७; रो-२,८२६-८२७; भा-३१/३९) न हि ।
(पा-२,३.५२; अकि-१,४६५.२-१७; रो-२,८२६-८२७; भा-३२/३९) कथम् अनुच्यमानम् गंस्यते ।
(पा-२,३.५२; अकि-१,४६५.२-१७; रो-२,८२६-८२७; भा-३३/३९) शेषे इति वर्तते ।
(पा-२,३.५२; अकि-१,४६५.२-१७; रो-२,८२६-८२७; भा-३४/३९) शेषः च कः ।
(पा-२,३.५२; अकि-१,४६५.२-१७; रो-२,८२६-८२७; भा-३५/३९) कर्मादीनाम् अविवक्षा शेषः ।
(पा-२,३.५२; अकि-१,४६५.२-१७; रो-२,८२६-८२७; भा-३६/३९) यदा कर्म विवक्षितम् भवति तदा षष्ठी न भवति ।
(पा-२,३.५२; अकि-१,४६५.२-१७; रो-२,८२६-८२७; भा-३७/३९) तत् यथा ।
(पा-२,३.५२; अकि-१,४६५.२-१७; रो-२,८२६-८२७; भा-३८/३९) स्मरामि अहम् मातरम् ।
(पा-२,३.५२; अकि-१,४६५.२-१७; रो-२,८२६-८२७; भा-३९/३९) स्मरामि अहम् पितरम् इति ।
(पा-२,३.५४; अकि-१,४६५.१९-२२; रो-२,८२८; भा-१/८) अज्वरिसन्ताप्योः इति वक्तव्यम् ।
(पा-२,३.५४; अकि-१,४६५.१९-२२; रो-२,८२८; भा-२/८) इह अपि यथा स्यात् ।
(पा-२,३.५४; अकि-१,४६५.१९-२२; रो-२,८२८; भा-३/८) चौरम् सन्तापयति ।
(पा-२,३.५४; अकि-१,४६५.१९-२२; रो-२,८२८; भा-४/८) वृषलम् सन्तापयति ।
(पा-२,३.५४; अकि-१,४६५.१९-२२; रो-२,८२८; भा-५/८) अथ किमर्थम् भाववचनानाम् इति उच्यते यावता रुजार्थाः भाववचनाः एव भवन्ति ।
(पा-२,३.५४; अकि-१,४६५.१९-२२; रो-२,८२८; भा-६/८) भावकर्तृकात् यथा स्यात् ।
(पा-२,३.५४; अकि-१,४६५.१९-२२; रो-२,८२८; भा-७/८) इह मा भूत् ।
(पा-२,३.५४; अकि-१,४६५.१९-२२; रो-२,८२८; भा-८/८) नदी कूलानि रुजति इति ।
(पा-२,३.६०; अकि-१,४६६.२-३; रो-२,८२८-८२९; भा-१/८) किम् उदाहरणम् ।
(पा-२,३.६०; अकि-१,४६६.२-३; रो-२,८२८-८२९; भा-२/८) गाम् घ्नन्ति ।
(पा-२,३.६०; अकि-१,४६६.२-३; रो-२,८२८-८२९; भा-३/८) गाम् प्रदीव्यन्ति ।
(पा-२,३.६०; अकि-१,४६६.२-३; रो-२,८२८-८२९; भा-४/८) गाम् सभासद्भ्यः उपहरन्ति ।
(पा-२,३.६०; अकि-१,४६६.२-३; रो-२,८२८-८२९; भा-५/८) न एतत् अस्ति ।
(पा-२,३.६०; अकि-१,४६६.२-३; रो-२,८२८-८२९; भा-६/८) पूर्वेण अपि एतत् सिद्धम् ।
(पा-२,३.६०; अकि-१,४६६.२-३; रो-२,८२८-८२९; भा-७/८) इदम् तर्हि ।
(पा-२,३.६०; अकि-१,४६६.२-३; रो-२,८२८-८२९; भा-८/८) गामस्य तदहः सभायाम् दीव्येयुः ।
(पा-२,३.६१; अकि-१,४६६.५-६; रो-२,८२९; भा-१/३) हविषः अप्रस्थितस्य ।
(पा-२,३.६१; अकि-१,४६६.५-६; रो-२,८२९; भा-२/३) हविषः अप्रस्थितस्य इति वक्तव्यम् ।
(पा-२,३.६१; अकि-१,४६६.५-६; रो-२,८२९; भा-३/३) इन्द्राग्निभ्याम् छागम् हविः वपाम् मेदः प्रस्थितम् प्रेष्य ।
(पा-२,३.६२; अकि-१,४६६.१०-१७; रो-२,८३०; भा-१/१२) षष्ठ्यर्थे चतुर्थीवचनम् ।
(पा-२,३.६२; अकि-१,४६६.१०-१७; रो-२,८३०; भा-२/१२) षष्ठ्यर्थे चतुर्थी वक्तव्या ।
(पा-२,३.६२; अकि-१,४६६.१०-१७; रो-२,८३०; भा-३/१२) या खर्वेण पिबति तस्यै खर्वः तिस्रः रात्रीः ।
(पा-२,३.६२; अकि-१,४६६.१०-१७; रो-२,८३०; भा-४/१२) तस्याः इति प्राप्ते ।
