"उत्तररामचरितम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४०७:
== द्वितीयोऽङ्कः ==

=== द्वितीयोऽङ्कः

वनदेवता -(अर्घ्यं विकीर्य)

Line ७६५ ⟶ ७६४:
वियोगे दीर्घेऽस्मिञ्झटिति घटनात्स्तम्भितमिव ।
प्रसन्नं सौजन्याद्दयितकरुणैर्गाढकरुणं-
द्रवीभूतं प्रेम्णा तव दयमस्मिन् क्षण इव ॥ १३ ॥

रामः- देवि !

प्रसाद इव मूर्तस्ते स्पर्शः स्नेहार्द्रशीतलः ।

अद्याप्यानन्दयति मां, त्वं पुनः क्वासि नन्दिनि ? ॥ १४ ॥

सीता-एते खल्वगाधमानसदर्शितस्नेहसम्भारा आनन्दनिष्यन्दिनः सुधामया आर्यपुत्रस्योल्लापाः । जाने, प्रत्ययेन निष्कारणपरित्यागशल्यितोऽपि बहुमतो मम जन्मलाभः ।
Line ७९३ ⟶ ७९२:
वासन्ती-(निरूप्य) देव ! मोदस्व विजयिना वधूद्वितीयेन देव्याः पुत्रकेण ।
रामः-विजयतामायुष्मान् ।
सीता-अहो ! ईदृशो मे पुत्रकः संवृत्तः ।

रामः- हा देवि ! दिष्ट्या वर्धसे ।

येनोद्गच्छद्विसकिसलयस्निग्धदन्ताङ्कुरेण
व्याकृष्टस्ते सुतनु ! लवलीपल्लवः कर्णमूलात् ।

सोऽयं पुत्रस्तव मदमुचां वारणानां विजेता
यत्कल्याणं वयसि तरुणे भाजनं तस्य जातः ॥ १५ ॥

सीता- अवियुक्त इदानीं दीर्घायुरनया सौम्यदर्शनया भवतु ।
Line ८०६ ⟶ ८०५:
पुष्यत्पुष्करवासितस्य पयसो गण्डूषसंक्रान्तयः ।
सेकः शीकरिणा करेण विहितः कामं विरामे पुन-
र्यत्स्नेहादनरालनालनलिनीपत्रातपत्रं धृतम् ॥ १६ ॥

सीता- भगवति तमसे ! अयं तावदीदृशो जातः । तौ पुनर्न जानाम्येतावाता कालेन कुशलवौ कीदृशौ संवृताविति ?
Line ८१८ ⟶ ८१७:

अन्तःकरणतत्त्वस्य दम्पत्योः स्नेहसंश्रयात् ।
आनन्दग्रन्थिरेकोऽयमपत्यमिति पठ्यते ॥ १७ ॥

वासन्ती-इतोऽपि देवः पश्यतु-

अनुदिवसमवर्धयत्प्रिया ते यमचिरनिर्गतमुग्धलोलबहम् ।

मणिमुकुट इवोच्छिखः कदम्बे नदति स एष वधूसखः शिखण्डी ॥ १८ ॥

सीता-(सकौतुकस्नेहास्रम्) एष सः ।
रामः- मोदस्व वत्स ! वयमद्य वर्धामहे ।

सीता- एवं भवतु ।

रामः-
भ्रमिषु कृतपुटान्तर्मण्डलावृत्तिचक्षुः प्रचलितचटुलभ्रूताण्डवैर्मण्डयन्त्या ।

करकिसलयतालैर्मुग्धया नर्त्यमानं सुतमिव मनसा त्वां वत्सलेन स्मरामि ।

हन्त ! तिर्यञ्चोऽपि परिचयमनुरुन्धन्ते ।
कतिपयकुसुमोद्गमः कदम्बः प्रियतमया परिवर्धितोऽयमासीत् ।

सीता- (सास्रम्) सुष्ठु प्रत्यभिज्ञातमार्यपुत्रेण ।
रामः-
स्मरति गिरिमयूर एष देव्याः स्वजन इवात्र यतः प्रमोदमेति ॥ २० ॥

वासन्ती- अत्र तावदासनपरिग्रहं करोतु देवः । एतत्तु देवस्याश्रमम् ।
Line ८४१ ⟶ ८४०:
वासन्ती-
नीरन्ध्रबालकदलीवनमध्यवर्ति
कान्तासखस्य शयनीयशिलातलं ते ।

