रामो राजमणिः ... मामुद्धर

मूलम्
रामो राजमणिः सदा विजयते रामं रमेशं भजे । रामेणाभिहता निशाचरचमू रामाय तस्मै नमः ।
रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहम् । रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर ॥३७॥

पदच्छेदः
रामः राजमणिः सदा विजयते रामं रमेशं भजे । रामेण अभिहता निशाचर-चमूः रामाय तस्मै नमः ।
रामात् न अस्ति परायणं परतरं रामस्य दासः अस्मि अहम्। रामे चित्तलयः सदा भवतु मे भो राम माम् उद्धर ॥३७॥

अन्वयः
राजमणिः रामः सदा विजयते।(अहं) रमेशं रामं भजे ।(येन)रामेण निशाचर-चमूः अभिहता तस्मै रामाय नमः ।रामात् परतरं परायणं न अस्ति। अहं रामस्य दासः अस्मि। रामे मे चित्तलयः सदा भवतु। भो राम, माम् उद्धर ॥३७॥

सरलार्थः
नृपेषु श्रेष्ठः रामः सदा विजयी भवति।रमायां पतिं रामम् अहं भजे।अनेन रामेण राक्षसानां गणः नाशितः।तस्मै रामाय नमः।रामात् श्रेष्ठम् आश्रयस्थानं नास्ति।अहं रामस्य दासः अस्मि।मम चित्तं सदा रामे लीनं भवतु।हे राम मम उद्धारं कुरु॥३७

सन्धिविग्रहः ३७

सन्धिः विग्रहः सूत्रम्
रामो राजमणिः रामस् राजमणिः ससजुषो रुः।८.२.६६

हशि च।६.१.११२

रमेशं रमा-ईशं आद्गुणः।६.१.८६
रामेणाभिहता रामेण-अभिहता अकः सवर्णे दीर्घः।६.१.९९
निशाचरचमू रामाय निशाचरचमूस् रामाय ससजुषो रुः।८.२.६६

रो रि।८.३.१४

रामान्न रामात् न झलां जशोऽन्ते।८.२.३९

यरोऽनुनासिकेऽनुनासिको वा।८.४.४५

नास्ति न अस्ति अकः सवर्णे दीर्घः।६.१.९९
परायणं पर-अयणं अकः सवर्णे दीर्घः।६.१.९९
दासोऽस्मि दासस् अस्मि ससजुषो रुः।८.२.६६

अतो रोरप्लुतादप्लुते।६.१.१११
आद्गुणः।६.१.८६
एङःपदान्तादति।६.१.१०७

अस्म्यहम् अस्मि अहम् इको यणचि।६.१.७६
भो राम भोस् राम ससजुषो रुः।८.२.६६

भो-भगो-अघो-अपूर्वस्य योऽशि।८.३.१७
लोपः शाकल्यस्य ।८.३.१९

समासविग्रहः ३७
राजमणिः
राज्ञां मणिः।...षष्ठी।२.२.८

रमेशम्
रमायाः ईशः।...षष्ठी।२.२.८

निशाचरचमू:
निशासु चरन्ति इति निशाचराः।... उपपदमतिङ्।२.२.१९
निशाचराणां चमूः।...षष्ठी।२.२.८

परायणम्
परम् अयनम्।...विशेषणं विशेष्येण बहुलम्।२.१.५७

चित्तलयः
चित्तस्य लयः।...षष्ठी।२.२.८

रामरक्षास्तोत्रम् - सान्वयं सार्थम्