"सांख्यकारिका" इत्यस्य संस्करणे भेदः

दु:खत्रयाभिघाताद् जिज्ञासा तदपघातके हेतौ। दृष... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः ५५:
तस्माच्च विपर्यासात् सिद्धं साक्षित्वमस्य पुरुषस्य।
कैवल्यं माध्यस्थ्यं द्रष्टृत्वमकर्तृभावश्च॥१९
 
तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम्।
गुणकर्तृत्वे च तथा कर्तेव भवत्युदासीन:॥२०
 
पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रदानस्य।
पङ्ग्वन्धवदुभयोरपि संयोगस्ततकृत: सर्ग:॥२१
 
प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद्गणश्च षोडशक:।
तस्मादपि षोडशकात् पञ्चभ्य: पञ्चभूतानि॥२२
 
अधयवसायो बुद्धिर्धर्मो ज्ञानं विराग ऐश्वर्यम्।
सात्त्विकमेतद्रूपं तामसमस्माद्विपर्यस्तम्॥२३
 
अभिमानोऽहङ्कारस्तस्माद् द्विविध: प्रवर्तते सर्ग:।
एकादशकश्च गणस्तन्मात्रापञ्चकश्चैव॥२४
 
सात्त्विक एकादशक: प्रवर्तते वैकृतादहङ्कारात्।
भूतादेस्तन्मात्र:स तामसस्तैजसादुभयम्॥२५
 
बुद्धीन्द्रियाणि चक्षु:श्रोत्रघ्राणरसनत्वगाख्यानि।
वाक्पाणिपादपायूपस्थानि कर्मेन्द्रियाण्याहु:॥२६
 
उभयात्मकमत्र मन: सङ्कल्पकमिन्द्रियं च साधर्म्यात्।
गुणपरिणामविशेषात् नानात्वं बाह्यभेदाश्च॥२७
 
शब्दादिषु पञ्चानामालोचनमात्रमिष्यते वृत्ति:।
वचनादानविहरणोत्सर्गानन्दाश्च पञ्चानाम्॥२८
 
स्वालक्षण्यं वृत्तिस्त्रयस्य सैषा भवत्यसामान्या।
सामान्यकरणवृत्ति: प्राणाद्या वायव: पञ्च॥२९
 
युगपच्चतुष्टयस्य तु वृत्ति: क्रमशश्च तस्य निर्दिष्टा।
दृष्टे तथाप्यदृष्टे त्रयस्य तत्पूर्विका वृत्ति:।३०
 
स्वांस्वां प्रतिपद्यन्ते परस्पराकूतहेतुकां वृत्तिम्।
पुरुषार्थ एव हेतुर्न केनचित् कार्यते करणम्॥३१
 
करणं त्रयोदशविधं तदाहरणधारणप्रकाशकरम्।
कार्यं च तस्य दशधा हार्यं धार्यं प्रकाश्यं च॥३२
 
अन्त:करणं त्रिविधं दशधा बाह्यं त्रयस्य विषयाख्यम्।
सामप्रतकालं बाह्यं त्रिकालमाभ्यन्तरं करणम्॥३३
 
बुद्धीन्द्रियाणि तेषां पञ्च विशेषाविशेषविषयाणि।
वाग्भवति शब्दविषया शेषाणि तु पञ्चविषयाणि॥३४
 
सान्त:करणा बुद्धि: सर्वं विषयमवगाहते यस्मात्।
तस्मात् त्रिविध् करणं द्वारि द्वाराणि शेषाणि॥३५
 
एते प्रदीपकल्पा: परस्परविलक्षणा गुणविशेषा:।
कृत्स्नं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छन्ति॥३६
 
सर्वं प्रत्युपभोगं यस्मात्पुरुषस्य साधयति बुद्धि:।
सैव च विशिनष्टि पुन: प्रधानपुरुषान्तरं सूक्ष्मम्॥३७
 
तन्मात्राण्यविशेषास्तेभ्यो भूतानि पञ्च पञ्चभ्य:।
एते स्मृता विशेषा: शान्ता घोराश्च मूढाश्च॥३८
 
सूक्ष्मा मातापितृजा: सह प्रभूतैस्त्रिधा विशेषा: स्यु:।
सूक्ष्मास्तेषां नियता मातापितृजा निवर्तन्ते॥३९
 
पूर्वोत्पन्नमसक्तं नियतं महदादिसूक्ष्मपर्यन्तम्।
संसरति निरुपभोगं भावैरधिवासितं लिङ्गम्॥४०
 
चित्रं यथाश्रयमृते स्थाण्वादिभ्यो विना यथा छाया।
तद्वद्विना विशेषैर्न तिष्ठति निराश्रयं लिङ्गम्॥४१
 
पुरुषार्थहेतुकमिदं निमित्तनैमित्तिकप्रसङ्गेन।
प्रकृतेर्विभुत्वयोगान्नटवद् व्यवतिष्ठते लिङ्गम्॥४२
 
सांसिद्धिकाश्च भावा: प्राकृतिका वैकृतिकाश्च धर्माद्या:।
दृष्टा: करणाश्रयिण: कार्याश्रयिणश्च कललाद्या:॥४३
 
धर्मेण गमनमूर्ध्वं गमनमधस्ताद्भवत्यधर्मेण।
ज्ञानेन चापवर्गो विपर्ययादिष्यते बन्ध:॥४४
 
वैराग्यात्प्रकृतिलय: संसारि भवति राजसाद्रागात्।
ऐश्वर्यादविघातो विपर्ययात्तद्विपर्यय:॥४५
 
एष प्रत्ययसर्गो विपर्ययाशक्तितुष्टिसिद्ध्याख्य:।
गुणवैषम्यविमर्दात् तस्य च भेदास्तु पञ्चाशत्॥४६
 
