वाक्यान्वयात्।१.४.१९
पू.- न वा अरे पत्यु: कामाय पति: प्रियो भवति इत्युपक्रान्तम्।
न वा अरे सर्वस्य कामाय सर्वं प्रियं भवति, आत्मनस्तु कामाय सर्वं प्रियं भवति।आत्मा वा अरे द्रष्टव्य: श्रोतव्य: मन्तव्य: निदिध्यासितव्य:, मैत्रेयी।आत्मनो वा अरे दर्शनेन श्रवणेन, मत्या, विज्ञानेन इदं सर्वं विदितं भवतीति उपसंहृतम्। अत्र द्रष्टव्यश्रोतव्यत्वादिरूपेण विज्ञानात्मा उपदिश्यते,उपक्रमसामर्थ्यात्।उपक्रमे प्रियसंसूचित: भोक्ता विज्ञानात्मा उक्त:।अनन्तरं तस्यात्मनो द्रष्टव्यत्वादि उपदिष्टम्।अतोऽत्र विवक्षित: आत्मा विज्ञानात्मा एव।
वे.- एवं सति आत्मविज्ञानेन सर्वविज्ञानम् इति एतद् न सङ्गच्छते।यतो हि विज्ञानात्मज्ञानेन सर्वविज्ञानं न सम्भवति।
पू.- सर्वं भोग्यजातं विज्ञानात्मन: कृतेऽस्ति इति उपचाराद् विज्ञानात्मज्ञानेन सर्वविज्ञानं भवतीति उक्तम्।
वे.- अत्र परमात्मोपदेश एवास्ति, न विज्ञानात्मोपदेश:,वाक्यस्यास्य पूर्वापरै: वाक्यै: अन्वयात्।
अमृतत्वमाशासाना मैत्रेयी पृच्छति, - ‘येनाहं नामृता स्यां, किमहं तेन कुर्यां, यदेव भगवान् वेद तदेव मे ब्रूहि।’
तस्योत्तरे याज्ञवल्क्यस्य वचनमिदम्।अन्यत्र परमात्मविज्ञानादमृतत्वं नास्तीति श्रुतिस्मृति-प्रसिद्धि: (नान्य: पन्था विद्यतेऽयनाय)।परमात्मविज्ञानेन एव सर्वविज्ञानं भवति, न विज्ञानात्म-विज्ञानेन।
पू.- ननूक्तं यद् विज्ञानात्मना विज्ञातेन सर्वं विज्ञानं भवतीति औपचारिकम्।
वे.- नैतदौपचारिकं भवितुमर्हति यतो हि –
१ आत्मविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय अनन्तरेण ग्रन्थेन तत्कारणमुपपादयति श्रुति: ‘ब्रह्म तं परादाद्योऽन्यत्रात्मनो ब्रह्म वेद।’ यो ब्रह्मक्षत्रादिकं जगद् आत्मनोऽन्यत्र पश्यति, तं जगत् पराकुर्यादिति आशय:।
२ ‘इदं सर्वं यदयमात्मा’ इति सर्वस्य वस्तुजातस्य आत्माव्यतिरेकं वदति श्रुति:।
३ ‘अस्य महतो भूतस्य नि:श्वसितमेतद् यदृग्वेद:...(बृ. ४.५.११) इति तस्य प्रपञ्चकारणतां वदति श्रुति:।
अत: आत्मविज्ञानेन सर्वविज्ञानं इति नैतदौपचारिकं भवितुमर्हति। तस्मात्परमात्मन एवायं दर्शनाद्युपदेश:।
पू.- प्रियसंसूचितेन उपक्रमेण तु विज्ञानात्मन एव दर्शनादि इति गम्यते।
वे.- अस्य उत्तरमग्रिमे सूत्रे –

प्रतिज्ञासिद्धे लिङ्गमाश्मरथ्य:।१.४.२०
वे.- अत्र प्रतिज्ञा – आत्मनि विज्ञाते सर्वमिदं विज्ञातं भवतीति।तथा इदं सर्वं यदयमात्मा।द्रष्टव्यादिसङ्कीर्तनं तु प्रियसंसूचितस्य विज्ञानात्मन:।अथ यदि विज्ञानात्मा परमात्मनोऽन्य: स्यात्, तदा परमात्मविज्ञानेन विज्ञानात्मा न विज्ञायेत। एवमेकविज्ञानेन सर्वविज्ञानम् इति प्रतिज्ञा हीयते।तस्मात् प्रतिज्ञासिद्ध्यै विज्ञानात्म-परमात्मनोरभेदमादाय उपक्रम: कृत: इति आश्मरथ्यसंज्ञस्य आचार्यस्य मतम्।अत: प्रियसंसूचितस्य द्रष्टव्यत्वादिवर्णनं प्रतिज्ञासिदधे: लिङ्गमस्ति।

उत्क्रमिष्यत एवंभावादित्यौडुलोमि:। १.४.२१
वे.- उपक्रमे विज्ञानात्मा, उपसंहारे परमात्मा इत्येतस्य स्पष्टीकरणम् औडुलोमि: नामाचार्य: अत्र वदति। विज्ञानात्मा देहेन्द्रियादिसम्पर्कात् कलुषीभूत:।ज्ञानाध्ययनादिसाधनेन तस्माद्देहादिसङ्घातात् स उत्क्रमति।एवमुत्क्रमिष्यत: विज्ञानात्मन: परमात्मना ऐक्यम्।तदभिलक्ष्य अत्र उपक्रमे विज्ञानात्मा उपसंहारे परमात्मा निर्दिष्ट:।उत्क्रमणे च श्रुति: प्रमाणम् - एष सम्प्रसादोऽस्माच्छरीरात् समुत्थाय स्वेन रूपेणाभिनिष्पद्यते। (छा. ८.१२.३)

अनवस्थितेरिति काशकृत्स्न:।१.४.२२
वे.- विज्ञानात्मानमादायोपक्रम:।परमानन्दमादायोपसंहार:।एतत्कथमुपपन्नं भवतीति प्रश्नस्य समाधानं वदति काशकृत्स्नो नामाचार्य:।अस्यैव परमात्मन:, अनेनापि विज्ञानात्मना अवस्थानाद् एतदुपपन्नम्।तत्र प्रमाणम्- अनेन जीवेनात्मानमनुप्रविश्य नामरूपे व्याकरवाणि। (छा. ६.३.२)

ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम्     प्रथमाध्याये चतुर्थ: पाद:
"https://sa.wikibooks.org/w/index.php?title=वाक्यान्वयाधिकरणम्&oldid=5591" इत्यस्माद् प्रतिप्राप्तम्