वृत्तरत्नाकर
श्रीः
सम्पाद्यताम्वृत्तरत्नाकरः
प्रथमोऽध्यायः
सम्पाद्यताम्सुखसन्तानसिद्ध्यर्थं नत्वा ब्रह्माऽच्युताऽर्चितम् ।
गौरीविनायकोपेतं शङ्करं लोकशङ्करम् ॥ केवृ१.१ ॥
वेदार्थशैवशास्त्रज्ञः पव्येकोऽभूद् लोकशङ्करम् ।
तस्य पुत्रोऽस्ति केदारः शिवपादार्चने रतः ॥ केवृ१.२ ॥
तेनेदं क्रियते छन्दो लक्ष्यलक्षणसंयुतम् ।
वृत्तरत्नाकरं नाम बालानां सुखसिद्ध्ये ॥ केवृ१.३ ॥
पिङ्गलादिभ्राचार्यैर्यदुक्तं लौकिकं द्विधा ।
मात्रावर्णविभेदेन च्छन्दस्तदिह कथ्यते ॥ केवृ१.४ ॥
षडध्यायनिबद्धस्य च्छन्दसोऽस्य परिस्फुटम् ।
प्रमाणमपि विज्ञेयं षड्त्रिंशदधिकं शतम् ॥ केवृ१.५ ॥
म्यरस्तजभ्नगैर्लान्तैरेभिर्दशभिरक्षरैः ।
समस्तं वाङ्मयं व्याप्तं त्रैलोक्यमिव विष्णुना ॥ केवृ१.६ ॥
सर्वगुर्मो मुखान्तर्लौ यरावन्तगलौ सतौ ।
ग्मध्याद्यौ ज्मौ त्रिलो नोऽष्टौ भवन्त्यत्र गणास्त्रिकाः ॥ केवृ१.७ ॥
ज्ञेयाः सर्वान्तमध्यादिगुरवोऽत्र चतुष्कलाः ।
गणाश्चतुर्लघूपेताः पञ्चार्यादिषु संस्थिताः ॥ केवृ१.८ ॥
सानुस्वारो विसर्गान्तो दीर्घो युक्तपरश्च यः ।
वा पादान्ते त्वसौ ग्वक्रो ज्ञेयोऽन्यो मात्रिको लृजुः ॥ केवृ१.९ ॥
पादादाविह वर्णस्य संयोगः क्रमसंज्ञकः ।
पुरःस्थितेन तेन स्याल्लघुताऽपि क्वचिद् गुरोः ॥ केवृ१.१० ॥
तरुणं सर्षपशाकं नवौदनं पिच्छिलानि च दधीनि ।
अल्पव्ययेन सुन्दरि (!) ग्राम्यजनो मिष्टमिश्नाति ॥ केवृ१.११ ॥
अब्धिभूतरसादीनां ज्ञेयाः संज्ञास्तु लोकतः ।
ज्ञेयः पादश्चतुर्थाशो यतिर्विच्छेदसंज्ञितः ॥ केवृ१.१२ ॥
युक्समं विषमं चालूक्स्थानं सद्भिर्निगद्यते ।
सममर्धसमं वृत्तं विषमं च तथापरम् ॥ केवृ१.१३ ॥
अङ्घ्रयो यस्य चत्वारस्तुल्यलक्षणलक्षिताः ।
तच्छन्दःशास्त्रतत्त्वज्ञाः समं वृत्तं प्रचक्षते ॥ केवृ१.१४ ॥
प्रथमाङ्घ्रिसमो यस्य तृतीयश्चरणो भवेत् ।
द्वितीयस्तुर्यवद्वृत्तं तदर्धसममुच्यते ॥ केवृ१.१५ ॥
यस्य पादचतुष्केऽपि लक्ष्म भिन्नं परस्परम् ।
तदाहुर्विषमं वृत्तं छन्दःशास्त्रविशारदाः ॥ केवृ१.१६ ॥
आरभ्यैकाक्षारात्पादादेकैकक्षरवद्धितैः ।
पृथक्छन्दो भवेत्पादैर्यावत्षड्विंशतिं गतम् ॥ केवृ१.१७ ॥
तदूर्ध्वं चण्डवृष्ट्यादिदण्डकाः परिकीर्तिताः ।