अत्र स्थिता तृणमदाद्वनगोचरेभ्यः
सीता ततो हरिणकैर्न विमुच्यते स्म ॥ २१ ॥

रामः- इदमशक्यं द्रष्टुम् । (इत्यन्यतो रुदन्नुपविशति ।)

सीता- सखि वासन्ति ! किं त्वया कृतमार्यपुत्रस्य मम चैतद्दर्शयन्त्या । हा धिक् हा धिक् ! स एवार्यपुत्रः, तदेव पञ्चवटीवनम्, सैव प्रियसखी वासन्ती, त एव विविधविस्रम्भसाक्षिणो गोदवरीकाननोद्देशाः, त एव जातनिर्विशेषा मृगपक्षिणः पादपाश्च । मम पुनर्मन्दभाग्याया दृश्यमानमपि सर्वमेवैतन्नास्ति । ईदृशो जीवलोकस्य परिणामः संवृत्तः ।
वासन्ती-सखि ! सीते ! कथं न पश्यसि रामभद्रस्यावस्थाम् ।

नवकुलयस्निग्धैरङ्गैर्ददन्नयनोत्सवं

सततमपि नः स्वेच्छादृश्यो नवो नव एव सः ।
विकलकरणः पाण्डुच्छायः शुचा परिदुर्बलः
Line ८६५ ⟶ ८६४:
वासन्ती-
ददतु तरवः पुष्पैरर्घ्यं फलैश्च मधुश्च्युतः
स्फुटितकमलामोदप्रायाः प्रवान्तु वनानिलाः ।

कलमविरलं रज्यत्कण्ठाः क्वणन्तु शकुन्तयः
पुनरिदमयं देवो रामः स्वयं वनमागतः ॥ २४ ॥

रामः-एहि सखि वासन्ति ! नन्वितः स्थीयताम् ।
Line ८७३ ⟶ ८७२:
रामः- (अनाकर्णनमभिनीय)
करकमलवितीर्णैरम्बुनीवारशष्पै-
स्तरुशकुनिकुरङ्गान्मैथिली यानपुष्यत् ।

भवति मम विकारस्तेषु दृष्टेषु कोऽपि
द्रव इव दयस्य प्रस्रवोद्भेदयोग्यः ॥ २५ ॥

वासन्ती-महाराज ! ननु पृच्छामि कुशलं कुमारलक्ष्मणस्येति ?
Line ८८५ ⟶ ८८४:
त्वं कौमुदी नयनयोरमृतं त्वमङ्गे ।
इत्यादिभिः प्रियशतैरनुरुध्य मुग्धां
तामेव शान्तमथवा किमतः परेण ? ॥ २६ ॥

(इति मुह्यति)
तमसा-स्थाने वाक्यनिवृत्तिर्मोहश्च ।
रामः- सखि ! समाश्वसिहि समाश्वसिहि ।

वासन्ती- (समाश्वस्य ।) तत्किमिदमकार्यमनुष्ठितं देवेन ?

सीता- सखि वासन्ति ! विरम विरम ।

रामः- लोको न मृष्यतीति ।

वासन्ती-कस्य हेतोः ?

रामः- स एव जानाति किमपि ।

तमसा-चिरादुपालम्भः ।

वासन्तीति-
अयि कठोर ! यशः किल ते प्रियं, किमयशो ननु घोरमतः परम् ?
किमभवद्विपिने हरिणीदृशः ? कथय नाथ ! कथं बत ! मन्यसे ? ॥ २७ ॥

सीता- सखि वासन्ति ! त्वमेव दारुणा कठोरा च । यैवं प्रलपन्तं प्रलापयसि ।
Line ९०३ ⟶ ९०२:
रामः- सखि ! किमत्र मन्तव्यम् ?
त्रस्तैकहायनकुरङ्गविलोलदृष्टेस्तस्याः परिस्फुरितगर्भभरालसायाः ।
ज्योत्स्नामयीव मृदुबालमृणालकल्पा क्रव्याद्भिरङ्गलतिका नियतं विलुप्ता ॥

सीता- आर्यपुत्र ! ध्रिये एषा ध्रिये ।

रामः- हा प्रिये जानकि ! क्वासि ?
सीता- हा धिक् हा धिक् ! अन्य इवार्यपुत्रः प्रमुक्तकण्ठं प्ररुदितो भवति ।
तमसा- वत्से ! साम्प्रतिकमेवैतत् । कर्त्तव्यानि खलु दुःखितैर्दुःखनिर्धारणानि ।
पूरोत्पीडे तटाकस्य परीवाहः प्रतिक्रिया ।

शोकक्षोभे च दयं प्रलापैरेव धार्यते ॥ २९ ॥

विशेषतो रामभद्रस्य बहुप्रकारकष्टो जीवलोकः ।

इदं विश्वं पाल्यं विधिवदभियुक्तेन मनसा
प्रियशोको जीवं कुसुममिव धर्मो ग्लपयति ।

स्वयं कृत्वा त्यागं विलपनविनोदोऽप्यसुलभ-
स्तदद्याप्युच्छ्‌वासो भवति ननु लाभो हि रुदितम् ॥ ३० ॥

रामः- कष्टं भोः ! कष्टम् ।
दलति दयं शोकोद्वेगाद् द्विधा तु न भिद्यते
वहति विकलः कायो मोहं न मुञ्चति चेतनाम् ।

ज्वलति तनूमन्तर्दाहः करोति न भस्मसा-
त्प्रहरति विधिर्मर्मच्छेदी न कृन्तति जीवितम् ॥ ३१ ॥

हे भगवन्तः पौरजानपदाः !
न किल भवतां देव्याः स्थानं गृहेऽभिमतं तत-
स्तृणमिव वने शून्ये त्यक्ता न चाप्यनुशोचिता ।

चिरपरिचितास्ते ते भावास्तथा द्रवयन्ति मा-
मिदमशरणैरद्यास्माभिः प्रसीदत रुद्यते ॥ ३२ ॥

वासन्ती-(स्वगतम्) अतिगभीरमापूरणं मन्युभारस्य । (प्रकाशम्) देव ! अतिक्रान्ते धैर्यमवलम्ब्यताम् ।
रामः-किमुच्यते धैर्यमिति ?
देव्याः शून्यस्य जगतो द्वादशः परिवत्सरः ।

प्रणष्टमिव नामापि न च रामो न जीवति ॥ ३३ ॥

सीता-अपहरामि च मोहितेव एतैरार्यपुत्रस्य प्रियवचनैः ।
तमसा-एवमेव वत्से !
नैताः प्रियतमा वाचः स्नेहार्द्राः शोकदारुणाः ।
एतास्ता मधुनो धाराः श्च्योतन्ति सविषास्त्वयि ॥ ३८ ॥

रामः- अयि वासन्ति ! मया खलु-
यथा तिरश्चीनमलातशल्यं प्रत्युप्तमन्तः सविषश्च दन्तः ।

तथैव तीव्रो दि शोकशङ्कुर्मर्माणि कृन्तन्नपि किं न सोढः ? ॥ ३५ ॥

सीता-एवमपि मन्दभागिन्यहं या पुनरायासकारिणी आर्यपुत्रस्य ।
Line ९४४ ⟶ ९४३:
यो यो यत्नः कथमपि समाधीयते तं तमन्तः ।
हित्वा भित्त्वा प्रसरति बलात्कोऽपि चेतोविकार-
स्तोयस्येवाप्रतिहतरयः सैकतं सेतुमोघः ॥ ३६ ॥

सीता-आर्यपुत्रस्यैतेन दुर्वारदारुणारम्भेण दुःखसंयोगेन परिमुषितनिजदुःखं प्रमुक्तजीवितं मे दयं स्फुटति ।
वासन्ती-(स्वगतम्) कष्टमत्यासक्तो देवः । तदाक्षिपामि तावत् । (प्रकाशम्) चिरपरिचितानिदानीं जनस्थानभागानवलोकनेन मानयतु देवः ।
रामः-एवमस्तु (इत्युत्थाय परिक्रामति ।)
सीता-संदीपन एव दुःखस्य प्रियसख्या विनोदनोपाय इति तर्कयामि ।
वासन्ती-देव देव !

