"भल्लटशतकम्" इत्यस्य संस्करणे भेदः

Better to use पूर्णविरामः i.e. ॥ instead of two अल्पविराम s A typo corrected till shloka 4. Will keep updating.
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
All instances of double alpaviraama changed to puurNaviraama
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्

पङ्क्तिः १:
तां भवानीं भवानीत- क्लेशनाशविशारदां

शारदां शारदाम्भोद- सितसिंहासनां नमः ॥ १ ॥

युष्माकं अम्बरमणेः प्रथमे मयूखास् ते मङ्गलं विदधतूदयरागभाजः

कुर्वन्ति ये दिवसजन्ममहोत्सवेषु सिन्दूरपाटलमुखीरिव दिक्पुरन्ध्रीः ॥ २ ॥

बद्धा यदर्पणरसेन विमर्दपूर्वं अर्थान्कथं झटिति तान्प्रकृतान्न दद्युः ‌‌।

चौरा इवातिमृदवो महतां कवीनां अर्थान्तराण्यपि हठाद्वितरन्ति शब्दाः ॥ ३ ॥

काचो मणिर्मणिः काचो येषां तेऽन्ये हि देहिनः ।

सन्ति ते सुधियो येषां काचः काचो मणिर्मणिः ॥ ४ ॥

नन्वाश्रयस्थितिरियं तव कालकूट केनोत्तरोत्तरविशिष्टपदोपदिष्टा

प्रागर्णवस्य हृदये वृषलक्ष्मणोऽथ कण्ठेऽधुना वससि वाचि पुनः खलानां ॥ ५ ॥

द्रविणंद्रविणम् आपदि भूषणंभूषणम् उत्सवे शरणंशरणम् आत्मभये निशि दीपकः

बहुविधाभ्युपकारभरक्षमो भवति कोऽपि भवानिव सन्मणिः । । । ।

श्रीर्विशृङ्खलखलाभिसारिका वर्त्मभिर्घनतमोमलीमसैः

शब्दमात्रंशब्दमात्रमपि अपि सोढुंसोढुम् अक्षमा भूषणस्य गुणिनः समुत्थितं । । । ।

माने नेच्छति वारयत्युपशमे क्ष्मां आलिखन्त्यां ह्रियां स्वातन्त्र्ये परिवृत्य तिष्ठति करौ व्याधूय धैर्यं गते

तृष्णे त्वां अनुबध्नता फलं इयत्प्राप्तं जनेनामुना यः स्पृष्टो न पदा स एव चरणौ स्प्रष्टुं न संमन्यते । । । ।

पततु वारिणि यातु दिगन्तरं विशतु वह्निं अथ व्रजतु क्षितिं

रविरसावियतास्य गुणेषु का सकललोकचमत्कृतिषु क्षतिः । । । ।

सद्वृत्तयः सदसदर्थविवेकिनो ये ते पश्य कीदृशं अमुं समुदाहरन्ति

चौरासतीप्रभृतयो ब्रुवते यदस्य तद्गृह्यते यदि कृतं तदहस्करेण । । १० । ।

पातः पूष्णो भवति महते नोपतापाय यस्माथ् काले प्राप्ते क इह न ययुर्यान्ति यास्यन्ति वास्तम्*

एतावत्तु व्यथयतितरां लोकबाह्यैस्तमोभिस् तस्मिन्नेव प्रकृतिमहति व्य्ॐनि लब्धोऽवकाशः । । ११ । ।

*Vआऱः {वास्तम्\लें \ंअह्; वान्तं \एद्; चास्तं \ः\आ, चान्ये \K}

पङ्क्तौ विशन्तु गणिताः प्रतिल्ॐअवृत्त्या पूर्वे भवेयुरियताप्यथवा त्रपेरन्

सन्तोऽप्यसन्त इव चेत्प्रतिभान्ति भानोर् भासावृते नभसि शीतमयूखमुख्याः । । १२ । ।

गते तस्मिन्भनौ त्रिभुवनसमुन्मेषविरह- व्यथां चन्द्रो नेष्यत्यनुचितं अतो नास्त्यसदृशं

इदं चेतस्तापं जनयतितरां अत्र यदमी प्रदीपाः संजातास्तिमिरहतिबद्धोधुरशिखाः । । १३ । ।