(पा-२,३.६२; अकि-१,४६६.१०-१७; रो-२,८३०; भा-५/१२) यः ततः जायते सः भिशस्तः याम् अरण्ये तस्यै स्तेनः याम् पराचीम् तस्यै ह्रीतमुखी अपगगल्भः या स्नाति तस्यै अप्सु मारुकः या अभ्यङ्क्ते तस्यै दुश्चर्मा या प्रलिखते तस्यै खलतिः अपमारी या आङ्क्ते तस्यै काणः या दतः धावते तस्यै श्यावदन् या नखनि निकृन्तते तस्यै कुनखृ̄ या कृणत्ति तस्यै क्लीबः या रज्जुम् सृजति तस्यै उद्बन्धुकः या पर्णेन पिबति तस्यै उन्मादुकः जायते ।
(पा-२,३.६२; अकि-१,४६६.१०-१७; रो-२,८३०; भा-६/१२) अहल्यायै जारः ।
(पा-२,३.६२; अकि-१,४६६.१०-१७; रो-२,८३०; भा-७/१२) मनाय्यै तन्तुः ।
(पा-२,३.६२; अकि-१,४६६.१०-१७; रो-२,८३०; भा-८/१२) तत् तर्हि वक्तव्यम् ।
(पा-२,३.६२; अकि-१,४६६.१०-१७; रो-२,८३०; भा-९/१२) न वक्तव्यम् ।
(पा-२,३.६२; अकि-१,४६६.१०-१७; रो-२,८३०; भा-१०/१२) योगविभागात् सिद्धम् ।
(पा-२,३.६२; अकि-१,४६६.१०-१७; रो-२,८३०; भा-११/१२) चतुर्थी ।
(पा-२,३.६२; अकि-१,४६६.१०-१७; रो-२,८३०; भा-१२/१२) ततः अर्थे बहुलम् छन्दसि इति ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-१/६८) कृद्ग्रहणम् किमर्थम् ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-२/६८) इह मा भूत् ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-३/६८) पचति ओदनम् देवदत्तः इति ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-४/६८) कर्तृकर्मणोः षष्ठीविधाने कृद्ग्रहणानर्थक्यम् लप्रतिषेधात् ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-५/६८) कर्तृकर्मणोः षष्ठीविधाने कृद्ग्रहणम् अनर्थकम् ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-६/६८) किम् कारणम् ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-७/६८) लप्रतिषेधात् ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-८/६८) प्रतिषिध्यते तत्र षष्थी लप्रयोगे न इति ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-९/६८) तस्य कर्मकर्त्रर्थम् तर्हि कृद्ग्रहणम् कर्तव्यम् ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-१०/६८) कृतः ये कर्तृकर्मणी तत्र यथा स्यात् ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-११/६८) अन्यस्य ये कर्तृकर्मणी तत्र मा भूत् इति ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-१२/६८) न एतत् अस्ति प्रयोजनम् ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-१३/६८) धातोः हि द्वये प्रत्ययाः विधीयन्ते तिङः च कृतः च ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-१४/६८) तत्र कृत्प्रयोगे इष्यते तिङ्प्रयोगे प्रतिषिध्यते ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-१५/६८) न ब्रूमः इहार्थम् तस्य कर्मकर्त्रर्थम् कृद्ग्रहणम् कर्तव्यम् इति ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-१६/६८) किम् तर्हि ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-१७/६८) उत्तरार्थम् ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-१८/६८) अव्ययप्रयोगे न इति षष्ठ्याः प्रतिषेधम् वक्ष्यति ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-१९/६८) सः