शेषं गाथास्त्रिभिः षड्भिश्चरणैश्चोपलक्षिताः ॥ केवृ१.१८ ॥
उक्ताऽत्युक्ता तथा मध्या प्रतिष्ठाऽन्या सुपूर्विका ।
गायत्र्युष्णिगनुष्टुप् च बृहती पङ्क्तिरेव च ॥ केवृ१.१९ ॥
त्रिष्टुप् च जगती चैव तथाऽतिजगती मता ।
शक्वरी साऽतिपूर्वा स्यादष्ट्यत्यष्टी ततः स्मृते ॥ केवृ१.२० ॥
धृतिश्चाऽतिधृतिश्चैव क्र्टिः प्रकृतिराकृतिः ।
विकृतिः सङ्कृतिश्चैव तथाऽतिकृतिरुत्कृतिः ॥ केवृ१.२१ ॥
इत्युक्ताश्छन्दसां संज्ञाः क्रमतो वच्मि साम्प्रतम् ।
लक्षणं सर्ववृत्तानां मात्रावृत्ताऽनुपूर्वकम् ॥ केवृ१.२२ ॥
इति श्रीकेदारभट्टविरचिते वृत्तरत्नाकरे संज्ञाभिधानो नाम प्रथमोऽध्यायः ।
द्वितीयोऽध्यायः
सम्पाद्यताम्आर्या-प्रकरणम् (१-७)
सम्पाद्यताम्लक्ष्मैतत्सप्त गणा गोपेता भवति नेह विषमे जः ।
षष्ठोऽयं नलघू वा प्रथमेऽर्धे नियतमार्यायाः ॥ केवृ२.१ ॥
षष्थे द्वितीयलात्परके न्ले मुखलाच्च सयतिपदनियमः ।
चरमेऽर्धे पञ्चके तस्मादिह भवति षष्ठो लः ॥ केवृ२.२ ॥
त्रिष्वङ्केषु पादो दलयोराद्येषु दृश्यते यस्याः ।
पथ्येति नाम तस्याः प्रकीर्तितं नागराजेन ॥ केवृ२.३ ॥
संलङ्घ्य गणत्रयमादिमं शकलयोर्द्वयोर्भवति पादः । ।
यस्यास्तां पिङ्गलनागो विपुलामिति समाख्याति ॥ केवृ२.४ ॥
उभयार्धयोर्जकारौ द्वितीयतुर्यौ गमध्यगौ तस्याः ।
चपलेति नाम तस्या प्रकीर्तितं नागराजेन ॥ केवृ२.५ ॥
आद्यं दलं समस्तं भजेय लक्ष्म चपलागतं यस्याः ।
शेषे पूर्वजलक्ष्मा मुखचपलासोदिता मुनिना ॥ केवृ२.६ ॥
प्राक्प्रतिपादितमर्धे प्रथमे प्रथमेतरे च चपलायाः ।
लक्ष्माश्रयते सोक्ता विशुद्धधीभिर्जघनचपला ॥ केवृ२.७ ॥
गीति-प्रकरणम् (८-११)
सम्पाद्यताम्आर्याओरथमदलोक्तं यदि कथमपि लक्षणं भवेदुभयोः ।
दलयोः क्र्टयतिशोभां तां गीतिं गीतवान्भुजङ्गेशः ॥ केवृ२.८ ॥
आर्याद्वितीयकेऽर्धे यद्गदितं लक्षणं तत्स्यात् ।
यद्युभयोरपि दलयोरुपगीतिं ता मुनिर्ब्रूते ॥ केवृ२.९ ॥
आर्याशकलद्वितयं व्यत्ययरचितं भवेद्यस्याः ।
सोद्गीतिः किल गदिता तद्वद्यत्यंशभेदसंयुक्ता ॥ केवृ२.१० ॥
आर्यापूर्वार्धं यदि गुरुणैकेनाधिकेन निधने युक्तम् ।
इतरत्तद्वन्निखिलं दलं यदीयमुदितेयमार्यागीतिः ॥ केवृ२.११ ॥
वैतालीय-प्रकरणम् (१२-२०)
सम्पाद्यताम्षड्विषमेऽष्टौ समे कलास्ताश्च समे स्युर्नो निरन्तराः ।