सूर्यादन्यत्र यच्चन्द्रे ऽप्यर्थासंस्पर्शि तत्कृतं

खद्योत इति कीतस्य नाम तुष्टेन केन चिथ् । । १४ । ।

कीटमणे दिनं अधुना- तरणिकरान्तरितचारुसितकिरणं

घनसन्तमसमलीमस- दशदिशि निशि यद्विराजसि तदन्यथ् । । १५ । ।

सत्त्वान्तःस्फुरिताय वा कृतगुणाध्यारोपतुच्छाय वा तस्मै कातरमोहनाय महसो लेशाय मा स्वस्ति भूथ्

यच्छायाच्छुरणारुणेन खचता खद्योतना खद्योतनाम्ना९मुना कीटेनाहितया हि जङ्गममणिभ्रान्त्या विडम्ब्यामहे । । १६ । ।

दन्तान्तकुन्तमुखसन्ततपातघात- सन्ताडितोन्नतगिरिर्गज एव वेत्ति

पञ्चास्यपाणिपविपञ्जरपातपीडां न क्रोष्टुकः श्वशिशुहुङ्कृतिनष्टचेष्टः । । १७ । ।

अत्युन्नति-व्यसनिनः शिरसोऽधुनै९ष स्वस्यै७व चातक-शिशुः प्रणयं विधत्तां

अस्यै७तदिच्छति यदि प्रततासु दिक्षु ताः स्वच्छ-शीत-मधुराः क्व नु नाम ना८पः । । १८ । ।

सोऽपूर्वः रसना-विपर्यय-विधिस्तत्कर्णयोश्चापलं दृष्टिः सा मद-विस्मृत-स्व-पर-दिक्किं भूयसो९क्तेन वा

इत्थं निश्चितवानसि भ्रमर हे यद्वारणोऽद्या७प्यसा* अन्तः-शून्य-करो निषेयत इति भ्रातः क एष ग्रहः । । १९ । ।

*Vआऱः {इत्थं\लें \एद्; सर्वं \KअPर\Sउआव}

तद्वैदग्ध्यं समुचित-पयस्-तोय-तत्त्वं विवेक्तुं संलापास्ते स च मृदु-पद-न्यास-हृद्यो विलासः

आस्तां तावद्बक यदि तथा वेत्थि किं चिच्छ्लथा१ंसस् तूष्णीं एवा८सितुं अपि सखे त्वं कथं मे न हंसः । । २० । ।

पथि निपतितां शून्ये दृष्ट्वा निरावरणानां नवदधिघटीं गर्वोन्नद्धः समुद्धुरकन्धरः*

निजसमुचितास्तास्ताश्चेष्टा विकारशताकुलो यदि न कुरुते काकः काणः कदा नु करिष्यति । । २१ । ।

*Vआऱः {समुद्धुर#\लें \एद्; समुद्धत# \Kअ}

नृत्यन्तः शिखिनो मनोहरं अमी श्राव्यं पठन्तः शुका वीक्ष्यन्ते न त एव खल्विह रुषा वार्यन्त एवाथवा

पान्थस्त्रीगृहं इष्टलाभकथनाल्लब्धान्वयेनामुना सम्प्रत्येतदनर्गलं बलिभुजा मायाविना भुज्यते । । २२ । ।

करभ रसभात्क्रोष्टुं वाञ्च्छस्यहो श्रवणज्वरः शरणं अथवानृज्वी दीर्घा तवैव शिरोधरा

पृथुगलविलावृत्तिश्रान्तोच्चरिष्यति वाक्चिरा दियति, समये को जानीते भविष्यति कस्य किं । । २३ । ।

अन्तश्छिद्राणि भूयांसि कण्टका बहवो बहिः

कथं कमलनालस्य मा भूवन्भङ्गुरा गुणाः । । २४ । ।

किं दीर्घदीर्घेषु गुणेषु पद्म सितेष्ववच्छादनकारणं ते

अस्त्येव तान्पश्यति चेदनार्या त्रस्तेव लक्ष्मीर्न पदं विधत्ते । । २५ । ।

न पङ्कादुद्भूतिर्न जलसहवासव्यसनिता वपुर्दिग्धं कान्त्या स्थलनलिनरत्नद्युतिमुषा

व्यधास्यद्दुर्वेधा हृदयलघिमानं यदि न ते त्वं एवैको लक्ष्म्याः परमं अभविष्यः पदं इह । । २६ । ।

