मूलम्
रामेति रामभद्रेति रामचन्द्रेति वा स्मरन् । नरो न लिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति ॥१२॥

पदच्छेदः
राम-इति रामभद्र-इति रामचन्द्र-इति वा स्मरन् । नरः न लिप्यते पापैः भुक्तिं मुक्तिं च विन्दति ॥१२॥

अन्वयः
राम-इति रामभद्र-इति रामचन्द्र-इति वा स्मरन् नरः पापैः न लिप्यते।सः भुक्तिं मुक्तिं च विन्दति ॥१२॥

सरलार्थः
यः नरः राम इति अथवा रामभद्र इति अथवा रामचन्द्र इति नामस्मरणं करोति, तस्य पापलेपः न भवति।सः भोगमपि प्राप्नोति, मोक्षमपि प्राप्नोति॥१२

सन्धिविग्रहः

सन्धिः विग्रहः सूत्रम्
रामेति राम-इति आद्गुणः।६.१.८६
रामभद्रेति रामभद्र-इति आद्गुणः।६.१.८६
रामचन्द्रेति रामचन्द्र-इति आद्गुणः।६.१.८६
नरो न नरस् न ससजुषो रुः।८.२.६६
हशि च।६.१.११२
पापैर्भुक्तिं पापैः भुक्तिं ससजुषो रुः।८.२.६६

समासविग्रहः१२

रामभद्र
रामः च अयं भद्रःच।... विशेषणं विशेषेण बहुलम्।२.१.५७

'रामचन्द्रः
रामः चन्द्रः इव।...उपमितं व्याघ्रादिभिः सामान्याप्रयोगे ।२.१.५६

रामरक्षास्तोत्रम् - सान्वयं सार्थम्
"https://sa.wikibooks.org/w/index.php?title=रामेति_..._च_विन्दति&oldid=7222" इत्यस्माद् प्रतिप्राप्तम्