"उत्तररामचरितम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १,३४२:
हे वटवः ! परिवृत्य लोष्टैरभिघ्नन्त उपनयनतैनमश्वम् । एष रोहितानां मध्येचरो भवतु ।
(प्रविश्य सक्रोधः)
पुरुषः-धिक्चपल ! किमुक्तवानसि ? तीक्ष्णतरा ह्यायुधश्रेणयः शिशोरपि दृप्तां वाचं न सहन्ते । राजपुत्रश्चन्द्रकेतुर्दुर्दान्तः, सोऽप्यपूर्वारण्यदर्शनाक्षिप्तदयो न यावदायाति, तावत्त्वरितमनेन तरुगहनेनापसर्पत ।

वटवः- कुमार ! कृतं कृतमश्वेन । तर्जयन्ति विस्फारितशरासनाः कुमारमायुधीयश्रेणयः । दूरे चाश्रमपदम् । इतस्तदेहि । हरिणप्लुतैः पलायामहे !

लवः-किं नाम विस्फुरन्ति शस्त्राणि ? (इति धनुरारोपयन्)

ज्याजिह्वया वलयितोत्कटकोटिदंष्ट्र-
मुद्भूरिघोरघनघर्घरघोषमेतत् ।

ग्रासप्रसक्तहसदन्तकवक्त्रयन्त्र-
जृम्भाविडम्बि विकटोदरमस्तु चापम् ॥ २९ ॥

(इति यथोचितं परिक्रम्य निष्क्रान्ताः सर्वे ।)
इति महाकविभवभूतिविरचिते उत्तररामचरिते कौसल्याजनकयोगो नाम चतुर्थोऽङ्कः ॥ ४ ॥
पङ्क्तिः १,३५८:
नन्वेष त्वरितसुमन्त्रनुद्यमानप्रोद्वल्गत्प्रजवितवाजिना रथेन ।
उत्खातप्रचलितकोविदारकेतुः श्रुत्वा वः प्रधनमुपैति चन्द्रकेतुः ॥ १ ॥

(तत प्रविशति सुमन्त्रसारथिना रथेन धनुष्पाणिः साद्भुतहर्षसंभ्रमश्चन्द्रकेतुः ।)

चन्द्रकेतुः- आर्य सुमन्त्र ! पश्य पश्य !

किरति कलितकिञ्चित्कोपरज्यन्मुखश्री-
रविरतगुणगुञ्जत्कोटिना कार्मुकेण ।

समरशिरसि चञ्चत्पञ्चचूडश्चमूना-
मुपरि शरतुषारं कोऽप्ययं वीरपोतः ॥ २ ॥

(साश्चर्यम्)

मुनिजनशिशुरेकः सर्वतः संप्रकोपा-
न्नव इव रघुवंशस्याप्रसिद्धिप्ररोहः ।

दलितकरिकपोलग्रन्थिटङ्कारघोर-
ज्वलितशरसहस्रः कौतुकं मे करोति ॥ ३ ॥

सुमन्त्रः-आयुष्मन् !

अतिशयितसुरासुरप्रभावं शिशुमवलोक्य तथैव तुल्यरूपम् ।

कुशिकसुतमखद्विषां प्रमाथे धृतधनुषं रघुनन्दनं स्मरामि ॥ ४ ॥

पङ्क्तिः १,३८९:
सुमन्त्रः-‘लव’ इति ।

चन्द्रकेतुः-
भो भो लव ! महाबाहो ! किमेभिस्तव सैनिकैः ?।

एषोऽहमेहि मामेव, तेजस्तेजसि शाम्यत ॥ ७ ॥

सुमन्त्रः- कुमार ! पश्य पश्य ।

विनिवर्तित एष वीरपोतः पृतनानिर्मथनात्त्वयोपहूतः ।
स्तनयित्नुरवादिभावलीनामवमर्दादिव दृप्तसिंहशावः ॥ ८ ॥

(ततः प्रविशति धीरोद्धतपराक्रमो लवः)
लवः-साधु राजपुत्र ! साधु । सत्यमैक्ष्वाकः खल्वसि । तदहं परागत एवस्मि ।
पङ्क्तिः १,३९९:
लवः-(सावष्टम्भं परावृत्य) कथमिदानीं भग्ना अपि पुनः प्रतिनिवृत्ताः पृष्ठानुसारिणः पर्यवष्टम्भयन्ति मां चमूपतयः धिग्जाल्मान् !
अयं शैलाघातक्षुभितवडवावक्त्रहुतभु-
क्प्रचण्डक्रोधार्चिर्निचयकवलत्वं व्रजतु मे ।

समन्तादुत्सर्पद्घनतुमुलहेलाकलकलः
पयोराशेरोघः प्रलयपवनास्फालित इव ॥ ९ ॥

(सवेगं परिक्रामति )
चन्द्रकेतुः- भो भो: कुमारः !

अत्यद्भुतादपि गुणातिशयात्प्रियो मे
तस्मात्सखा त्वमसि, यन्मम तत्तवैव ।

तत्किं निजे परिजने कदनं करोषि ?
नन्वेषु दर्पनिकषस्तव चन्द्रकेतुः ॥ १० ॥

लवः-(सहर्षसंभ्रमं परावृत्य) अहो महानुभावस्य प्रसन्नकर्कशा वीरवचनप्रयुक्तिर्विकर्तनकुलकुमारस्य । तत्किमेभिः ? एनमेव तावत्संभावयामि ।

(पुनर्नेपथ्ये कलकलः)
लवः-(सक्रोधनिर्वेदम्) आः ! कदर्थीकृतोऽहमेभिर्वीरसंवादविघ्नकारिभिः पापैः । (इति तदभिमुखं परिक्रामति)

चन्द्रकेतुः-आर्य ! दृश्यतां द्रष्टव्यमेतत् ।
दर्पेण कौतुकवता मयि बद्धलक्ष्यः
पश्चाद्बलैरनुसृतोऽयमुदीर्णधन्वा ।

द्वेधा समुद्धतमरुत्तरलस्य धत्ते
मेघस्य माघवतचापधरस्य लक्ष्मीम् ॥ ११ ॥

पङ्क्तिः १,४२५:

लवः-(सोन्माथम्) आः ! कथमनुकम्पते नाम ? (ससम्भ्रमं विचिन्त्य) भवतु । कालहरणप्रतिषेधाय जृम्भकास्त्रेण तावत्सैन्यानि संस्तम्भयामि । (इति ध्यानं नाटयति)
सुमन्त्रः-तत्किमकस्मादुल्लोलाः सैन्यघोषाः प्रशाम्यन्ति ?

लवः-पश्याम्येनमधुना प्रगल्भम् ।

सुमन्त्रः-(ससम्भ्रमम्) वत्स । मन्ये कुमारकेणानेन जृम्भकास्त्रमामन्त्रितमिति ।

चन्द्रकेतुः-अत्र कः सन्देहः ?

