"उत्तररामचरितम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:

==: प्रथमोऽङ्कः :==

'''स्थूलाक्षरैः युक्तः भागः'''

इदं कविभ्यः पूर्वेभ्यो नमोवाकं प्रशास्महे ।
Line २७ ⟶ २६:
सुत्रधारः - मारिष !

सर्वथा व्यवहर्तव्यं कुतो ह्यवचनीयता ।

यथा स्त्रीणां तथा वाचां साधुत्वे दुर्जनो जनः ॥ ५॥

नटः - अतिदुर्जन इति वक्तव्यम् ।
Line १२४ ⟶ १२३:

सम्बन्धिनो वसिष्ठादीनेष तातस्तवार्चति ।
गौतमश्च शतानन्दो जनकानां पुरोहितः ॥ १६ ॥

रामः - सुश्लिष्टमेतत् ।

जनकानां रघूणां च सम्बन्धः कस्य न प्रियः ।

यत्र दाता ग्रहीता च स्वयं कुशिकनन्दनः ॥ १७ ॥

सीता - एते खलु तत्कालकृतगोदानमङ्गलश्चत्वारो भ्रातरो विवाहदीक्षिता यूयम् । अहो ! जानामि तस्मिन्नेव काले वर्ते ।
रामः -
समयः स वर्तत इवैष यत्र मां समनन्दयत्सुमुखि ! गौतमार्पितः ।

अयमागृहीतकमनीयकङ्कणस्तव मूर्तिमानिव महोत्सवः करः ॥ १८ ॥

लक्ष्मणः - इयमार्या । इयमप्यार्या माण्डवी । इयमपि वधूः श्रुतकीर्तिः ।
Line १४७ ⟶ १४६:
रामः- स्मरामि ।

जीवत्सु तातपादेषु नूतने दारसंग्रहे ।

मातृभिश्चिन्त्यमानानां ते हि नो दिवसा गताः ॥ १९ ॥

इयमपि तदा जानकी ।
Line १५५ ⟶ १५४:
र्दशनकुसुमैर्मुग्धालोकं शिशुर्दधती मुखम् ।
ललिततलितैर्ज्योत्स्नाप्रायैरकृत्रिमविभ्रमै-
रकृतमधुरैरम्बानां मे कुतूहलमङ्गकैः ॥ २० ॥

लक्ष्मणः - एष मन्थरावृत्तान्तः ।
Line १६१ ⟶ १६०:

इङ्गुदीपादपः सोऽयं शृङ्गबेरपुरे पुरा ।
निषादपतिना यत्र स्निग्धेनासीत्समागमः ॥ २१ ॥

लक्ष्मणः - (विहस्य । स्वगतम् ।) अये, मध्यमाम्बावृत्तान्तोऽन्तरित आर्येण ।
सीता - अह्मो, एसो जडासंजमणवुत्तन्तो । (अहो, एष जटासंयमनवृत्तान्तः । )
लक्ष्मणः -
पुत्रसंक्रान्तलक्ष्मीकैर्यद् व्रुद्धेक्ष्‌वाकुभिर्धृतम् ।

धृतं बाल्ये तदार्येण पुण्यमारण्यकव्रतम् ॥२२॥

सीता ः एषा प्रसन्नपुण्यसलिला भगवती भागीरथी । )
Line १८४ ⟶ १८३:

अलसललितमुग्धान्यध्वसम्पातखेदा-
दशिथिलपरिम्भैर्दत्तसंवाहनानि ।

परिमृदितमृणालीदुर्बलान्यङ्गकानि
त्वमुरसि मम कृत्वा यत्र निद्रामवाप्ता ॥२४॥

लक्ष्मणः - एष विन्ध्याटवीमुखे विराधसंवादः ।
Line १९२ ⟶ १९१:
रामः -
एतानि तानि गिरिनिर्झरिणीतटेषु
वैखानसाश्रिततरूणि तपोवनानि ।

