"उत्तररामचरितम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:

==: प्रथमोऽङ्कः :==

'''स्थूलाक्षरैः युक्तः भागः'''
<Brbr>
इदं कविभ्यः पूर्वेभ्यो नमोवाकं प्रशास्महे ।
विन्देम देवतां वाचममृतामात्मनः कलाम् ॥१॥

उत्तरं रामचरितं तत्प्रणीतं प्रयोक्ष्यते ॥२॥

Line ११ ⟶ १४:
नटः - अन्यच्च -

वसिष्ठाधिष्ठिता देव्योगता रामस्य मातरः ।

अरुन्धतीं पुरस्कृत्य यज्ञे जामातुराश्रमम् ॥३॥

सूत्रधारः - वैदेशिकोऽस्मीति पृच्छामि । कः पुनर्जामाता?
Line २९ ⟶ ३२:
नटः - अतिदुर्जन इति वक्तव्यम् ।

देव्या अपि हि वैदेह्याः सापवादो यतो जनः ।

रक्षोगृहस्थितिर्मूलमग्निशुद्धौ त्वनिश्चयः ॥ ६ ॥

सूत्रधारः - यदि पुनरियं किंवदन्ती महाराजं प्रति स्यन्देत ततः कष्टं स्यात् ।
नटः - सर्वथा ऋषयो देवाश्च श्रेयो विधास्यन्ति । (परिक्रम्य) भो भोः, क्वेदानीं महाराजः ? (आकर्ण्य) एवं जनाः कथयन्ति -
स्नेहात्सभाजयितुमेत्य दिनान्यमूनि

नीत्वोत्सवेन जनकोऽद्य गतो विदेहान् ।

देव्यास्ततो विमनसः परिसान्त्वनाय

धर्मासनाद्विशति वासगृहं नरेन्द्रः ॥७॥

(इति निष्कान्तौ)
इति प्रस्तावना।
Line ४३ ⟶ ४६:
रामः-देवि ! वैदेहि ! विश्वसिहि, ते हि गुरवो न शक्नुवन्ति विहातुमस्मान् ।

किंत्वनुष्ठाननित्यत्वं स्वातन्त्र्यमपकर्षति ।

संकटा ह्याहिताग्नीनां प्रत्यवायैर्गृहस्थता ॥८॥

सीता - जाणामि अज्जउत्त ! जाणामि । किंदु संदावआरिणो बन्धुजणविप्पओआ होन्ति । (जानामि आर्यपुत्र ! जानामि, किन्तु संतापकारिणो बन्धुजनविप्रयोगा भवन्ति ) ।
Line ४०४ ⟶ ४०७:

==: द्वितीयोऽङ्कः :==

=== द्वितीयोऽङ्कः

(नेपथ्ये)
वनदेवता -(अर्घ्यं विकीर्य)

स्वागतं तपोधनायाः ।
(ततः प्रविश्त्यध्वगवेषा तापसी)
तापसी- अये, वनदेवता फलकुसुमगर्भेण पल्लवार्घ्येण दूरान्मामुपतिष्ठते ।
(प्रविश्य)
वनदेवता -(अर्घ्यं विकीर्य)

यथेच्छाभोग्यं वो वनमिदमयं मे सुदिवसः
सतां सद्भिः सङ्गः कथमपि हि पुण्येन भवति ।
तरुच्छाया तोयं यदपि तपसां योग्यमशनं
फलं वा मूलं वा तदपि न पराधीनमिह वः ॥१॥

तापसी - किमत्रोच्यते ?
Line ६४६ ⟶ ६४५:

==:तृतीयोऽङ्कः:==

तृतीयोऽङ्कः

(ततः प्रविशति नदीद्वयम्)
Line १,०७६ ⟶ १,०७५:
इति महाकविभवभूतिविरचिते उत्तररामचरिते छाया नाम तृतीयोऽङ्कः ॥ ३ ॥

