"काव्यप्रकाशः" इत्यस्य संस्करणे भेदः

मम्मटभट्टविरचितः काव्यप्रकाशः प्रथमोल्लासः ... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
मम्मटभट्टविरचितः
'''<big>काव्यप्रकाशः</big>'''
== Heading text ==
 
=== प्रथमोल्लासः ===
 
ग्रन्थारम्भे विघ्नविघाताय समुचितेष्टदेवतां ग्रन्थकृत्परमृशति -
नियतिकृतनियमरहितां ह्लादैकमयीमनन्यपरतन्त्राम् ।
नवरसरुचिरां निर्मितिमादधती भारती कवेर्जयति ।।1।।
 
नियतिशक्त्या नियतरूपा सुखदुःखमोहस्वभावा परमाण्वाद्युपादानकर्मादिसहकारिकारणपरतन्त्रा षट्रसा न च हृद्यैव तैः तादृशी ब्रह्मणो निर्मितर्निर्माणम् । एतद्विलक्षणा तु कविवाङ्निर्मितिः । अत एव जयति । जयत्यर्थेन च नमस्कार आक्षिप्यत इति तां प्रत्यस्मि प्रणत इति लभ्यते ।
"https://sa.wikibooks.org/wiki/काव्यप्रकाशः" इत्यस्माद् प्रतिप्राप्तम्