"श्रीरामकृष्णवचनामृतम्/६" इत्यस्य संस्करणे भेदः

 
(भेदः नास्ति)

०५:२७, १३ डिसेम्बर् २०१८ समयस्य संस्करणम्

अध्यायः 6 प्राणकृष्णस्य गृहे 1 अद्य स्वागमनेन श्रीरामकृष्णेन कलकत्तानगरी पवित्रा कृता। श्री.मुखेपाध्यायप्राणकृष्णस्य श्यामपुकुरस्थे गृहे द्वितीये अट्टे सभागृहे भक्तजनैः सह सः विराजमानः अस्ति। सद्यः एव भक्तैः सह प्रसादभोजनं जातमस्ति। अद्य रविवासरः चैत्रशुद्धचतुर्दशी एप्रिलमासस्य द्वितीयः दिनाङ्कः, 1882तमं वर्षम्। अपराह्णे उपद्विवादनम्। कॅप्टनमहोदयः (नेपालसर्वकारस्य कलकत्तानगरस्थः प्रतिनिधिः – रेसिडेन्ट), श्रीरामकृष्णस्य भक्तः - कर्नल-उपाध्यायविश्वनाथः) अस्मिन् परिसरे एव निवसति। श्रीरामकृष्णस्य योजना आसीत् यत् प्राणकृष्णस्य गृहे किञ्चित् स्थित्वा कप्तानस्य गृहं गत्वा तस्य दर्शनम्, अनन्तरं ततः ‘कमलकुटिर’- नाम्नि सेनकेशवचन्द्रस्य गृहं तं द्रष्टुं गन्तव्यम् इति। प्राणकृष्णः सभागृहे उपविष्टः। रामः, मनोमोहनः, केदारः, सुरेन्द्रः, गिरीन्द्रः (सुरेन्द्रस्य भ्राता), राखालः, बलरामः, मास्तरः, चेत्येते भक्तजनाः उपस्थिताः। परिवेशिनः सज्जनाः, इतरनिमन्त्रिताः जनाः तत्र समाविष्टाः। श्रीरामकृष्णस्य वचनानि श्रोतुं सर्वे समुत्सुकाः सन्ति। श्रीरामकृष्णः वदति, “ईश्वरः तस्य ऐश्वर्यं च। इदं विश्वब्रह्माण्डं तस्यैव ऐश्वर्यविस्तारः। परन्तु एतेन ऐश्वर्येण एव सर्वे मोहिताः। यस्य इदम् ऐश्वर्यं तस्य अन्वेषणार्थं कस्यापि बुद्धिः न प्रभवति। यं पश्यामः सः कामिनीकाञ्चनयोः भोगे रतः। परन्तु अन्ते तु दुःखम् अशान्तिः एव भाग्ये। भोगः स्वस्थाने एव वर्तते। संसारः विशालाक्ष्याम् (श्रीरामकृष्णस्य जन्मस्थाने कामारपुकुरे विद्यमाना एका लघ्वी नदी) आवर्तकः इव। नौका तस्मिन् निगृहीता चेत् सर्वं समाप्तम्। अथ वा कश्चित् चक्रव्यूहः इव। अन्तं गता चेद् बहिः आगमनं दुष्करम्। मनुष्यः कथं भर्जितः भवति अस्मिन् संसारस्य अग्निकुण्डे। कश्चन भक्तः – तदनु कः उपायः? उपायः - सत्सङ्गः प्रार्थना च। श्रीरामकृष्णः – उपायः सत्सङ्गः प्रार्थना च। वैद्यस्य दर्शनेन विना रोगः न गच्छेत्। एकदिनस्य सत्सङ्गः न पर्याप्तः। सदैव करणीयः। यतो हि रोगः पुरातनः। सततं लग्नः। तथैव वैद्येन सह वासं विना नाडीज्ञानं सम्यक् न भवेत्। तस्य अनुगमनेन एव कफनाडी पित्तनाडी वातनाडी च इति एतासां ज्ञानं सम्यक् भवेत्। भक्तः – भवता उक्तात् सत्सङ्गात् कः लाभः? श्रीरामकृष्णः – ईश्वरचरणयोः अनुरागः उद्पद्यते। तस्मिन् प्रीतिः लभ्यते। व्याकुलतां विना किमपि न भवेत्। साधुसङ्गेन ईश्वरदर्शनस्य सिषाधयिषा लभ्यते, प्राणाः आकुलाः भवन्ति च। यदि गृहे कश्चन रुग्णः वर्तते तर्हि मनः चिन्ताक्रान्तं भवति। सः कथं सम्यक् भवेत् इति एव ध्यासः। कस्यचित् वृत्तिं गच्छति चेत् सः कथं कार्यालयात् कार्यालयं धावति, बाभ्रमति, तथैव भवितव्यम्। तादृशी व्याकुलता अपेक्षिता। कल्पयन्तु, अद्य कस्मिश्ञ्चित् कार्यालये कथितं यत् स्थानं न वर्तते। तथापि पुनः अपरेद्युः गत्वा पृच्छति अद्य तु जातं वा किमपि स्थानं रिक्तम्?