==: चतुर्थोऽङ्कः :==

चतुर्थोऽङ्कः
(ततः प्रविशतस्तापसौ)
एकः-सौधातके ! दृश्यतामद्य भूयिष्ठसन्निधापितातिथिजनस्य समधिकारम्भरमणीयता भगवतो वाल्मीकेराश्रमपदस्य । तथा हि-
Line १,३५५ ⟶ १,३५४:
इति महाकविभवभूतिविरचिते उत्तररामचरिते कौसल्याजनकयोगो नाम चतुर्थोऽङ्कः ॥ ४ ॥

==:पञ्चमोऽङ्कः :==

पञ्चमोऽङ्कः
(नेपथ्ये)
भोः भोः सैनिकाः ! जातमवलम्बनमस्माकम् ।
नन्वेष त्वरितसुमन्त्रनुद्यमानप्रोद्वल्गत्प्रजवितवाजिना रथेन ।
उत्खातप्रचलितकोविदारकेतुः श्रुत्वा वः प्रधनमुपैति चन्द्रकेतुः ॥ १ ॥

(तत प्रविशति सुमन्त्रसारथिना रथेन धनुष्पाणिः साद्भुतहर्षसंभ्रमश्चन्द्रकेतुः ।)
चन्द्रकेतुः- आर्य सुमन्त्र ! पश्य पश्य !
Line १,३६६ ⟶ १,३६५:
रविरतगुणगुञ्जत्कोटिना कार्मुकेण ।
समरशिरसि चञ्चत्पञ्चचूडश्चमूना-
मुपरि शरतुषारं कोऽप्ययं वीरपोतः ॥ २ ॥

(साश्चर्यम्)

मुनिजनशिशुरेकः सर्वतः संप्रकोपा-
न्नव इव रघुवंशस्याप्रसिद्धिप्ररोहः ।
दलितकरिकपोलग्रन्थिटङ्कारघोर-
ज्वलितशरसहस्रः कौतुकं मे करोति ॥ ३ ॥

सुमन्त्रः-आयुष्मन् !
अतिशयितसुरासुरप्रभावं शिशुमवलोक्य तथैव तुल्यरूपम् ।

कुशिकसुतमखद्विषां प्रमाथे धृतधनुषं रघुनन्दनं स्मरामि ॥ ४ ॥

चन्द्रकेतुः- मम त्वेकमुद्दिश्य भूयसामारम्भ इति दयमपत्रपते ।
अयं हि शिशुरेकको मदभरेण भूरिस्फुर-
त्करालकरकन्दलीजटिलशस्त्रजालैर्वलैः ।

क्वणत्कनककिङ्किणीझणझणायितस्यन्दनै-
रमन्दमददुर्दिनाद्विरदडामरैरावृतः ॥ ५ ॥

सुमन्त्रः-वत्स ! एभिः समस्तैरपि नालमस्य, किं पुनर्व्यस्तैः ?
चन्द्रकेतुः-आर्य ! त्वर्यतां त्वर्यताम् । अनेन हि महानाश्रितजनप्रमारोऽस्माकमारब्धः । तथा हि-
Line १,३८५ ⟶ १,३८४:
ज्यानिर्घोषममन्दुन्दुभिरवैराध्मातमुज्जृम्भयन् ।
वेल्लद्भैरवरुण्डखण्डनिकरैर्वीरो विधत्ते भुवं
तृष्यत्कालकरालवक्त्रविघसव्याकीर्यमाणामिव ॥ ६ ॥

सुमन्त्रः-(स्वगतम्) कथमीदृशेन सह वत्सस्य चन्द्रकेतोर्द्वन्द्वसंप्रहारमनुजानीमः । (विचिन्त्य) अथवा इक्ष्वाकुकुलवृद्धाः खलु वयम् । प्रत्युपस्थिते रणे का गतिः ?
चन्द्रकेतुः-(सविस्मयलज्जासम्भ्रमम्) हन्त धिक् ! अपावृत्तान्येव सर्वतः सैन्यानि मम ।

सुमन्त्रः-(रथवेगं निरूप्य) आयुष्मन् ! एष ते वाग्विषयीभूतः स वीरः ।

चन्द्रकेतुः-(विस्मृतिमभिनीय ।) आर्य ! किं नामधेयमाख्यातमह्वायकैः ?