व्यतिकर इव भीमस्तामसो वैद्युतश्च
प्रणिहितमपि चक्षुर्ग्रस्तमुक्तं हिनस्ति ।

अथ लिखितमिवैतत्सैन्यमस्पन्दमास्ते
नियतमजितवीर्यं जृम्भते जृम्भकास्त्रम् ॥ १३ ॥

आश्चर्यमाश्चर्यम् !
पातालोदरकुञ्जपुञ्जिततमःश्यामैर्नभो जृम्भकै-
रुत्तप्तस्फुरदारकूटकपिलज्योतिर्ज्वलद्दीप्तिभिः ।

कल्पाक्षेपकठोरभैरवमरुद्ध्यस्तैरभिस्तीर्यते
लीनाम्भोदतडित्कडारकुहरैर्विन्ध्याद्रिकूटैरिव ॥ १४ ॥

सुमन्त्रः- कुतः पुनरस्य जृम्भकाणामागमः स्यात् ?
चन्द्रकेतुः- भगवतः प्राचेतसादिति मन्यामहे ।

सुमन्त्रः- वत्स ! नैतदेवमस्त्रेषु विशेषतो जृम्भकेषु । यतः-
कृशाश्वतनया ह्येते कृशाश्वात्कौशिकं गताः ।
पङ्क्तिः १,४४६:

चन्द्रकेतुः-अपरेऽपि प्रचीयमानसत्त्वप्रकाशाः स्वयं सर्वं मन्त्रदृशः पश्यन्ति ।
सुमन्त्रः- वत्स ! सावधानो भव । परागतस्ते प्रतिवीरः ।

कुमारौ-(अन्योन्यं प्रति) अहो ! प्रियदर्शनः कुमारः । (सस्नेहानुरागं निर्वर्ण्य)

यदृच्छासंवादः किमु गुणगणानामतिशयः
पुराणो वा जन्मान्तरनिबिडबद्धः परिचयः ।

निजो वा संबन्धः किमु विधिवशात्कोऽप्यविदितो
ममैतस्मिन्दृष्टे दयमवधानं रचयति ॥ १६ ॥

पङ्क्तिः १,४७६:
कथं वाऽभ्यनुजानातु साहसैकरसां क्रियाम् ॥ २१ ॥

चन्द्रकेतुः- यदा तातमिश्रा अपि पितुः प्रियसखं त्वामर्थसंशयेषु पृत्छन्ति, तत्किमार्यो विमृशति ?

सुमन्त्रः-आयुष्मन् ! एवं यथाधर्ममभिमन्यसे ।

एष सांग्रामिको न्याय एष धर्मः सनातनः ।
इयं हि रघुसिंहानां वीरचारित्रपद्धतिः ॥ २२ ॥

चन्द्रकेतुः-अप्रतिरूपं वचनमार्यस्य ।

इतिहासं पुराणं च धर्मप्रवचनानि च ।

भवन्त एव जानन्ति रघूणां च कुलस्थितिम् ॥ २३ ॥

सुमन्त्रः-(सस्नेहास्रं परिष्वज्य)

जातस्य ते पितुरपीन्द्रजितो निहन्तु-

र्वत्सस्य वत्स ! कति नाम दिनान्यमूनि ?

तस्याप्यपत्यमनुतिष्ठति वीरधर्मं
दिष्ट्यागतं दशरथस्य कुलं प्रतिष्ठाम् ॥ २४ ॥

चन्द्रकेतुः-(सकष्टम्)

‘अप्रतिष्ठे कुलज्येष्ठे का प्रतिष्ठा कुलस्य नः’ ?

इति दुःखेन तप्यन्ते त्रयो नः पितरोऽपरे ॥ २५ ॥

सुमन्त्रः-दयमर्मदारणान्येव चन्द्रकेतोर्वचनानि ।

लवः- हन्त ! मिश्रीकृतक्रमो रसो वर्तते ।

यथेन्दावानन्दं व्रजति समुपोढे कुमुदिनी
तथैवास्मिन्दृष्टिर्मम, कलहकामः पुनरयम् ।

रणत्कारक्रूरक्वणितगुणगुञ्जद्गुरुधनु-
र्धृतप्रेमा बाहुर्विकचविकरालव्रणमुखः ॥ २६ ॥

चन्द्रकेतुः-(अवतरणं निरूपयन्) आर्य ! अयमसावैक्ष्वाकश्चन्द्रकेतुरभिवादयते ।

सुमन्त्रः-अहितस्यैव पुनः पराभवाय महानादिवराहः कल्पताम् । अपि च
देवस्त्वां सविता धिनोतु समरे गोत्रस्य यस्ते पति-
पङ्क्तिः १,५१०:

लवः-अतीव नाम शोभते रथस्थ एव । कृतं कृतमत्यादरेण ।

चन्द्रकेतुः- तर्हि महाभागोऽप्यन्यं रथमलङ्करोतु ।

लवः-आर्य ! प्रत्यारोपय रथोपरि राजपुत्रम् ।

सुमन्त्रः-त्वमप्यनुरुध्यस्व वत्सस्य चन्द्रकेतोर्वचनम् ।

लवः-को विचारः स्वेषूपकरणेषु ? किं त्वरण्यसदो वयमनभ्यस्तरथचर्याः ।

सुमन्त्रः- जानासि वत्स ! दर्पसौजन्ययोर्यदाचरितम् । यदि पुनस्त्वामीदृशमैक्ष्वाको राजा रामभद्रः पश्येत्तदायमस्य स्नेहेन दयमभिष्यन्दयेत् ।

लवः-अन्यच्च चन्द्रकेतो ! सुजनः स राजर्षिः श्रूयते । (सलज्जमिव)

यदि च वयमप्येवंप्रायाः क्रतुद्विषतामरौ
क इव न गुणैस्तं राजानं जनो बहु मन्यते ।

पङ्क्तिः १,५३०:

सुमन्त्रः-परिभूतोऽयं बत कुमारः प्राचेतसान्तेवासी । वदत्ययमभ्युपपन्नामर्षेण संस्कारेण ।
लवः-यत्पुनश्चन्द्रकेतो ! वदसि ‘किन्नु भवतस्तातप्रतापोत्कषेऽप्यमर्ष’ इति, तत्पृच्छामि ‘किं व्यवस्थितविषयः क्षात्रधर्म’ ? इति ।

सुमन्त्रः-नैव खलु जानासि देवमैक्ष्वाकम् ! तद्विरमातिप्रसङ्गात् ।
सैनिकानां प्रमाथेन सत्यमोजायितं त्वया ।

जामदग्न्यस्य दमने न हि निर्बन्धमर्हसि ॥ ३१ ॥

लवः-(सहासम्) आर्य ! जामदग्नस्य दमनः स राजेति कोऽयमुच्चैर्वादः ?