 “इतोऽपि कश्चन उपायः वर्तते – अति व्याकुलतया प्रार्थना करणीया। सः तु अस्मदीयः। सः वक्तव्यः, ‘कथं रे त्वम्? दर्शनं देहि किल! अन्यत् किमपि मास्तु। दर्शनं त्वया दातव्यमेव। अन्यथा किमर्थं माम् उत्पादितवान्। केचन शीखभक्ताः मां कदाचित् उक्तवन्तः, ‘भगवान् दयामयः।‘ मया उक्तम्, ‘तं दयामयं किमर्थं वदामः? सः एव अस्मान् उत्पादितवान्। तदनु येन अस्माकं मङ्गलं भवेत्, तत् सः करोति चेत् किम् आश्चर्यम्? पितरौ डिम्भानां लालनपालनं कुर्वन्ति सा किं दया? तथा तु ताभ्यां करणीयम् एव। तथा न कृत्वा ते कान् कथयन्ति? अतः अस्माकं याच्ञा भगवति बलेन स्थापनीया। सः तु अस्माकं माता, अस्माकं पिता। पुत्रः स्वदायभागार्थम् अन्नं वारि च त्यक्त्वा तदर्थं दृढतया आग्रहेण च उपविशेत् चेत् पितरौ तस्मै सज्ञानत्वात् वर्षत्रयपूर्वमेव तस्य दायभागं यच्छतः। बालकः यदा मातरम् एकं नाणकं याचते पौनःपुन्येन याचते, ‘हे मातः, तव पादस्पर्शं करोमि। मह्यं नाणकद्वयं देहि किल। तदा माता संत्रस्ता, तस्य आर्ततां दृष्ट्वा तं प्रति नाणकद्वयं क्षिपति।

सत्सङ्गात् इतोऽपि एकः लाभः। सदसत् विवेकः जागर्ति। सत्–नित्यवस्तु अर्थात् ईश्वरः। असत् इत्युक्ते अनित्यः विवेकः। मनः असन्मार्गं प्रति कर्षति चेत् एषः विवेकः न स्वीकरणीयः। अन्येषां कदलीवृक्षं भोक्तुं हस्तिना शुण्डी अग्रे कृता चेत् तत्कालं माहुतः अङ्कुशं नुदति एव। पार्श्वस्थः – महाराज, सत्यमेतत् परं पापबुद्धिः किमर्थं वर्तते? श्रीरामकृष्णः – परमेश्वरस्य विश्वे सर्वे प्रकाराः सन्ति। तेन सुष्टाः निर्मिताः, दुष्टाः अपि। सद्बुद्धिं सः ददाति, दुर्बुद्धिं अपि सः एव। पापस्य दायित्वं कर्मफलं च। पार्श्वस्थः – तदनु कृतपापस्य दायित्वं न अस्माकं खलु? श्रीरामकृष्णः – कृतपापस्य फलभोगः अनिवार्यः इति तु विधिनियमः एव। मरीचिकां भुक्त्वा कटुरुचिः न भवेत् इति कथम्? मथुरबाबु तारुण्ये विपरीतम् आचरितवान् तेन मरणसमये नैकैः व्याधिभिः सः ग्रस्तः जातः, जीवनमेव कुत्सितवान्। तारुण्यावेगे सर्वं न तथा ज्ञायते। कालीवाड्यां नैवेद्यं पाचयितुं इन्धनकाष्ठानि संग्रहितानि सन्ति। आर्द्रं काष्ठं आरम्भे सम्यक् ज्वलति, आर्द्रतायाः शङ्का अपि न आगच्छति। परं काष्ठस्य अन्तिमे चरणे सर्वं जलं एकत्र आयाति। यदा ज्वाला तत्र आगच्छति तदा फुस्फास् ठुस्ठास् इति ध्वनिं कुर्वत् जलम् अग्निं शान्तं करोति। एतदर्थं कामः क्रोधः लोभः च इति एतेभ्यः सावधानेन भवितव्यम्। पश्यन्तु, क्रोधावेगे मारुतिः सर्वां लङ्कां ज्वालितवान्। यदा ज्वालाः सर्वत्र वर्धिताः तदा महोदयस्य ध्याने आगतं यत् अशोकवने सीता वर्तते। तदा सीतायाः किमपि विपरीतं भवेत् इति आशङ्कया सः व्याकुलः जातः। पार्श्वस्थः – तदनु ईश्वरेण किमर्थं दुर्जनाः उत्पन्नाः? श्रीरामकृष्णः – तस्य इच्छा। तस्य लीला। तस्य मायायां विद्या