न समात्र पराश्रिता कला वैतालीयेऽन्ते रला गुरुः ॥ केवृ२.१२ ॥
पर्यन्ते र्यौ तथैव शेषमौपच्छन्दसिकं सुधीभिरुक्तम् ॥ केवृ२.१३ ॥
आपातलिका कथितेयं भाद्गुरुकावथ पूर्ववदन्यत् ॥ केवृ२.१४ ॥
तृतीययुग्दक्षिणान्तिका समस्तपादेषु द्वितीयलः ॥ केवृ२.१५ ॥
उदीच्यवृत्तिर्द्वितीयलः सक्तोऽग्रेण भवेदयुग्मयोः ॥ केवृ२.१६ ॥
पूर्वेण युतोऽथ पञ्चमः प्राच्यवृत्तिरुदितेति युग्मयोः ॥ केवृ२.१७ ॥
यदा समावोजयुग्मकौ पूर्वयोर्भवति तत्प्रवृत्तकम् ॥ केवृ२.१८ ॥
अस्य युग्मरचिताऽपरान्तिका ॥ केवृ२.१९ ॥
अयुग्भवा चारुहासिनी ॥ केवृ२.२० ॥
वक्त्र-प्रकरणम् (२१-३०)
सम्पाद्यताम्वक्त्रं नाद्यान्नसौ स्यातामब्धेर्योऽनुष्टुभि ख्यातम् ॥ केवृ२.२१ ॥
युजोर्जेन सरिद्भर्तुः पथ्यावक्त्रं प्रकीर्तितम् ॥ केवृ२.२२ ॥
ओजयोर्जेन वारिधेस्तदेव विपरीतादि ॥ केवृ२.२३ ॥
चपलावक्त्रमयुजोर्नकारश्वेत्पयोराशेः ॥ केवृ२.२४ ॥
यस्या लः सप्तमो युग्मे सा युग्मविपुला मता ॥ केवृ२.२५ ॥
सौतवस्याऽखिलेष्वपि ॥ केवृ२.२६ ॥
भेनाऽब्धितो भाद्विपुला ॥ केवृ२.२७ ॥
इत्थमन्या रश्चतुर्थात् ॥ केवृ२.२८ ॥
नोऽम्बुधेश्चेन्नविपुला ॥ केवृ२.२९ ॥
तोऽब्धेस्तत्पूर्वान्या भवेत् ॥ केवृ२.३० ॥
मात्रासमक-प्रकरणम् (३१-३८)
सम्पाद्यताम्द्विगुणितवसुलधुरचलधृतिरिति ॥ केवृ२.३१ ॥
मात्रासमकं नवमो ल्गान्तम् ॥ केवृ२.३२ ॥
जो न्लावथाम्बुधेर्विश्लोकः ॥ केवृ२.३३ ॥
तद्युगलाद्वानवासिका स्यात् ॥ केवृ२.३४ ॥
बाणाष्टनवसु यदि लश्चिता ॥ केवृ२.३५ ॥
उपचित्रा नवमे परयुक्ते ॥ केवृ२.३६ ॥
यदतीतकृतविविधलक्ष्मयुतैर्मात्रासमादिपादैः कलितम् ।
अनियतवृत्तपरिमाणयुक्तं प्रथितं जगत्सु पादाकुलकम् ॥ केवृ२.३७ ॥
वृत्तस्य ला विना वर्णैर्गा वर्णा गुरुभिस्तथा ।
गुरुवो लैर्दले नित्यं प्रमाणमिति निश्चितम् ॥ केवृ२.३८ ॥
शिखिगुणितदशलघुरचितमपगतलघुयुगलमपरमिदमखिलम् ।
सगुरु शकलयुगलकमपि सुपरिघटितललितपदवितति भवति शिखा ॥ केवृ२.३९ ॥
विनिमयविनिहितशकलयुगलकलितपदविततिविरचितगुणनिचया ।
श्रुतिसुखकृदियमपि जगति ञि जशिर उपगतवति सति भवति खजा ॥ केवृ२.४० ॥
अष्टावर्धे गा द्वयभ्यस्ता यस्याः साऽनङ्गक्रीडोक्ता ।
दलमपरमपि वसुगुणितसलिलनिधिलघु कविरचितं पदवितति भवति ॥ केवृ२.४१ ॥
