रामं लक्ष्मणपूर्वजं... राघवं रावणारिम्

मूलम्
रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुन्दरं । काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम् ।
राजेन्द्रं सत्यसन्धं दशरथतनयं श्यामलं शान्तमूर्तिं । वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम् ॥२६॥

पदच्छेदः
रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुन्दरं । काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम् ।
राजेन्द्रं सत्यसन्धं दशरथतनयं श्यामलं शान्तमूर्तिं । वन्दे लोक-अभिरामं रघुकुलतिलकं राघवं रावण-अरिम् ॥२६॥

अन्वयः
(अहं) लक्ष्मणपूर्वजं, रघुवरं, सीतापतिं, सुन्दरं,काकुत्स्थं, करुणार्णवं, गुणनिधिं, विप्रप्रियं, धार्मिकं,राजेन्द्रं, सत्यसन्धं, दशरथतनयं, श्यामलं, शान्तमूर्तिं, लोक-अभिरामं, रघुकुलतिलकं, राघवं, रावण-अरिम्, रामं वन्दे ॥२६॥

सरलार्थः
लक्ष्मणस्य अग्रजं, रघुकुले श्रेष्ठं, सीतायाः पतिं, सुन्दरं, ककुत्स्थकुले जातं, करुणासागरं, गुणस्य निधिं, विप्रेभ्यः प्रियं, धार्मिकं, राजेन्द्रं, सत्यपक्षधरं, दशरथस्य पुत्रं श्यामलवर्णं, शान्ताकृतिं, लोकेषु सुन्दरं, रघुकुलस्य तिलकस्वरूपं, रघुकुलजं, रावणस्य विनाशकं रामम् अहं वन्दे॥२६

सन्धिविग्रहः २६

सन्धिः विग्रहः सूत्रम्
करुणार्णवं करुणा-अर्णवं अकः सवर्णे दीर्घः।६.१.९९
राजेन्द्रं राज-इन्द्रं आद्गुणः।६.१.८६
लोकाभिरामं लोक-अभिरामं अकः सवर्णे दीर्घः।६.१.९९
रावणारिम् रावण-अरिम् अकः सवर्णे दीर्घः।६.१.९९

समासविग्रहः २६
लक्ष्मणपूर्वजम्
पूर्वं जातः पूर्वजः।...उपपदमतिङ्।२.२.१९
लक्ष्मणस्य पूर्वजः लक्ष्मणपूर्वजः, तम्।... षष्ठी।२.२.८

रघुवरम्
रघुषु वरः रघुवरः, तम्।... सप्तमी शौण्डैः।२.१.४०

सीतापतिम्
सीतायाः पतिः सीतापतिः, तम्।... षष्ठी।२.२.८

करुणार्णवम्
करुणायाः अर्णवः करुणार्णवः, तम्।... षष्ठी।२.२.८

गुणनिधिम्
गुणानां निधिः गुणनिधिः,तम्।... षष्ठी।२.२.८

विप्रप्रियम्
विप्राणां प्रियः विप्रप्रियः, तम्। षष्ठी।२.२.८

राजेन्द्रम्
राजसु इन्द्रः राजेन्द्रः, तम्।... सप्तमी शौण्डैः।२.१.४०

सत्यसन्धम्
सत्यं सन्दधाति इति सत्यसन्धः,तम्।... उपपदमतिङ्।२.२.१९

दशरथतनयम्
दशरथस्य तनयः दशरथतनयः, तम्।... षष्ठी।२.२.८


शान्तमूर्तिम्
शान्ता मूर्तिः यस्य, सः शान्तमूर्तिः, तम्।... अनेकमन्यपदार्थे ।२.२.२४

लोकाभिरामम्
लोकेषु अभिरामः लोकाभिरामः, तम्।... सप्तमी शौण्डैः।२.१.४०

रघुकुलतिलकम्
रघूणां कुलं रघुकुलम्।... षष्ठी।२.२.८
रघुकुलस्य तिलकं रघुकुलतिलकम्।... षष्ठी।२.२.८

रावणारिम्
रावणस्य अरिः रावणारिः,तम्। षष्ठी।२.२.८

रामरक्षास्तोत्रम् - सान्वयं सार्थम्