"आर्यसंघाट सूत्र" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १०२:

'''44''' अथ खलु सर्वशूरो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - कथं भगवन् भगवतः शासने धर्मो ज्ञातव्यः कथं भगवन् संघाटं सूत्रं धर्मपर्यायं श्रुत्वा कुशलमूलं परिगृहीतं भविष्यति।

भगवान् आह - यः सर्वशूर द्वादशगंगानदीबालिकासमांस्तथागतानर्हतः सम्यक्संबुद्धान् सर्वसुखोपधानैरुपतिष्ठेत। यश्चेमं संघाटसूत्रं धर्मपर्यायं शृणुयादेवमेव तस्य पुण्यस्कन्धो ज्ञातव्यः।
पङ्क्तिः १९५:
एवं भगवता जातिनिदानं बहुप्रकारं धर्मन् देशयतः

'''57''' तेन कालेन तेन समयेन तेषामन्यतीर्थिकानां निग्रन्थानां (श्रुत्वा) महासन्त्रासो भवदेवं चाहुः न भूयो वयं भगवन्नुत्सहामहे जतिदुःखमनुभवितुं

'''58''' अस्मिन् खलु पुनः संघाटे धर्मपर्याये भगवता भाष्यमाणे तेऽष्टादश कोट्यो निग्रन्था अन्यतीर्थिकाः परिनिष्पन्ना अभूवन्ननुत्तरस्याः सम्यक्संबोधेः स्वकाये चाष्टादश बोधिसत्त्वसहस्राः दशमहाभूमिप्रतिष्ठिताः।

सर्वे नानार्धिविकुर्वितानि (स्वकायमनेकप्रकारं) सन्दर्शयामासुः तद्यथा अश्वरूपं। हस्तिरूपं। सिंहरूपं व्याघ्ररूपं गरुडरूपं सुमेरुरूपं नन्दिकरूपं केचिद् वृक्षरूपं। ते सर्वे पद्मासने पर्यंकेन निषीदन्ति।
पङ्क्तिः १,४२३:
यत्र यत्रोपपद्येमः स्याद् अस्माद् बुद्धदर्शनं॥

'''253''' अथ खलु भैषज्यसेनो बोधिसत्त्वो महासत्त्वो येन ते दहरा सत्त्वास्तेनोपसंक्रामदुपसंक्रम्य तान् दहरान् सत्त्वाङ् गाथाया अध्यभाषता -

पङ्क्तिः १,९०२:
भगवान् आह - अद्येमे भैषज्यसेन दहराः सत्त्वाः एषु कूटागारेष्वभिरुह्य धर्माभिसमयमनुप्राप्स्यन्ति। अद्येमे सर्वकुशलधर्मपारिपूरिं करिष्यन्ति। अद्य महाधर्मदुन्दुभिं पराहनिष्यन्ति। अनेकेषां च देवनिकायानामद्य धर्माभिसमयो भविष्यति। बहूनाञ्च नैरयिकानां सत्त्वानां विनिपातसंप्रस्थितानां तथागतज्ञाननिर्देशं श्रुत्वा सर्वसंसारपराङ्मुखपराजयो भविष्यति।

'''257''' तस्याम् च वेलायां वृद्धसत्त्वैर्नवानवतिभिः कोटीशस्रैः (सर्वे) स्रोतआपत्तिफलं प्राप्तं ते च सर्वधर्मसमन्वागता भविष्यन्ति। सर्वे ते भैषज्यसेन सर्वदुःखपरिवर्जिता भविष्यन्ति। सर्वे ते भैषज्यसेन सर्वतथागतदर्शनं निष्पादयिष्यन्ति। सर्वे ते भैषज्यसेन महाधर्मसमन्वागता भविष्यन्ति। अवलोकय भैषज्यसेन चतुर्दिशं

'''258''' अवलोकयति भैषज्यसेनो बोधिसत्त्वो महासत्त्वः समन्ता चतुर्दिशं स पश्यति पूर्वस्यान् दिशि पंचाशत् कोट्यो गंगानदीवालिकासमानि बोधिसत्त्वानामागच्छन्ति। दक्षिणस्यान् दिशि षष्टि कोटी गंगानदीवालिकासमानि बोधिसत्त्वानामागच्छन्ति। पश्चिमस्यांन् दिशि सप्तति कोटी गंगानदीवालिकासमानि बोधिसत्त्वानामागच्छन्ति। उत्तरस्यान् दिश्यशीति कोट्यो गंगानदीवालिकासमानि बोधिसत्त्वानामागच्छन्ति। अधस्ताद्दिशि नवकोटीसहस्राणि गंगानदीवालिकासमानि बोधिसत्त्वानामागच्छन्ति। ऊर्ध्वायां दिशि कोटीशतसहस्रं गंगानदीवालिकासमानि बोधिसत्त्वानामागच्छन्ति।
ते चागतागता बोधिसत्त्वा महासत्त्वा भगवतः पुरतः पादौ शिरशाभिवन्द्यैकान्ते तशुः

'''259''' एकान्तस्थितानां दशदिग्भ्यागतानां बोधिसत्त्वानाम् महासत्त्वानामथ भैषज्यसेनो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - किमेतद् भगवन् खग-म्-अन्तरीक्षे कृष्णरूपं लोहितरूपं (च) पश्यामि। भगवान् आह - किमिदं भैषज्यसेन। न संजानासि यदेतदन्तरीक्षे कृष्णरूपं लोहितरूपं च पश्यसि।
पङ्क्तिः १,९१४:

'''260''' इदमवोचद्भगवान् आत्तमनाः सर्वशुरो बोधिसत्त्वो महासत्त्वः भैषज्यसेनो बोधिसत्त्वो महासत्त्वः सर्वे च नवपुराणका बोधिसत्त्वा महासत्त्वाः सा च सर्वावती पर्षत् सदेवमानुषासुरगन्धर्वश्च लोको भगवतो भाषितं अभ्यनन्दत्

; ॥०॥ संघाटं नाम महायानसूत्रं महाधर्मपर्यायं॥०॥

;; ॥०॥ आर्यसंघाटं नाम धर्म्मपर्यायं समाप्तम्॥०॥

"https://sa.wikibooks.org/wiki/आर्यसंघाट_सूत्र" इत्यस्माद् प्रतिप्राप्तम्