सिद्धं ह्येतद्वाचि वीर्यं द्विजानां बाह्वोर्वीर्यं यत्तु तत्क्षत्रियाणाम् ।
शस्त्रग्राही ब्राह्मणो जामदग्न्यस्तस्मिन्दान्ते का स्तुतिस्तस्य राज्ञः ? ॥ ३२ ॥

चन्द्रकेतुः-(सोन्माथमिव) आर्य सुमन्त्र ! कृतमुत्तरोत्तरेण ।

कोऽप्येष संप्रति नवः पुरुषावतारो वीरो न यस्य भगवान्भृगुनन्दनोऽपि ।
पर्याप्तसप्तभुवनाभयदक्षिणानि पुण्यानि तात चरितान्यपि यो न वेद ॥ ३३ ॥

लवः- को हि रघुपतेश्चरितं महिमानं च न जानाति ? यदि नाम किंचिदस्ति वक्तव्यम् । अथवा शान्तम् ।

वृद्धास्ते न विचारणीयचरितास्तिष्ठन्तु हुं वर्तते
सुन्दस्त्रीमथनेऽप्यकुण्ठयशसो लोके महान्तो हि ते ।

यानि त्रीणि कुतोमुखान्यपि पदान्यासन्खरायोधने ।
यद्वा कौशलमिन्द्रसूनुनिधने तत्राप्यभिज्ञो जनः ॥ ३४ ॥

चन्द्रकेतुः-आः तातापवादिन् ! भिन्नमर्याद ! अति हि नाम प्रगल्भसे ।

लवः-अये ! मय्येव भ्रुकुटीमुखः संवृत्तः ।
सुमन्त्रः-स्फुरितमनयोः क्रोधेन । तथा हि-

क्रोधेनोद्धतधूतकुन्तलभरः सर्वाङ्गजो वेपथुः
किञ्चित्कोकनदच्छदस्य सदृशे नेत्रे स्वयं रज्यतः ।

धत्ते कान्तिमिदं च वक्त्रमनयोर्भङ्गेन भिन्नं भ्रुवो-
श्चन्द्रस्योद्भटलाञ्छनस्य कमलस्योद्भ्रान्तभृङ्गस्य च ॥ ३५ ॥

पङ्क्तिः १,५६३:
==:षष्ठोऽङ्कः :==

(ततः प्रविशति विमानेनोज्जवलं विद्याधरमिथुनम्)

विद्याधरः-अहो नु खल्वनयोर्विकर्तनकुलकुमारयोरकाण्डकलहप्रचण्डयोरुद्द्योतितक्षत्रलक्ष्मीकयोरत्यद्भुतोद्भ्रान्तदेवासुराणि विक्रान्तविलसितानि । तथा हि प्रिये ! पश्य ।

झणज्झणितकङ्कणक्वणितकिङ्किणीकं धनु-
र्ध्वनद्गुरुगुणाटनीकृतकरालकोलाहलम् ।

वितत्य किरतोः शरानविरतं पुनः शूरयो-
र्विचित्रमभिवर्तते भुवनभीममायोधनम् ॥ १ ॥

जृम्भितं च विचित्राय मङ्गलाय द्वयोरपि ।
स्तनयित्नोरिवामन्ददुन्दुभेर्न्दुन्दुमायितम् ॥ २ ॥

तत्प्रवर्त्यतामनयोः प्रवीरयोरनवरतमविरलमिलितविकचकनककमलकमनीयसंहतिरमरतरुतरुणमणिमुकुलनिकरमकरन्दसुन्दरः पुष्पनिपातः ।

विद्याधरी-तत्किमिति पुर आकाशं दुर्दर्शतरलतडिच्छटाकडारमपरमिव झटिति संवृत्तम् ।
आधारः-तत्किं नु खल्वद्य ?
पङ्क्तिः १,५७९:
अवदग्धबर्बरितकेतुचामरैरपयातमेव हि विमानमण्डलैः ।
दहति ध्वजांशुकपटावलीमिमां नवकिंशुकद्युतिसविभ्रमः शिखी ॥ ४ ॥

आश्चर्यम् ! प्रवृत्त एवायमुच्चण्डवज्रखण्डावस्फोटपटुरटत्स्फुलिङ्गगुरुरुत्तालतुमुललेलिहानोज्ज्वलज्वालासंभारभैरवो भगवानुषर्बुधः । प्रचण्डश्चास्य सर्वतः संपातः । तत्प्रियामंशुकेनाच्छाद्य सुदूरमपसरामि ।(तथा करोति)

विधाधरी-दिष्ट्या एतेन विमलमुक्ताशैलशीतलस्निग्धमसृणमांसलेननाथदेहस्पर्शेनानन्दसंदलितघूर्णमानवेदनाया अर्धोदित एवान्तरितो मे सन्तापः ।

विद्याधरः- अयि ! किमत्र मया कृतम् ? अथवा ।
न किञ्चिदपि कुर्वाणाः सौख्यैर्दुःखान्यपोहति ।
तत्तस्य किमपि द्रव्यं यो हि यस्य प्रियो जनः ॥ ५ ॥

विद्याधरी-कथमविरलविलोलघूर्णमानविद्युल्लताविलासमांसलैर्मत्तमयूरकण्ठश्यामलैरवस्तीर्यते नभोऽङ्गणं जलधरैः ?

विद्याधरः-कुमारलवप्रयुक्तवारुणास्त्रप्रभावः खल्वेषः । कथमविरलप्रवृतवारिधारासंपातैः प्रशान्तमेव पावकास्त्रम् ।

विधाधरी- प्रियं मे, प्रियं मे ।

विद्याधरः- हन्त भोः ! सर्वमतिमात्रं दोषाय । यत्प्रलयवातोत्क्षोभगम्भीरगुलुगुलायमानमेघमेदुरितान्धकारनीरन्ध्रनद्धमिव एकवारविश्वग्रसनविकटविकरालकालमुखकन्दरविवर्तमानमिव युगान्तयोगनिद्रानिरद्धसर्वद्वारं नारायणोदरनिविष्टमिव भूतं विपद्यते । साधु चन्द्रकेतो ! साधु ! स्थाने वायव्यमस्त्रमीरितम् । यतः ।
पङ्क्तिः १,६०१:

(ततः प्रविशति रामो लवः प्रणतश्चन्द्रकेतुश्च)
रामः-(पुष्पकादवतरन्)

दिनकरकुलचन्द्र ! चन्द्रकेतो ! सरभसमेहि दृढं परिष्वजस्व ।

तुहिनशकलशीतलैस्तवाङ्गैः शममुपयातु ममापि चित्तदाहः ॥८॥

(उत्थाप्य सस्नेहास्रं परिष्वज्य) अप्यनामयं नूतनदिव्यास्त्रायोधनस्य तव ?
चन्द्रकेतुः- अभिवादये । कुशलमत्यद्भुतप्रियवयस्यलाभाभ्युदयेन । तद्विज्ञापयामि मामिव विशेषेण स्निग्धेन चक्षुषा पश्यत्वमुं वीरमनरालसाहसं तातः ।
रामः- (लवं निरूप्य) दिष्ट्या अतिगम्भीरमधुरकल्याणाकृतिरयं वयस्यो वत्सस्य ।

त्रातुं लोकानिव परिणतः कायवानस्त्रवेदः
क्षात्रो धर्मः श्रित इव तनुं ब्रह्मकोशस्य गुप्त्यै ।

सामर्थ्यानामिव समुदयः, सञ्चयो वा गुणाना-
माविर्भूय स्थित इव जगत्पुण्यनिर्माणराशिः ॥९॥

लवः-(स्वगतम्) अहो ! पुण्यानुभावदर्शनोऽयं महापुरुषः ।

आश्वास इव भक्तीनामेकमायतनं महत् ।

प्रकृष्टस्येव धर्मस्य प्रसादो मूर्तिसुन्दरः ॥१०॥

आश्चर्यम् !

विरोधो विश्रान्तः, प्रसरति रसो निर्वृतिघन-
स्तदौद्धत्यं क्वापि व्रजति, विनयः प्रह्वयति माम् ।

झटित्यस्मिन्दृष्टे किमिति परवानस्मि, यदि वा
महार्घस्तीर्थानामिव हि महतां कोऽप्यतिशयः ॥११॥

रामः-तत्किमयमेकपद एव मे दुःखविश्रामं ददात्युपस्नेहयति च कुतोऽपि निमित्तादन्तरात्मानम् ? अथवा ‘स्नेहश्च निमित्तसव्यपेक्ष’ इति विप्रतिषिद्धमेतत् ।
पङ्क्तिः १,६२५:
र्न खलु बहिरुपाधीन्प्रीतयः संश्रयन्ते ।
विकसति हि पतङ्गस्योदये पुण्डरीकं
द्रवति च हिमरश्मावुद्गते चन्द्रकान्तः ॥१२॥

लवः-चन्द्रकेतो ! क एते ?

चन्द्रकेतुः - प्रियवयस्य ! ननु तातपादाः ।

लवः- ममापि धर्मतस्तथैव, यतः प्रियवयस्येति भवतोक्तम् । किंतु चत्वारः किल भवन्त्येवंव्यपदेशभागिनस्तत्रभवन्तो रामायणकथापुरुषाः । तद्विशेषं ब्रूहि ।

चन्द्रकेतुः - ज्येष्ठतात इत्यवेहि ।

लवः -(सोल्लासम्) कथं रघुनाथ एव ? दिष्ट्या सुप्रभातमद्य, यदयं देवो दृष्टः । (सविनयं निर्वर्ण्य) तात ! प्राचेतसान्तेवासी लवोऽभिवादयते ।

रामः-आयुष्मन् ! एह्येहि । (इति सस्नेहमालिङ्ग्य) अयि वत्स ! कृतमत्यन्तविनयेन । अङ्गेन मामपरिश्लथं परिरम्भस्व ।

परिणतकठोरपुष्करगर्भच्छदपीनमसृणसुकुमारः ।
नन्दयति चन्द्रचन्दननिष्यन्दजडस्तव स्पर्शः ॥१३॥

लवः-(स्वगतम्) ईदृशो मां प्रत्यमीषामकारणस्नेहः । मया पुनरेभ्य एवाभिद्रोग्धुमज्ञेनायुधपरिग्रहः कृतः । (प्रकाशम्) मृष्यन्तांत्विदानीं लवस्य बालिशतां तातपादाः ।

रामः - किमपराद्धं वत्सेन ?

चन्द्रकेतुः - अश्वानुयात्रिकेभ्यस्तातप्रतापाविष्करणमुपश्रुत्य वीरायितमनेन ।

रामः- नन्वयमलङ्कारः क्षत्रियस्य ।

न तेजस्तेजस्वी प्रसृतमपरेषां विषहते ।
स तस्य स्वो भावः प्रकृतिनियतत्वादकृतकः ।

मयूखैरश्रान्तं तपति यदि देवो दिनकरः
किमाग्नेयो ग्रावा निकृत इव तेजांसि वमति ? ॥१४॥

चन्द्रकेतुः- अमर्षोप्यस्यैव शोभते महावीरस्य । पश्यन्तु हि तातपादाः ! प्रियवयस्यनियुक्तेन जृम्भकास्त्रेण विक्रम्य स्तम्भितानि सर्वसैन्यानि ।

रामः-(सविस्मयखेदं निर्वर्ण्य स्वगतम्) अहो ! वत्सस्य ईदृशः प्रभावः ? (प्रकाशम्) वत्स ! संह्रियतामस्त्रम् । त्वमपि चन्द्रकेतो ! निर्व्यापारतया विलक्षाणि सान्त्वय बलानि ।

(लवः प्रणिधानं नाटयति)
चन्द्रकेतुः- यथा निर्दिष्टम् (इति निष्क्रान्तः)

पङ्क्तिः १,६७८:
(विकटं परिक्रामति)
रामः-कोऽप्यस्मिन् क्षत्रियपोतके पौरुषातिरेकः । तथाहि-
दृष्टिस्तृणीकृतजगत्त्रयसत्वसारा धीरोद्धता नमयतीव गतिर्धरित्रीम् ।

कौमारकेऽपि गिरिवद्गुरुतां दधानो वीरो रसः किमयमेत्युत दर्प एव ॥ १९ ॥

लवः-(उपसृत्य) जयत्वार्यः ।
कुशः - नन्वायुष्मन् ! किमियं वार्ता युद्धं युद्धमिति?
लवः- यत्किंचिदेतत् । आर्यस्तु दृप्तं भावमुत्सृज्य विनयेन वर्तताम् ।
कुशः- किमर्थम् ?

लवः- यदत्र देवो रघुनन्दनः स्थितः । स रामायणकथानायको ब्रह्मकोशस्य गोप्ता ।

कुशः- आशंसनीयपुणयदर्शनः स महात्मा । किन्तु स कथमस्माभिरुपगन्तव्यः? इति संप्रधारयामि ।

लवः- यथैव गुरुस्तथोपसदनेन ।

कुशः- कथं हि नामैतत् ?

लवः- अत्युदात्तः सुजनश्चन्द्रकेतुरौर्मिलेयः प्रियवयस्येति सख्येन मामुपतिष्ठते । तेन संबन्धेन धर्मतस्तात एवायं राजर्षिः ।

कुशः- संप्रत्यवचनीयो राजन्येऽपि प्रश्रयः ।
(उभौ परिक्रामतः)
लवः- पश्यत्वेनमार्यो महापुरुषमाकारानुभावगाम्भीर्यसंभाव्यमानविविधलोकोत्तरसुचरितातिशयम् ।

कुशः-(निर्वर्ण्य)
अहो प्रासादिकं रूपमनुभावश्च पावनः ।
स्थाने रामायणकविर्देवीं वाचमवीवृधत् ॥२०॥

(उपसृत्य) तात ! प्राचेतसान्तेवासी कुशोऽभिवादयते ।
रामः- एह्येह्यायुष्मन् !

