विपर्ययाधिकरणम्
तदभिध्यानादेव तल्लिङ्गात्स:।२.३.१३
पू.- इमानि वियदादीनि भूतानि स्वयमेव स्वविकारान् सृजन्ति अथवा ईश्वर एव तेजआत्मना अवतिष्ठमान: अभिध्यायन् तं तं विकारं सृजतीति सन्देह:।तत्र वियदादीनि स्वयमेव स्वविकारान् सृजन्तीति मन्तव्यम्।आकाशाद्वायु: इत्यादि स्वातन्त्र्यश्रवणात्।
वे.-ननु अचेतनानां स्वतन्त्रा प्रवृत्तिर्नास्तीति पूर्वं साधितम्।
पू.-न वियदादीनि अचेतनानि, ‘तत्तेज ऐक्षत’ ‘ता आप ऐक्षन्त’(छा. ६.२.४) इति भूतानाम् अपि चेतनत्वश्रवणात्।
वे.- परमेश्वर: एव तेन तेनात्मना अवतिष्ठमान: अभिध्यायन् तं तं विकारं सृजति, तल्लिङ्गात्। ‘य: पृथिव्यां तिष्ठन् य:पृथिव्या अन्तरो, यं पृथिवी न वेद, यस्य पृथिवी शरीरं, य: पृथिवीमन्तरो यमयति (बृ.३.७.३) इति अध्यक्षसहितानाम् एव भूतानां प्रवृत्ति: दर्शिता। परमेश्वरस्य सर्वात्मभावोऽपि दर्शित: - तदात्मानं स्वयमकुरुत।(तैत्ति.२.६.१)
पू.- तदैक्षत इत्यत्र अप्तेजसो: ईक्षणत्वं श्रूयते।
वे.-तदापि परमेश्वरावेशात् बोद्धव्यम्।नान्योऽतोऽस्ति द्रष्टा(बृ. ३.७.२३) इति ईक्षित्रन्तरप्रतिषेधात्।
पू.-अत: इति कुत:?
वे.- सत:।यतो हि तदैक्षत बहु स्यां प्रजायेय (छा.६.२.३) इति सदेव तत्र प्रस्तुतम्।
ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम् द्वितीयाध्याये तृतीय: पाद: