"प्रज्ञां-परिमित-हृदय-सूत्र" इत्यस्य संस्करणे भेदः

(लघु) format
No edit summary
पङ्क्तिः ३१:
 
|| इति: प्रज्ञां-परिमित-हृदय-सूत्र सम्पूर्णम् ||
प्रज्ञापारमिताहृदयसुत्रम्।
[विस्तरमातृका]
॥नमः सर्वज्ञाय॥
एवं मया श्रुतम्। एकस्मिन्
समये भगवान् राजगृहे
विहरति स्म गृध्रकूटे
पर्वते महता भिक्षुसंघेन
सार्धं महता च
बोधिसत्त्वसंघेन। तेन खलु
समयेन भगवान्
गम्भीरावसंबोधं नाम
समाधिं समापन्नः। तेन च
समयेन
आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वो गम्भीरायां प्रज्ञापारमितायां चर्यां चरमाणः एवं
व्यवलोकयति स्म। पञ्च
स्कन्धांस्तांश्च
स्वभावशून्यं
व्यवलोकयति॥
अथायुष्मान्
शारिपुत्रो बुद्धानुभावेन
आर्यावलोकितेश्वरं
बोधिसत्त्वमेतदवोचत्-
यः कश्चित्
कुलपुत्रो [वा कुलदुहिता वा अस्यां]
गम्भीरायां प्रज्ञापारमितायां चर्यां चर्तुकामः,
कथं शिक्षितव्यः ?
एवमुक्ते
आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वः आयुष्मन्तं
शारिपुत्रमेतदवोचत्-
यः कश्चिच्छारिपुत्र
कुलपुत्रो व
कुलदुहिता वा [अस्यां]
गम्भीरायां प्रज्ञापारमितायां चर्यां चर्तुकामः,
तेनैवं व्यवलोकितव्यम्-
पञ्च स्कन्धांस्तांश्च
स्वभावशून्यान्
समनुपश्यति स्म। रूपं
शून्यता, शून्यतैव रूपम्।
रूपान्न पृथक् शून्यता,
शून्यताया न पृथग् रूपम्।
यद्रूपं सा शून्यता,
या शून्यता तद्रूपम्। एवं
वेदनासंज्ञासंस्कारविज्ञानानि च
शून्यता। एवं शारिपुत्र
सर्वधर्माः शून्यतालक्षणा अनुत्पन्ना अनिरुद्धा अमला विमला अनूना असंपूर्णाः।
तस्मात्तर्हि शारिपुत्र
शून्यतायां न रूपम्, न
वेदना, न संज्ञा, न
संस्काराः, न विज्ञानम्,
न चक्षुर्न श्रोत्रं न
घ्राणं न जिह्वा न
कायो न मनो न रूपं न
शब्दो न गन्धो न रसो न
स्प्रष्टव्यं न धर्मः। न
चक्षुर्धातुर्यावन्न
मनोधातुर्न धर्मधातुर्न
मनोविज्ञानधातुः। न
विद्या नाविद्या न
क्षयो यावन्न जरामरणं न
जरामरणक्षयः, न
दुःखसमुदयनिरोधमार्गा न
ज्ञानं न
प्राप्तिर्नाप्राप्तिः।
तस्माच्छारिपुत्र
अप्राप्तित्वेन
बोधिसत्त्वानां प्रज्ञापारमितामाश्रित्य
विहरति चित्तावरणः।
चित्तावरणनास्तित्वादत्रस्तो विपर्यासातिक्रान्तो निष्ठनिर्वाणः।
त्र्यध्वव्यवस्थिताः सर्वबुद्धाः प्रज्ञापारमितामाश्रित्य
अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः।
तस्माद्
ज्ञातव्यः प्रज्ञापारमितामहामन्त्रः अनुत्तरमन्त्रः असमसममन्त्रः सर्वदुःखप्रशमनमन्त्रः सत्यममिथ्यत्वात्
प्रज्ञापारमितायामुक्तो मन्त्रः।
तद्यथा- गते गते पारगते
पारसंगते बोधि स्वाहा।
एवं शारिपुत्र
गम्भीरायां प्रज्ञापारमितायां चर्यायां शिक्षितव्यं
बोधिसत्त्वेन॥
अथ खलु भगवान्
तस्मात्समाधेर्व्युत्थाय
आर्यावलोकितेश्वरस्य
बोधिसत्त्वस्य
साधुकारमदात्- साधु
साधु कुलपुत्र। एवमेतत्
कुलपुत्र, एवमेतद्
गम्भीरायां प्रज्ञापारमितायां चर्यं
चर्तव्यं
यथा त्वया निर्दिष्टम्।
अनुमोद्यते
तथागतैरर्हद्भिः॥
इदमवोचद्भगवान्।
आनन्दमना आयुष्मान्
शारिपुत्रः आर्यावलोकितेश्वरश्च
बोधिसत्त्वः सा च
सर्वावती परिषत्
सदेवमानुषासुरगन्धर्वश्च
लोको भगवतो भाषितमभ्यनन्दन्॥
इति प्रज्ञापारमिताहृदयसूत्रं
समाप्तम्।
"https://sa.wikibooks.org/wiki/प्रज्ञां-परिमित-हृदय-सूत्र" इत्यस्माद् प्रतिप्राप्तम्