अस्मिन्नेव लतागृहे त्वमभवस्तन्मार्गदत्तेक्षणः
सा हंसैः कृतकौतुका चिरमभूद्गोदावरीसैकते ।

आयान्त्या परिदुर्मनायितमिव त्वां वीक्ष्य बद्धस्तया
कातर्यादरविन्दकुड्मलनिभो मुग्धः प्रणामाञ्जलिः ॥ ३७ ॥

सीता-दारुणासि वासन्ति ! दारुणासि । या एतैदयमर्मोद्घाटितशल्यसंघनैः पुनः पुनरपि मां मन्दभागिनीमार्यपुत्रं च स्मरयसि ।
रामः-अयि चणिड जानकि ! इतस्ततो दृश्यसे, नानुकम्पसे ।
हा हा देवि ! स्फुटति दयं, ध्वंसते देहबन्धः,
शून्यं मन्ये जगदविरलज्वालमन्तर्ज्वलामि ।

सीदन्नन्धे तमसि विधुरो मज्जतीवान्तरात्मा
विष्वङ्मोहः स्थगयति कथं मन्दभाग्यः करोमि ? ॥ ३८ ॥

(इति मूर्च्छति ।)

Line १,०९० ⟶ १,०८९:
दण्डायनः- अथ किम् ?
सौधातकिः- मया पुनर्ज्ञातं कोऽपि व्याघ्र इव एष इति ।
दण्डायनः-आः, किमुक्तं भवति ?

सौधत्तकिः-येन परापतितेनैव सा वराकी कपिला कल्याणी बलात्कृत्य मडमडायिता ।
दण्डायनः-समांसो मधुपर्क इत्याम्नायं बहु मन्यमानाः श्रोत्रियायाभ्यागताय वत्सतरीं महोक्षं वा पचन्ति गृहमेधिनः । तं हि धर्मं धर्मसूत्रकाराः समामनन्ति ।
सौधातकिः- भो ! निगृहीतोऽसि ।

दण्डायनः-कथमिव ?

सौधातकिः- येनागतेषु वसिष्ठमिश्रेषु वत्सतरी विशसिता । अद्यैव प्रत्यागतस्य राजर्षेर्जनकस्य भगवता वालमीकिना दधिमधुभ्यामेव निर्वर्तितो मधुपर्कः । वत्सतरी पुनर्विसर्जिता ।
दण्डायनः- अनिवृत्तमांसानामेवं कल्पं व्याहरन्ति केचित् । निवृत्तमांसस्तु तत्रभवान् जनकः ।
Line १,१०१ ⟶ १,१००:
सौधातकिः-ततः किमित्यागतः ?
दण्डायनः-संप्रति च प्रियसुदं भगवन्तं प्राचेतसं द्रष्टुम् ।
सौधतकिः- अप्यद्य सम्बन्धिनीभिः रामं निर्वृत्तं दर्शनमस्य न वेति ?

दण्डायनः- संप्रत्येव भगवता वसिष्ठेन देव्याः कौसल्यायाः सकाशं भगवत्यरुन्धती प्रहिता । यथा ‘स्वयमुपेत्य स्नेहादयं द्रष्टव्य’ इति ।
सौधातकिः-यथैते स्थविराः परस्परमेव मिलिताः, तथावामपि वटुभिः सह मिलित्वाऽनध्यायमहोत्सवं खेलन्तो मानयावः अथ कुत्र स जनकः ?
Line १,१११ ⟶ १,११०:

(ततः प्रविशति जनकः)
जनकः-

अपत्ये यत्तादृग्दुरितमभवत्तेन महता
विषक्तस्तीव्रेण व्रणितदयेन व्यथयता ।

पटुर्धारावाही नव इव चिरेणापि हि न मे
निकृन्तन्मर्माणि क्रकच इव मन्युर्विरमति ॥३॥

Line १,११९ ⟶ १,११८:
कष्टम्! एवं नाम जरया दुःखेन च दुरासदेन भूयः पराकसान्तपनप्रभृतिभिस्तपोभिः शोषितान्तःशरीरधातोरवष्टम्भ एव! महानद्यापि मम दग्धदेहो न पतति । ‘अन्धतामिस्रा ह्यसूर्या नाम ते लोकाः प्रेत्य तेभ्यः प्रतिविधीयन्ते, य आत्मघातिन इत्येवमृषयो मन्यन्ते । अनेकसंवत्सरातिक्रमेऽपि प्रतिक्षणपरिभावनास्पष्टनिर्भासः प्रत्यग्र इव न मे दारुणो दुःखसंवेगः प्रशाम्यति । अयि मातर्देवयजनसंभवे ! ईदृशस्ते निर्माणभागः परिणतः ! येन लज्जया स्वच्छन्दमप्याक्रन्दितुं न शक्यते । हा पुत्रि !
अनियतरुदितस्मितं विराजत्कतिपयकोमलदन्तकुड्मलाग्रम् ।
वदनकमलकं शिशोः स्मरामि स्खलदसमञ्जसमञ्जुजल्पितं ते ॥४॥

