रसरत्नसमुच्चय : अध्याय 02

अष्टमहारसाः

अभ्रवैक्रान्तमाक्षीकविमलाद्रिजसस्यकम् ।
चपलो रसकश्चेति ज्ञात्वाष्टौ संग्रहेद् रसान् ।। रस-२.१ ।।

देव्या रजो भवेद्गन्धो धातुः शुक्रं तथाभ्रकम् इति क्षेपकः ।

अभ्र > आयुर्वेदीय गुण

गौरीतेजः परमममृतं वातपित्तक्षयघ्नम् प्रज्ञाबोधि प्रशमितरुजं वृष्यमायुष्यमग्र्यम् ।
बल्यं स्निग्धं रुचिदम् अकफं दीपनं शीतवीर्यं तत्तद्योगैः सकलगदहृद् व्योम सूतेन्द्रबन्धि ।। रस-२.२ ।।

अभ्र > प्रोदुच्तिओन्

राजहस्ताद् अधस्ताद् यत्समानीतं घनं खनेः ।
भवेत्तदुक्तफलदं निःसत्त्वं निष्फलं परम् ।। रस-२.३ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • तदेवाभ्रकं भूमिमध्ये राजहस्तात् सपादहस्ताद् अधस्ताद् अधोभागस्थं यत् खनिजं घनम् अभ्रकं वज्राख्यं तद् एव पूर्वोक्तगुणम् ।। रसटी-२.३;१
  • इतरं तु वायुजलमूत्रमलतापकृमिसंबन्धान्निःसारं ज्ञेयम् ।। रसटी-२.३;२
  • इदम् उपलक्षणं सर्वेषां खनिजद्रव्याणाम् ।। रसटी-२.३;३
  • प्रायस्तेषां हि भूमिगर्भस्थानाम् एव पूर्णात्मगुणत्वात् ।। रसटी-२.३;४
  • अत्र घनशब्दोऽभ्रकमात्रवाचकोऽपि वज्राभ्रके पर्यवस्यति ।। रसटी-२.३;५
  • तस्यैव यथोक्तगुणत्वात् ।। रसटी-२.३;६



अभ्र > सुब्त्य्पेस्

पिनाकं नागमण्डूकं वज्रमित्यभ्रकं मतम् ।

अभ्र > सुब्त्य्पेस् > चोलोउर्

श्वेतादिवर्णभेदेन प्रत्येकं तच्चतुर्विधम् ।। रस-२.४ ।।

पिनाक

पिनाकं पावकोत्तप्तं विमुञ्चति दलोच्चयम् ।
तत्सेवितं मलं बद्ध्वा मारयत्येव मानवम् ।। रस-२.५ ।।

नाग

नागाभ्रं नागवत्कुर्याद्ध्वनिं पावकसंस्थितम् ।

नाग > आयुर्वेदीय गुण

तद्भुक्तं कुरुते कुष्ठं मण्डलाख्यं न संशयः ।। रस-२.६ ।।

मण्डूक

उत्प्लुत्योत्प्लुत्य मण्डूकं ध्मातं पतति चाभ्रकम् ।

मण्डूक > आयुर्वेदीय गुण

तत्कुर्यादश्मरीरोगमसाध्यं शस्त्रतोऽन्यथा ।। रस-२.७ ।।

वज्र

वज्राभ्रं वह्निसंतप्तं निर्मुक्ताशेषवैकृतम् ।
देहलोहकरं तच्च सर्वरोगहरं परम् ।। रस-२.८ ।।

श्वेतं रक्तं च पीतं च कृष्णमेवं चतुर्विधम् ।
श्वेतं श्वेतक्रियासूक्तं रक्ताभं रक्तकर्मणि ।
पीताभमभ्रकं यत्तु श्रेष्ठं तत्पीतकर्मणि ।। रस-२.९ ।।

चतुर्विधं वरं व्योम यद्यप्युक्तं रसायने ।
तथापि कृष्णवर्णाभ्रं कोटिकोटिगुणाधिकम् ।। रस-२.१० ।।

अभ्र > परीक्षा

स्निग्धं पृथुदलं वर्णसंयुक्तं भारतोऽधिकम् ।
सुखनिर्मोच्यपत्त्रं च तदभ्रं शस्तमीरितम् ।। रस-२.११ ।।

ग्रासायोग्याभ्र

सचन्द्रिकं च किट्टाभं व्योम न ग्रासयेद्रसः ।
ग्रसितश्च नियोज्योऽसौ लोहे चैव रसायने ।। रस-२.१२ ।।