त्रिगुणनवलघुरंवसितिगुरुरितिदलयुगकृततनुरतिरुचिरा ॥ केवृ२.४२ ॥
इति श्रीमद्भट्टरामेश्वरसूनुनारायणभट्टविरचितायां वृत्तरत्नाकरव्याख्यायां मात्रावृत्ताधिकारो नाम द्वितीयोऽध्यायः ॥
तृतीयोऽध्यायः
सम्पाद्यताम्गुः श्त्रीः ॥ केवृ३.१ ॥
गौ स्त्री ॥ केवृ३.२ ॥
मो नारी ॥ केवृ३.३ ॥
रो मृगी ॥ केवृ३.४ ॥
म्गौ चेत्कन्या ॥ केवृ३.५ ॥
भ्गौ गिति पङ्क्तिः ॥ केवृ३.६ ॥
त्यौ स्तस्तनुमध्या ॥ केवृ३.७ ॥
शशिवदना न्यौ ॥ केवृ३.८ ॥
विद्युल्लेखा मो मः ॥ केवृ३.९ ॥
त्सा चेद्वसुमती ॥ केवृ३.१० ॥
म्सौ गः स्यान्मदलेखाः ॥ केवृ३.११ ॥
भौ गिति चित्रपदा गः ॥ केवृ३.१२ ॥
मो मो गो गो विद्युन्माला ॥ केवृ३.१३ ॥
माणवकं भात्तलगा ॥ केवृ३.१४ ॥
म्नौ गौ हंसरुतमेतत् ॥ केवृ३.१५ ॥
र्जौ समानिका गलौ च ॥ केवृ३.१६ ॥
प्रमाणिका जरौ लगौ ॥ केवृ३.१७ ॥
वितानमाभ्यां यदन्यत् ॥ केवृ३.१८ ॥
राम्नसाविह हलमुखी ॥ केवृ३.१९ ॥
भुजगशिशुभृतां नौ मः ॥ केवृ३.२० ॥
म्सा ज्गौ शुद्धविराडिदं मतम् ॥ केवृ३.२१ ॥
म्नौ ज्गौ चेति पणवनामकम् ॥ केवृ३.२२ ॥
र्जौ रगौ मयूरसारिणी स्यात् ॥ केवृ३.२३ ॥
भ्मौ सगयुक्तौ रुक्मवतीयम् ॥ केवृ३.२४ ॥
मत्ता ज्ञेया मभसगयुक्ता ॥ केवृ३.२५ ॥
नरजगौर्भवेन्मनोरमा ॥ केवृ३.२६ ॥
त्जौ जो गुरुणेयमुपस्थिता ॥ केवृ३.२७ ॥
स्यादिन्द्रवज्रा यदि तौ जगौ गः ॥ केवृ३.२८ ॥
उपेन्द्रवज्रा जतजास्ततो गौ ॥ केवृ३.२९ ॥
पादौ यदीयावुपजातयस्ताः ॥ केवृ३.३० ॥
स्मरन्ति जातिष्विदमेव नाम मे ॥ केवृ३.३१ ॥
नजजलगैर्गदिता सुमुखी ॥ केवृ३.३२ ॥
दोधकवृत्तमिदं भभभाद्गौ ॥ केवृ३.३३ ॥
शालिन्युक्ता म्तौ तगौ गोऽब्धिलोकैः ॥ केवृ३.३४ ॥
वातोर्मीयं कथिता म्भौ तगौ गः ॥ केवृ३.३५ ॥
वाणरसैः स्याद्भतनगगैः श्रीः ॥ केवृ३.३६ ॥
म्भौ न्लौ गः स्याद् भ्रमरविलसितम् ॥ केवृ३.३७ ॥
रान्नराविह रथोद्धता लगौ ॥ केवृ३.३८ ॥
स्वागतेति रनभाद्गुरुयुग्मम् ॥ केवृ३.३९ ॥
ननरलगुरुरचिता वृन्ता ॥ केवृ३.४० ॥
ननरमगुरुभिश्च भद्रिका ॥ केवृ३.४१ ॥
श्येनिका रजौ रलौ गुरुर्पदा ॥ केवृ३.४२ ॥
मौक्तिकमाला यदि भतनाद्गौ ॥ केवृ३.४३ ॥
उपस्थितमिदं ज्सौ ताद्गकारौ ॥ केवृ३.४४ ॥
चन्द्रवर्त्म निगदन्ति रनभसैः ॥ केवृ३.४५ ॥
जतौ तु वंशस्थमुदीरितं जरौ ॥ केवृ३.४६ ॥
स्यादिन्द्रवंशा ततजै रसंयुतैः ॥ केवृ३.४७ ॥