उच्चैरुच्चरतु चिरं चिरी वर्त्मनि तरुं समारुह्य

दिग्व्यापिनि शब्दगुणे शङ्खः सम्भावनाभूमिः । । २७ । ।

शङ्खोऽस्थिशेषः स्फुटितो मृतो वा प्रोच्छ्वास्यतेऽन्यश्वसितेन सत्यं

किं तूच्चरत्येव हि सोऽस्य शब्दः श्राव्यो न यो यो न सदर्थशंसी । । २८ । ।

यथापल्लवपुष्पास्ते यथापुष्पफलर्द्धयः

यथाफलर्द्धिस्वारोहा हा मातः क्वागमन्द्रुमाः । । २९ । ।

साध्वेव तविधावस्य वेधा क्लिष्टो न यद्वृथा

स्वरूपाननुरूपेण चन्दनस्य फलेन किं । । ३० । ।

ग्रथितः एष मिथः कृतशृङ्खलैर्विषधरैरधिरुह्य महाजडः ।

मलयजः सुमनोभिरनाश्रितो यदत एव फलेन वियुज्यते । । ३१ । ।

चन्दने विषधरान्सहामहे वस्तु सुन्दरं अगुप्तिमत्कृतः

रक्षितुं वद किं आत्मगौरवं सञ्चिताः खदिर कण्टकास्त्वया । । ३२ । ।

यत्किञ्चनानुचितं अप्युचितानुवृत्ति किं चन्दनस्य न कृतं कुसुमं फलं वा

लज्जामहे वयं उपक्रम एव यान्तस् तस्यान्तिकं परिगृहीतबृहत्कुठाराः । । ३३ । ।

लब्धं चिरादमृतवत्किं अमृत्यवे स्याद् दीर्घं रसायनवदायुरपि प्रदद्याथ्

एतत्फलं यदयं अध्वगशापदग्धः स्तब्धः खलः फलति वर्षशतेन तालः । । ३४ । ।

छिन्नस्तृप्तसुहृत्स चन्दनतरुर्यूयं पलाय्यागता भोगाभ्याससुखासिकाः प्रतिदिनं ता विस्मृतास्तत्र वः

दंष्ट्राकोटिविषोल्कया प्रतिकृतं तस्य प्रहर्तुर्न चेथ् किं तेनैव सह स्वयं न लवशो याताः स्थ भो भोगिनः । । ३५ । ।

संतोषः किं अशक्तता किं अथवा तस्मिन्नसम्भावना लोभो वायं उतानवस्थितिरियं प्रद्वेष एवाथवा

आस्तां खल्वनुरूपया सफलया पुष्पश्रिया दुर्विधे सम्बन्धोऽननुरूपयापि न कृतः किं चन्दनस्य त्वया । । ३६ । ।

किं जातोऽसि चतुष्पथे घनतरछायोऽसि किं छायया संयुक्तफलितोऽसि किं फलभरैः पूर्णोऽसि किं सन्नतः

हे सद्वृक्ष सहस्व सम्प्रति सखे शाखाशिखाकर्षण- क्षोभामोटनभञ्जनानि जनतः स्वरैरेव दुश्चेष्टितैः । । ३७ । ।

सन्मूलः प्रथितोन्नतिर्घनलसच्छायः स्थितः सत्पथे सेव्यः सद्भिरितीदं आकलयता तालोऽध्वगेनाश्रितः

पुंसः शक्तिरियत्यसौ तु फलेदद्याथवा श्वोऽथवा काले क्वाप्यथवा कदाचिदथवा न त्वेव वेधाः प्रभुः । । ३८ । ।

त्वन्मूले पुरुषायुषं गतं इदं देहेन संशुष्यता क्षोदीयंसं अपि क्षणं परं अतह्शक्तिः कुतः प्राणितुं

तत्स्वस्त्यस्तु विवृद्द्धिं एहि महतीं अद्यापि का नस्त्वरा कल्याणिन्! फलितासि तालविटपिन्! पुत्रेषु पौत्रेषु वा । । ३९ । ।

पश्यामः किं अयं प्रपत्स्यत इति स्वल्पाभ्रसिद्धक्रियैर् दर्पाद्दूरं उपेक्षितेन बलवत्कर्मेरितैर्मन्त्रिभिः

लब्धात्मप्रसरेण रक्षितुं अथाशक्येन मुक्त्वाशानिं स्फीतस्तादृगहो घनेन रिपुणा दग्धो गिरिग्रामकः । । ४० । ।

साधूत्पातघनौग साधु सुधिया ध्येयं धरायां इदं कोऽन्यः कर्तुं अलं तवैव घटते कर्मेदृशं दुष्करं

सर्वस्यौपयिकानि यानि कतिचित्क्शेत्राणि तत्राशनिः सर्वानौपायिकेषु दग्धसिकतारण्येष्वपां वृष्टयः । । ४१ । ।