भगवति वसुन्धरे ! सत्यमतिदृढासि ।

त्वं वह्निर्मुनयो वसिष्ठगृहिणी, गङ्गा च यस्या विदु-
र्माहात्म्यं यदि वा रघोः कुलगुरुर्देवः स्वयं भास्करः ।

विद्यां वागिव यामसूत भवती, शुद्धिं गतायाः पुन-
स्तस्यास्त्वद्दुहितुस्तथा विशसनं किं दारुणे मृष्यथाः ? ॥६॥

(नेपथ्ये)
इत इतो भगवती महादेव्यौ ।

जनकः - अये ? गृष्टिनोपदिश्यमानमार्गा भगवत्यरुन्धती (उत्थाय) कां पुनर्महादेवीत्याह ? (निरूप्य) हा हा ! कथमियं महाराजस्य दशरथस्य धर्मदाराः प्रियशखी मे कौसल्या ? क एतां प्रत्येति सैवेयमिति नाम ?
असीदियं दशरथस्य गृहे यथा श्रीः
श्रीरेव वा किमुपमानपदेन सैषा ।
कष्टं बतान्यदिव दैववशेन जाता
दुःखत्मकं किमपि भूतमहो विकारः ॥६॥

य एव मे जनः पूर्वमासीन्मूर्तो महोत्सवः ।
क्षते क्षारमिवासह्यं जातं तस्यैव दर्शनम् ॥७॥

(ततः प्रविशत्यरुन्धती कौसल्या कञ्चुकी च ।)
अरुन्धती-ननु ब्रवीमि ‘द्रष्टव्यः स्वयमुपेत्यैव वैदेह ’ इत्येवं वः कुलगुरोरादेशः । अत एव चाहं प्रेषिता । तत्कोऽयं पदे पदे महानध्यवसायः ?
कञ्चुकी - देवि ! संस्तभ्यात्मानमनुरूध्यस्व भगवतो वसिष्ठस्यादेशमिति विज्ञापयामि ।
कौसल्या - ईदृशे काले मिथिलाधिपो मया द्रष्टव्य इति सममेव सर्वदुःखान्यवतरन्ति । तस्मान्न शक्नोम्युद्वर्तमानमूलबन्धनं दयं पर्यवस्थापयितुम् ।
अरुन्धती - अत्र कः सन्देहः ?

सन्तानवाहीन्यपि मानुषाणां दुःखानि सम्बन्धिवियोगजानि ।
दृष्टे जने प्रेयसि दुःसहानि स्रोतःसहस्रैरिव संप्लवन्ते ॥८॥

कौसल्या-कथं नु खलु वत्साया मे वध्वा वनगतायास्तस्याः पितूराजर्षेर्मुखं दर्शयामः ?

अरुन्धती-
एष वः श्लाघ्यसम्बन्धी जनकानां कुलोद्वहः ।
याज्ञवल्क्यो मुनिर्यस्मै ब्रह्मपारायणं जगौ ॥९॥

कौसल्या - एष स महाराजस्य दयनिर्विशेषो वत्साया मे वध्वाः पिता विदेहराजः सीरध्वजः । स्मारितास्मि अनिर्वेदरमणीयान्दिवसान् । हा देव ! सर्वें तन्नास्ति ।
Line १,१५२ ⟶ १,१५१:

