"आर्यसंघाट सूत्र" इत्यस्य संस्करणे भेदः

New page: (स्वस्तिः॥) नमः सर्वबुद्धबोधिसत्त्वेभ्यः॥

''' 1''' एवं मया श्रुतमेकस्...

No edit summary
पङ्क्तिः १:
(स्वस्तिः॥) नमः सर्वबुद्धबोधिसत्त्वेभ्यः॥

''' 1''' एवं मया श्रुतमेकस्मिन् समये भगवान् राजगृहे विहरति स्म। गृद्ध्रकूटे पर्वते महता भिक्षुसंघेन सार्धं ।
पङ्क्तिः ५७२:

''' 143''' एवं हि सर्वशूर महाप्रभावो यं संघाटो धर्मपर्यायः येऽस्मिंश्चित्तप्रसादं करिष्यन्ति। न ते जातु विषमपरिहारेण कालं करिष्यन्ति। परिशुद्धशीलसमवागतास्ते (सत्त्वा) भविष्यन्ति।

''' 144''' सन्ति सर्वशूर सत्त्वा य एवं वक्स्यन्ति रात्रिन्दिवं तथागतो बहूनि सत्त्वानि परिमोचयन्ति। अद्यापि सत्त्वधातुः क्षयं न गच्छन्ति। बहवो बोधाय प्रणिधानं कुर्वति। बहवः स्वर्गलोक उपपद्यन्ते। बहवो निर्वृतिमनुप्राप्नुवन्ति। अथ केन हेतुना सत्त्वानां क्षयो न भवति।।

II. मैत्रेयपरिपृच्छा।

== II. मैत्रेयपरिपृच्छा। ==

''' 145''' अथान्यतीर्थिकचरकपरिब्राजकनिग्रन्थानामेतदभवत् गमिष्यामो वयं श्रमणेन गौतमेन सार्धं विवादं करिष्यामः अथ खलु चतुर्नवति ब्राह्मणान्यतीर्थिकचरकपरिब्राजकाः अनेकानि च निग्रन्थशतानि येन राजगृहं महानगरं तेनोपसंक्रामन्ति। तेन च कालेन तेन समयेन भगवान् स्मितां प्रादुष्चकार;॥

''' 146''' अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्व उत्थायासनादेकांसमुत्तरासंगं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनांजलिं प्रणम्य भगवन्तमेतदवोचत् - को भगवन् हेतुः कः प्रत्ययः स्मितस्य प्रादुष्करणाय। नाहेतुं नाप्रत्ययं तथागता अर्हन्तः सम्यक्संबुद्धा स्मितं प्रादुष्कुर्वन्ति।
Line ५८२ ⟶ ५८५:

''' 150''' षष्टि कोटीसहस्रानि शुद्धावासकायिकानां देवपुत्राणामागमिष्यन्ति। द्वात्रिंशद्भिः कोटीसहस्रैर्मारः पापीयान् सपरिवार आयास्यति। द्वादश कोटीसहस्राणि असुरराज्ञामागमिष्यन्ति। पंचमात्राणि (च) राजशतानि सपरिवाराण्यायास्यन्ति धर्मश्रवणाय। ते सर्वे ममान्तिकाद्धर्मं श्रुत्वानुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादयिष्यन्ति॥

''' 151''' अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवतः पादौ शिरसा वन्दित्वा भगवन्तं (तृष्) प्रदक्षिणीकृत्वा तत्रैवान्तर्धिततः॥

III. सर्वशूरपरिपृच्छा (2)

== III. सर्वशूरपरिपृच्छा (2) ==

''' 152''' अथ खलु सर्वशूरो बोधिसत्त्वो महासत्त्व उत्थायासनादेकांसमुत्तरासंगं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यं प्रतिष्ठाप्य येन भगवांस्तेनांजलिं प्रणाम्य भगवन्तमेतदवोचत् - किन्नामो भगवन् पंचमात्राणि राजशतानि।

''' 153''' भगवान् आह - शृणु सर्वशूर नदो नाम राजा सुनन्दो नाम राजा। उपनन्दो नाम राजा। जिनर्षभो नाम राजा। ब्रह्मसेनो नाम राजा। ब्रह्मघोषो नाम राजा। सुदर्शनो नाम राजा। जयसेनो नाम राजा। नन्दसेनो नाम राजा। बिंबिसारो नाम राजा। प्रसेनजिन्नाम राजा। विरूढको नाम राजा। एवंप्रमुखानि पंचमात्राणि राजशतानि। एकैको राज विंशतिकोटीसहस्रपरिवारः ते सर्वेऽनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः स्थापयित्वा राजा विरूढकः
Line ६१४ ⟶ ६२०:

''' 170''' अथ (खलु) भगवांस्(पुनरपि) तेषां अन्यतीर्थिकचरकपरिब्राजकनिग्रन्थब्राह्मणानमन्त्रयति। मा यूयं मार्षा रत्नमयाज्जंबूद्वीपान्निराशा भविष्यध्वे; मा यायं धर्मरत्नात् परिबाह्या भविष्यथेति। पृच्छथ यूयं मार्षास्तथागतं यद्यदेवाकांक्षथाहं युष्माकं सर्वाभिप्रायान् परिपूरयिष्यामि।

''' 171''' अथ खलु ते सर्वे ब्राह्मणान्यतीर्थिकचरकपरिब्राजकनिग्रन्था उत्थायासनेभ्यः एकांसानि चीवराणि प्रवृत्यांजलयः प्रगृह्य भगवन्तं परिपृच्छन्ति (स्म)। बहूनि भगवं सत्त्वानि रात्रिन्दिवस्तथागतः संसारा परिमोचयति। न च सत्त्वधातोरूनत्वं वा पूर्णत्वं वा प्रज्ञायते। को भगवन् हेतुः कः प्रत्ययः यत्ते सत्त्वा समाना उत्पादनिरोधं दर्शयन्ति॥०॥ (संघाटे महाधर्मपर्याये सर्वशूरपरिपृच्छा समाप्ता॥०॥)

IV. भैषज्यसेनपरिपृच्छा।

== IV. भैषज्यसेनपरिपृच्छा। ==

''' 172''' तत्र खलु भगवान् भैषज्यसेनं बोधिसत्त्वं महासत्त्वमामन्त्रयति स्म। महासन्नाहं सन्नह्यन्ति तीर्थ्या। महाकौकृत्यविनोदनार्थाय। महाधर्मोल्काज्वालनाय। महाप्रश्ननिदानं परिपृच्छन्ति। (शृणुथ यूयं कुलपुत्रा इहानन्तापर्यन्त पृथिवीधातुरब्धातुस्तेजोधातुर्वायुधातुरतो नांततरः सत्त्वधातुः सन्ति च सत्त्वाः ये सत्त्वहितार्थमुत्पादनिरोधं दर्शयंति)
पश्चिमे तु काले भविष्यन्ति दहरा सत्त्वा वृद्धा वा ये उत्पादनिरोधं करिष्यन्ति। सन्ति भैषज्यसेन वृद्धा सत्त्वा दहरा इव न किंचिज्जानन्ति।
"https://sa.wikibooks.org/wiki/आर्यसंघाट_सूत्र" इत्यस्माद् प्रतिप्राप्तम्