लब्धायां तृषि ग्ॐऋगस्य विहगस्यान्यसय्वा कस्य चिद् वृष्ट्या स्याद्भवदीययो९पकृतिरित्यास्तां दवीयस्यदः

अस्यात्यन्तं अभाजनस्य जलदारण्योषरस्यापि किं जाता पश्य पुनः पुनरेव परुषा सैवास्य दग्धा छविः । । ४२ । ।

संत्यज्य पानाचमनोचितानि तोयान्तराण्यस्य सिसेविषोस्त्वां

निर्जैन, जिह्रेषि जलैर्जनस्य जघन्यकार्यौपयिकैः पयोधे । । ४३ । ।

आस्त्रीशिशु प्रथित एष पिपासितेभ्यः संरक्ष्यतेऽम्बुधिरपेयतयैव दूराथ्

दंष्ट्राकरालमकरालिकरालिताभिः किं भाययत्यपरं ऊर्मिपरम्पराभिः । । ४४ । ।

स्वमाहात्म्यश्लाघागुरुगहनगर्जाभिरभितः क्रुशित्वा क्लिश्नासि श्रुतिकुहरं अब्धे किं इति नः

इहैकश्चूडालो ह्यजनि कलशाद्यस्य सकलैः पिपासोरम्भोभिश्चुलुकं अपि नो भर्तुं अशकः । । ४५ । ।

सर्वासां त्रिजगत्यपां इयं असावाधारता तावकी प्रोल्लासोऽयं अथाम्बुधेऽम्बुनिलये सेयं महासत्त्वता

सेवित्वा बहुभङ्गभीषणतनुं त्वां एव वेलाचल- ग्रावस्रोतसि पानतापकलहो यत्क्वापि निर्वाप्यते । । ४६ । ।

नोद्वेगं यदि यासि यद्यवहितः कर्णं ददासि क्षणं त्वां पृच्छामि यदम्बुधे किं अपि तन्निश्चित्य देह्युत्तरं

नैराश्यातिशयातिमात्रनिभृतैर्निःश्वस्य यद्दृश्यसे तृष्यद्भिः पथिकैः कियत्तदधिकं स्यादौर्वदाहादतः । । ४७ । ।

भिद्यतेऽनुप्रविश्यान्तर् यो यथारुच्युपाधिना

विशुद्धिः कीदृशी तस्य जडस्य स्फटिकाश्मनः । । ४८ । ।

चिन्तामणे भुवि न केन चिदीश्वरेण मूर्ध्ना धृतोऽहं इति मा स्म सखे विषीदः

नास्त्येव हि त्वदधिरोपणपुण्यबीज- सौभाग्ययोग्यं इह कस्य चिदुत्तमाङ्गं । । ४९ । ।

संवित्तिरस्त्यथ गुणाः प्रतिभान्ति लोके तद्धि प्रशस्तं इह कस्य किं उच्यतां वा

नन्वेवं एव सुमणे लुट यावदायुस् त्वं मे जगत्प्रसहनेऽत्र कथाशरीरं । । ५० । ।

चिन्तामणेस्तृणमणेश्च कृतं विधात्रा केनोभयोरपि मणित्वं अदः समानं

नैकोऽर्थितानि ददन्नर्थिजनाय खिन्नो गृह्णञ्जरत्तृणलवं तु न लज्जतेऽन्यः । । ५१ । ।

दूरे कस्य चिदेष कोऽप्यकृतधीर्नैवास्य वेत्त्यन्तरं मानी कोऽपि न याचते मृगयते कोऽप्यल्पं अल्पाशयः

इत्थं प्रार्थितदानदुर्व्यसनिनो नौदार्यरेखोज्ज्वला जातानैपुणदुस्तरेषु निकषस्थानेषु चिन्तामणेः । । ५२ । ।

परार्थे यः पीडां अनुभवति भङ्गेऽपि मधुरो यदीयः सर्वेषां इह खलु विकारोऽप्यभिमतः

न सम्प्राप्तो वृद्धिं स यदि भृशं अक्षेत्रपतितः किं इक्षोर्दोषोऽयं न पुनरगुणाया मरुभुवः । । ५३ । ।

आम्राः किं फलभारनम्रशिरसो रम्या किं ऊष्मच्छिदः सच्छायाः कदलीद्रुमाः सुरभयः किं पुष्पिताश्चम्पकाः