इह तोटकमम्बुधिसैः प्रथितम् ॥ केवृ३.४८ ॥
द्रुतविलम्बितमाह नभौ भरौ ॥ केवृ३.४९ ॥
मिनुशरविरतिर्नौ म्यौ पुटोऽयम् ॥ केवृ३.५० ॥
प्रमुदितवदना भवेन्नौ च रौ ॥ केवृ३.५१ ॥
नयसहितौ न्यौ कुसुमवचित्रा ॥ केवृ३.५२ ॥
रसैर्जसजसा जलोद्धतगतिः ॥ केवृ३.५३ ॥
चतुर्जगणं वद मौक्तिकदाम ॥ केवृ३.५४ ॥
भुजङ्गप्रयातं भवेद्यैश्चतुर्भिः ॥ केवृ३.५५ ॥
रैश्चतुर्भिर्युता स्रग्विणी सम्मता ॥ केवृ३.५६ ॥
भुवि भवेन्नभजरैः प्रियंवदा ॥ केवृ३.५७ ॥
त्यौ त्यौ मणिमाला च्छिन्ना गुहवक्त्रैः ॥ केवृ३.५८ ॥
धीरैरभाणि ललिता तभौजरौ ॥ केवृ३.५९ ॥
प्रमिताक्षरा सजससैरुदिता ॥ केवृ३.६० ॥
ननभरसहिता महितोज्ज्वला ॥ केवृ३.६१ ॥
पञ्चाश्वैश्छिन्ना वैश्यदेवी ममौ यौ ॥ केवृ३.६२ ॥
अब्ध्यष्टाभिर्जलधरमाला म्भौ स्मौ ॥ केवृ३.६३ ॥
इह नवमालिका नजभयैः स्यात् ॥ केवृ३.६४ ॥
स्वरशरविरतिर्ननौ रौ प्रभा ॥ केवृ३.६५ ॥
भवति नजावथ मालती जरौ ॥ केवृ३.६६ ॥
जभौ जरौ वदति पञ्चामरम् ॥ केवृ३.६७ ॥
अभिनवतामरसं नजजाद्यः ॥ केवृ३.६८ ॥
तुरगरसयतिर्नौ ततौ गः क्षमा ॥ केवृ३.६९ ॥
म्नौ ज्रौ गस्त्रिदशयतिः प्रहर्षिणीअम् ॥ केवृ३.७० ॥
चतुर्ग्रहैरतिरुचिरा जभस्जगाः ॥ केवृ३.७१ ॥
वेदै रन्ध्रैर्म्तौ यसगा मत्तमयूरम् ॥ केवृ३.७२ ॥
( उपस्थितमिदं ज्सौ त्सौ सगुरुकं चेत् ) ॥ केवृ३.७३ ॥
सजसा जगौ भवति मञ्जुभाषिणी ॥ केवृ३.७४ ॥
ननततगुरुभिश्चन्द्रिकाश्वर्तुभिः ॥ केवृ३.७५ ॥
म्तौ न्सौ गावक्षग्रहविरतिसम्बाधा ॥ केवृ३.७६ ॥
ननरसलघुगैः स्वरैरपराजिता ॥ केवृ३.७७ ॥
ननभनलघुगैः प्रहरणकलिता ॥ केवृ३.७८ ॥
उक्ता वसन्ततिलका तभजा जगौ गः ॥ केवृ३.७९ ॥
सिंहोन्नतेयमुदिता मुनिकाश्यपेन ॥ केवृ३.८० ॥
उद्धर्षिणीयमुदिता मुनिसैतवेन ॥ केवृ३.८१ ॥
इन्दुवदना भजसनैः सगुरुयुग्मैः ॥ केवृ३.८२ ॥
द्विःसप्तच्छिदलोला म्सौ म्भौ गौ चरणे चेत् ॥ केवृ३.८३ ॥
द्विहतहयलघुरथ गिति शशिकला ॥ केवृ३.८४ ॥
स्रगिति भवति रसनवकयतिरियम् ॥ केवृ३.८५ ॥
वसुहययतिरिह मणिगुणनिकरः ॥ केवृ३.८६ ॥
ननमयययुतेयं मालिनी भोगिलोकैः ॥ केवृ३.८७ ॥
भवति नजौ भजौ रसहितौ प्रभद्रकम् ॥ केवृ३.८८ ॥
सजना नयौ शरदशयतिरियमेला ॥ केवृ३.८९ ॥
म्रौ म्यौ यान्तौ भवेतां सप्ताष्टभिश्चन्द्रलेखा ॥ केवृ३.९० ॥