कृतः अव्ययस्य ये कर्तृकर्मणी तत्र यथा स्यात् ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-२०/६८) अकृतः अव्ययस्य ये कर्तृकर्मणी तत्र मा भूत् इति ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-२१/६८) उच्चैः कटानाम् स्रष्टा इति ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-२२/६८) तस्य कर्मकर्त्रर्थम् इति चेत् प्रतिषेधे अपि तदन्तकर्मकर्तृत्वात् सिद्धम् ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-२३/६८) कृतः एते कर्तृकर्मणी न अव्ययस्य ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-२४/६८) अधिकरणम् अत्र अव्ययम् ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-२५/६८) इदम् तर्हि प्रयोजनम् ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-२६/६८) उभयप्राप्तौ कर्मणि षष्ठ्याः प्रतिषेधम् वक्ष्यति ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-२७/६८) सः कृतः ये कर्तृकर्मणी तत्र यथा स्यात् ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-२८/६८) कृतोः ये कर्तृकर्मणी तत्र मा भूत् इति ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-२९/६८) आश्चर्यम् इदम् वृत्तम् ओदनस्य च नाम पाकः ब्राह्मणानाम् च प्रादुर्भावः इति ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-३०/६८) अथ क्रियमाणे अपि कृद्ग्रहणे कस्मात् एव अत्र न भवति ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-३१/६८) उभयप्राप्तौ इति न एवम् विज्ञायते उभयोः प्राप्तिः उभयप्राप्तिः उभयप्राप्तौ इति ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-३२/६८) कथम् तर्हि ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-३३/६८) उभयोः प्राप्तिः यस्मिन् कृति सः अयम् उभयप्राप्तिः कृत् उभयप्राप्तौ इति ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-३४/६८) अथ वा कृतः ये कर्तृकर्मणी तत्र यथा स्यात् ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-३५/६८) तद्धितस्य ये कर्तृकर्मणी तत्र मा भूत् इति ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-३६/६८) कृतपूर्वी कटम् ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-३७/६८) भुक्तपूर्वी ओदनम् इति ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-३८/६८) ननु च वाक्येन एव अनेन न भवितव्यम् ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-३९/६८) द्वितीयया तावत् न भवितव्यम् ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-४०/६८) किम् कारणम् ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-४१/६८) क्तेन अभिहितम् कर्म इति कृत्वा ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-४२/६८) इनिप्रत्ययेन च अपि न उत्पत्तव्यम् ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-४३/६८) किम् कारणम् ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-४४/६८) असामर्थ्यात् ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-४५/६८) कथम् असमार्थ्यम् ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-४६/६८) सापेक्षम् असमर्थम् भवति इति ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-४७/६८) यत् तावत् उच्यते द्वितीयया तावत् न भवितव्यम् ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-४८/६८) किम् कारणम् ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-४९/६८) क्तेन अभिहितम् कर्म इति कृत्वा इति ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-५०/६८) यः असौ कृतकटयोः अभिसंबन्धः सः उत्पन्ने प्रत्यये निवर्तते ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-५१/६८) अस्ति च करोतेः कटेन सामर्थ्यम् इति कृत्वा द्वितीया भविष्यति ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-५२/६८) यत् अपि उच्यते इनिप्रत्ययेन च अपि न उत्पत्तव्यम् ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-५३/६८) किम् कारणम् ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-५४/६८) असामर्थ्यात् ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-५५/६८) कथम् असमार्थ्यम् ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-५६/६८) सापेक्षम् असमर्थम् भवति इति ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-५७/६८) न इदम् उभयम् युगपत् भवति वाक्यम् च प्रत्ययः च ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-५८/६८) यदा वाक्यम् न तदा प्रत्ययः ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-५९/६८) यदा प्रत्ययः सामान्येन तदा वृत्तिः ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-६०/६८) तत्र अवश्यं विशेषार्थिना विशेषः अनुप्रयोक्तव्यः ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-६१/६८) कृतपूर्वी ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-६२/६८) किम् ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-६३/६८) कटम् ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-६४/६८) भुक्तपूर्वी ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-६५/६८) किम् ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-६६/६८) ओदनम् इति ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-६७/६८) अथ वा इदम् प्रयोजनम् कर्तृभूतपूर्वमात्रात् अपि षष्ठीयथा स्यात् ।
(पा-२,३.६५; अकि-१,४६६.१९-४६८.४; रो-२,८३१-८३६; भा-६८/६८) भेदिका देवदत्तस्य यज्ञदत्तस्य काष्ठानाम् इति ।
(पा-२,३.६६; अकि-१,४६८.६-१२; रो-२,८३६; भा-१/१०) उभयप्राप्तौ कर्मणि षष्ठ्याः प्रतिषेधे अकादिप्रयोगे अप्रतिषेधः ।
(पा-२,३.६६; अकि-१,४६८.६-१२; रो-२,८३६; भा-२/१०) उभयप्राप्तौ कर्मणि षष्ठ्याः प्रतिषेधे अकादिप्रयोगे प्रतिषेधः न भवति इति वक्तव्यम् ।
(पा-२,३.६६; अकि-१,४६८.६-१२; रो-२,८३६; भा-३/१०) भेदिका देवदत्तस्य काष्ठानाम् ।