एतास्ता निरवग्रहोग्रकरभोल्लीढार्धरूढाः पुनः शम्यो भ्राम्यसि मूढ निर्मरुति किं मिथ्यैव मर्तुं मरौ । । ५४ । ।

आजन्मनः कुशलं अण्वपि रे कुजन्मन् पांसो त्वया यदि कृतं वद तत्त्वं एव

उत्थापितोऽस्यनलसारथिना यदर्थं दुष्टेन तत्कुरु कलङ्कय विश्वं एतथ् । । ५५ । ।

निस्साराः सुतरां लघुप्रकृतयो योग्या न कार्ये क्व चिछ् छुष्यन्तोऽद्य जरत्तृणाद्यवयवाः प्राप्ताः स्वतन्त्रेण ये

अन्तःसार[अराङ्मुखेन धिगहो ते मारुतेनामुना पश्यात्यन्तचलेन सद्म महतां आकाशं आरोपिता । । ५६ । ।

ये जात्या लघवः सदैव गणनां याता न ये कुत्र चिथ् पद्भ्यां एव विमर्दिताः प्रतिदिनं भूमौ निलीनाश्चिरं

उत्क्षिप्ताश्चपलाशयेन मरुता पश्यान्तरिक्षेऽधुना तुङ्गानां उपरिस्थितिं क्षितिभृत्तां कुर्वन्त्यमी पांसवः । । ५७ । ।

रे दन्दशूक यदयोग्यं अपीश्वरस्त्वां वात्सल्यतौ नयति नूपुरधाम सत्यं

आवर्जितालिकुलझंकृतिर्मूर्च्छितानि किं शिञ्जितानि भवतः क्षयं एव कर्तुं । । ५८ । ।

मौलौ सन्मणयो गृहं गिरिगुहा त्यागित्वं आत्मत्वचो निर्यत्नोपनतश्चैव वृत्तिरनिलैरेकत्र चर्येदृशी

अन्यत्रानृजु वर्त्म वाग्द्विरसना दृष्टौ विषं दृश्यते या धिक्तां अनु दीपको ज्वलति भो भोगिन्सखे किं न्विदं । । ५९ । ।

कल्लोलवेल्लितदृषत्परुषप्रहारै रत्नान्यमूनि मकरालय मावमंस्थाः

किं कौस्तुभेन विहितो भवतो न नाम याच्ञाप्रसारितकरः पुरुषोत्तमोऽपि । । ६० । ।

भूयांस्यस्य मुखानि नाम विदितैवास्ते महाप्राणता कद्रवाः सत्प्रसवोऽयं अत्र कुपिते चिन्त्यं यथेदं जगथ्

त्रैलोक्याद्भुतं ईदृशं तु चरितं शेषस्य येनापि सा प्रोन्मृज्येव निवर्तिता विषधरज्ञातेयदुर्वृत्तिता । । ६१ । ।

वर्षे समस्त एकैकः श्लाघ्यः कोऽप्येष वासरः

जनैर्महत्तया नीतो यो न पूर्वैर्न चापरः । । ६२ । ।

आबद्धकृत्रिमसटाजटिलांसभित्तिर् आरोपितो मृगपतेः पदवीं यदि श्वा

मत्तेभकुम्भतटपाटनलम्पटस्य नादं करिष्यति कथं हरिणाधिपस्य । । ६३ । ।

किं इदं उचितं शुद्धेः श्लिष्टं स्वपक्षसमुन्नतेः फलपरिणतेर्युक्तं प्राप्तं गुणप्रणयस्य वा

क्षणं उपगतः कर्णोपान्तं परस्य पुरः स्थितान् विशिख निपतन्क्रूरं दूरान्नृशंस निहंसि यथ् । । ६४ । ।

अमी ये दृश्यन्ते ननु सुभगरूपाः सफलता भवत्येषां यस्य क्षणं उपगतानां विषयतां

निरालोके लोके कथं इदं अहो चक्षुरधुना समं जातं सर्वैर्न समं अथवान्यैरवयवैः । । ६५ । ।

आहूतेषु विहङ्गमेषु मशको नायान्पुरो वार्यते मधेवारिधि वा वसंस्तृणमणिर्धत्ते मणीनां रुचं

खद्योतोऽपि न कम्पते प्रचलितुं मध्येऽपि तेजस्विनां धिक्सामान्यं अचेतनं प्रभुं इवानामृष्टतत्त्वान्तरं । । ६६ । ।