येष्वातिथेयपरमा यमिनो भजन्ते
नीवारमुष्टिपचना गृहिणो गृहाणि ॥२५॥

लक्ष्मणः - अयमविरलानोकहनिवहनिरन्तरस्निग्धनीलपरिसरारण्यपरिणद्धगोदावरीमुखकन्दरः संततमभिष्यन्दमानमेघमेदुरितनीलिमा जनस्थानमध्यगो गिरिः प्रस्रवणो नाम ।
Line २०२ ⟶ २०१:

स्मरसि सरसनीरां तय्र गोदावरीं वा
स्मरसि च तदुपान्तेष्वेवयोर्वर्तनानि ॥२६॥

किं च ।
किमपि किमपि मन्दं मन्दमासक्तियोगा-
दविरलितकपोलं जल्पतोरक्रमेण ।

अशिथिलपरिरम्भव्यापृतैकैकदोष्णो-
रविदितगतयामा रात्रिरेव व्यरंसीत् ॥२७॥

लक्ष्मणः - एष पञ्चवट्यां शूर्पणखाविवादः ।
Line २१९ ⟶ २१८:
तथा वृत्तं पापैर्व्यथयति यथा क्षालितमपि ।
जनस्थाने शून्ये विकलकरणैरार्यचरितै-
रपि ग्रावा रोदित्यपि दलति वज्रस्य दयम् ॥२८॥

सीता - (सास्रमात्मगतम् ।) अहो, दिनकरकुलानन्दन एवमपि मम कारणात् क्लान्त आसीत् ।
Line २३४ ⟶ २३३:
तीव्रोऽपि प्रतिकृतिवाञ्छया विसोढः ।
दुःखाग्निर्मनसि पुनर्विपच्यमानो
न्मर्मव्रण इव वेदनां तनोति ॥३०॥

सीता - हा धिक् हा धिक् ! अहमप्यतिभूमिं गतेन रणरणकेनार्यपुत्रशून्यमिवात्मानं पश्यामि ।
Line २४७ ⟶ २४६:
व्याधूतस्फुरदुरुदण्डपुण्डरीकाः ।
बाष्पाम्भःपरिपतनोद्गमान्तराले
संदृष्टाः कुवलयिनो मया विभागाः ॥३१॥

लक्ष्मणः - अयमार्यो हनूमान् !
Line २५३ ⟶ २५२:
रामः -
दिष्ट्या सोऽयं महाबाहुरञ्जनानन्दवर्धनः ।
यस्य वीर्येण कृतिनो वयं च भुवनानि च ॥३२॥

सीता - वत्स ! एष स कुसुमितकदम्बताण्डवितबर्हिणः किन्नामधेयो गिरिः ? यत्रानुभावसौभाग्यमात्रपरिशेषसुन्दरश्रीर्मूच्छंस्त्वा प्ररुदितेनावलम्बितस्तरुतल आर्यपुत्र आलिखितः ।
Line २७७ ⟶ २७६:
रामः - तेन हि निरन्तरमवलम्बस्व मामत्र शयनाय ।

जीवयन्निव ससाध्वसश्रमस्वेदबिन्दुरधिकण्ठमर्प्यताम् ।

बाहुरैन्दवमयूखचुम्बितस्यन्दिचन्द्रमणिहारविभ्रमः ॥३४॥

(तथा कारयन्सानन्दम्) प्रिये ! किमेतत् ?
Line २८५ ⟶ २८४:
प्रमोहो निद्रा वा किमु विषविसर्पः किमु मदः ।
तव स्पर्शे स्पर्शे मम हि परिमूढेन्द्रियगणो
विकारश्चैतन्यं भ्रमयनि च सम्मीलयति च ॥३५॥

सीता - धीरप्रसादा यूयमित्यत्रेदानीमाश्चर्यम् ।
Line २९२ ⟶ २९१:
सन्तर्पणानि सकलेन्द्रियमोहकानि ।
एतानि ते सुवचनानि सरोरुहाक्षि !
कर्णामृतानि मनसश्च रसायनानि ॥३६॥

सीता- प्रियंवद ! एहि ! संविशावः । (इति शयनाय समन्ततोऽपि निरूपयति।)
Line २९८ ⟶ २९७:

आ विवाहसमयाद् गृहे वने शंशवे तदनु यौवने पुनः ।
स्वापहेतुरनुपाश्रितोऽन्यया रामबाहुरुपधानमेष ते ॥३७॥

सीता- (निद्रां नाटयन्ती) अस्त्येतत् । आर्यपुत्र ! अस्त्येतत् । इति स्वपिति ।
Line ३०६ ⟶ ३०५:
रसावस्याः स्पर्शो वपुषि बहुलश्चन्दनरसः ।
अयं बाहुः कण्ठे शिशिरमसृणो मौक्तिकसरः
किमस्या न प्रेयो यदि परमसह्यस्तु विरहः ॥३८॥

(प्रविश्य)
Line ३४८ ⟶ ३४७:

त्वया जगन्ति पुण्यानि त्वय्यपुण्या जनोक्तयः ।
नाथवन्तस्त्वया लोकास्त्वमनाथा विपत्स्यसे ॥४३॥

(दुर्मुखं प्रति) दुर्मुख ! ब्रूहि लक्ष्मणम् । एष नूतनो राजा रामः समाज्ञापयति । (कर्णे) एवमेवम् । इति ।
Line ३५५ ⟶ ३५४:
इक्ष्वाकुवंशोऽभिमतः प्रजानां जातं च दैवाद्वचनीयबीजम् ।
यच्चाद्भुतं कर्म विशुद्धिकाले प्रत्येतु कस्तद्यदि दूरवृत्तम् ॥४४॥

तद्गच्छ ।
Line ३६२ ⟶ ३६१:

शैशवात्प्रभृति पोषितां प्रियां सौदादपृथगाश्रयामिमाम् ।
छद्मना परिददामि मृत्यवे सौनिके गृहशकुन्तिकामिव ॥४५॥

तत्किमपस्पृश्यः पातकी देवीं दूषयामि? (इति सीतायाः शिरः समुन्नमय्य बाहुमाकृष्य)

अपूर्वकर्मचण्डालमयि मुग्धे ! विमुञ्च माम् ।
श्रितासि चन्दनभ्रान्त्या दुर्विपाकं विषद्रुमम् ॥४६॥

(उत्थाय) हन्त हन्त ! संप्रति विपर्यस्तो जीवलोकः । अद्यावसितं जीवितप्रयोजनं रामस्य । शून्यमधुना जीर्णारण्यं जगत् । असारः संसारः । काष्ठप्रायं शरीरम् । अशरणोऽस्मि । किं करोमि ? का गतिः ? अथवा ।

दुःखसंवेदनायैव रामे चैतन्यमागतम् ।
मर्मोपघातिभिः प्राणैर्वज्रकीलायितं दि ॥४७॥

हा अम्ब अरुन्धति ! भगवन्तौ वसिष्ठविश्वामित्रौ ! भगवन् पावक ! हा देवि भूतधात्रि ! हा तात जनक ! हा मातः ! हा प्रियसख महाराज सुग्रीव ! सौम्य हनूमन् ! महोपकारिन् लङ्काधिपते विभीषण ! हा सखि त्रिजटे ! परिमुषिताः स्थ, परिभूताः स्थ रामहतकेन । अथवा को नाम तेषामहमिदानीमाह्वाने ?

ते हि मन्ये महात्मानः कृतघ्नेन दुरात्मना ।
मया गृहीतनामानः स्पृश्यन्त इव पाप्मना ॥४८॥

योऽहम् -

विस्रम्भादुरसि निपत्य जातनिद्रामुन्मुच्य प्रियगृहिणीं गृहस्य लक्ष्मीम् ।
आतङ्कस्फुरितकठोरगर्भगुर्वौ क्रव्याद्भ्यो बलिमिव दारुणः क्षिपामि ॥४९॥

(सीतायाः पादौ शिरसि कृत्वा ।) अयं पश्चिमस्ते रामशिरसि पादपङ्कजस्पर्शः । (इति रोदिति ।)
(नेपथ्ये ।)