(पा-२,३.६६; अकि-१,४६८.६-१२; रो-२,८३६; भा-४/१०) चिकीर्षा विष्णुमित्रस्य कटस्य ।
(पा-२,३.६६; अकि-१,४६८.६-१२; रो-२,८३६; भा-५/१०) अपरः आह ॒ अकाकारयोः प्रयोगे प्रतिषेधः न इति वक्तव्यम् ।
(पा-२,३.६६; अकि-१,४६८.६-१२; रो-२,८३६; भा-६/१०) शेषे विभाषा ।
(पा-२,३.६६; अकि-१,४६८.६-१२; रो-२,८३६; भा-७/१०) शोभना खलु पाणिनेः सूत्रस्य कृतिः ।
(पा-२,३.६६; अकि-१,४६८.६-१२; रो-२,८३६; भा-८/१०) शोभना खलु पाणिनिना सूत्रस्य कृतिः ।
(पा-२,३.६६; अकि-१,४६८.६-१२; रो-२,८३६; भा-९/१०) शोभना खलु दाक्षायणस्य सङ्ग्रहस्य कृतिः ।
(पा-२,३.६६; अकि-१,४६८.६-१२; रो-२,८३६; भा-१०/१०) शोभना खलु दाक्षायेण सङ्ग्रहस्य कृतिः इति ।
(पा-२,३.६७; अकि-१,४६८.१४-२३; रो-२,८३७-८३८; भा-१/१५) क्तस्य च वर्तमाने नापुंसके भावे उपसङ्ख्यानम् ।
(पा-२,३.६७; अकि-१,४६८.१४-२३; रो-२,८३७-८३८; भा-२/१५) क्तस्य च वर्तमाने नापुंसके भावे उपसङ्ख्यानम् कर्तव्यम् ॒ छात्त्रस्य हसितम् , नटस्य भुक्तम् , मयूरस्य नृत्तम् , कोकिलस्य व्याहृतम् इति ।
(पा-२,३.६७; अकि-१,४६८.१४-२३; रो-२,८३७-८३८; भा-३/१५) शेषविज्ञानात् सिद्धम् । शेषलक्षणा अत्र षष्ठी भविष्यति ।
(पा-२,३.६७; अकि-१,४६८.१४-२३; रो-२,८३७-८३८; भा-४/१५) शेषः इति उच्यते ।
(पा-२,३.६७; अकि-१,४६८.१४-२३; रो-२,८३७-८३८; भा-५/१५) कः च शेषः ।
(पा-२,३.६७; अकि-१,४६८.१४-२३; रो-२,८३७-८३८; भा-६/१५) कर्मादीनाम् अविवक्षा शेषः ।
(पा-२,३.६७; अकि-१,४६८.१४-२३; रो-२,८३७-८३८; भा-७/१५) कथम् पुनः सतः नाम अविवक्षा स्यात् यदा छात्रः हसति , नटः भुङ्क्ते , मयूरः नृत्यति , कोकिलः व्याहरति ।
(पा-२,३.६७; अकि-१,४६८.१४-२३; रो-२,८३७-८३८; भा-८/१५) सतः अपि अविवक्षा भवति ।
(पा-२,३.६७; अकि-१,४६८.१४-२३; रो-२,८३७-८३८; भा-९/१५) तत् यथा ॒ अलोमिका एडका , अनुदरा कन्या इति ।
(पा-२,३.६७; अकि-१,४६८.१४-२३; रो-२,८३७-८३८; भा-१०/१५) असतः च विवक्षा भवति ।
(पा-२,३.६७; अकि-१,४६८.१४-२३; रो-२,८३७-८३८; भा-११/१५) समुद्रः कुण्डिका ।
(पा-२,३.६७; अकि-१,४६८.१४-२३; रो-२,८३७-८३८; भा-१२/१५) विन्ध्यः वर्धितकम् इति ।
(पा-२,३.६७; अकि-१,४६८.१४-२३; रो-२,८३७-८३८; भा-१३/१५) यदि एवम् उत्तरत्र चातुःशब्द्यम् प्राप्नोति ।
(पा-२,३.६७; अकि-१,४६८.१४-२३; रो-२,८३७-८३८; भा-१४/१५) इदम् अहेः सृप्तम् , इह अहिना सृप्तम् , इह अहिः सृप्तः , इह अहेः सृप्तम् , ग्रामस्य पार्श्वे ग्रामस्य मध्ये इति ।
(पा-२,३.६७; अकि-१,४६८.१४-२३; रो-२,८३७-८३८; भा-१५/१५) इष्यते एव चातुःशब्द्यम् ।
(पा-२,३.६९; अकि-१,४६९.२-४७०.६; रो-२,८३८-८४०; भा-१/५९) लादेशे सल्लिड्ग्रहणम् किकिनोः प्रतिषेधार्थम् ।
(पा-२,३.६९; अकि-१,४६९.२-४७०.६; रो-२,८३८-८४०; भा-२/५९) लादेशे सल्लिड्गग्रहणम् कर्तव्यम् ।
(पा-२,३.६९; अकि-१,४६९.२-४७०.६; रो-२,८३८-८४०; भा-३/५९) सल्लिटोः प्रयोगे न इति वक्तव्यम् ।
(पा-२,३.६९; अकि-१,४६९.२-४७०.६; रो-२,८३८-८४०; भा-४/५९) किम् प्रयोजनम् ।
(पा-२,३.६९; अकि-१,४६९.२-४७०.६; रो-२,८३८-८४०; भा-५/५९) किकिनोः प्रतिषेधार्थम् ।