हेमकार सुधिये नमोऽस्तु ते दुस्तरेषु बहुशः परीक्षितुं

काञ्चनाभरणं अश्मना समं यत्त्वयैवं अधिरोप्यते तुलां । । ६७ । ।

वृत्त एव स घटोऽन्धकूप यस् त्वत्प्रसादं अपि नेतुं अक्षमह्

मुद्रितं त्वधमचेष्टितं त्वया तन्मुखाम्बुकणिकाः प्रतीच्छता । । ६८ । ।

तृणमणेर्मनुजस्य च तत्त्वतः किं उभयोर्विपुलाशयतोच्यते

तनुतृणाग्रलवावयवैर्ययोर् अवसिते ग्रहणप्रतिपादने । । ६९ । ।

शतपदी सति पादशते क्षमा यदि न गोष्पदं अप्यतिवर्तितुं

किं इयता द्विपदस्य हनुमतो जलनिधिक्रमणे विवदामहे । । ७० । ।

न गुरुवंशपरिग्रहशौण्डता न च महागुणसंग्रहणादरः

फलविधानकथापि न मार्गणे किं इह लुब्धकबालगृहेऽधुना । । ७१ । ।

तनुतृणाग्रधृतेन हृतश्चिरं क इव तेन न मौक्तिकशङ्कया

स जलबिन्दुरहो विपरीतदृङ् जगदिदं वयं अत्र सचेतनाः । । ७२ । ।

बुध्यामहे न बहुधापि विकल्पयन्तः कैर्नामभिर्व्यपदिशेम महामतींस्तान्\तेस्तिम्{\चित्Sउभाषितावली ९८२}*

येषां अशेषभुवनाभरणस्य हेम्नस् तत्त्वं विवेक्तुं उपलाः परमं प्रमाणं । । ७३ । ।

*Vआऱः {विकल्पयन्तः\लें विकल्पमानः \Sउभसित}

संरक्षितुं कृषिं अकारि कृषीवलेन पश्यात्मनः प्रतिकृतिस्तृणपूरुषोऽयं

स्तब्धस्य निष्क्रियतयास्तभियोऽस्य नूनं अश्नन्ति ग्ॐऋगगणाः पुर एव सस्यं । । ७४ । ।

कस्यानिमेषनयने विदिते दिवौको- लोकादृते जगति ते अपि वै गृहीत्वा

पिण्डप्रसारितमुखेन तिमे किं एतद् दृष्टं न बालिश विशद्बडिशं त्वयान्तः । । ७५ । ।

पुंस्त्वादपि प्रविचलेद्यदि यद्यधोऽपि यायाद्यदि प्रणयने न महानपि स्याथ्

अभ्युद्धरेत्तदपि विश्वं इतीदृशीयं केनापि दिक्प्रकटिता पुरुषोत्तमेन । । ७६ । ।

स्वाल्पाशयः स्वकुलशिल्पविकल्पं एव यः कल्पयन्स्खलति काचवणिक्पिशाचः

ग्रस्तः स कौस्तुभमणीन्द्रसपत्नरत्न- निर्यत्नगुम्फनकवैकटिकेर्ष्ययान्तः । । ७७ । ।

तत्प्रत्यर्थितया वृतो न तु कृतः सम्यक्स्वतन्त्रो भयाथ् स्वस्थस्तान्न निपातयेदिति यथाकामं न सम्पोषितः*

संशुष्यन्पृषदंश एष कुरुतां मूकः स्थितोऽप्यत्र किं गेहे किं बहुनाऽधुना गृहपतेश्चौर्राश्चरन्त्याखवः । । ७८ । ।

*Vआऱः {प्रत्यर्थितया\लें प्रत्यस्त्रतया \व्ल्}

एवं चेत्सरसस्वभावमहिमा जाड्यं किं एतादृशं यद्येषा च निसर्गतः सरसता किं ग्रन्थिमत्तेदृशी

मूलं चेच्छुचिपङ्कजश्रुतिरियं कस्माद्गुणा यद्यमी किं छिद्राणिमृणाल भवतस्तत्त्वं न मन्यामहे । । ७९ । ।

ये दिग्ध्वेव कृता विषेण कुसृतिर्येषां कियद्भण्यते लोकं हन्तुं अनागसं द्विरसना रन्ध्रेषु ये जाग्रति

व्यालास्तेऽपि दधत्यमी सदसतोर्मूढा मणीन्मूर्धभिर् नौचित्याद्गुणशलिनां क्व चिदपि भ्रंशोऽस्त्यलं चिन्तया । । ८० । ।