भ्रत्रिनगैः स्वरात्खमृषभगजविलसितम् ॥ केवृ३.९१ ॥
नजभजरैः सदा भवति वाणिनी गयुक्तैः ॥ केवृ३.९२ ॥
रसै रुद्रैश्छिन्ना यमनसभला गः शिखरिणी ॥ केवृ३.९३ ॥
जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः ॥ केवृ३.९४ ॥
दिङ्मुनि वंशपत्रपतितं भरनभनलगैः ॥ केवृ३.९५ ॥
रसयुगहयैर्न्सौ म्रौ स्लौ गौ यदा हरिणी तदा ॥ केवृ३.९६ ॥
मन्दाक्रान्ता जलधिषडगैर्म्भौनतौ ताद् गुरू चेत् ॥ केवृ३.९७ ॥
हयदशभिर्नजौ भजजला गुरु नर्कुटकम् ॥ केवृ३.९८ ॥
मुनिगुहकार्णवैः कृतयतिं वद कोकिलकम् ॥ केवृ३.९९ ॥ (यदि भवतो नजौ भजजला गुरुर्नर्कुटकम् । १०१ इति सुल्हणपाठः।)
स्याद् भूतर्त्वश्वैः कुसुमितलतावेल्लिता म्तौ नयौ यौ ॥ केवृ३.१०० ॥
सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम् ॥ केवृ३.१०१ ॥
ज्ञेया सप्ताश्वषड्भ्र्मरभनययुता भ्लो गः सुवदना ॥ केवृ३.१०२ ॥
त्री रजौ गलौ भवेदिहेदृशेन लक्षणेन वृत्तनाम ॥ केवृ३.१०३ ॥
म्रभ्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम् ॥ केवृ३.१०४ ॥
भ्रौ नरना रनावथ गुरुर्दिगर्कविरमं हि भद्रकमिति ॥ केवृ३.१०५ ॥
यदिह नजौ भजौ भ्जभलगास्तदश्वललितं हरार्कयतिमम् ॥ केवृ३.१०६ ॥
मताक्रीडा मौ त्नौ नौ नल्गिति भवति वसुशरदशयतियुता ॥ केवृ३.१०७ ॥
भूतमुनिनैर्यतिरिह भतनाः स्भौ भनयाश्च यदि भवति तन्वी ॥ केवृ३.१०८ ॥
क्रौञ्जपदा भमौ स्मौ ननना न्गाविषशरवसुमुनिविरतिरिह भवेत् ॥ केवृ३.१०९ ॥
वस्वीशाश्वच्छेदोपेतं ममतनयुगनरसलगैर्भुजङ्गविजृम्भितम् ॥ केवृ३.११० ॥
मो नाः षट् सगगिति यदि नवरसरसशरयतियुतमपवाहाख्यम् ॥ केवृ३.१११ ॥
यदि ह नयुगलं ततः सप्तरेफा स्तदा चण्डवृष्टिप्रपातो भवेद्दण्डकः ॥ केवृ३.११२ ॥
प्रतिचरणविवृद्धरेफाः स्युर्णार्णवव्यालजीमूतलीलाकरोद्दामशङ्खादयः ॥ केवृ३.११३ ॥
प्रचितकसमभिधो धीरधीभिः स्मृतोदण्डको नद्वयादुत्तरैः सप्तभिर्यैः ॥ केवृ३.११४ ॥
इति श्रीमद्भट्टरामेश्वरसूनुनारायणभट्टविरचितायां वृत्तरत्नाकरव्याख्यायां समवृत्ताध्यायस्तृतीयः ॥
चतुर्थोऽध्यायः