सुमन्त्रः-‘लव’ इति ।

चन्द्रकेतुः-
भो भो लव ! महाबाहो ! किमेभिस्तव सैनिकैः ?।
Line १,४०४ ⟶ १,४०३:
क्प्रचण्डक्रोधार्चिर्निचयकवलत्वं व्रजतु मे ।
समन्तादुत्सर्पद्घनतुमुलहेलाकलकलः
पयोराशेरोघः प्रलयपवनास्फालित इव ॥ ९ ॥

(सवेगं परिक्रामति )
चन्द्रकेतुः- भो भो: कुमारः !
Line १,४१० ⟶ १,४०९:
तस्मात्सखा त्वमसि, यन्मम तत्तवैव ।
तत्किं निजे परिजने कदनं करोषि ?
नन्वेषु दर्पनिकषस्तव चन्द्रकेतुः ॥ १० ॥

लवः-(सहर्षसंभ्रमं परावृत्य) अहो महानुभावस्य प्रसन्नकर्कशा वीरवचनप्रयुक्तिर्विकर्तनकुलकुमारस्य । तत्किमेभिः ? एनमेव तावत्संभावयामि ।
(पुनर्नेपथ्ये कलकलः)
Line १,४१८ ⟶ १,४१७:
पश्चाद्बलैरनुसृतोऽयमुदीर्णधन्वा ।
द्वेधा समुद्धतमरुत्तरलस्य धत्ते
मेघस्य माघवतचापधरस्य लक्ष्मीम् ॥ ११ ॥

सुमन्त्रः-कुमार एवैनं द्रष्टुमपि जानाति । वयं तु केवलं परवन्तो विस्मयेन ।
Line १,४२५ ⟶ १,४२४:
वत्रैकस्मिन् कवचनिचितैर्नद्धचर्मोत्तरीये ।
कालज्येष्ठैरपरवयसि ख्यातिकामैर्भवद्भि-
र्योऽयं बद्धो युधि समभरस्तेन धिग्वो धिगस्मान् ॥ १२ ॥

लवः-(सोन्माथम्) आः ! कथमनुकम्पते नाम ? (ससम्भ्रमं विचिन्त्य) भवतु । कालहरणप्रतिषेधाय जृम्भकास्त्रेण तावत्सैन्यानि संस्तम्भयामि । (इति ध्यानं नाटयति)
Line १,४३५ ⟶ १,४३४:
प्रणिहितमपि चक्षुर्ग्रस्तमुक्तं हिनस्ति ।
अथ लिखितमिवैतत्सैन्यमस्पन्दमास्ते
नियतमजितवीर्यं जृम्भते जृम्भकास्त्रम् ॥ १३ ॥

आश्चर्यमाश्चर्यम् !
पातालोदरकुञ्जपुञ्जिततमःश्यामैर्नभो जृम्भकै-
रुत्तप्तस्फुरदारकूटकपिलज्योतिर्ज्वलद्दीप्तिभिः ।
कल्पाक्षेपकठोरभैरवमरुद्ध्यस्तैरभिस्तीर्यते
लीनाम्भोदतडित्कडारकुहरैर्विन्ध्याद्रिकूटैरिव ॥ १४ ॥

सुमन्त्रः- कुतः पुनरस्य जृम्भकाणामागमः स्यात् ?
Line १,४४६ ⟶ १,४४५:
सुमन्त्रः- वत्स ! नैतदेवमस्त्रेषु विशेषतो जृम्भकेषु । यतः-
कृशाश्वतनया ह्येते कृशाश्वात्कौशिकं गताः ।
अथ तत्संप्रदायेन रामभद्रे स्थिता इति ॥ १५ ॥

चन्द्रकेतुः-अपरेऽपि प्रचीयमानसत्त्वप्रकाशाः स्वयं सर्वं मन्त्रदृशः पश्यन्ति ।
Line १,४५४ ⟶ १,४५३:
पुराणो वा जन्मान्तरनिबिडबद्धः परिचयः ।
निजो वा संबन्धः किमु विधिवशात्कोऽप्यविदितो
ममैतस्मिन्दृष्टे दयमवधानं रचयति ॥ १६ ॥