यया पूतंमन्यो निधिरपि पवित्रस्य महसः
पतिस्ते पूर्वेषामपि खलु गुरूणां गुरूतमः ।

त्रिलोकीमङ्गल्यामवनितललीनेन शिरसा
जगद्वन्द्यां देवीमुषसमिव वन्दे भगवतीम् ॥१०॥

अरून्धती - अक्षरं ते ज्योतिः प्रकाशताम् । स त्वां पुनातु देवः परो रजसां य एष तपति ।
जनकः- आर्य गृष्टे ! अप्यनामयमस्याः प्रजापालकस्य मातु ?
कञ्चुकी - (स्वागतम्) निरवशेषमतिनिष्ठुरमुपालब्धाः स्मः । (प्रकाशम्) राजर्षे ! अनेनैव मन्युना चिरपरित्यक्तरामभद्रदर्शनां नार्हसि दुःखयितुमतिदुःखितां देवीम् । सामभद्रस्यापि दैवदुर्योगः कोऽपि । यत्किल समन्ततः प्रवृत्तबीभत्सकिंवदन्तीकाः पौराः । न चाग्निशुद्धिमनल्पकाः प्रतियन्तीति दारुणमनुष्ठितं देवेन ।

जनकः- (सरोषम्) आः ! कोऽयमग्निर्नामास्मत्प्रसूतिपरिशोधने ? कष्टम् ! एवंवादिना जनेन रामभद्रपरिभूता अपि पुनः परिभूयामहे ।

अरून्धती- (निःश्वस्य) एवमेतत् । अग्निरिति वत्सां प्रति लघून्यक्षराणि । सीतेत्येव पर्याप्तम् । हा वत्से !

शिशुर्वा शिष्या वा यदसि मम तत्तिष्ठतु तथा
विशुद्धेरुत्कर्षस्त्वयि तु मम भYंतं द्रढयति ।

शिशुत्वं स्त्रैणं वा भवतु, ननु वन्द्यासि जगतां
गुणाः पूजास्थानं गुणिषु, न च लिङ्गं, न च वयः ॥११॥

कौसल्या- अहो ! समुन्मूलयन्तीव वेदनाः । (इति मूर्च्छति)
जनकः- हन्त ! किमेतत् ?

अरुन्धती- राजर्षे ! किमन्यत् ?

स राजा, तत्सौख्यं, स च शिशुजनस्ते च दिवसाः
स्मृतावाविर्भूतं त्वयि सुदि दृष्टे तदखिलम् ।

विपाके घोरेऽस्मिन्न खलु न विमूढा तव सखी
पुरन्ध्रीणां चित्तं कुसुमसुकुमारं हि भवति ॥१२॥

Line १,२१७ ⟶ १,२१६:
वटुपरिषदं पुण्यश्रीकः श्रियैवः सभाजयन् ।
पुनरपि शिशुर्भूतो वत्सः स मे रघुनन्दनो
झटिति कुरुते दृष्टः कोऽयं दृशोरमृताञ्जनम् ? ॥१९॥

कञ्चुकी- नूनं क्षत्त्रियब्रह्मचारी दारकोऽयमिति मन्ये ।
जनकः- एवमेतत् । अस्य हि -
चूडाचुम्बितकङ्कपत्रमभितस्तूणीद्वयं पृष्ठतो
भस्मस्तोकपवित्रलाञ्छनमुरो धत्ते त्वचं रौरवीम् ।

मौर्व्या मेखलया नियन्त्रितमधो वासश्चमाञ्जिष्ठकं
पाणौ कार्मुकमक्षसूत्रवसयं दण्डोऽपरः पैप्पलः ॥२०॥

भगवत्यरुन्धति ! किमित्युत्प्रेक्षसे कुतस्त्योऽयम् ? इति ।
अरुन्धती- अद्यैव वयमागताः ।
Line १,२३४ ⟶ १,२३३:
जनकः- (चिरं निर्वर्ण्य ।) भो ! किम्प्येतत् ।
महिम्नामेतस्मिन्विनयशिशिरो मौग्ध्यमसृणो
विदिग्धैर्निर्ग्राह्यो न पुरविदग्धैरतिशयः ।

मनो मे संमोहस्थिरमपि हरत्येष बलवा-
नयोधातुं यद्वत्परिलघुरयस्कान्तशकलः ॥२१॥

लवः-(प्रविश्य स्वगतम्) अविज्ञातवयःक्रमौचित्यात्पूज्यानपि सतः कथमभिवादयिष्ये ? (विचिन्त्य) अयं पुनरविरुद्धप्रकार इति वृद्धेभ्यः श्रूयते । (सविनयमुपसृत्य) एष वो लवस्य शिरसा प्रणामपर्यायः ।
Line १,५०१ ⟶ १,५००:
तथैवास्मिन्दृष्टिर्मम, कलहकामः पुनरयम् ।
रणत्कारक्रूरक्वणितगुणगुञ्जद्गुरुधनु-
र्धृतप्रेमा बाहुर्विकचविकरालव्रणमुखः ॥ २६ ॥