  • टीका रससरत्नसमुच्चयटीका:
  • ग्रासाभावे ह्युपोषित इव रसः कार्यकरो न भवेदित्याह सचन्द्रिकमिति ।। रसटी-२.१२;१
  • सचन्द्रिकं चाकचिक्यसहितम् ।। रसटी-२.१२;२
  • किट्टाभं प्रभूतकिट्टम् ।। रसटी-२.१२;३
  • ग्रसितश्च ग्रसिताभ्रसत्त्व एव लोहे स्वर्णाद्युत्पादने लोहमारणे रोगवारणार्थं लोहप्रयोगे च नियोज्यः ।। रसटी-२.१२;४
  • तथा रसायने ज्वराङ्कुशादि तत्तद्रसे रसायने च लक्ष्मीविलासवज्रपञ्जरादिरूपे वक्ष्यमाण इत्यर्थः ।। रसटी-२.१२;५
  • रस ईयते प्राप्यतेऽनेनेति व्युत्पत्त्यात्र रसशब्देन रसरसायनयोः संग्रहात् ।। रसटी-२.१२;६



अभ्र > निश्चन्द्रिक > आयुर्वेदीय गुण

निश्चन्द्रिकं मृतं व्योम सेव्यं सर्वगदेषु च ।
सेवितं चन्द्रसंयुक्तं मेहं मन्दानलं चरेत् ।। रस-२.१३ ।।

यैर् उक्तं युक्तिनिर्मुक्तैः पत्त्राभ्रकरसायनम् ।
तैर् दृष्टं कालकूटाख्यं विषं जीवनहेतवे ।। रस-२.१४ ।।

सत्त्वार्थं सेवनार्थं च योजयेच्छोधिताभ्रकम् ।
अन्यथा त्व् अगुणं कृत्वा विकरोत्येव निश्चितम् ।। रस-२.१५ ।।

अभ्र > शोधन

प्रतप्तं सप्तवाराणि निक्षिप्तं काञ्जिकेऽभ्रकम् ।
निर्दोषं जायते नूनं प्रक्षिप्तं वापि गोजले ।। रस-२.१६ ।।

त्रिफलाक्वथिते चापि गवां दुग्धे विशेषतः ।

अभ्र > मारण

ततो धान्याभ्रकं कृत्वा पिष्ट्वा मत्स्याक्षिकारसैः ।। रस-२.१७ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • मत्स्याक्षिका हिलमोचिका गण्डदूर्वा वा ।। रसबोध-२.१७;१



चक्रीं कृत्वा विशोष्याथ पुटेद् अर्धेभके पुटे ।


  • टीका रससरत्नसमुच्चयटीका:
  • ततस्तदभ्रकं धान्याभ्रकं कृत्वा मत्स्याक्षिकारसेनैकदिनपर्यन्तं संमर्द्य चक्रीं वर्तुलस्थूलवटिकां विधायावशोष्य शरावसंपुटितं कृत्वार्धेऽभ्रके पुटे पुटेद् अर्धेऽभ्रके पुटम् अर्धगजपुटं तच्च गजपुटगतार्धभागं वनोपलैः पूरयित्वा भवति ।। रसटी-२.१८कख;१
  • पुटेत् पचेद् इत्यर्थः ।। रसटी-२.१८कख;२
  • प्रतिपुटम् अभ्रकस्य मर्दनं ततश्चक्रीं कृत्वा विशोष्य शरावसंपुटितं कार्यम् ।। रसटी-२.१८कख;३



पुटेदेवं हि षड्वारं पौनर्नवरसैः सह ।। रस-२.१८ ।।

कलांशटङ्कणेनापि संमर्द्य कृतचक्रिकम् ।
अर्धेभाख्यपुटैस् तद्वत् सप्तवारं पुटेत् खलु ।। रस-२.१९ ।।

एवं वासारसेनापि तण्डुलीयरसेन च ।
प्रपुटेत् सप्तवाराणि पूर्वप्रोक्तविधानतः ।
एवं सिद्धं घनं सर्वयोगेषु विनियोजयेत् ।। रस-२.२० ।।