अहो स्त्रीणां क्रौर्यं हतरजनि धिक्त्वां अतिशठे वृथाप्रक्रान्तेयं तिमिरकबरीविश्लथधृतिः

अवक्तव्ये पाते जननयननाथस्य शशिनः कृतं स्नेहस्यान्तोचितं उदधिमुख्यैर्ननु जडैः । । ८१ । ।

अहो गेहेनर्दी दिवसविजिगीषाज्वररुजा प्रदीपोऽयं स्थाने ग्लपयति मृषामूनवयवान्

उदात्तस्वच्छन्दाक्रमणहृतविश्वस्य तमसः परिस्पन्दं द्रष्टुं मुखं अपि च किं सोढं अमुना । । ८२ । ।

नामाप्यन्यतरोर्निमीलितं अभूत्तत्तावदुन्मीलितं प्रस्थाने स्खलतः स्ववर्त्मनि विधेरप्युद्गृहीतः करः

लोकश्चायं अनिष्टदर्शनकृताद्दृग्वैशसान्मोचितो युक्तं काष्ठिक लूनवान्यदसि तां आम्रालिं आकालिकीं । । ८३ । ।

वाताहारतया जगद्विषधरैराश्वास्य निःशेषितं ते ग्रस्ताः पुनरभ्रतोयकणिकातीव्रव्रतैर्बर्हिभिः

तेऽपि क्रूरचमूरुचर्मवसनैर्नीताः क्षयं लुब्धकैर् दम्भस्य स्फुरितं विदन्नपि जनो जाल्मो गुणनीहते । । ८४ । ।

ऊढा येन महाधुरः सुविषमे मार्गे सदैकाकिना सोढो येन कदा चिदेव न निजे गोष्ठेऽन्यशौण्डध्वनिः

आसीद्यस्तु गवां गणस्य तिलकस्तस्यैव सम्प्रत्यहो धिक्कष्टं धवलस्य जातजरसो गोः पण्यं उद्घोष्यते । । ८५ । ।

अस्थानोद्योगदुःखं जहिहि न हि नभः पङ्गुसंचारयोग्यं स्वायासायैव साधो तव शलभ जवाभ्यासदुर्वासनेयं

ते देवस्याप्यचिन्त्याश्चटुलितभुवनाभोगहेलावहेला- मूलोत्खातानुमार्गागतगिरिगुरवस्तार्क्ष्यपक्षाग्रवाताः । । ८६ । ।

चन्द्रेणैव तरङ्गभङ्गिमुखरं संवर्ध्यमानाम्भसो दद्युर्जीवितं एव किं गिरिसरित्स्रोतांसि यद्यम्बुधेः

तेष्वेव प्रतिसंविधानविकलं पश्यत्सु साक्षिष्विव द्राग्दर्पोद्धुरं आगतेष्वपि न स क्षीयेत यद्यन्यथा । । ८७ । ।

किलैकचुलुकेन यो मुनिरपारं अब्धिं पपौ सहस्रं अपि घस्मरोऽविकृतं एष तेषां पिबेथ्

न सम्भवति किं त्विदं बत विकासिधाम्ना विना सदप्यसदिव स्थितं स्फुरितं अन्त ओजस्विनां । । ८८ । ।

ग्रावाणोऽत्र विभूषणं त्रिजगतो मर्यादया स्थीयते नन्वत्रैव विधुः स्थितो हि विबुधाः सम्भूय पूर्णाशिषः

शेते चोद्गतनाभिपद्मविलसद्ब्रह्मेह देवः स्वयं दैवादेति जडः स्वकुक्षिभ्र्तये सोऽप्यम्बुधिर्निम्नतां । । ८९ । ।

अनीर्ष्या श्रोतारो मम वचसि चेद्वच्मि तदहं स्वपक्षाद्भेतव्यं न तु बहु विपक्षात्प्रभवतः

तमस्याक्रान्ताशे कियदपि हि तेजोऽवयविनः स्वशक्त्या भान्त्येते दिवसकृति सत्येव न पुनः । । ९० । ।

एतत्तस्य मुखात्कियत्कमलिनीपत्रे कणं वारिणो यन्मुक्तामणिरित्यमंस्त स जडः शृण्वन्यदस्मादपि

अङ्गुल्यग्रलघुक्रियाप्रविलयिन्यादीयमाने शनैः कुत्रोड्डीयगतो ममेत्यनुदिनं निद्राति नान्तःशुचा । । ९१ । ।