सम्पाद्यताम्विषमे यदि सौ सलगा दले भौ युजि भाद् गुरुकावुपचित्रम् ॥ केवृ४.१ ॥ भत्रयमोजगतं गुरुणी चेद्युजि च नजौ ज्ययुता द्रुतमध्या ॥ केवृ४.२ ॥ सयुगात्सगुरू विषमे चेद्भाविह वेगवती युजि भाद्गौ ॥ केवृ४.३ ॥ ओजे तपरौ जरौ गुरुश्चेन्मसौ ज्गौग्भद्रविराङ् भवेदनोजे ॥ केवृ४.४ ॥ असमे सजो सगुरुयुक्तौ केतुमती समे भरनगाद्गः ॥ केवृ४.५ ॥ आख्यानकीं तौ जगुरू ग ओजे जतावनोजे जगुरू गुरुश्चेत् ॥ केवृ४.६ ॥ जतौ जगौ गो विषमे समे चेत्तौ ज्गौ ग एषा विपरीतपूर्वा ॥ केवृ४.७ ॥ सयुगात्सलघू विषमे गुरुर्युजि नभौ भरकौ हरिणप्लुता ॥ केवृ४.८ ॥ अयुजि ननरला गुरुः समेन्जमपरवक्त्रमिदं ततो जरौ ॥ केवृ४.९ ॥ अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा ॥ केवृ४.१० ॥
वदन्त्यपरवक्त्राख्यं वैतालीयं विपश्चितः ।
पुष्पताग्राभिधं केचिदौपच्छन्दसिकं तथा ॥ केवृ४.११ ॥
स्याअयुग्मके रजौ रयौ समे चेज्जरौ जरौ गुरुर्यवात्परा मतीयम् ॥ केवृ४.१२ ॥
इति श्रीमद्भट्टरामेश्वरसूनुनारायणभट्टविरचितायां वृत्तरत्नाकरव्याख्यायामर्धसमाध्यायश्चतुर्थः ॥
पञ्चमोऽध्यायः
सम्पाद्यताम्पदचतुरूर्ध्व-प्रकरणम् (१-५)
सम्पाद्यताम्मुखवादोऽष्टभिर्वर्णैः परे स्युर्मकरालयैः क्रमाद् वृद्धैः ॥ सततं यस्य विचित्रैः पादैः सम्पन्नसौन्दर्यं तदुदितममलमतिभिः पदचतुरूर्ध्वाभिधं वृत्तम् ॥ केवृ५.१ ॥
प्रथममुदितवृत्ते विरचितविषमचरणभाजि ॥ गुरुकयुगलनिधन इह सहित आङा लघुविरतपदविततियतिरिति भवति पीडः ॥ केवृ५.२ ॥
प्रथममितरचरणसमुत्थं श्रयति स यदि लक्ष्म ।
इतरदितरगतितमपि यदि च तुर्यं
चरणयुगलकमिति कलिका सा ॥ केवृ५.३ ॥
द्विगुरुयुतसमलचरणान्ता मुखचरणगतमनुभवति च तृतीयः ।
अपरमिह लक्ष्म प्रकृतमखिलमपि यदिदमनुभवति लवली सा ॥ केवृ५.४ ॥
प्रथमधिवसति यदि तुर्यं, चरमचरणपदमवसितगुरुयुग्मम् ।
निखिलमपरमुपरिगतमिति ललितपदयुक्ता, तदिदममृतधारा ॥ केवृ५.५ ॥
उद्गता-प्रकरणम् (६-८)
सम्पाद्यताम्सजादिमे सलघुकौ च नसजगुरुकैरथोद्गता ।
त्र्यङ्घ्रिगतभनजला गयुताः सजसा अगौ चरणमेकतः पठेत् ॥ केवृ५.६ ॥
चरणत्रयं व्रजति लक्ष्म यदि सकलमुद्गतागतम् ।
ना भगौ भवति सौरभकं चरणे यदीह भवतस्तृतीयके ॥ केवृ५.७ ॥
नयुगं सकारयुगलं च भवति चरणे तृतीयके ।
तदुदितमुरुमतिभिर्ललितं यदि शेषमस्य खलु पूर्वतुल्यकम् ॥ केवृ५.८ ॥
उपस्थितप्रचुपित-प्रकरणम् (९-११)
सम्पाद्यताम्म्सौ ज्भौ गौ प्रथमाङ्घ्रिरेकतः पृथगन्यत्त्रितयं सनजरगास्ततो ननौ सः ।