धान्याभ्र

चूर्णाभ्रं शालिसंयुक्तं वस्त्रबद्धं हि काञ्जिके ।
निर्यातं मर्दनाद्वस्त्राद्धान्याभ्रमिति कथ्यते ।। रस-२.२१ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • धान्याभ्रविधिमाह चूर्णाभ्रमिति ।। रसबोध-२.२१;१
  • चूर्णाभ्र अभ्रचूर्णं शालिसंयुक्तम् अद्याप्यत्र शालिपरिमाणं नोक्तं तथापि तन्त्रान्तरानुसरणात् पादमितशालिधान्यसहितं बोद्धव्यं तथा च रसेन्द्रसारसंग्रहे ।
  • पादांशं शालिसंयुक्तमभ्रकं कम्बलोदरे ।
  • त्रिरात्रं स्थापयेन्नीरे तत् क्लिन्नं मर्दयेद्दृढम् ।
  • कम्बलाद्गलितं श्लक्ष्णं वालुकारहितं यत् ।
  • तद्धान्याभ्रमिति प्रोक्तमभ्रमारणसिद्धये ।
  • इति ।। रसबोध-२.२१;२
  • निर्यातं निर्गतम् ।। रसबोध-२.२१;३
  • अभ्रं चूर्णितं कृत्वा पादांशशालिधान्येन सह स्थूलवस्त्रे बद्ध्वा काञ्जिके तावन्मर्दनीयं यावद् वस्त्रच्छिद्रात् श्लक्ष्णं वालुकारहितं सत् निर्याति तद्धान्याभ्रं स्मृतम् ।। रसबोध-२.२१;४



धान्याभ्र > मारण

धान्याभ्रं कासमर्दस्य रसेन परिमर्दितम् ।
पुटितं दशवारेण म्रियते नात्र संशयः ।
तद्वन्मुस्तारसेनापि तण्डुलीयरसेन च ।। रस-२.२२ ।।

अभ्र > मारण

पीतामलकसौभाग्यपिष्टं चक्रीकृताभ्रकम् ।
पुटितं षष्टिवाराणि सिन्दूराभं प्रजायते ।
क्षयाद्यखिलरोगघ्नं भवेद्रोगानुपानतः ।। रस-२.२३ ।।

अभ्र > मारण

वटमूलत्वचः क्वाथैस् ताम्बूलीपत्त्रसारतः ।
वासामत्स्याक्षिकाभ्यां वा मीनाक्ष्या सकठिल्लया ।। रस-२.२४ ।।

पयसा वटवृक्षस्य मर्दितं पुटितं घनम् ।
भवेद्विंशतिवारेण सिन्दूरसदृशप्रभम् ।। रस-२.२५ ।।

अभ्र > सत्त्वपातन

पादांशटङ्कणोपेतं मुसलीरसमर्दितम् ।
रुन्ध्यात्कोष्ठ्यां दृढं ध्मातं सत्त्वरूपं भवेद् घनम् ।। रस-२.२६ ।।

अभ्र > सत्त्वपातन

कासमर्दघनाधान्यवासानां च पुनर्भुवः ।
मत्स्याक्ष्याः काण्डवल्ल्याश्च हंसपाद्या रसैः पृथक् ।। रस-२.२७ ।।

पिष्ट्वा पिष्ट्वा प्रयत्नेन शोषयेद् घर्मयोगतः ।
पलं गोधूमचूर्णस्य क्षुद्रमत्स्याश्च टङ्कणम् ।। रस-२.२८ ।।

प्रत्येकमष्टमांशेन दत्त्वा दत्त्वा विमर्दयेत् ।
मर्दने मर्दने सम्यक्शोषयेद्रविरश्मिभिः ।। रस-२.२९ ।।

पञ्चाजं पञ्चगव्यं वा पञ्चमाहिषमेव च ।
क्षिप्त्वा गोलान्प्रकुर्वीत किंचित्तिन्दुकतोऽधिकान् ।। रस-२.३० ।।

पञ्चाज

पयो दधि घृतं मूत्रं सविट्कं चाजम् उच्यते ।
अधःपातनकोष्ठ्यां हि ध्मात्वा सत्त्वं निपातयेत् ।। रस-२.३१ ।।

अभ्र > सत्त्वपातन > सेपरतिओन् ओf सत्त्व अन्द् किट्ट

कोष्ठ्यां किट्टं समाहृत्य विचूर्ण्य रवकान् हरेत् ।


  • टीका रससरत्नसमुच्चयटीका:
  • कोष्ठ्याम् अवशिष्टसत्त्वं काचकिट्टसंश्लिष्टं कणरूपं दुर्ग्राह्यं तत्तु अग्नौ शान्ते सति समाहृत्यैकीकृत्य बहिर् निष्कास्य संकुट्य विचूर्ण्य तत्संश्लिष्टं कणसत्त्वं हरेत् ।। रसटी-२.३२कख;१
  • किट्टात् पृथक्कृत्य गृह्णीयात् ।। रसटी-२.३२कख;२