वर्तते, अविद्या पि वर्तते। अन्धकारः अपि अपेक्षित। अन्धकारकारणेन एव प्रकाशस्य मूल्यम् इतोपि वर्धते। प्रकाशस्य माहात्म्यं ज्ञायते। कामः क्रोधः लोभः च एते दुर्विषयाः। परं तेन दत्ताः। किमर्थम्? सत्पुरुषाणां निर्माणार्थम्। इन्द्रियजयेन मनुष्यः महान् भवति। जितेन्द्रियः किं न कर्तुं शक्नोति? साक्षात् ईश्वरलाभः अपि तस्य कृपया भवितुमर्हति। अपि च अन्यः अपि एकः आयामः वर्तते। कामेन एव तस्य सृजनलीला निरन्तरं प्रवर्तते! दुष्टजनानाम् अपि अस्मिन् जगति आवश्यकता वर्तते। कस्मिञ्श्चित् तालुकाक्षेत्रे जनाः स्वैराः जाताः। कः अपि तान् नियन्तुं न शक्नोति स्म। तदा तत्र चौधरीगोलोकनाम्नः उत्सिक्तस्य नियुक्तिः कृता। तस्य नामश्रवणमात्रेण जनाः भयभीताः कम्पिताः च। एतादृशः भयङ्करः जनः। जगति सर्वम् अपेक्षितम्। कदाचित् सीता उक्तवती, अयोध्यानगर्यां सर्वे प्रासादाः यदि अभविष्यन् तर्हि महान् आनन्दः अभविष्यत्। बहूनि गृहाणि कथं पुरातनानि जीर्णानि दृश्यन्ते। तदा रामः अवदत्, सीते, सर्वाणि गृहाणि यदि उत्तमानि अभविष्यन् तर्हि गवण्डीजनैः किं करणीयम्। ते तु रिक्ताः अभविष्यन्। ( सर्वे हसन्ति) ईश्वरेण भिन्नभिन्नप्रकाराः निर्मिताः। सुवृक्षाः सन्ति तथैव विषवृक्षा अपि सन्ति। कतृणम् अपि अस्ति। पशुषु अपि साध्वसाधवः सर्वे सन्ति – व्याघ्राः, सिंहाः, सर्पाः च सर्वे सन्ति।। संसारे अपि ईश्वरलाभः भवति। सर्वे एव मुक्तिं प्राप्नुयुः। पार्श्वस्थः – महाराज, संसारे भूत्वा अपि परमेश्वरं लब्धुं शक्नुमः किम्? श्रीरामकृष्णः – किमर्थं न? तथापि पूर्वं यथा कथितं तथा सत्सङ्गः निरन्तरप्रार्थना च अपेक्षिता। तस्य समीपे रोदनम् अपेक्षितम्। अन्तःकरणतः मलः निर्गच्छति चेत् तस्य दर्शनं भवति। मनः मृदा आवरिता लोहसूचिः इव तथा च ईश्वरः लोहचुम्बकः इव। मृद्गमनपर्यन्तं तस्याः लोहचुम्बकेन सह संयोगः भवितुं न अर्हति। व्याकुलं भूत्वा रोदनात् आगतेभ्यः अश्रुभ्यः सूच्योपरि विद्यमाना मृद् निर्गच्छति – मृद् इत्युक्ते चित्ते विद्यमानाः कामः, क्रोधः, लोभः, पापवासना, भोगलालसा च इत्यादय। अयं मलः निर्गच्छति चेत् चुम्बकः सूचिम् आकर्षति – इत्युक्ते ईश्वरदर्शनं भवेत्। चित्तशुद्धिः भवति चेदेव तस्य दर्शनं भवति। शरीरं ज्वरेण तप्तम्। अङ्गं वेदनया त्रस्तम्। तदा कोयनेलप्रशनेन किम्? संसारे भूत्वा अपि किमर्थं ईश्वरदर्शनं न लभेत? एतादृशः सत्सङ्गः, अश्रुपूर्णैः नेत्रैः मनोभावेन प्रार्थना कालान्तरेण एकान्तः। काञ्चित् वृत्तिं संस्थाप्य रक्षणं न कुर्मः चेत् मार्गतटे उद्भूताः श्लक्ष्णाः वनस्पतीः गोमहिष्यः भुक्त्वा मार्गं स्वच्छं करिष्यन्ति। पार्श्वस्थः – इत्युक्ते ये संसारिणः ते अपि ईश्वरदर्शनं लब्धुं शक्नुवन्ति इत्येव भवतः कथनम्। श्रीरामकृष्णः – मुक्तिः तु सर्वेषाम् एव भवेत्। तथापि गुरोः उपदेशः अनुसरणीयः। कदाचित् मनुष्यः मार्गच्युतः जातः चेत् पुनः मार्गम् आगन्तुं तस्य बहूनि कष्टानि भवन्ति।