वज्रपञ्जरनामेदं... जयमङ्गलम्

मूलम्
वज्रपञ्जरनामेदं यो रामकवचं स्मरेत् । अव्याहताज्ञः सर्वत्र लभते जयमङ्गलम् ॥१४॥

पदच्छेदः
वज्रपञ्जरनाम इदं यः रामकवचं स्मरेत् । अव्याहत-आज्ञः सर्वत्र लभते जयमङ्गलम् ॥१४॥

अन्वयः
यः इदं वज्रपञ्जरनाम रामकवचं स्मरेत् , (सः)अव्याहत-आज्ञः (भवति), सर्वत्र जयमङ्गलं लभते ॥१४॥

सरलार्थः
एतत् रामकवचं वज्रपञ्जरसदृशम् अभेद्यम् अस्ति।यः एतत् स्मरति, तस्य आज्ञा कदापि विफला न भवति।सः सर्वत्र जयं मङ्गलं च लभते॥१४

सन्धिविग्रहः १४

सन्धिः विग्रहः सूत्रम्
नामेदं नाम-इदं आद्गुणः।६.१.८६
यो रामकवचं यस् रामकवचं ससजुषो रुः।८.२.६६
हशि च।६.१.११२
अव्याहताज्ञः अव्याहत-आज्ञः अकः सवर्णे दीर्घः।६.१.९९

समासविग्रहः१४
वज्रपञ्जरनाम
वज्रस्य पञ्जरः वज्रपञ्जरः।... षष्ठी।२.२.८
वज्रपञ्जरः च सः नाम च वज्रपञ्जरनाम।... विशेषणं विशेषेण बहुलम्।२.१.५७

रामकवचम्
रामस्य कवचं रामकवचम्।... षष्ठी।२.२.८
अव्याहताज्ञः
न व्याहता अव्याहता।... नञ् ।२.२.६
अव्याहता आज्ञा यस्य सः अव्याहताज्ञः।... अनेकमन्यपदार्थे।२.२.२४

जयमङ्गलम्
जयः च असौ मङ्गलं च जयमङ्गलम्।... विशेषणं विशेषेण बहुलम्।२.१.५७

रामरक्षास्तोत्रम् - सान्वयं सार्थम्