वैतथ्यप्रकरणे जगतः वैतथ्यम्...
प्रकरणसङ्गतिः
गौडपादकारिकायां द्वितीयं प्रकरणं वैतथ्यप्रकरणम्।प्रथमे आगमप्रकरणे आत्मतत्त्वा-वबोधस्य उपायभूतः ओङ्कारस्वरूपनिर्णयः कृतः।द्वितीये अस्मिन् वैतथ्यप्रकरणे द्वैतप्रपञ्चस्य व्यर्थत्वं प्रतिपाद्यते नैकाभिः उपपत्तिभिः। वितथं नाम असत्यम्।वितथस्य भावः वैतथ्यम्।तत्र आदौ स्वप्नवैतथ्यं साधयति ग्रन्थकारः।
स्वप्नपदार्थवैतथ्यम्
स्वाप्नपदार्थाः वितथाः,अन्तःस्थानात्। स्वप्ने दृश्यमानाः अश्वगजादयः पदार्थाः शरीरस्य अन्तः भासन्ते। न च एतत् सम्भवति।यतो हि शरीरान्तःस्थानं संवृतम् अस्ति।तत्र अश्वादीनां सम्भवः नास्ति।अतः ते स्वाप्नभावाःमिथ्या भवितुम् अर्हन्ति।
आशङ्का
कदाचित् स्वप्ने तैजसः देशान्तरं गत्वा तान् अश्वादीन् पदार्थान् पश्यति।
समाधानम्
नैतदपि सम्भवति।देशान्तरगमनाय दीर्घकालः अपेक्षितः।सुप्तस्य तावत्कालं निद्रा नास्ति। स्वप्ने देशान्तरगतः सन् प्रतिबुद्धः भवति चेत् सः निद्रादेशे एव आत्मानं पश्यति।न तु देशान्तरे।अतः तस्य स्वप्ने देशान्तरगमनं वितथम् एव मन्तव्यम्।
स्वप्ने रथादयः पदार्थाः न सन्ति इति श्रुतिः अपि विद्यते-
‘न तत्र रथाः...’ (बृहदारण्यकोपनिषद्)
स्वप्ने केचन पदार्थाः इन्द्रियग्राह्याः सन्ति, केचन मनःकल्पिताः सन्ति।ते सर्वे अपि वितथाः।
एवं स्वाप्नपदार्थानां वैतथ्यं प्रतिपाद्य जागरितपदार्थानामपि वैतथ्यं प्रतिपाद्यते।तद्यथा –
जागरितपदार्थवैतथ्यम्
उपपत्तिः१
जागरितपदार्थाः वितथाः, दृश्यत्वात्
यत्र यत्र दृश्यत्वं,तत्र तत्र वैतथ्यम् यथा स्वाप्नपदार्थाः।
जागरितपदार्थाः दृश्याः, तस्मात् वितथाः।
एतदनुमानं जागरितपदार्थानां वैतथ्यं साधयति।स्वाप्नपदार्थाः अन्तःस्थाः. संवृतदेशस्थाःच सन्ति।जाग्रत्पदार्थाः बहिःस्थाः तथा असंवृतदेशस्थाः सन्ति।एतौ उभयोः भेदौ। दृश्यत्वं तथा वैतथ्यमिति स्वाप्नजाग्रत्पदार्थयोः सामान्यम्।तस्मात् मनीषिणां मते यथा स्वाप्नपदार्थाः वितथाः तथा जाग्रत्पदार्थाः अपि वितथाः।
उपपत्तिः २
आदावन्ते च यन्नास्ति, वर्तमाने अपि तत्तथा।
एषा अपरा उपपत्तिः।रज्ज्वां भासमानः सर्पः आदौ नासीत्, दृष्टिकाले वर्तमाने तावद् उत्पन्नः, पुनः रज्जुज्ञानेन नष्टः।एवम् सर्पः आदौ नासीत्, अन्ते न भविष्यति अतः वर्तमाने प्रतीतिकाले अपि सः नास्ति इत्येव मन्तव्यम्।नास्ति तथापि भासते इति एव तस्य वैतथ्यम्। मनीषिणः एतद् वैतथ्यं जानन्ति।पाकृताः जनाः तद् न जानन्ति, अतः प्रपञ्चम् सत्यं मन्यन्ते।
आक्षेपः
जाग्रत्पदार्थाः सप्रयोजनाः सन्ति।यथा जाग्रदवस्थायां जलेन तृषाशमनरूपं प्रयोजनं सिद्ध्यति।अतः ते वितथाः न मन्तव्याः।
उत्तरम्
जाग्रत्पदार्थाः जाग्रद्दशायामेव सप्रयोजनाः सन्ति, न स्वप्ने।जाग्रद्दशायां पीतेन जलेन स्वाप्नतृष्णायाः शान्तिः न भवति।स्वाप्नजलेन जाग्रदवस्थायां तृष्णाशमनं न भवति।एवं सप्रयोजनता न स्वाप्नपदार्थे अस्ति, न वा जाग्रत्पदार्थे।उभयत्र सप्रयोजनता व्यभिचरति। तस्मात् यथा स्वाप्नपदार्थाः वितथाः तथा जाग्रत्पदार्थाः अपि ।
जाग्रदवस्थायां केचन पदार्थाः इन्द्रियग्राह्याः सन्ति, केचन मनःकल्पिताः सन्ति।ते सर्वे अपि वितथाः।
उपपत्तिः ३
यथा स्वप्नः यथा गन्धर्वनगरं तथा एव सर्वं विश्वं वितथम् इति श्रुत्या प्रतिपादितम् –
नेह नानास्ति किञ्चन।
द्वितीयाद् वै भयं भवति।
यत्र त्वस्य सर्वम् आत्मैव अभूत्..।
गौडपादकारिका-प्रश्नोत्तरसङ्ग्रहः गौडपादकारिका-लघूत्तरप्रश्नाः गौडपादकारिका-दीर्घोत्तरप्रश्नाः