अमृताध्मातजीमूतस्निग्धसंहननस्य ते ।

परिष्वङ्गाय वात्सल्यादयमुत्कण्ठते जनः ॥ २१ ॥

(परिष्वज्य स्वगतम्) तत्किमित्ययं च दारकः

अङ्गादङ्गात्सृत इव निजः स्नेहजो देहसारः
प्रादुर्भूय स्थित इव बहिश्चेतनाधातुरेकः ।

सान्द्रानन्दक्षुभितदयप्रस्रवेणावसिक्तो
गाढाऽऽश्लेषः स हि मम हिमच्योतमाशंसतीव ॥ २२ ॥

लवः-ललाटन्तपस्तपति धर्मांशुः । तदत्र सालवृक्षच्छायायां मुहूर्त्तमासनपरिग्रहं करोतु तातः ।

रामः- यदभिरुचितं वत्सस्य ।
(सर्वे परिक्रम्य यथोचितमुपविशन्ति ।)
रामः-(स्वगतम्)

अहो ! प्रश्रययोगेऽपि गतिस्थित्यासनादयः ।

साम्रज्यशंसिनो भावाः कुशस्य च लवस्य च ॥ २३ ॥

वपुरवियुतसिद्धा एव लक्ष्मीविलासाः
प्रतिकलकमनीयां कान्तिमुद्भेदयन्ति ।

अमलिनमिव चन्द्रं रश्मयः स्वे यथा वा
विकसितमरविन्दं विन्दवो माकरन्दाः ॥ २४ ॥

भूयिष्ठं च रघुकुलकौमारमनयोः पश्यामि ।

कठोरपारावतकण्ठमेचकं वपुर्वृषस्कन्धसुबन्धुरांसयोः ।

प्रसन्नसिंहस्तिमितं च वीक्षितं ध्वनिश्च माङ्गल्यमृदङ्गमांसलः ॥ २५ ॥

(निपुणं निरुपयन्) अये ! न केवलमस्मद्वंशसंवादिन्याकृतिः-
अपि जनकसुतायास्तच्च तच्चानुरूपं
स्फुटमिह शिशुयुग्मे नैपुणोन्नेयमस्ति ।

ननु पुनरिव तन्मे गोचरीभूतमक्ष्णो-
रभिनवशतपत्त्रश्रीमदास्यं प्रियायाः ॥ २६ ॥
पङ्क्तिः १,७२९:
रहो विस्रब्धाया अपि सहजलज्जाजडदृशः ।
मयैवादौ ज्ञातः करतलपरामर्शकलया
द्विधा गर्भग्रन्थिस्तदनु दिवसैः कैरपि तया ॥ २८ ॥

(रुदित्वा) तत्किमेतौ पृच्छामि केनचिदुपायेन ?

लवः- तात ! किमेतत् ?
बाष्पर्षेण नीतं वो जगन्मङ्गलमाननम् ।

अवश्यायावसिक्तस्य पुण्डरीकस्य चारुताम् ॥ २९ ॥

कुशः- अयि वत्स !
विना सीतादेव्या किमिव हि न दुःखं रघुपतेः ?

प्रियानाशे कृत्यस्नं किल जगदरण्यं हि भवति ।

स च स्नेहस्तावानयमपि वियोगो निरवधिः
किमेवं त्वं पृच्छस्यनधिगतरामायण इव ॥ ३० ॥

रामः-(स्वगतम्) अये, तटस्थ आलापः । कृतं प्रश्नेन । मुग्धदय ! कोऽयमाकस्मिकस्ते संप्लवाधिकारः ? एवं निर्भिन्नदयावेगः शिशुजनेनाप्यनुकम्पितोऽस्मि । भवतु तावदन्तरयामि । (प्रकाशम्) वत्सौ रामायणं रामायणमिति श्रूयते भगवतो वाल्मीकेः सरस्वतीनिष्यन्दः प्रशस्तिरादित्यवंशस्य तत्कौतूहलेन यत्किंचिच्छ्रोतुमिच्छामि ।
पङ्क्तिः १,७४७:
कुशः-
प्रिया तु सीता रामस्य दाराः पितृकृता इति ।
गुणै रूपगुणैश्चापि प्रीतिर्भूयोऽप्यवर्धत ॥ ३१ ॥

तथैव रामः सीतायाः प्राणेभ्योऽपि प्रियोऽभवत् ।

दयं त्वेव जानाति प्रीतियोगं परस्परम् ॥ ३२ ॥

रामः-कष्टमतिदारुणो दयमर्मोद्घातः । हा देवि ! एवं किलैतदासीत् ! अहो निरन्वयविपर्यासविप्रलम्भस्मृतिपर्यवसायिनस्तावकाः संसारवृत्तान्ताः ।
क्व तावानानन्दो निरतिशयविस्रम्भबहुलः ?

क्व वाऽन्योन्यप्रेम ? क्व च नु गहनाः कौतुकरसाः ? ।

सुखे वा दुःखे वा क्व नु खलु तदैक्यं दययो-
स्तथाप्येष प्राणः स्फुरति, न तु पापो विरमति ॥ ३३ ॥

भोः कष्टम् ।

प्रियागुणसहस्राणां क्रमोन्मीलनतत्परः ।

य एव दुःसहः कालस्तमेव स्मारिता वयम् ॥ ३४ ॥

तदा किंचित्किंचित्कृतपदमहोभिः कतिपयै-
स्तदेतद्विस्तारि स्तनमुकुलमासीन्मृगदृशः ।

वयःस्नेहाकूतव्यतिकरघनो यत्र मदन

प्रगल्भव्यापारः स्फुरति दि मुग्धश्च वपुषि ॥ ३५ ॥

लवः- अयं तु चित्रकूटवर्त्मनि मन्दाकिनीविहारे सीतादेवीमुद्दिश्य रघुपतेः श्लोकः-

त्वदर्थमिव विन्यस्तः शिलापऽयमायतः ।
यस्यायमभितः पुष्पैः प्रवृष्ट इव केसरः ॥ ३६ ॥

रामः-(सलज्जास्मितस्नेहकरुणम्) अति हि नाम मुग्धः शिशुजनः विशेषतस्त्वरण्यचरः । हा देवि ! स्मरसि वा तस्य तत्समयविस्रम्भातिप्रङ्गस्य ?
श्रमाम्बुशिशिरीभवत् प्रसृतमन्दमन्दाकिनी-
मरुत्तरलितालकाकुलललाटचन्द्रद्युति ।

अकुङ्कुमकलङ्कितोज्ज्वलकपोलमुत्प्रेक्ष्यते
निराभरणसुन्दरश्रवणपाशमुग्धं मुखम् ॥ ३७ ॥

(स्तम्भित इव स्थित्वा, सकरुणम्) अहो नु खलु भोः !

चिरं ध्यात्वा ध्यात्वा निहित इव निर्माय पुरतः
प्रवासे चाश्वासं न खलु न करोति प्रियजनः ।

जगज्जीर्णारण्यं भवति च कलत्रे ह्युपरते
कुकूलानां राशौ तदनु दयं पच्यत इव ॥ ३८ ॥

(नेपथ्ये)
वसिष्ठो वाल्मीकिर्दशरथमहिष्योऽथ जनकः

सहैवारुन्धत्या शिशुकलहमाकर्ण्य सभयाः ।
जराग्रस्तैर्गात्रैरथ खलु सुदूराश्रमतया
चिरेणागच्छन्ति त्वरितमनसो विश्लथजटाः ॥ ३९ ॥

रामः- कथंभगवत्यरुन्धती वसिष्ठोऽम्बाश्च जनकश्चात्रैव । कथं खलु ते द्रष्टव्याः ? (सकरुणं विलोक्य) तातजनकोऽप्यत्रैवायात इति वज्रेणेव ताडितोऽस्मि मन्दभाग्यः ।
सम्बन्धस्पृहणीयताप्रमुदितैर्ज्येष्ठैर्वसिष्ठादिभि-

र्दृष्ट्वापत्यविवाहमङ्गलविधौ तत्तातयोः सङ्गमम् ।

पश्यन्नीदृशमीदृशः पितृसखं वृत्ते महावैशसे
दीर्ये किं न सहस्रधाऽहमथवा रामेण किं दुष्करम् ॥ ४० ॥

(नेपथ्ये)
भो भोः ! कष्टम् ।

अनुभावमात्रसमवस्थितश्रियं सहसैव वीक्ष्य रघुनाथमीदृशम् ।

प्रथमप्रबुद्धजनकप्रबोधिता विधुराः प्रमोहमुपयान्ति मातराः ॥ ४१ ॥

रामः-
जनकानां रघूणां च यत्कृत्स्नं गोत्रमङ्गलम् ।

तत्राप्यकरुणे पापे वृथा वः करुणा मयि ॥ ४२ ॥

यावत्संभावयामि । (इत्युत्तिष्ठति)
कुशलवौ-इति इतस्तातः ।
(सकरुणं परिक्रम्य निष्क्रान्ताः सर्वे)
इति महाकविभूतिविरचिते उत्तररामचरिते कुमारप्रत्यभिज्ञानं नाम षष्ठोऽङ्कः ॥ ६ ॥

==: सप्तमोऽङ्कः :==
पङ्क्तिः १,८०५:
राज्याश्रमनिवासोऽपि प्राप्तकष्टमुनिव्रतः ।
वाल्मीकिगौरवादार्य इत एवाभिवर्तते ॥ १ ॥

(ततः प्रविशति रामः)

रामः- वत्स लक्ष्मण ! अपि स्थिता रङ्गप्राश्निकाः ?

लक्ष्मणः- अथ किम् ।

रामः- इमौ पुनर्वत्सौ कुमारचन्द्रकेतुसमां प्रतिपत्तिं लम्भयितव्यौ ।

लक्ष्मणः-प्रभुस्नेहप्रत्ययात्तथैव कृतम् । इदं चास्तीर्णं राजासनम् । तदुपविशत्वार्यः ।

रामः-(उपविश्य) प्रस्तूयतां भोः !

सूत्रधारः-(प्रविश्य) भगवान्भूतार्थवादी प्राचेतसः स्थावरजङ्गमं जगदाज्ञापयति-‘यदिदमस्माभिरार्षेण चक्षुषा समुद्वीक्ष्य पावनं वचनामृतं करुणाद्भुतरसं च’ किंचिदुपनिबद्धम् । तत्र काव्यगौरवादवधातव्यम्’ इति ।
रामः- एतदुक्तं भवति । साक्षात्कृतधर्माणो महर्षयः । तेषामृतम्भराणि भगवतां परोरजांसि प्रज्ञानानि न क्वचिद्व्याहन्यन्त इति न हि शङ्कनीयानि ।

(नेपथ्ये)
हा आर्यपुत्र ! कुमारलक्ष्मण ! एकाकिनीमशरणामासन्नप्रसववेदनामरण्ये हताशां श्वापदा अभिलषन्ति । हा ! इदानीं मन्दभाग्या भागीरथ्यामात्मानं निक्षिपामि ।

लक्ष्मणः- कष्टं बतान्यदेव किमपि ।
सूत्रधारः- विश्वम्भराऽऽत्मजा देवी राज्ञा त्यक्ता महावने ।
प्राप्तप्रसवमात्मानं गङ्गादेव्यां विमुञ्चति ॥ २ ॥

(इति निष्क्रान्तः)
प्रस्तावना ।

रामः-(सावेगम्) देवि ! देवि ! लक्ष्मणमवेक्षस्व ।

लक्ष्मणः- आर्य ! नाटकमिदम् ।

रामः-हा देवि ! दण्डकारण्यवासप्रियसखि ! एष ते रामाद्विपाकः ।
लक्ष्मणः- आर्य ! आश्वस्य दृश्यताम् । प्रबन्धस्त्वार्षः ।

रामः- एष सज्जोऽस्मि वज्रमयः ।

(ततः प्रविशति उत्सङ्गितैकैकदारकाभ्यां पृथिवीगङ्गाभ्यामालम्बिता प्रमुग्धा सीता)
रामः- वत्स ! असंविज्ञातपदनिबन्धने तमसीवाहमद्य प्रविशामि, धारय माम् ।

देव्यौ-
समाश्वसिहि कल्याणि ! दिष्ट्या वैदेहि ! वर्धसे ।
पङ्क्तिः १,८३३:
सीता- (आश्वस्य) दिष्ट्या दारकौ प्रसूतास्मि । हा आर्यपुत्र !
लक्ष्मणः-(पादयोर्निपत्य) आर्य ! दिष्ट्या वर्धामहे । कल्याणप्ररोहो रघुवंशः । (विलाक्य) हा ! कथं क्षुभितबाष्पोत्पीडनिर्भरः प्रमुग्ध एवार्यः । (वीजयति)
देव्यौ-वत्से ! समाश्वसिहि ।

सीता-(समाश्वस्य) भगवत्यौ ! के युवाम् ? मुञ्चतम् ।

पृथिवी-इयं ते श्वशुरकुलदेवता भागीरथी ।

सीता- नमस्ते भगवति !

भागीरथी-चारित्रोचितां कल्याणसंपदमधिगच्छ ।

लक्ष्मणः-अनुगृहीताः स्मः ।

भागरथी-इयं ते जननी विश्वम्भरा ।

सीता-हा अम्ब ! ईदृश्यहं त्वया दृष्टा ।

पृथिवी-एहि पुत्रि वत्से सीते !

(उभौ आलिङ्ग्य मूर्च्छतः)
लक्ष्मणः-(सहर्षम्) कथमार्या गङ्गापृथिवीभ्यामभ्युपपन्ना ।

रामः-दिष्ट्या खल्वेतत् । करुणान्तरं तु वर्तते ।

भागीरथी-अत्रभवती विश्वम्भरा व्यथत इति जितमपत्यस्नेहेन । सर्वसाधारणो ह्येष मनसो मूढग्रन्थिरान्तरश्चेतनावतामुपप्लवः संसारतन्तुः । सखि भूतधात्रि ! वत्से वैदेहि ! समाश्वसिहि ।
पृथिवी-(आश्वस्य) देवि ! सीतां प्रसूय कथमाश्वसिमि ?

सोढश्चिरं राक्षसमध्यवासस्त्यागो द्वितीयस्तु सुदुःसहोऽस्याः ।
गङ्गा-
पङ्क्तिः १,८५४:
नाहं, न जनको नाग्निर्न तु वृत्तिर्न संततिः ॥ ५ ॥

सीता- हा आर्यपुत्र ! स्मरसि ?
पृथिवी-आः ! कस्तवार्यपुत्रः ?

सीता-(सलज्जास्रम्) यथाम्बा भणति ।

रामः-अम्ब पृथिवि ! ईदृशोऽस्मि ।

गङ्गा-भगवति वसुन्धरे ! शरीरमसि संसारस्य । तत्किमसंविदानेव जामात्रे कुप्यसि ?

घोरं लोके विततमयशो या च वह्नौ विशुद्धि-
र्लङ्काद्वीपे कथमिव जनस्तामिह श्रद्दधातु ? ।
इक्ष्वाकूणां कुलधनमिदं यत्समारधनीयः
कृत्स्नो लोकस्तदिह विषमे किं स वत्सः करोतु ? ॥ ६ ॥

लक्ष्मणः- अव्याहतान्तःप्रकाशा हि देवताः सत्त्वेषु ।
गङ्गा-तथाप्येष तेऽञ्जलिः ।
पङ्क्तिः १,८६७:
पृथिवी- नित्यं प्रसन्नास्मि तव । किं त्वसावापातदुःसहस्नेहसंवेगः । न पुनर्न जानामि सीतास्नेहं रामभद्रस्य ।
दह्यमानेन मनसा दैवाद्वत्सां विहाय सः ।
लोकोत्तरेण सत्त्वेन प्रजापुण्यैश्च जीवति ॥ ७ ॥

रामः- सकरुणा हि गुरवो गर्भरूपेषु ।
सीता-(रुदती कृताञ्जलिः) नयतु मामात्मनोऽङ्गेषु विलयमम्बा ।
पङ्क्तिः १,८७४:
सीता- किमेताभ्यामनाथाभ्याम् ?
रामः-दय ! वज्रमसि ।
गङ्गा-कथं वत्सौ सनाथावप्यनाथौ ?

सीता-कीदृशं मे अभाग्यायाः सनाथत्वम् ?

देव्यौ-
जगन्मङ्गलमात्मानं कथं त्वमवमन्यसे ? ।
आवयोरपि यत्सङ्गात्पवित्रत्वं प्रकृष्यते ॥ ८ ॥

लक्ष्मणः-आर्य ! ंश्रूयताम् ।
रामः- लोकः शृणोतु ।

(नेपथ्ये कलकलः)
रामः-अद्भुततरं किमपि ।

सीता-किमित्याबद्धकलकलं प्रज्वलितमन्तरिक्षम् ?

देव्यौ-ज्ञातम् ।

कृशाश्वः कौशिको राम इति येषां गुरुक्रमः ।

प्रादुर्भवन्ति तान्येव शस्त्राणि सह जृम्भकैः ॥ ९ ॥

(नेपथ्ये)
देवि ! सीते ! नमस्तेऽस्तु गतिर्नः पुत्रकौ हि ते ।
आलेख्यदर्शनादेव ययोर्दाता रघूद्वहः ॥ १० ॥

सीता- दिष्ट्या अस्त्रदेवता एताः । आर्यपुत्र ! अद्याऽपि ते प्रसादाः परिस्फुरन्ति ।

लक्ष्मणः- उक्तमासीदार्येण ‘सर्वथेदानीं त्वत्प्रसूतिमुपस्थास्यन्ती’ति ।
देव्यौ-
नमो वः परमास्त्रेभ्यो धन्याः स्मो वः परिग्रहात् ।

काले ध्यातैरुपस्थेयं वत्सयोर्भद्रमस्तु वः ॥ ११ ॥

रामः-
क्षुभिताः कामपि दशां कुर्वन्ति मम संप्रति ।

विस्मयानन्दसंदर्भजर्जराः करुणोर्मयः ॥ १२ ॥

देव्यौ-मोदस्व वत्से ! मोदस्व । रामभद्रतुल्यौ ते पुत्रकाविदानीं संवृत्तौ ।
सीता-भगवत्यौ ! क एतयोः क्षत्रियोचितविधिं कारयिष्यति ?
रामः-
एषा वसिष्ठशिष्याणां रघूणां वंशनन्दिनी ।

कष्टं सीतापि सुतयोः संस्कर्तारं न विन्दति ॥ १३ ॥

गङ्गा-भद्रे ! किं तवानया चिन्तया ? एतौ हि वत्सौ स्तन्यत्यागात्परेण भगवतो वाल्मीकेरर्पयिष्यामि ।
वसिष्ठ एव ह्याचार्यो रघुवंशस्य संप्रति ।

स एव चानयोर्ब्रह्मक्षत्रकृत्यं करिष्यति ॥ १४ ॥

यथा वसिष्ठाङ्गिरसावृषिः प्राचेतसस्तथा ।

रघूणां जनकानां च वंशयोरुभयोर्गुरुः ॥ १५ ॥

रामः-सुविचिन्तितं भगवत्या ।

लक्ष्मणः- आर्य ! सत्यं विज्ञापयामि । तैस्तैरुपार्यैरिमौ वत्सौ कुशलवावुत्प्रेक्षे ।

एतौ हि जन्मसिद्धास्त्रौ प्राप्तप्राचेतसावुभौ ।
आर्यतुल्यकृती वीरौ वयसा द्वादशाब्दको ॥ १६ ॥

रामः- वत्सावित्येवाहं परिप्लवमानदयः प्रमुग्धोऽस्मि ।

पृथिवी-एहि वत्से ! पवित्रीकुरु रसातलम् ।

रामः- हा प्रिये ! लोकान्तरं गताऽसि ?
सीता- नयतु मामात्मनोऽङ्गे विलयमम्बा । न सहिष्यामीदृशं जीवलोकस्य परिभवमनुभवितुम् ।

लक्ष्मणः- किमुत्तरं स्यात् ?