( आगच्छन् सः अर्धजीवः अतिश्रान्तः भवति।) मुक्तिः विलम्बायते। कदाचित् तस्मिन् जन्मनि न भवेद् अपि। कदाचित् जन्मजन्म प्रतीक्षा करणीया भवेत्। न किमपि निश्चितम्। जनकादयः संसारे भूत्वापि कर्माणि कृतवन्तः। परमेश्वरं हृदये अवधार्य कर्मयोगः आचरितः। यथा नर्तकी शिरसि घटं संस्थप्य नृत्यति तथा। उत्तरहिन्दुस्नीया महिलाः दृष्टवन्तः नु? शिरसि जलकुम्भं संस्थाप्य मार्गेण सहजं जल्पत्यः गच्छन्ति। पार्श्वस्थः – गुरोः उपदेशविषये भवान् उक्तवान्। तादृशं गुरुं कथं लभामहे? श्रीरामकृष्णः – यः कोऽपि जनः गुरुः न भवितुमर्हति। गुरुः शाकमयः काष्ठखण्डः सहजं जले उत्तीर्य पारं गच्छति। अन्ये नैके जीवजन्तवः अपि तस्मिन् आरुह्य पारं गच्छन्ति। परं सामान्ये यस्मिन्कस्मिञ्श्चित् निकृष्टे काष्ठखण्डे कस्यचित् आरोहणमात्रात् सः स्वयं निमज्जेत् आरूढान् अपि निमज्जयेत्। अतः युगे युगे लोकशिक्षणार् स्वयं भगवान् गुरुरूपेण अवतरति। सच्चिदानन्दः एव गुरुः। किं ज्ञानम्? अहं कः? ‘ईश्वरः एव कर्ता, अन्ये सर्वे अकर्तारः’ इति अस्य नाम ज्ञानम्। अहम् अकर्ता। तस्य हस्ते विद्यमानं यन्त्रम्। अतः एव अहं वदामि, अम्ब, त्वं यन्त्री, अहं यन्त्रम्। त्वं गृहस्वामिनी अहं गृहम्। अहं यानम्, त्वम् अभियन्त्री। यथा चालयिष्यति तथैव चलिष्यामि। यथा कारयिष्यति तथैव करोमि। यथा भाषयिष्यते तथा भाषिष्ये। नाहं नाहम्। त्वमेव त्वमेव। 2 कमलकुटिरे श्रीरामकृष्णः सेनकेशवचन्द्रः च। मार्गे कप्तानस्य गृहे स्थित्वा श्रीरामकृष्णः सेनकेशवचन्द्रस्य कमलकुटिरं नाम गृहम् आगतः। तेन सह रामः सुरेन्द्रः मनमोहनः, मास्तरः च इति नैके भक्ताः सन्ति। सर्वे द्वितीये अट्टे सभागृहे उपविष्टाः। श्रीमुजुमदारप्रतापः, श्रीत्रैलोक्यः च इति आदौ ब्राह्मभक्तौ अपि उपस्थितौ। श्रीरामकृष्णस्य बाबुकेशवे अतीव प्रेम। यदा बेलघरवाटिकायां सः स्वशिष्यैः सह साधनां कुर्वन् आसीत् इत्युक्ते 1875तमवर्षस्य माघोत्सवानन्तरं तां वाटिकां गत्वा श्रीरामकृष्णः केशवचन्द्रेण मिलितवान्। तेन सह तस्य भागिनेयः हृदयरामः आसीत्। बेलघरस्य तस्मिन् उद्याने श्रीरामकृष्णः केशवचन्द्रम् उक्तवान् आसीत्, “केवलं तव एव पुच्छं गलितम्”। इत्युक्ते संसारं त्यक्त्वा भवान् एव बहिः स्थातुं शक्नोति”, इत्युक्ते संसारे पुनः प्रत्यागन्तुं शक्नोति। दर्दुरस्य पुच्छं गलति चेत् सः जले भूमौ उभयत्र अपि स्थातुं शक्नोति”। अस्मात् प्रसङ्गाद् अनन्तरं दक्षिणेश्वरे कमलकुटिरे ब्राह्मसमाजे च इत्यादिषु स्थानेषु श्रीरामकृष्णः तं नैकवारं संभाषणे उपदिष्टवान्। तेषां सर्वेषां रहस्यम् एतादृशं – विविधैः मार्गैः, विविधधर्माणां साहाय्येन च ईश्वरलाभः भवितमर्हति। जनकादयः ब्रह्मज्ञानं संपाद्य संसारे आसन्। मध्ये मध्ये निर्जनीं साधनां कृत्वा भक्तिलाभं संपाद्य संसारे स्थातुं शक्नोति। व्याकुलत्वेन भूत्वा सः प्रार्थनीयः, तदा एव सः दर्शनं ददाति। भवान् यां निराकारसाधनां करोति, सा अतीवा समीचीना। ब्रह्मज्ञानानन्तरं सम्यक् बोधः भवेत् यत् ईश्वरः सत्यः अन्यत् सर्वम् अनित्यम् च। ब्रह्म सत्यं जगन्मिथ्या। सनातनः हिन्दुधर्मः साकारं निराकारं च उभयमपि स्वीकरोति। सः शान्तः, दास्यः, सख्यः, वात्सल्यः मधुरः च इति एतैः भावैः ईश्वरं पूजयति। वाद्यवृन्दे कश्चिद् एकः तस्य सनईवाद्यं सप्तछिद्रात्मकं भूत्वापि सततं पों... इति एव ध्वनिं करोति। परं अन्यः कश्चन तस्य वाद्यमपि सप्तछिद्रात्मकं भूत्वा विविधरागान् वादयति। “ भवन्तः साकारं न अङ्गीकुर्वन्ति। तत्र न किमपि असाधुः। परं निराकारे निष्ठा भवति चेत् पर्याप्तम्। केवलं साकारवादीभ्यः तेषां ईश्वरविषय़े स्नेहावेगं स्वीकुर्वन्तु। अम्ब इति मत्वा कृतया प्रार्थनया भक्तिः प्रेम च इतोऽपि वर्धेताम्। कदाचित् दास्यभावः, कदाचित् सख्यः, कदाचित् वात्सल्यः वा कदाचित् मधुरभावः। कापि कामना न। तस्मिन् प्रणयनम् – इति एव सुन्दरम्। एषा एव अहेतुकी भक्तिः। धनं ऐश्वर्यं, मानं सन्मानं च किमपि मास्तु। केवलं तव पादपद्मे भक्तिः अपेक्षिता। वेदाः, पुराणानि, तन्त्रग्रन्थाः च इति एतेषु सर्वेषु ग्रन्थेषु एकस्य एव ईश्वरस्य तस्याः लीलायाः च वर्णनं वर्तते। ज्ञानं भक्तिः द्वे अपि वर्तेते। संसारे दास्या समं भवन्तु। दासी कर्वाणि कार्याणि करोति परं तस्याः मनः स्वगृहे भवति। स्वामिनः पुत्रकन्यानां लालनपालनं करोति, मम हरिः मम रामः इति कौतुकं करोति। परं सम्यक् जानाति यत् एते पुत्राः मम न सन्ति। भवन्तः यां निर्जनीं साधनां कुर्वन्ति सा बहु समीचीना। तया तस्याः कृपा लभ्येत। जनकराजा एकान्ते अत्यन्तां साधनां कृतवान्। साधनाकरणेन एव संसारे निर्लिप्ततया स्थातुं शक्नुमः। “भवन्तः जनकल्याणार्थं व्याख्यानानि ददति। परम् ईश्वरलाभं प्राप्य ईश्वरदर्शनं कृत्वा व्याख्यानदानेन लाभाय। ईश्वरादेशेन विना लोकोपदेशस्य न कः अपि लाभः। ईश्वरदर्शनं विना तस्य आदेशः न लभ्यते। ईश्वरलाभस्य कानिचित् लक्षणानि सन्ति। मनुष्यः बालकवत् जडवत् उन्मत्तवत् पिशाच्चवत् च भवति। या शुकदेवः इत्यादयः। चैतन्यदेवः कदाचित् बालकवत् आसीत् कदाचित् उन्मत्तवत् नृत्यति स्म। सः हसति रोदिति, नृत्यति गायति च। चैतन्यदेवः यदा पुरीधाम्नि आसीत् तदा बहुधा जडावस्थायाम् आसीत्”। श्रीकेशवचन्द्रस्य हिन्दुधर्मे निरन्तरा वर्धमाना श्रद्धा अनया पद्धत्या विविधेषु स्थानेषु श्रीरामकृष्णः सेनकेशवचन्द्रं संभाषणे विविधैः प्रकारैः उपदिष्टवान्। बेलघरे वाटिकायां प्रथमदर्शनान्तरं बाबूकेशवः रविवार,28मार्च,1875तम-दिवसस्य ‘मिरर’ इति आख्याते वृत्तपत्रे यद् लिखितवान् तस्य सारांशः एतादृशः – “ केभ्यश्चित् दिनेभ्यः