पञ्च विपर्ययभेदा भवन्त्यशक्तिश्च करणवैकल्यात्।
अष्टाविंशतिभेदास्तुष्टिर्नवधाष्टधा सिद्धि:॥४७
 
भेदस्तमसोऽष्टविधो मोहस्य च, दशविधो महामोह:।
तामिस्रोऽष्टादशधा तथा भवत्यन्धतामिस्र:॥४८
 
एकादशेन्द्रियवधा: सह बुद्धिवधैरशक्तिरुद्दिष्टा।
सप्तदश वधा बुद्धेर्विपर्ययात्तुष्टिसिद्धीनाम्॥४९
 
आध्यात्मिक्यश्चतस्र: प्रकृत्युपादानकालभाग्याख्या:।
बाह्या विषयोपरमात् पञ्च नव तुष्टयोऽभिमता:॥५०
 
ऊह: शब्दोऽध्ययनं दु:खविघातास्त्रय: सुहृत्प्राप्ति:।
दानं च सिद्धयोऽष्टौ सिद्धे: पूर्वाङ्कुशस्त्रिविध:॥५१
 
न विना भावैर्लिङ्गं न विना लिङ्गेन भावनिर्वृत्ति:।
लिङ्गाख्यो भावाख्यश्च द्विविध: सर्ग: प्रवर्तते॥५२
 
अष्टविकल्पो दैवस्तैर्यग्योनश्च पञ्चधा भवति।
मानुष्यश्चैकविध: समासतो भौतिक: सर्ग:॥५३
 
ऊर्ध्वं सत्त्वविशालस्तमोविशालश्च मूलत: सर्ग:।
मध्ये रजोविशालो ब्रह्मादिस्तम्बपर्यन्त:॥५४
 
तत्र जरामरणकृतं दु:खं प्राप्नोति चेतन: पुरुष:।
लिङ्गस्याविनिवृत्तेस्तस्माद् दु:खं स्वभावेन॥५५
 
इत्येष प्रकृतिकृतो महदादिविशेषभूतपर्यन्त:।
प्रतिपुरुषविमोक्षार्थं स्वार्थिव परार्थ आरम्भ:॥५६
 
वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य।
पुरुषविमोक्षनिमित्तं तथा प्रवृत्ति: प्रधानस्य॥५७
 
औत्सुक्यनिवृत्यर्थे यथा क्रियासु प्रवर्तते लोक:।
पुरुषस्य विमोक्षार्थे प्रवर्तते तद्वदव्यक्तम्॥५८
 
रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्यात्।
पुरुषस्य तथात्मानं प्रकाश्य विनिवर्तते प्रकृति:॥५९
 
नानाविधैरुपायैरुपकारिण्यनुपकारिण: पुंस:।
गुणवत्यगुणस्य सतस्तस्यार्थमपार्थकं चरति॥६०
 
प्रकृते: सुकुमारतरं न किञ्चिदस्तीति मे मतिर्भवति।
या दृष्टास्मीति पुर्न दर्शनमुपैति पुरुषस्य॥६१
 
कारणमीश्वरमेके ब्रुवते कालं परे स्वभावं वा।
प्रजा: कथं निर्गुणतो व्यक्त: काल: स्वभावश्च॥६१अ
 
तस्मान्न बध्यतेऽसौ न मुच्यते नापि संसरति कश्चित्।
संसरति बध्यते मुच्यते च नानाश्रया प्रकृति:॥६२
 
रूपै: सप्तभिरेव तु बध्नात्यात्मानमात्मना प्रकृति:।
सैव च पुरुषार्थं प्रति विमोचयत्येकरूपेण॥६३
 
एवं तत्त्वाभ्यासान्नास्मि न मे नाहमित्यपरिशेषम्।
अविपर्ययाद्विशुद्धं केवलमुत्पद्यते ज्ञानम्॥ ६४
 
तेन निवृत्तप्रसवामर्थवशात् सप्तरूपविनिवृत्ताम्।
प्रकृतिं पश्यति पुरुष: प्रेक्षकवदवस्थित: सुस्थ:॥६५
 
दृष्टा मयेत्युपेक्षक एको दृष्टाहमित्युपरमत्यन्या।
सति संयोगेऽपि तयो: प्रयोजनं नास्ति सर्गस्य॥६६
 
सम्यग् ज्ञानाधिगमाद्धर्मादीनामकारणप्राप्तौ।
तिष्ठति संस्कारवशाच्चक्रभ्रमिवद् धृतशरीर:॥६७
 
प्राप्ते शरीरभेदे चरितार्थत्वात् प्रधानविनिवृत्ते:।
ऐकान्तिकमात्यन्तिकमुभयं कैवल्यमाप्नोति॥६८
 
पुरुषार्थज्ञानमिदं गुह्यं परमर्षिणा समाख्यातम्।
स्थित्युत्पत्तिप्रलयाश्चिन्त्यन्ते यत्र भूतानाम्॥६९
 
एतत्पवित्रमग्र्यं मुनिरासुरयेऽनुकम्पया प्रददौ।
आसुरिरपि पञ्चशिखाय तेन च बहुधा कृतं तन्त्रम्॥७०
 
शिष्यपरम्परयागतमीश्वरकृष्णेन चैतदार्याभि:।
सङ्क्षिप्तमार्यमतिना सम्यग् विज्ञाय सिद्धान्तम्॥७१
 
सप्तत्या किल येऽर्थास्तेऽर्था: कृत्स्नस्य षष्टितन्त्रस्य।
आख्यायिकाविरहिता: परवादविवर्जिताश्चापि॥७२
"https://sa.wikibooks.org/wiki/सांख्यकारिका" इत्यस्माद् प्रतिप्राप्तम्