पृथिवी-मन्नियोगतः स्तन्यत्यागं यावत्पुत्रयोरवेक्षस्व । परेण तु यथा रोचिष्यते तथा करिष्यामि ।
गङ्गा- एवं तावत् ।
(इति निष्क्रान्ते देव्यौ सीता च)

रामः-कथं प्रतिपन्न एव तावत् । हा चारित्रदेवते ! लोकान्तरे पर्यवसिताऽसि ? (इति मूर्च्छति)

लक्ष्मणः-भगवन् वाल्मीके परित्रायस्व, परित्रायस्व । एष ते काव्यार्थः ?
(नेपथ्ये)
अपनीयतामातोद्यम् । भो जङ्गमस्थावराः प्राणभृतो मर्त्यामर्त्याः । पश्यन्त्विदानीं वाल्मीकिनाभ्यनुज्ञातं पवित्रमाश्चर्यम् ।

लक्ष्मणः-(विलोक्य)

मन्थादिव क्षुभ्यति गाङ्गमम्भो व्याप्तं च देवर्षिभिरन्तरिक्षम् ।

आश्चर्यमार्या सह देवताभ्यां गङ्गामहीभ्यां सलिलादुपैति ॥ १७ ॥

(नेपथ्ये)
अरुन्धति ! जगद्वन्द्ये ! गङ्गापृथ्व्यौ जुषस्व नौ ।

अर्पितेयं तवावाभ्यां सीता पुण्यव्रता वधूः ॥ १८ ॥

लक्ष्मणः- अहो ! आश्चर्यमाश्चर्यम् । आर्ये ! पश्य पश्य । कष्टमद्यापि नोच्छ्वसित्यार्यः ।
(ततः प्रविशत्यरुन्धती सीता च)
अरुन्धती-
त्वरस्व वत्से ! वैदेहि ! मुञ्च शालीनशीलताम् ।
एहि जीवय मे वत्सं सौम्यस्पर्शेन पाणिना ॥ १९ ॥

सीता-(ससम्भ्रमं स्पृशति) समाश्वसितु समाश्वसित्वार्यपुत्रः !
रामः-(समाश्वस्य सानन्दम्) भोः ! किमेतत् ? (दृष्ट्वा सहर्षाद्भुतम्) कथं देवी जानकी ? (सलज्जम्) अये ! कथमम्बाऽरुन्धती ? कथं सर्वे ऋष्यशृङ्गादयोऽस्मद्गुरवः ?
अरुन्धती-वत्स ! एषा भागीरथी रघुकुलदेवता देवी गङ्गा सुप्रसन्ना ।

(नेपथ्ये)
जगत्पते रामभद्र ! स्मर्यतामालेख्यदर्शने मां प्रत्यात्मवचनम् । ‘सा त्वमम्ब ! स्नुषायामरुन्धतीव सीतायां शिवानुध्याना भवे’(पृ० ३९)ति । तदनृणास्मि ।

अरुन्धती-इयं ते श्वश्रूर्भगवती वसुन्धरा ।

(नेपथ्ये)
उक्तमासीदायुष्मता वत्सायाः परित्यागे ‘भगवति वसुन्धरे ! सुश्लाघ्यां दुहितरमवेक्षस्व जानकीम्’ (पृ० ७८) इति । तदधुना कृतवचनाऽस्मि ।
पङ्क्तिः १,९४८:
अरुन्धती- जगत्पते रामभद्र !
नियोजन यथाधर्मं प्रियां त्वं धर्मचारिणीम् ।
हिरण्मय्याः प्रतिकृतेः पुण्यां प्रकृतिमध्वरे ॥ २० ॥

सीता- (स्वगतम्) अपि जानात्यार्यपुत्रः सीताया दुःखं परिमार्ष्टुम् ?

रामः- यथा भगवत्यादिशति ।

लक्ष्मणः- कृतार्थोऽस्मि ।

सीता-प्रत्युज्जीविताऽस्मि ।

लक्ष्मणः- आर्ये ! अयं लक्ष्मणः प्रणमति ।

सीता- वत्स ! ईदृशस्त्वं चिरं जीव ।
अरुन्धती- भगवन् वाल्मीके ! उपनयेदानीं सीतागर्भसंभवौ रामभद्रस्य कुशलवौ । (इति निष्कान्ता)
रामलक्ष्मणौ-दिष्ट्या तथैवैतत् ।

सीता- क्व तौ पुत्रकौ ?

(ततः प्रविशति वल्मीकिः कुशलवौ च)
वल्मीकिः-वत्सौ ! एष वां रघुपतिः पिता । एष लक्ष्मणः कनिष्ठतातः । एषा सीता जननी । एष राजर्षिर्जनको मातामहः ।

सीता-(सहर्षकरुणाद्भुतं विलोक्य) कथं तातः ? कथं जातौ ?

वत्सौ- हा तात ! हा अम्ब ! हा मातामह !

रामलक्ष्मणौ-(सहर्षमालिङ्ग्य) ननु वत्सौ । युवां प्राप्तौ स्थः ।

सीता- एहि जात कुश ! एहि जात लव ! चिरस्य मां परिष्वजेथां लोकान्तरादागतां जननीम् ।

कुशलवौ-(तथा कृत्वा) धन्यौ स्वः ।

सीता-भगवन् ! एषाऽहं प्रणमामि ।

वाल्मीकिः- वत्से ! एवमेव चिरं भूयाः ।

(नेपथ्ये)
उत्खातलवणो मथुरेश्वरः प्राप्तः ।
लक्ष्मणः-सानुषङ्गाणि कल्याणानि ।
रामः-सर्वमिदमनुभवन्नपि न प्रत्येमि । यद्वा प्रकृतिरियमभ्युदयानाम् ।

वाल्मीकिः-रामभद्र ! उच्यतां, किं ते भूयः प्रियमुपहरामि ?
रामः-अतः षरमपि प्रियमस्ति ? किं त्विदं भरतवाक्यमस्तु ।

पाप्मभ्यश्च पुनाति वर्धयति च श्रेयांसि सेयं कथा
मङ्गल्या च मनोहरा च जगतो मातेव गङ्गेव च ।

तामेतां परिभावयन्त्वभिनयैर्विन्यस्तरूपां बुधाः
शब्दब्रह्मविदः कवेः परिणतां प्राज्ञस्य वाणीमिमाम् ॥ २१ ॥

(निष्क्रान्ताः सर्वे)
इति महाकविभवभूतिविरचिते उत्तररामचरिते ‘सम्मेलनं’ नाम सप्तमोऽङ्कः ॥

अथ टीकाकारस्य

ग्रन्थसमाप्तौ मङ्गलाचारणम्

यत्काये विहितं करोमि सततं, पश्चात्करिष्यामि य-
"https://sa.wikibooks.org/wiki/उत्तररामचरितम्" इत्यस्माद् प्रतिप्राप्तम्