सुमन्त्रः- भूयसां जीविनामेव धर्म एषः, तत्र स्वरसमयी कस्यचित्क्वचित्प्रीतिः, यत्र लौकिकानामुपचारस्तारामैत्रकं चक्षूराग इति । तदप्रतिसङ्ख्येयनिबन्धनं प्रमाणमामनन्ति ।
अहेतुः पक्षपातो यस्तस्य नास्ति प्रतिक्रिया ।
स हि स्नेहात्मकस्तन्तुरन्तर्भूतानि सीव्यति ॥ १७ ॥

कुमारौ-(अन्योन्यमुद्दिश्य)
एतस्मिन्मसृणितराजपकान्ते मोक्तव्याः कथमिव सायकाः शरीरे ?
यत्प्राप्तौ मम परिरम्भणाभिलाषादुन्मीलत्पुलककदम्बमङ्गमासते ॥ १८ ॥

किं चाक्रान्तकठोरतेजसि गतिः का नाम शस्त्रं विना ?
शस्त्रेणापि हि तेन किं न विषयो जायेत यस्येदृशः ।
किं वक्ष्यत्ययमेव युद्धविमुखं मामुद्यतेऽप्यायुधे
वीराणां समयो हि दारुणरसः स्नेहक्रमं बाधते ॥ १९ ॥

सुमन्त्रः- (लवं निर्वर्ण्य सास्रमात्मगतम्) दय ! किमन्था परिप्लवसे ?
मनोरथस्य यद्बीजं तद्दैवेनादितो तम् ।
लतायां पूर्वलूनायां प्रसवस्योद्भवः कुतः ? ॥ २० ॥

चन्द्रकेतुः- अवतराम्यार्य सुमन्त्र ! स्यन्दनात् ।
Line १,४७७ ⟶ १,४७६:
सुमन्त्रः-(स्वगतम्) आः ! कष्टां दशामनुप्रपन्नोऽस्मि ।
कथं हीदमनुष्ठानं मादृशः प्रतिषेधतु ।
कथं वाऽभ्यनुजानातु साहसैकरसां क्रियाम् ॥ २१ ॥

चन्द्रकेतुः- यदा तातमिश्रा अपि पितुः प्रियसखं त्वामर्थसंशयेषु पृत्छन्ति, तत्किमार्यो विमृशति ?
Line १,५५० ⟶ १,५४९:
सुन्दस्त्रीमथनेऽप्यकुण्ठयशसो लोके महान्तो हि ते ।
यानि त्रीणि कुतोमुखान्यपि पदान्यासन्खरायोधने ।
यद्वा कौशलमिन्द्रसूनुनिधने तत्राप्यभिज्ञो जनः ॥ ३४ ॥

चन्द्रकेतुः-आः तातापवादिन् ! भिन्नमर्याद ! अति हि नाम प्रगल्भसे ।
Line १,५५८ ⟶ १,५५७:
किञ्चित्कोकनदच्छदस्य सदृशे नेत्रे स्वयं रज्यतः ।
धत्ते कान्तिमिदं च वक्त्रमनयोर्भङ्गेन भिन्नं भ्रुवो-
श्चन्द्रस्योद्भटलाञ्छनस्य कमलस्योद्भ्रान्तभृङ्गस्य च ॥ ३५ ॥

लवः-कुमार ! कुमार ! एह्येहि । विमर्दक्षमां भूमिमवतरावः ।
(इति निष्क्रान्ताः सर्वे)
इति महाकविभवभूतिविरचिते उत्तररामचरिते कुमारविक्रमो नाम पञ्चमोऽङ्कः ॥ ५ ॥