(पा-२,३.६९; अकि-१,४६९.२-४७०.६; रो-२,८३८-८४०; भा-६/५९) किकिनोः अपि प्रयोगे प्रतिषेधः यथा स्यात् ।
(पा-२,३.६९; अकि-१,४६९.२-४७०.६; रो-२,८३८-८४०; भा-७/५९) । पपिः सोमं ददिः गाः ।
(पा-२,३.६९; अकि-१,४६९.२-४७०.६; रो-२,८३८-८४०; भा-८/५९) किम् पुनः कारणम् न सिध्यति ।
(पा-२,३.६९; अकि-१,४६९.२-४७०.६; रो-२,८३८-८४०; भा-९/५९) तयोः अलादेशत्वात् ।
(पा-२,३.६९; अकि-१,४६९.२-४७०.६; रो-२,८३८-८४०; भा-१०/५९) न हि तौ लादेशौ ।
(पा-२,३.६९; अकि-१,४६९.२-४७०.६; रो-२,८३८-८४०; भा-११/५९) अथ तौ लादेशौ स्याताम् स्यात् प्रतिषेधः ।
(पा-२,३.६९; अकि-१,४६९.२-४७०.६; रो-२,८३८-८४०; भा-१२/५९) बाढम् स्यात् ।
(पा-२,३.६९; अकि-१,४६९.२-४७०.६; रो-२,८३८-८४०; भा-१३/५९) लादेशौ तर्हि भविष्यतः ।
(पा-२,३.६९; अकि-१,४६९.२-४७०.६; रो-२,८३८-८४०; भा-१४/५९) तत् कथम् ।
(पा-२,३.६९; अकि-१,४६९.२-४७०.६; रो-२,८३८-८४०; भा-१५/५९) आदृगमहनजनः किकिनौ लिट् च इति लिड्वत् इति वक्ष्यामि ।
(पा-२,३.६९; अकि-१,४६९.२-४७०.६; रो-२,८३८-८४०; भा-१६/५९) सः तर्हि वतिनिर्देशः कर्तव्यः ।
(पा-२,३.६९; अकि-१,४६९.२-४७०.६; रो-२,८३८-८४०; भा-१७/५९) न हि अन्तरेण वतिम् अतिदेशः गम्यते ।
(पा-२,३.६९; अकि-१,४६९.२-४७०.६; रो-२,८३८-८४०; भा-१८/५९) अन्तरेण अपि वतिम् अतिदेशः गम्यते ।
(पा-२,३.६९; अकि-१,४६९.२-४७०.६; रो-२,८३८-८४०; भा-१९/५९) तत् यथा ।
(पा-२,३.६९; अकि-१,४६९.२-४७०.६; रो-२,८३८-८४०; भा-२०/५९) एषः ब्रह्मदत्तः ।
(पा-२,३.६९; अकि-१,४६९.२-४७०.६; रो-२,८३८-८४०; भा-२१/५९) अब्रह्मदत्तम् ब्रह्मदत्तः इति आह ।
(पा-२,३.६९; अकि-१,४६९.२-४७०.६; रो-२,८३८-८४०; भा-२२/५९) ते मन्यामहे ॒ ब्रह्मदत्तवत् अयम् भवति इति ।
(पा-२,३.६९; अकि-१,४६९.२-४७०.६; रो-२,८३८-८४०; भा-२३/५९) एवम् इह अपि अलिटम् लिट् इति आह ।
(पा-२,३.६९; अकि-१,४६९.२-४७०.६; रो-२,८३८-८४०; भा-२४/५९) लिड्वत् इति विज्ञास्यते ।
(पा-२,३.६९; अकि-१,४६९.२-४७०.६; रो-२,८३८-८४०; भा-२५/५९) उकारप्रयोगे न इति वक्तव्यम् ।
(पा-२,३.६९; अकि-१,४६९.२-४७०.६; रो-२,८३८-८४०; भा-२६/५९) कटम् चिकीर्षुः ।
(पा-२,३.६९; अकि-१,४६९.२-४७०.६; रो-२,८३८-८४०; भा-२७/५९) ओदनम् बुभुक्षुः ।
(पा-२,३.६९; अकि-१,४६९.२-४७०.६; रो-२,८३८-८४०; भा-२८/५९) तत् तर्हि वक्तव्यम् ।
(पा-२,३.६९; अकि-१,४६९.२-४७०.६; रो-२,८३८-८४०; भा-२९/५९) न वक्तव्यम् ।
(पा-२,३.६९; अकि-१,४६९.२-४७०.६; रो-२,८३८-८४०; भा-३०/५९) उकारः अपि अत्र निर्दिश्यते ।
(पा-२,३.६९; अकि-१,४६९.२-४७०.६; रो-२,८३८-८४०; भा-३१/५९) कथम् ।
(पा-२,३.६९; अकि-१,४६९.२-४७०.६; रो-२,८३८-८४०; भा-३२/५९) प्रश्लिष्टनिर्देशः अयम् ।
(पा-२,३.६९; अकि-१,४६९.२-४७०.६; रो-२,८३८-८४०; भा-३३/५९) उ उक ऊक ल ऊक लोक इति ।
(पा-२,३.६९; अकि-१,४६९.२-४७०.६; रो-२,८३८-८४०; भा-३४/५९) उकप्रतिषेधे कमेः भाषायाम् अप्रतिषेधः ।
(पा-२,३.६९; अकि-१,४६९.२-४७०.६; रो-२,८३८-८४०; भा-३५/५९) उकप्रतिषेधे कमेः भाषायाम् प्रतिषेधः न भवति इति वक्तव्यम् ।