चन्द्रकेतुः-(अवतरणं निरूपयन्) आर्य ! अयमसावैक्ष्वाकश्चन्द्रकेतुरभिवादयते ।
सुमन्त्रः-अहितस्यैव पुनः पराभवाय महानादिवराहः कल्पताम् । अपि च
देवस्त्वां सविता धिनोतु समरे गोत्रस्य यस्ते पति-
स्त्वां मैत्रावरुणोऽभिनन्दतु गुरुर्यस्ते गुरूणामपि ।

ऐन्द्रावैष्णमाग्निमारुतमथो सौपर्णमोजोऽस्तु ते
देयादेव च रामलक्ष्मणधनुर्ज्याघोषमन्त्रो जयम् ॥ २७ ॥

लवः-अतीव नाम शोभते रथस्थ एव । कृतं कृतमत्यादरेण ।

चन्द्रकेतुः- तर्हि महाभागोऽप्यन्यं रथमलङ्करोतु ।
लवः-आर्य ! प्रत्यारोपय रथोपरि राजपुत्रम् ।
Line १,५१८ ⟶ १,५१७:
लवः-अन्यच्च चन्द्रकेतो ! सुजनः स राजर्षिः श्रूयते । (सलज्जमिव)
यदि च वयमप्येवंप्रायाः क्रतुद्विषतामरौ
क इव न गुणैस्तं राजानं जनो बहु मन्यते ।

तदपि खलु मे स व्याहारस्तुरङ्गमरक्षिणां
विकृतिमखिलक्षत्राक्षेपप्रचण्डतयाऽकरोत् ॥ २८ ॥

चन्द्रकेतुः-किन्नु भवतस्तातप्रतापोत्कर्षेऽप्यमर्षः ?
लवः-अस्त्विहामर्षो मा भूद्वा । अन्यदेतत्पृच्छामि । दान्तं हि राजानं राघवं शृणुमः । स किल नात्मना दृप्यति, नाप्यस्य प्रजा वा दृप्ता जायन्ते । तत्किं मनुष्यास्तस्य राक्षसीं वाचमुदीरयन्ति ?
ऋषयो राक्षसीमाहुर्वाचमुन्मत्तदृप्तयोः ।
सा योनिः सर्वेवैराणां सा हि लोकस्य निष्कृतिः ॥ २९ ॥

इति ह स्म तां निन्दन्ति इतरामभिष्टुवन्ति ।
कामं दुग्धे, विप्रकर्षत्यलक्ष्मीं, कीर्तिं सूते , दुदो निष्प्रलाति ।
शुद्धां शान्तां मातरं मङ्गलानां धेनुं धीराः सूनृतां वाचमाहुः ॥ ३० ॥

सुमन्त्रः-परिभूतोऽयं बत कुमारः प्राचेतसान्तेवासी । वदत्ययमभ्युपपन्नामर्षेण संस्कारेण ।
लवः-यत्पुनश्चन्द्रकेतो ! वदसि ‘किन्नु भवतस्तातप्रतापोत्कषेऽप्यमर्ष’ इति, तत्पृच्छामि ‘किं व्यवस्थितविषयः क्षात्रधर्म’ ? इति ।
सुमन्त्रः-नैव खलु जानासि देवमैक्ष्वाकम् ! तद्विरमातिप्रसङ्गात् ।
सैनिकानां प्रमाथेन सत्यमोजायितं त्वया ।

जामदग्न्यस्य दमने न हि निर्बन्धमर्हसि ॥ ३१ ॥

लवः-(सहासम्) आर्य ! जामदग्नस्य दमनः स राजेति कोऽयमुच्चैर्वादः ?
सिद्धं ह्येतद्वाचि वीर्यं द्विजानां बाह्वोर्वीर्यं यत्तु तत्क्षत्रियाणाम् ।
शस्त्रग्राही ब्राह्मणो जामदग्न्यस्तस्मिन्दान्ते का स्तुतिस्तस्य राज्ञः ? ॥ ३२ ॥

चन्द्रकेतुः-(सोन्माथमिव) आर्य सुमन्त्र ! कृतमुत्तरोत्तरेण ।
कोऽप्येष संप्रति नवः पुरुषावतारो वीरो न यस्य भगवान्भृगुनन्दनोऽपि ।
पर्याप्तसप्तभुवनाभयदक्षिणानि पुण्यानि तात चरितान्यपि यो न वेद ॥ ३३ ॥