==:षष्ठोऽङ्कः :==

(ततः प्रविशति विमानेनोज्जवलं विद्याधरमिथुनम्)
विद्याधरः-अहो नु खल्वनयोर्विकर्तनकुलकुमारयोरकाण्डकलहप्रचण्डयोरुद्द्योतितक्षत्रलक्ष्मीकयोरत्यद्भुतोद्भ्रान्तदेवासुराणि विक्रान्तविलसितानि । तथा हि प्रिये ! पश्य ।
Line १,५७८ ⟶ १,५७७:
आधारः-तत्किं नु खल्वद्य ?
त्वष्टृयन्त्रभ्रमिभ्रान्तमार्तण्डज्योतिरुज्जवलः ।
पुटभेदो ललाटस्थनीललोहितचक्षुषः ॥ ३ ॥

(विचन्त्य) आं ज्ञातम् । जातक्षोभेण चन्द्रकेतुना प्रयुक्तमप्रतिरुपमाग्नेयमस्त्रम्, यस्यायमग्निवच्छरसम्पातः । संप्रति हि ।
अवदग्धबर्बरितकेतुचामरैरपयातमेव हि विमानमण्डलैः ।
दहति ध्वजांशुकपटावलीमिमां नवकिंशुकद्युतिसविभ्रमः शिखी ॥ ४ ॥

आश्चर्यम् ! प्रवृत्त एवायमुच्चण्डवज्रखण्डावस्फोटपटुरटत्स्फुलिङ्गगुरुरुत्तालतुमुललेलिहानोज्ज्वलज्वालासंभारभैरवो भगवानुषर्बुधः । प्रचण्डश्चास्य सर्वतः संपातः । तत्प्रियामंशुकेनाच्छाद्य सुदूरमपसरामि ।(तथा करोति)
विधाधरी-दिष्ट्या एतेन विमलमुक्ताशैलशीतलस्निग्धमसृणमांसलेननाथदेहस्पर्शेनानन्दसंदलितघूर्णमानवेदनाया अर्धोदित एवान्तरितो मे सन्तापः ।
विद्याधरः- अयि ! किमत्र मया कृतम् ? अथवा ।
न किञ्चिदपि कुर्वाणाः सौख्यैर्दुःखान्यपोहति ।
तत्तस्य किमपि द्रव्यं यो हि यस्य प्रियो जनः ॥ ५ ॥

विद्याधरी-कथमविरलविलोलघूर्णमानविद्युल्लताविलासमांसलैर्मत्तमयूरकण्ठश्यामलैरवस्तीर्यते नभोऽङ्गणं जलधरैः ?
विद्याधरः-कुमारलवप्रयुक्तवारुणास्त्रप्रभावः खल्वेषः । कथमविरलप्रवृतवारिधारासंपातैः प्रशान्तमेव पावकास्त्रम् ।
विधाधरी- प्रियं मे, प्रियं मे ।

विद्याधरः- हन्त भोः ! सर्वमतिमात्रं दोषाय । यत्प्रलयवातोत्क्षोभगम्भीरगुलुगुलायमानमेघमेदुरितान्धकारनीरन्ध्रनद्धमिव एकवारविश्वग्रसनविकटविकरालकालमुखकन्दरविवर्तमानमिव युगान्तयोगनिद्रानिरद्धसर्वद्वारं नारायणोदरनिविष्टमिव भूतं विपद्यते । साधु चन्द्रकेतो ! साधु ! स्थाने वायव्यमस्त्रमीरितम् । यतः ।
विद्याकल्पेन मरुता मेघानां भूयसामपि ।
ब्रह्मणीव विवर्तानां क्वापि प्रविलयः कृतः ॥ ६ ॥

विद्याधारी-नाथ ! क इदानीमेषे ससंभ्रममोत्क्षिप्तकरभ्रमदुत्तरीयाञ्चलो इतर एव मधुरस्निग्धवचनप्रतिषिद्धयुद्धव्यापार एतयोरन्तरे विमानवरमवतारयति?
विद्याधरः- (दृष्ट्वा) एष शम्बूकवधात्प्रतिनिवृत्तो रघुपतिः ।
शान्तं महापुरुषसंगदितं निशम्य तद्गौरवात्समुपसंतसंप्रहारः ।
शान्तो लवः,प्रणत एव च चन्द्रकेतुः, कल्याणमस्तु सुतसंगमनेन राज्ञः ॥ ७ ॥

