"काव्यप्रकाशः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ५:
 
ग्रन्थारम्भे विघ्नविघाताय समुचितेष्टदेवतां ग्रन्थकृत्परमृशति -
 
नियतिकृतनियमरहितां ह्लादैकमयीमनन्यपरतन्त्राम् ।<br />
 
नवरसरुचिरां निर्मितिमादधती भारती कवेर्जयति ।।1।।
 
नियतिशक्त्या नियतरूपा सुखदुःखमोहस्वभावा परमाण्वाद्युपादानकर्मादिसहकारिकारणपरतन्त्रा षट्रसा न च हृद्यैव तैः तादृशी ब्रह्मणो निर्मितर्निर्माणम् । एतद्विलक्षणा तु कविवाङ्निर्मितिः । अत एव जयति । जयत्यर्थेन च नमस्कार आक्षिप्यत इति तां प्रत्यस्मि प्रणत इति लभ्यते ।
 
 
काव्यं यशसे ऽर्थकृते व्यवहारविदे शिवेतरक्षतये |
सद्यः परनिर्वृतये कान्तासंमिततयोपदेशयुजे ||2 ||
 
 
शक्तिर्निपुणता लोकशास्त्रकाव्याद्यवेक्षणात् |
काव्यज्ञशिक्षयाभ्यास इति हेतुस्तदुद्भवे || 3 ||
 
 
तददोषौ शब्दार्थौ सगुणावनलङ्कृती पुनः क्वापि |
इदमुत्तममतिशयिनि व्यङ्ग्ये वाच्याद्ध्वनिर्बुधैः कथितः || 4 ||
"https://sa.wikibooks.org/wiki/काव्यप्रकाशः" इत्यस्माद् प्रतिप्राप्तम्