मूलम्
रामरामेति रामेति रमे रामे मनोरमे । सहस्रनाम तत्तुल्यं रामनाम वरानने ॥३८॥

पदच्छेदः
राम राम इति राम इति रमे रामे मनोरमे । सहस्रनाम तत्तुल्यं रामनाम वरानने ॥३८॥

अन्वयः
हे मनोरमे, ‘राम राम’ इति ‘राम’ इति (अहं) रामे रमे । हे वरानने, यत् सहस्रनाम, तत्तुल्यं रामनाम अस्ति। ॥३८॥

सरलार्थः
हे प्रिये,राम, राम, राम इति नामस्मरणे अहं रमे।हे सुन्दरि, विष्णोः सहस्रनाम्ना रामनाम समानम् अस्ति॥३८

सन्धिविग्रहः ३८

सन्धिः विग्रहः सूत्रम्
रामरामेति रामराम इति आद्गुणः।६.१.८६
रामेति राम इति आद्गुणः।६.१.८६
मनोरमे मनस् रमे ससजुषो रुः।८.२.६६

हशि च।६.१.११२

वरानने वर-आनने अकः सवर्णे दीर्घः।६.१.९९

समासविग्रहः ३८
मनोरमे
मनः रमयति इति।...उपपदमतिङ्।२.२.१९

सहस्रनाम
सहस्रं नाम।...विशेषणं विशेष्येण बहुलम्।२.१.५७

तत्तुल्यम्
तेन तुल्यम्।...पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्षणैः।२.१.३१

रामनाम
रामस्य नाम।...षष्ठी।२.२.८

वरानने
वरम् आननं यस्याः।...अनेकमन्यपदार्थे।२.२.२४

इति श्रीबुधकौशिकविरचितं श्रीरामरक्षास्तोत्रं सम्पूर्णम् ।

रामरक्षास्तोत्रम् - सान्वयं सार्थम्
"https://sa.wikibooks.org/w/index.php?title=रामरामेति_..._वरानने&oldid=7203" इत्यस्माद् प्रतिप्राप्तम्