लवः- को हि रघुपतेश्चरितं महिमानं च न जानाति ? यदि नाम किंचिदस्ति वक्तव्यम् । अथवा शान्तम् ।
Line १,६४३ ⟶ १,६४२:
स तस्य स्वो भावः प्रकृतिनियतत्वादकृतकः ।
मयूखैरश्रान्तं तपति यदि देवो दिनकरः
किमाग्नेयो ग्रावा निकृत इव तेजांसि वमति ? ॥१४॥

चन्द्रकेतुः- अमर्षोप्यस्यैव शोभते महावीरस्य । पश्यन्तु हि तातपादाः ! प्रियवयस्यनियुक्तेन जृम्भकास्त्रेण विक्रम्य स्तम्भितानि सर्वसैन्यानि ।
रामः-(सविस्मयखेदं निर्वर्ण्य स्वगतम्) अहो ! वत्सस्य ईदृशः प्रभावः ? (प्रकाशम्) वत्स ! संह्रियतामस्त्रम् । त्वमपि चन्द्रकेतो ! निर्व्यापारतया विलक्षाणि सान्त्वय बलानि ।
(लवः प्रणिधानं नाटयति)
चन्द्रकेतुः- यथा निर्दिष्टम् (इति निष्क्रान्तः)

लवः-तात ! प्रशान्तमस्त्रम् !

रामः-सरहस्यप्रयोगसंहारजृम्भकास्त्रणि दिष्ट्या वत्सस्यापिसंपद्यन्ते ।

ब्रह्मादयो ब्रह्महिताय तप्त्वा परःसहस्रंशरदस्तपांसि ।

एतान्यदर्शन्गुरवः पुराणाः स्वान्येव तेजांसि तपोमयानि ॥१५॥

अथैतामस्त्रमन्त्रोपनिषदं भगवान्कृशाश्वः परःसहस्राधिकसंवत्सरपरिचर्यानिरतायान्तेवासिने कौशिकाय प्रोवाच । स भगवान् मह्यमिति गुरुपूर्वानुक्रमः । कुमारस्य कुतः संप्रदायः ? इति पृच्छामि ।
लवः- स्वतःप्रकाशान्यावयोरस्त्राणि ।
रामः- (विचिन्त्य) किं न संभाव्यते ? प्रकृष्टपुण्योपादानकः कोऽपि महिमा स्यात् । द्विवचनं तु कथम् ?

लवः- भ्रातरावावां यमौ !
रामः- स तर्हि द्वितीयः क्व ?
(नेपथ्ये)
दण्डायन !

आयुष्मतः किल लवस्य नरेन्द्रसैन्यै-
रायोधनं ननु किमात्थ ? सखे ! तथेति ।

अद्यास्तमेतु भुवनेषु च राजशब्दः
क्षत्रस्य शस्त्रशिखिनः शममद्य यान्तु ॥१६॥

रामः-
अथ कोऽयमिन्द्रमणिमेचकच्छविर्ध्वनिनैव बद्धपुलकं करोति माम् ।
नवनीलनीरधरधीरगर्जितक्षणबद्धकुड्मलकदम्बडम्बरम् ॥१७॥

लवः- अयमसौ मम ज्यायानार्यः कुशो नाम भरताश्रमात्प्रतिनिवृत्तः ।
Line १,६७४ ⟶ १,६७३:
कुशः- (सक्रोधं कृतधैर्यं धनुरास्फाल्य)
दत्तेन्द्राभयदक्षिणैर्भगवतो वैवस्वतादा मनो-
र्दृप्तानां दमनाय दीपितनिजक्षत्रप्रतापाग्निभिः ।

आदित्यैर्यदि विग्रहो नृपतिभिर्धन्यं ममैतत्ततो
दीप्तास्त्रस्फुरदुग्रदीधितिशिखानीराजितज्यं धनुः ॥१८॥

(विकटं परिक्रामति)
रामः-कोऽप्यस्मिन् क्षत्रियपोतके पौरुषातिरेकः । तथाहि-
"https://sa.wikibooks.org/wiki/उत्तररामचरितम्" इत्यस्माद् प्रतिप्राप्तम्