अब्रह्मण्यम्, अब्रह्मण्यम् ।
रामः- ज्ञायतां भोः ! किमेतत् ?
(पुनर्नेपथ्ये ।)
ऋषीणामुग्रतपसां यमुनातीरवासिनाम् ।
लवणत्रासितः स्तोमस्त्रातारं त्वामुपस्थितः ॥५०॥

रामः - कथमद्यापि राक्षसत्रासः ? तद्यावदस्य दुरात्मनो माधुरस्य कुम्भीनसीकुमारस्योन्मूलनाय शत्रुघ्नं प्रेषयामि । (परिक्रम्य पुनर्निवृत्य) हा देवि ! कथमेवंविधा गमिष्यति ? भगवति वसन्धरे ! सुश्लाघ्यां दुहितरमवेक्षस्व जानकीम् ।

जनकानां रघूणां च यत्कृत्स्नं गोत्रमङ्गलम् ।
यां देवयजने पुण्ये पुण्यशीलामजीजनः ॥५१॥

(इति रुदन्निष्कान्तः ।)
सीता - हा सौम्य आर्यपुत्र ! कुत्राऽसि ? हा धिक् हा धिक् ! दुःस्वप्नरणरणकविप्रलब्धा आर्यपुत्रशून्यमिवात्मानं पश्यामि । हा धिक् हा धिक् ! एकाकिनीं प्रसुप्तां मामुज्झित्वा कुत्र गतो नाथः ? भवतु । अस्मै कोपिष्यामि, यदि तं प्रेक्षमाणा आत्मनः प्रभविष्यामि । कोऽत्र परिजनः ?
Line ४०४ ⟶ ४०३:
(इति निष्क्रान्ताः सर्वे)
इति महाकविश्रीभवभूतिविरचिते उत्तररामचरिते
चित्रदर्शनो नाम प्रथमोऽङ्कः ॥ १ ॥

==: द्वितीयोऽङ्कः :==

=== द्वितीयोऽङ्कः

Line ४२१ ⟶ ४२०:
प्रकृत्या कल्याणी मतिरनवगीतः परिचयः ।
पुरो वा पश्चाद्वा तदिदमविपर्यासितरसं
रहस्यं साधूनामनुपधि विशुद्धं विजयते ॥२॥

(उपविशतः)

वनदेवता - कां पुनरत्रभवतीमवगच्छामि?
तापसी - आत्रेय्यस्मि ।
Line ६४५ ⟶ ६४४:

==: तृतीयोऽङ्कः: ==

Line ७४२ ⟶ ७४१:
निष्पीडितेन्दुकरकन्दलजो नु सेकः ।
आतप्तजीवितमनःपरितर्पणोऽयं
सञ्जीवनौषधिरसो दि नु प्रसक्तः ॥ ११ ॥

अपि च-
Line ७४८ ⟶ ७४७:
सञ्जीवनश्च मनसः परितोषणश्च ।
सन्तापजां सपदि यः परित्य मूर्च्छा-
मानन्दनेन जडतां पुनरातनोति ॥ १२ ॥

सीता-(ससाध्वसकरुणमुपसृत्य) एतावदेवेदानीं मम बहुतरम् ।
Line १,०७१ ⟶ १,०७०:
स च कुलपतिराद्यश्छन्दसां यः प्रयोक्ता ।
स च मुनिरनुयातारुन्धतीको वसिष्ठ-
स्तव वितरतु भद्रं भूयसे मङ्गलाय ॥ ४८ ॥

(इति निष्क्रान्ताः सर्वे)
इति महाकविभवभूतिविरचिते उत्तररामचरिते छाया नाम तृतीयोऽङ्कः ॥ ३ ॥

==: चतुर्थोऽङ्कः :==

(ततः प्रविशतस्तापसौ)
Line १,०८२ ⟶ १,०८१:
पीतादभ्यधिकं तपोवनमृगः पर्याप्तमाचामति ।
गन्धेन स्फुरता मनागनुसृतो भक्तस्य सर्पिष्मतः
कर्कन्धूफलमिश्रशाकपचनामोदः परिस्तीर्यते ॥ १ ॥