आस्तेऽत्रैव सरस्यहो बत कियान्संतोषपक्षग्रहो हंसस्यास्य मनाङ्न धावति मनः श्रीधाम्नि पद्मे क्व चिथ्

सुप्तोऽद्यापि न बुध्यते तदितरांस्तावत्प्रतीक्षामहे वेलां इत्युदरंप्रिया मधुलिहः सोढुं क्षणं न क्षमाः । । ९२ । ।

भेकेन क्वणता सरोषपरुषं यत्कृष्णसर्पानने दातुं गण्डचपेतं उज्झितभिया हस्तः समुल्लासितः

यच्चाध्ॐउखं अक्षिणी पिदधता नागेन तत्र स्थितं तत्सर्वं विषमन्त्रिणो भगवतः कस्यापि लीलायितं । । ९३ । ।

मृत्योरास्यं इवाततं धनुरिदं चाशीविषाभाः शराः शिक्षा सापि जितार्जुनप्रभ्र्तिका सर्वत्र निम्ना गतिः

अन्तः क्रौर्यं अहो शठस्य मधुरं हा हारि गेयं मुखे व्याधस्यास्य यथा भविष्यति तथा मन्ये वनं न्रिमृगं । । ९४ । ।

कोऽयं भ्रान्तिप्रकारस्तव पवन पदं लोकपादाहतीनां तेजस्विव्रातसेव्ये नभसि नयसि यत्पांसुपूरं प्रतिष्ठां

यस्मिन्नुत्थाप्यमाने जननयनपथोपद्रवस्तावदास्तां केनोपायेन साध्यो वपुषि कलुषतादोष एष त्वयैव । । ९५ । ।

एते ते विजिगीषवो नृपगृहद्वारार्पितावेक्षणाः क्षिप्यन्ते वसुयाचनाहितधियः कोपोद्धतैर्वेत्रिभिः

अर्थेभ्यो विषयोपभोगविरसैर्नाकारि यैरादरस् ते तिष्ठन्ति मनस्विनः सुरसरित्तीरे मनोहारिणि । । ९६ । ।

वाता वान्तु कदम्बरेणुशबला नृत्यन्तु सर्पद्विषः सोत्साहा नवतोयभारगुरवो मुञ्चन्तु नादं घनाः

मग्नां कान्तवियोगदुःखदहने मां वीक्ष्य दीनाननां विद्युत्किं स्फुरसि त्वं अप्यकरुणे स्त्रीत्वेऽपि तुल्ये सति । । ९७ । ।

प्राणा येन समर्पितास्तव बलाद्येनैवं उत्थापितः स्कन्धे येन चिरं धृतोऽसि विदधे यस्ते सपर्यां अपि

तस्यान्तह्स्मितमात्रकेण जनयञ्जीवापहारं क्षणाद् भ्रातः प्रत्युपकारिणां धुरि परं वेताललीलायसे । । ९८ । ।

रज्ज्वा दिशः प्रवितताः सलिलं विषेण खाता मही हुतभुजा ज्वलिता वनान्ताः

व्याधा पदान्यनुसरन्ति गृहीतचापाः कं देशं आश्रयतु यूथपतिर्मृगाणां । । ९९ । ।

अयं वारां एको निलय इति रत्नाकर इति श्रितोऽस्माभिस्तृष्णातरलितमनोभिर्जलनिधिः

क एवं जानीते निजकरपुटीकोटरगतं क्षणादेनं ताम्यत्तिमिनिकरं आपास्यति मुनिः । । १०० । ।

विशालं शाल्मल्या नयनसुभगं वीक्ष्य कुसुमं शुकस्यासीद्बुद्धिः फलं अपि भवेदस्य सदृशं

चिरासीनं तस्मिंश्च फलं अपि दैवात्परिणतं विपाके तूलोऽन्तः सपदि मरुता सोऽप्यपहृतः । । १०१ । ।

सर्वप्रजाहितकृते पुरुषोत्तमस्य वासे समस्तविबुधप्रथितेष्टसिद्धौ

चन्द्रांशुवृन्दविततद्युतिं अत्यमुष्मिन्- हे कालकूट तव जन्म कथं पयोधौ । । १०२ । ।

फलितघनविटपविघटित-पटुदिनकरमहसि लसतिकल्पतरौ ।

छायार्थी कः पशुरपि भवति जरद्वीरुधां प्रणयी । । १०३ । ।

==वाह्य सूत्र==
"https://sa.wikibooks.org/wiki/भल्लटशतकम्" इत्यस्माद् प्रतिप्राप्तम्