त्रिनपरिकलितजयौ प्रचुपितमिदमुदितमुपस्थितपूर्वम् ॥ केवृ५.९ ॥
नौ पादेऽथ तृतीयके सनौ नसयुक्तौ प्रथमाङ्घ्रिकृतयतिस्तु वर्धमानम् ।
त्रितयमपरमपि पूर्वसदृशमिह भवति प्रततमतिभिरिति गदितं लघु वृत्तम् ॥ केवृ५.१० ॥
प्रथमे च विरतिरार्षभं ब्रुवन्ति ॥ तच्छुद्धविराट् पुरः स्थितं त्रितयमपरमपि यदि पूर्वसमं स्यात् ॥ केवृ५.११ ॥
विषमाक्षरपादं वा पादैरसमं दशध्र्मवत् ।
यच्छन्दो नोक्तमत्र गाथेति तत्सूरिभिः प्रोक्तम् ॥ केवृ५.१२ ॥
इति श्रीमद्भट्टरामेश्वरसूनुनारायणभट्टविरचितायां वृत्तरत्नाकरव्याख्यायां पञ्चमोऽध्यायः ॥
षष्ठोऽध्यायः
सम्पाद्यताम्प्रस्तारः
सम्पाद्यताम्प्रस्तारो नष्टमुद्दिष्टमेकद्वयादिलगक्रिया ।
सङ्ख्यानमध्वयोगश्च षडेते प्रत्ययाः स्मृताः ॥ केवृ६.१ ॥
पादे सर्वगुरावाद्याल्लघुं न्यस्य गुरोरधः ।
यथोपरि तथा शेषं भूयः कुर्यादमुं विधिम् ॥ केवृ६.२ ॥
ऊने दद्याद् गुरूनेव यावत्सर्वलघुर्भवेत् ।
प्रस्तारोऽयं समाख्यातश्छन्दोविचितिवेदिभिः ॥ केवृ६.३ ॥
नष्टम्
सम्पाद्यताम्नष्टस्य यो भवेदङ्कस्तस्यार्धेऽर्धे समे च लः ॥ विषमे चैकमाधाय स्यादर्धेऽर्धे गुरुभवेत् ॥ केवृ६.४ ॥
उद्दिष्टम्
सम्पाद्यताम्उद्दिष्टं द्विगुणानाद्यादुपर्यङ्कान्समालिखेत् ।
लघुस्था ये च तत्राङ्कास्तैः सैकैर्मिश्रितैर्भवेत् ॥ केवृ६.५ ॥
एकद्वयादिलगक्रिया
सम्पाद्यताम्वर्णान्वृत्तभवान्सैकानौत्तराधर्यतः स्थितान् ।
एकादिक्रमतश्चैतानुपर्युपरि निक्षिपेत् ॥ केवृ६.६ ॥
उपान्त्यतो निवर्तेत त्यजन्नेकैकमूर्ध्वतः ।
उपर्याद्याद् गुरोरेकमेकद्व्यादिलगक्रिया ॥ केवृ६.७ ॥
सङ्ख्यानम्
सम्पाद्यताम्लगक्रियाङ्कसन्दोहे भवेत्सङ्ख्या विमिश्रिते ।
उद्दिष्टाङ्कसमाहारः सैका वा जनयेदिमाम् ॥ केवृ६.८ ॥
अध्वयोगः
सम्पाद्यताम्सङ्ख्यैव द्विगुणैकोना सद्भिरध्वा प्रकीर्तितः ।
वृत्तस्याङ्गुलिका व्याप्तिरधः कुर्यात्तथाङ्गुलिम् ॥ केवृ६.९ ॥
वंशेऽभूत्कश्यपस्य प्रकटगुणगणः शैवसिद्धान्तवेत्ता विप्रः पव्येकनामा विमलतरमतिर्वेदतत्त्वार्थबोधे ।
केदारस्तस्य सूनुः शिवचरणयुगाराधनैकाग्रचित्तश्छन्दस्तेनाभिरामं वृत्तरत्नाकराख्यम् ॥ केवृ६.१० ॥
इति श्रीमद्भट्टरामेश्वरसूनुनारायणभट्टविरचितायां वृत्तरत्नाकरव्याख्यायां प्रस्ताराध्यायः षष्ठः समाप्तः ॥