सौधातकिः-स्वागतमनेकप्रकाराणां जीर्णकूर्चानामनध्यायकारणानां तपोधनानाम् ।
Line १,०९८ ⟶ १,०९७:
सौधातकिः- येनागतेषु वसिष्ठमिश्रेषु वत्सतरी विशसिता । अद्यैव प्रत्यागतस्य राजर्षेर्जनकस्य भगवता वालमीकिना दधिमधुभ्यामेव निर्वर्तितो मधुपर्कः । वत्सतरी पुनर्विसर्जिता ।
दण्डायनः- अनिवृत्तमांसानामेवं कल्पं व्याहरन्ति केचित् । निवृत्तमांसस्तु तत्रभवान् जनकः ।
सौधातकिः-किन्निमित्तम् ?

दण्डायनः-यद्देव्याः सीतायास्तादृशं दैवदुर्विपाकमुपश्रुत्य वैखानसः संवृत्तः, तस्य कतिपयसंवत्सरश्चन्द्रद्वीपतपोवने तपस्तप्यमानस्य ।
सौधातकिः-ततः किमित्यागतः ?
Line १,१०७ ⟶ १,१०६:
दण्डायनः-तथायं प्राचेतसवसिष्ठावुपास्य संप्रत्याश्रमस्य बहिर्वृक्षमूलमधितिष्ठति । य एषः-
दि नित्यानुषक्तेन सीताशोकेन तप्यते ।
अन्तःप्रसृप्तदहनो जरन्निव वनस्पतिः ॥ २ ॥

(इति निष्कान्तौ ।)
इति मिश्रविष्कम्भकः ।

(ततः प्रविशति जनकः)
Line १,११६ ⟶ १,११५:
विषक्तस्तीव्रेण व्रणितदयेन व्यथयता ।
पटुर्धारावाही नव इव चिरेणापि हि न मे
निकृन्तन्मर्माणि क्रकच इव मन्युर्विरमति ॥३॥

कष्टम्! एवं नाम जरया दुःखेन च दुरासदेन भूयः पराकसान्तपनप्रभृतिभिस्तपोभिः शोषितान्तःशरीरधातोरवष्टम्भ एव! महानद्यापि मम दग्धदेहो न पतति । ‘अन्धतामिस्रा ह्यसूर्या नाम ते लोकाः प्रेत्य तेभ्यः प्रतिविधीयन्ते, य आत्मघातिन इत्येवमृषयो मन्यन्ते । अनेकसंवत्सरातिक्रमेऽपि प्रतिक्षणपरिभावनास्पष्टनिर्भासः प्रत्यग्र इव न मे दारुणो दुःखसंवेगः प्रशाम्यति । अयि मातर्देवयजनसंभवे ! ईदृशस्ते निर्माणभागः परिणतः ! येन लज्जया स्वच्छन्दमप्याक्रन्दितुं न शक्यते । हा पुत्रि !
Line १,१६५ ⟶ १,१६४:
विशुद्धेरुत्कर्षस्त्वयि तु मम भYंतं द्रढयति ।
शिशुत्वं स्त्रैणं वा भवतु, ननु वन्द्यासि जगतां
गुणाः पूजास्थानं गुणिषु, न च लिङ्गं, न च वयः ॥११॥

कौसल्या- अहो ! समुन्मूलयन्तीव वेदनाः । (इति मूर्च्छति)
Line १,१७३ ⟶ १,१७२:
स्मृतावाविर्भूतं त्वयि सुदि दृष्टे तदखिलम् ।
विपाके घोरेऽस्मिन्न खलु न विमूढा तव सखी
पुरन्ध्रीणां चित्तं कुसुमसुकुमारं हि भवति ॥१२॥

जनकः- हन्त ! सर्वथा नृशंसोऽस्मि । यच्चिरस्य दृष्टान्प्रियसुदः प्रियदारानस्निग्ध इव पश्यामि ।
"https://sa.wikibooks.org/wiki/उत्तररामचरितम्" इत्यस्माद् प्रतिप्राप्तम्