(पा-२,३.६९; अकि-१,४६९.२-४७०.६; रो-२,८३८-८४०; भा-३६/५९) दस्याः कामुकः ।
(पा-२,३.६९; अकि-१,४६९.२-४७०.६; रो-२,८३८-८४०; भा-३७/५९) वृषल्याः कामुकः ।
(पा-२,३.६९; अकि-१,४६९.२-४७०.६; रो-२,८३८-८४०; भा-३८/५९) अव्ययप्रतिषेधे तोसुन्कसुनोः अप्रतिषेधः । अव्ययप्रतिषेधे तोसुन्कसुनोः प्रतिषेधः न भवति इति वक्तव्यम् ।
(पा-२,३.६९; अकि-१,४६९.२-४७०.६; रो-२,८३८-८४०; भा-३९/५९) पुरा सूर्यस्य उदेतोः आधेयः ।
(पा-२,३.६९; अकि-१,४६९.२-४७०.६; रो-२,८३८-८४०; भा-४०/५९) पुरा वत्सानाम् अपाकर्तोः ।
(पा-२,३.६९; अकि-१,४६९.२-४७०.६; रो-२,८३८-८४०; भा-४१/५९) पुरा क्रूरस्य विसृपः विरप्शिन् ।
(पा-२,३.६९; अकि-१,४६९.२-४७०.६; रो-२,८३८-८४०; भा-४२/५९) शानंश्चानश्शतृ̄ऋणाम् उपसङ्ख्यानम् ।
(पा-२,३.६९; अकि-१,४६९.२-४७०.६; रो-२,८३८-८४०; भा-४३/५९) शानंश्चानश्शतृ̄ऋणाम् उपसङ्ख्यानम् कर्तव्यम् ।
(पा-२,३.६९; अकि-१,४६९.२-४७०.६; रो-२,८३८-८४०; भा-४४/५९) सोमम् पवमानः ।
(पा-२,३.६९; अकि-१,४६९.२-४७०.६; रो-२,८३८-८४०; भा-४५/५९) नडम् आघ्नानः ।
(पा-२,३.६९; अकि-१,४६९.२-४७०.६; रो-२,८३८-८४०; भा-४६/५९) अधीयन् पारायणम् ।
(पा-२,३.६९; अकि-१,४६९.२-४७०.६; रो-२,८३८-८४०; भा-४७/५९) लप्रयोगे न इति प्रतिषेधः न प्राप्नोति ।
(पा-२,३.६९; अकि-१,४६९.२-४७०.६; रो-२,८३८-८४०; भा-४८/५९) मा भूत् एवम् ।
(पा-२,३.६९; अकि-१,४६९.२-४७०.६; रो-२,८३८-८४०; भा-४९/५९) तृन् इति एवम् भविष्यति ।
(पा-२,३.६९; अकि-१,४६९.२-४७०.६; रो-२,८३८-८४०; भा-५०/५९) कथम् ।
(पा-२,३.६९; अकि-१,४६९.२-४७०.६; रो-२,८३८-८४०; भा-५१/५९) तृन् इति न इदम् प्रत्ययग्रहणम् ।
(पा-२,३.६९; अकि-१,४६९.२-४७०.६; रो-२,८३८-८४०; भा-५२/५९) किम् तर्हि ।
(पा-२,३.६९; अकि-१,४६९.२-४७०.६; रो-२,८३८-८४०; भा-५३/५९) प्रत्याहारग्रहणम् ।
(पा-२,३.६९; अकि-१,४६९.२-४७०.६; रो-२,८३८-८४०; भा-५४/५९) क्व संनिविष्टानाम् प्रत्याहारः ।
(पा-२,३.६९; अकि-१,४६९.२-४७०.६; रो-२,८३८-८४०; भा-५५/५९) लटः शतृ इति अतः प्रभृति आ तृनः नकारात् ।
(पा-२,३.६९; अकि-१,४६९.२-४७०.६; रो-२,८३८-८४०; भा-५६/५९) यदि प्रत्याहारग्रहणम् चौरस्य द्विषन् वृषलस्य द्विषन् अत्र अपि प्राप्नोति ।
(पा-२,३.६९; अकि-१,४६९.२-४७०.६; रो-२,८३८-८४०; भा-५७/५९) द्विषः शतुः वावचनम् । द्विषः शतुः वा इति वक्तव्यम् ।
(पा-२,३.६९; अकि-१,४६९.२-४७०.६; रो-२,८३८-८४०; भा-५८/५९) तत् च अवश्यं वक्तव्यम् प्रत्ययग्र्हणे सति प्रतिषेधार्थम् ।
(पा-२,३.६९; अकि-१,४६९.२-४७०.६; रो-२,८३८-८४०; भा-५९/५९) तत् एव प्रत्याहारग्रहणे सति विध्यर्थम् भविष्यति ।
(पा-२,३.७०; अकि-१,४७०.८-१३; रो-२,८४०-८४१; भा-१/९) अकस्य भविष्यति ।
(पा-२,३.७०; अकि-१,४७०.८-१३; रो-२,८४०-८४१; भा-२/९) अकस्य भविष्यति इति वक्तव्यम् ।
(पा-२,३.७०; अकि-१,४७०.८-१३; रो-२,८४०-८४१; भा-३/९) यवान् लावकः व्रजति ।
(पा-२,३.७०; अकि-१,४७०.८-१३; रो-२,८४०-८४१; भा-४/९) ओदनम् भोजकः व्रजति ।
(पा-२,३.७०; अकि-१,४७०.८-१३; रो-२,८४०-८४१; भा-५/९) सक्तून्पायकः व्रजति ।