प्राक् दक्षिणेश्वरस्य श्रीपरमहंसरामकृष्णस्य दर्शनभाग्यं बेलघरवाटिकायाम् अस्माभिः प्राप्तम्। तस्य प्रगाढतां, अन्तर्दृष्टिं, बालकस्वभावं च दृष्ट्वा वयं मुग्धाः। सः स्वभावेन शान्तः प्रकृत्या कोमलः च। तं दृष्ट्वा कल्पयामः यत् सः सर्वदा योगयुक्तः। अनेन हिन्दुधर्मस्य अत्यन्तगाढताम् अन्विष्यामहे चेत् कियत् सौन्दर्यं, सत्यं, साधुता च दृश्येत इति अधुना वयम् ऊहामहे। परमहंसदेवेन सदृशः ईश्वरीयभावे तद्रूपः योगीपुरुषः अन्यः कथं दृश्येत?” 1876 तमवर्षस्य जानेवारीमासे पुनः माघोत्सवः आगतः। तदा बाबुकेशवः ‘टाउन हॉल’मध्ये व्याखानं कृतवान्। विषयः आसीत् ‘ब्राह्मधर्मः तथा च अस्माभिः किं पठितम्?’ तत्र तेन हिन्दुधर्मस्य सौन्दर्यं रसपूर्णं वर्णितम्। श्रीरामकृष्णस्य तस्मिन् यथा प्रेम आसीत् तथा तस्य अपि श्रीरामकृष्णे अत्यन्ता भक्तिः आसीत्। बहुधा प्रतिवर्षं ब्राह्मोत्सवे अन्यसमये अपि बाबुकेशवः दक्षिणेश्वरं गच्छति स्म, श्रीरामकृष्णं कमलकुटिरम् आनयति स्म च। कदाचित् एकाकी सः कमलकुटिरस्थे द्वितीये अट्टे उपासनाप्रकोष्ठे अत्यन्तेन भक्तिभावेन तं नयति स्म, एकान्ते ईश्वरस्य पूजयित्वा सात्विकानन्दे रतः भवति स्म च। 1879वर्षस्य सप्टे.15,तमे दिवसे सोमवासरे भाद्रोत्सवप्रसङ्गे केशवः पुनः श्रीरामकृष्णं निमन्त्र्य बेलघरतपोवनं नीतवान्। पुनः सप्टे.21 दिनाङ्के कमलकुटिरोत्सवं अपि नीतवान्। तदा श्रीरामकृष्णः समाधिमग्नः जातः। तदा ब्रह्मभक्तैः सह तस्य भावचित्रं स्वीकृतम्। चित्रे श्रीरामकृष्णः समाधि-अवस्थायां स्थितः। श्री.हृदयः तं धृत्वा स्थितः। ऑक्टो. 22 दिनाङ्के अष्टमी-नवमीदिने केशवः दक्षिणेश्वरं गत्वा तस्य दर्शनं कृतवान्। एतेन प्रकारेण श्रीरामकृष्णस्य दर्शनस्य सौभाग्यं बाबुकेशवः नैकवारं प्राप्तवान्। 1879वर्षस्य 29 ऑक्टो, दिनाङ्के बुधवासरे कोजागिरीपौर्णिमायां सामान्यतः एकवादने बाबुकेशवः भक्तैः सह श्रीरामकृष्णस्य दर्शनार्थं दक्षिणेश्वरं गतवान्। तेन सह सामान्यतः 80 भक्ताः आसन्। वैजयन्त्यः, पुष्पपल्लवाः, मृदङ्गाः, तालाः इत्यादीनि वस्तूनि अपि आसन्। तस्मिन् दिवसे भजनगानस्य आनन्दे भागं गृह्णन् श्रीरामकृष्णः मध्ये मध्ये समाधिमग्नः भवति स्म। सायङ्कालानन्तरं भागीरथीघट्टे पूर्णचन्द्रस्य प्रसन्ने प्रकाशे बाबुकेशवः उपासनां कृतवान्। उपासनानन्तरं श्रीरामकृष्णः उक्तवान्, “वदन्तु, ‘ब्रह्म-आत्मा –भगवान्,’ ‘ब्रह्म-माया-जीव-जगत्,’ ‘भागवत-भक्त-भगवान्’”। केशवादयः ब्राह्मभक्ताः तस्यां कौमुद्यां पवित्रे भागिरथीतीरे श्रीरामकृष्णेन सह एतान् सर्वान् मन्त्रान् समस्वरे भक्तिभावेन उच्चरितवन्तः। श्रीरामकृष्णः यदा पुनः तान् ‘गुरु-कृष्ण-वैष्णव’ इति मन्त्रं वक्तुं कथितवान्, तदा बाबुकेशवः आनन्देन हासं हासम् उक्तवान्, “महाराज, अधुना एव एतावत् दूरं मास्तु। गुरु-कृष्ण-वैष्णव इति यदि वयं वदामः तर्हि जनाः अस्मान् ‘दृढाः सनातनाः’ इति आक्षेपयिष्यन्ति”। तदनु श्रीरामकृष्णः अपि अहसत् अवदत् च, “अस्तु। भवन्तः ब्राह्मजनाः यावत् शक्नुवन्ति तावदेव वदन्तु”। केभ्यचित् दिनेभ्यः अनन्तरं 1879वर्षे नोहे.13 दिनाङ्के रामः( रामचन्द्रः दत्तः) मनोमोहनः, मित्रगोपालः च इति एतैः श्रीरामकृष्णस्य प्रथमवारं दर्शनं कृतम्। 