तदितस्तावदेहि । (इति निष्क्रान्तौ)
विष्कम्भकः ।
Line १,८०२ ⟶ १,८०१:
इति महाकविभूतिविरचिते उत्तररामचरिते कुमारप्रत्यभिज्ञानं नाम षष्ठोऽङ्कः ॥ ६ ॥

==: सप्तमोऽङ्कः :==

सप्तमोऽङ्कः
(ततः प्रविशति लक्ष्णमः)
लक्ष्मणः- भोः, किं नु खलु भगवता वाल्मीकिना सब्रह्मक्षत्रपौरजनपदाः प्रजाः सहास्माभिराहूय कृत्स्न एव सदेवासुरतिर्यङ्निकायः सचराचरो भूतग्रामः स्वप्रभावेण संनिधापितः । आदिष्टश्चाहमार्येण-‘वत्सलक्ष्मण ! भगवता वाल्मीकिना स्वकृतिमप्सरोभिः प्रयुज्यमानां द्रष्टुमुपनिमन्त्रिताः स्मः । गङ्गातीरमातोद्यस्थानमुपगम्य क्रियतां समाजसंनिवेशः’ इति । कृतश्च मर्त्यामर्त्यस्य भूतग्रामस्य समुचितस्थानसंनिवेशो मया । अयं तु-
राज्याश्रमनिवासोऽपि प्राप्तकष्टमुनिव्रतः ।
वाल्मीकिगौरवादार्य इत एवाभिवर्तते ॥ १ ॥

(ततः प्रविशति रामः)
रामः- वत्स लक्ष्मण ! अपि स्थिता रङ्गप्राश्निकाः ?
Line १,८२० ⟶ १,८१९:
लक्ष्मणः- कष्टं बतान्यदेव किमपि ।
सूत्रधारः- विश्वम्भराऽऽत्मजा देवी राज्ञा त्यक्ता महावने ।
प्राप्तप्रसवमात्मानं गङ्गादेव्यां विमुञ्चति ॥ २ ॥

(इति निष्क्रान्तः)
प्रस्तावना ।
Line १,८३२ ⟶ १,८३१:
देव्यौ-
समाश्वसिहि कल्याणि ! दिष्ट्या वैदेहि ! वर्धसे ।
अन्तर्जले प्रसूतासि रघुवंशधरौ सुतौ ॥ ३ ॥

सीता- (आश्वस्य) दिष्ट्या दारकौ प्रसूतास्मि । हा आर्यपुत्र !
Line १,८५२ ⟶ १,८५१:
सोढश्चिरं राक्षसमध्यवासस्त्यागो द्वितीयस्तु सुदुःसहोऽस्याः ।
गङ्गा-
को नाम पाकाभिमुखस्य जन्तुर्द्वाराणि दैवस्य पिधातुमीष्टे ? ॥ ४ ॥

पृथिवी-भगवति भागीरथि ! युक्तमेतत्सर्वं वो रामभद्रस्य ?
न प्रमाणीकृतः पाणिर्बाल्ये बालेन पीडितः ।
नाहं, न जनको नाग्निर्न तु वृत्तिर्न संततिः ॥ ५ ॥

सीता- हा आर्यपुत्र ! स्मरसि ?
पृथिवी-आः ! कस्तवार्यपुत्रः ?
Line १,९९१ ⟶ १,९९०:
द्रागेणागमजातवर्णितदिशा कर्तव्यबुद्ध्यापि वा ।
तत्सर्वं भवदीयपादकमलद्वन्द्वेऽर्प्यते श्रद्धया
स्वामिन् ! कृष्ण !! न चास्ति मेऽत्र कृतिता, सापि त्वदुक्त्यैव हि ॥

ॐ तत्सत् श्रीकृष्णार्पणमस्तु

समप्तोऽयं ग्रन्थः ।

"https://sa.wikibooks.org/wiki/उत्तररामचरितम्" इत्यस्माद् प्रतिप्राप्तम्