(पा-२,३.७०; अकि-१,४७०.८-१३; रो-२,८४०-८४१; भा-६/९) इनः आधमर्ण्ये च । ततः इनः आधमर्ण्ये च भविष्यति च इति वक्तव्यम् ।
(पा-२,३.७०; अकि-१,४७०.८-१३; रो-२,८४०-८४१; भा-७/९) शतम् दायी ।
(पा-२,३.७०; अकि-१,४७०.८-१३; रो-२,८४०-८४१; भा-८/९) सहस्रम् दायी ।
(पा-२,३.७०; अकि-१,४७०.८-१३; रो-२,८४०-८४१; भा-९/९) ग्रामम् गामी ।
(पा-२,३.७१; अकि-१,४७०.१५-४७१.६; रो-२,८४१-८४२; भा-१/२४) कर्तृग्रहणम् किमर्थम् ।
(पा-२,३.७१; अकि-१,४७०.१५-४७१.६; रो-२,८४१-८४२; भा-२/२४) कर्मणि मा भूत् इति ।
(पा-२,३.७१; अकि-१,४७०.१५-४७१.६; रो-२,८४१-८४२; भा-३/२४) न एतत् अस्ति प्रयोजनम् ।
(पा-२,३.७१; अकि-१,४७०.१५-४७१.६; रो-२,८४१-८४२; भा-४/२४) भावकर्मणोः कृत्याः विधीयन्ते टत्र कृत्यैः अभिहितत्वात् कर्मणि षष्ठी न भविष्यति ।
(पा-२,३.७१; अकि-१,४७०.१५-४७१.६; रो-२,८४१-८४२; भा-५/२४) अतः उत्तरम् पठति ।
(पा-२,३.७१; अकि-१,४७०.१५-४७१.६; रो-२,८४१-८४२; भा-६/२४) भव्यादीनाम् कर्मणः अनभिधानात् कृत्यानाम् कर्तृग्रहणम् ।
(पा-२,३.७१; अकि-१,४७०.१५-४७१.६; रो-२,८४१-८४२; भा-७/२४) भव्यादीनाम् कर्म कृत्यैः अनभितम् ।
(पा-२,३.७१; अकि-१,४७०.१५-४७१.६; रो-२,८४१-८४२; भा-८/२४) गेयः माणवकः साम्नाम् ।
(पा-२,३.७१; अकि-१,४७०.१५-४७१.६; रो-२,८४१-८४२; भा-९/२४) भव्यादीनम् कर्मणः अनभिधानात् कृत्यानाम् कर्तृग्रहणम् क्रियते ।
(पा-२,३.७१; अकि-१,४७०.१५-४७१.६; रो-२,८४१-८४२; भा-१०/२४) किम् उच्यते भव्यादीनाम् कर्म कृत्यैः अनभितम् इति ।
(पा-२,३.७१; अकि-१,४७०.१५-४७१.६; रो-२,८४१-८४२; भा-११/२४) न इह अपि अनभिहितं भवति ।
(पा-२,३.७१; अकि-१,४७०.१५-४७१.६; रो-२,८४१-८४२; भा-१२/२४) आक्रष्टव्या ग्रांअम् शाखा इति ।
(पा-२,३.७१; अकि-१,४७०.१५-४७१.६; रो-२,८४१-८४२; भा-१३/२४) एवम् तर्हि योगविभागः करिष्यते ।
(पा-२,३.७१; अकि-१,४७०.१५-४७१.६; रो-२,८४१-८४२; भा-१४/२४) कृत्यानाम् ।
(पा-२,३.७१; अकि-१,४७०.१५-४७१.६; रो-२,८४१-८४२; भा-१५/२४) कृत्यानाम् प्रयोगे षष्ठी न भवति इति ।
(पा-२,३.७१; अकि-१,४७०.१५-४७१.६; रो-२,८४१-८४२; भा-१६/२४) किम् उदाहरणम् ।
(पा-२,३.७१; अकि-१,४७०.१५-४७१.६; रो-२,८४१-८४२; भा-१७/२४) ग्रामम् आक्रष्टव्या शाखा ।
(पा-२,३.७१; अकि-१,४७०.१५-४७१.६; रो-२,८४१-८४२; भा-१८/२४) ततः कर्तरि वा इति ।
(पा-२,३.७१; अकि-१,४७०.१५-४७१.६; रो-२,८४१-८४२; भा-१९/२४) इह अपि तर्हि प्राप्नोति ।
(पा-२,३.७१; अकि-१,४७०.१५-४७१.६; रो-२,८४१-८४२; भा-२०/२४) गेयः माणवकः साम्नाम् इति ।
(पा-२,३.७१; अकि-१,४७०.१५-४७१.६; रो-२,८४१-८४२; भा-२१/२४) उभयप्राप्तौ इति वर्तते ।
(पा-२,३.७१; अकि-१,४७०.१५-४७१.६; रो-२,८४१-८४२; भा-२२/२४) ननु च उभयप्राप्तिः एषा ।
(पा-२,३.७१; अकि-१,४७०.१५-४७१.६; रो-२,८४१-८४२; भा-२३/२४) गेयः माणवकः साम्नाम् इति च गेयानि माणवकेन सामानि इति च भवति ।
(पा-२,३.७१; अकि-१,४७०.१५-४७१.६; रो-२,८४१-८४२; भा-२४/२४) उभयप्राप्तिः नाम सा भवति यत्र उभयस्य युगपत्प्रसङ्गः अत्र च यदा कर्मणि न तदा कर्तरि यदा कर्तरि न तदा कर्मणि इति.