1880तमे वर्षे कदाचित् ग्रीष्मकाले राममनोमोहनौ कमलकुटिरं बाबुकेशवेन मेलितुम् आगतौ। बाबुकेशवस्य श्रीरामकृष्णस्य विषये मतं ज्ञातुं ते समुत्सुकाः आसन्। ते वदन्ति स्म यत् बाबुकेशवे अस्मिन् विषये पृष्टे सति सः अवदत्, दक्षिणेश्वरस्य परमहंसः सामान्य जनः न, साम्प्रतं अवनीतले तादृशः महान् जनः नास्ति। सः अत्यन्तः अपरूपः अत्यन्तः असामान्यः अस्ति। तस्य यावत्शक्या चिन्ता करणीया। दुर्लक्षं भवति चेत् तस्य शरीरम् अवस्थातुं न शक्नुयात्। सुन्दरम् अमूल्यं वस्तु काञ्चपेटिकायां स्थापयन्ति। कदाचित् श्रीरामकृष्णे कलकत्तायां आगते सत्यां बाबुकेशवः सूतके आसीत्। तथापि श्रीरामकृष्णस्य दर्शनार्थम् आगमनेन विना सः सोढुं न शक्तवान्। सः उक्तवान्, “ओह्, परमहंसः आगतः तथा च अहं न गच्छामि! अवश्यं गच्छामि। सूतकं वर्तते अतः भोजनसमये किञ्चित् दूरे उपविशामि। तावत् पर्याप्तम्”। 1882तमे वर्षे 23 फेब्रुवारीमासे गुरुवासरे केशवबाबु श्रीरामकृष्णस्य दर्शनार्थं भक्तैः सह पुनः आगतः आसीत्। तेन सह अमेरिकादेशीयः अर्चकः-पाद्री कुकजोसेफः कुमारीपिगॉट च आस्ताम्। तदा कुकलाबेबः श्रीरामकृष्णस्य समाधिं दृष्टवान्। अस्मात् प्रसङ्गात् दिनत्रयानन्तरं मास्तरः दक्षिणेश्वरे श्रीरामकृष्णस्य प्रथमदर्शनसौभाग्यं प्राप्तवान् आसीत्। अथ मासद्वयात् अनन्तरं एप्रिलमासे अद्य श्रीरामकृष्णः कमलकुटिरे बाबुकेशवेन मेलितुम् आगतः अस्ति। सः प्रसङ्गः अत्र वर्णितः अस्ति।-

श्रीरामकृष्णस्य बाबुकेशवे प्रेम; जगन्मात्रे गुडनारिकेलस्य प्रतिश्रुतिः। 

अद्य कमलकुटिरे तस्मिन् एव सभागृहे श्रीरामकृष्णः भक्तैः सह उपविष्टः अस्ति। सामान्यतः पञ्चवादनम्। बाबुकेशवः अन्तः अस्ति। तस्मै सन्देशः दत्तः। वस्त्राणि परिधाय सः बहिः आगतः, रामकृष्णं प्रणामं कृतवान् च। तस्य मित्रं बसुकालिनाथः रुग्णः आसीत्। तेन मेलितुं गन्तुकामः आसीत् सः, परं श्रीरामकृष्णस्य आगमनेन तस्य गमनं तथैव स्थगितम्। श्रीरामकृष्णः उक्तवान्, भवतः बहूनि कार्याणि सन्ति। पुनः वृत्तपत्रे लेखनं करणीयम्। तत्र(दक्षिणेश्वरं) आगमनार्थं भवतः समयः नास्ति। अतः अहमेव भवतः मेलनार्थम् आगतः। भवतः रुग्णातायाः विषये श्रुत्वा मात्रे गुडनारिकेलस्य प्रतिवचनं दत्तवान्। मातरम् उक्तवान्, “अम्ब, केशवस्य किमपि असम्यग् जातं चेत् कलकतानगरे केन सह अहं वार्तां करोमि?” श्री, प्रतापादिभिः भक्तैः सह श्रीरामकृष्णः विविधवार्तां कुर्वन् आसीत्। समीपे मास्तरः अपि आसीत्। तं दृष्ट्वा बाबुकेशवं सः उक्तवान्, “एषः तत्र (दक्षिणेश्वरं ) किमर्थं न गच्छति? किञ्चित् पृच्छतु भवान्। अत्र तु सः बहु जल्पति यत् दारपुत्रेषु मनः न रमते” इति। मास्तरस्य श्रीरामकृष्णं प्रति गमनागमनस्य कथञ्चित् मासः जातः स्यात्। तथापि बहूनि दिनानि सः न गतवान् इति श्रीरामकृष्णः उक्तवान्। श्रीरामकृष्णः मास्तरम् उक्तवान् आसीत् यत् यदि आगमनार्थं विलम्बः जातः तर्हि मां पत्रं लिखतु। ब्राह्मभक्ताः श्री. सामाध्यायीं प्रति दृष्टिं प्रसार्य श्रीरामकृष्णम् अवदत्, एषः पण्डितः। वेदादीनां शास्त्राणां बहु अध्ययनं एतेन कृतम्। श्रीरामकृष्णः उक्तवान्, “हुम्, अस्य नेत्रयोः अन्तः सर्वं दृश्यते। काचवातायनात् यथा प्रकोष्ठस्य अन्तः विद्यमानं सर्वं दृश्यते तथा”। श्री. बाबुत्रैलोक्य गीतं गायति। गीतगायनसमये एव सायङ्कालः जातः। दीपाः प्रज्वालिताः। गायनं प्रचलत् अस्ति। गायनं श्रावं श्रावं श्रीरामकृष्णः सहसा उत्थितः। जगन्मातुः नाम उच्चरन् समाधिमग्नः जातः। किञ्चित् सामान्यावस्थायाम् आगत्य स्वयमेव नृत्यं कुर्वन् गायनम् आरब्धवान्। (भावार्थः) – ‘सामान्यं मद्यम् अहं न पिबामि। कालीमातुः नाम स्मरन् अहं अनन्तानन्दमद्यं पिबामि। तेन अहं एतावान् मत्तः भवामि यत् जनाः मां वास्तवं मद्यपं मन्यन्ते। रामप्रसादः वदति यत् एतेन मद्यप्राशनेन चतुर्वर्गाः लभ्यन्ते’। बाबुकेशवं प्रति श्रीरामकृष्णः स्नेहपूर्णाभ्यां नेत्राभ्यां पश्यति। आत्मीयभावः मनसः उद्गीर्य प्रवहति। सः भयं कल्पयति इव यत् केशवः कदाचित् कस्यचित् अन्यस्य अर्थात् संसारस्य न भवेत्। श्रीरामकृष्णः तं पश्यन् पश्यन् पुनः गायनम् आरब्धवान्। ( भावार्थः) – ‘वक्तुं मनः संकुचति। न वदामि चेत् बिभेमि। हे राधे, भवतीं जेष्यामि वा, इति विचिन्त्य मनः हुर्हुरायते। वयं यं मन्त्रं जानीमः, यस्य साहाय्येन वयम् इतरैः सह नैकाभ्यः आपद्भ्यः पारं गताः तं मन्त्रं भवत्यै वयं दद्मः। अधुना भवत्याः मनः भवत्याः एव नियन्त्रणे’। ‘यं मन्त्रं वयं जानीमः तं भवत्यै दद्मः। अधुना भवत्याः मनः भवत्याः नियन्त्रणे’। इत्युक्ते सर्वस्वं परित्यज्य परमेश्वरं प्रार्थय। सः एव सत्यः, अन्यत् सर्वं अनित्यम्। तं न लभामहे, तर्हि सर्वम् अर्थशून्यम्। एषः एव महामन्त्रः। पुनः उपविश्य भक्तैः सह संभाषणं करोति। तस्य अल्पाहारस्य व्यवस्था भवन् वर्तते। सभागृहस्य एकस्मिन् पार्श्वे कश्चन ब्राह्मभक्तः ‘पियानो’संज्ञकं वाद्यं वादयन् आसीत्। स्मितमुखः श्रीरामकृष्णः बालकवत् पियानोसमीपं गत्वा पश्यन् अस्ति। कालान्तरेण सः अन्तः नीतः। सः अल्पाहारं करिष्यति तथा च स्त्रीयः अपि प्रणामादिनि कार्याणि समाप्स्यन्ति। अल्पाहारः जातः। अधुना सः याने उपविशेत्। ब्राह्मभक्ताः अतीव आदरेण यानसमीपे स्थिताः सन्ति। यानम् आरब्धम् – कमलकुटिरतः पुण्यक्षेत्रं दक्षिणेश्वरं प्रति।