तत्किट्टं स्वल्पटङ्केन गोमयेन विमर्द्य च ।। रस-२.३२ ।।

गोलान्विधाय संशोष्य घर्मे भूयोऽपि पूर्ववत् ।
भूयः किट्टं समाहृत्य मृदित्वा सत्त्वमाहरेत् ।। रस-२.३३ ।।

अभ्र > सत्त्व > शोधन

अथ सत्त्वकणांस्तांस्तु क्वाथयित्वाम्लकाञ्जिकैः ।
शोधनीयगणोपेतं मूषामध्ये निरुध्य च ।। रस-२.३४ ।।

सम्यग्द्रुतं समाहृत्य द्विवारं प्रधमेद् घनम् ।
इति शुद्धं भवेत्सत्त्वं योज्यं रसरसायने ।। रस-२.३५ ।।

अभ्र > सत्त्व > मृदूकरण

मधुतैलवसाज्येषु द्रावितं परिवापितम् ।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • परिवापितं प्रक्षिप्तम् ।। रसबोध-२.३६कख;१



मृदु स्याद्दशवारेण सत्त्वं लोहादिकं खरम् ।। रस-२.३६ ।।

अभ्र > मारण

पट्टचूर्णं विधायाथ गोघृतेन परिप्लुतम् ।
भर्जयेत्सप्तवाराणि चुल्लीसंस्थितखर्परे ।। रस-२.३७ ।।

अग्निवर्णं भवेद्यावद्वारं वारं विचूर्णयेत् ।
तृणं क्षिप्त्वा दहेद्यावत्तावद्वा भर्जनं चरेत् ।। रस-२.३८ ।।

ततः सगन्धकं पिष्ट्वा वटमूलकषायतः ।
पुटेद्विंशतिवारेण वाराहेण पुटेन हि ।। रस-२.३९ ।।

पुनर्विंशतिवाराणि त्रिफलोत्थकषायतः ।
त्रिफलामुण्डिकाभृङ्गपत्रपथ्याक्षमूलकैः ।। रस-२.४० ।।

भावयित्वा प्रयोक्तव्यं सर्वरोगेषु मात्रया ।
सत्त्वाभ्रात्किंचिदपरं निर्विकारं गुणाधिकम् ।। रस-२.४१ ।।

एवं चेच्छतवाराणि पुटपाकेन साधितम् ।
गुणवज्जायतेऽत्यर्थं परं पाचनदीपनम् ।। रस-२.४२ ।।

अभ्र > मारण > निश्चन्द्रिक

गन्धर्वपत्त्रतोयेन गुडेन सह भावितम् ।
अधोर्ध्वं वटपत्राणि निश्चन्द्रं त्रिपुटैः खगम् ।। रस-२.४३ ।।

क्षुधं करोति चात्यर्थं गुञ्जार्धमितिसेवया ।
तत्तद्रोगहरैर्योगैः सर्वरोगहरं परम् ।। रस-२.४४ ।।

अभ्र > सत्त्व > शोधन

सत्त्वस्य गोलकं ध्मातं सस्यसंयुक्तकाञ्जिके ।
निर्वाप्य तत्क्षणेनैव कुट्टयेल्लोहपारया ।। रस-२.४५ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • लोहपारया लोहमुसलेन ।। रसबोध-२.४५;१



सम्प्रताप्य घनस्थूलकणान् क्षिप्त्वाथ काञ्जिके ।
तत्क्षणेन समाहृत्य कुट्टयित्वा रजश्चरेत् ।। रस-२.४६ ।।

गोघृतेन च तच्चूर्णं भर्जयेत् पूर्ववत् त्रिधा ।
धात्रीफलरसैस्तद्वद्धात्रीपत्ररसेन वा ।। रस-२.४७ ।।

भर्जने भर्जने कार्यं शिलापट्टेन पेषणम् ।
ततः पुनर्नवावासारसैः काञ्जिकमिश्रितैः ।। रस-२.४८ ।।

प्रपुटेद्दशवाराणि दशवाराणि गन्धकैः ।
एवं संशोधितं व्योमसत्त्वं सर्वगुणोत्तरम् ।
यथेष्टं विनियोक्तव्यं जारणे च रसायने ।। रस-२.४९ ।।

अभ्र > द्रुति

द्रुतयो नैव निर्दिष्टाः शास्त्रे दृष्टा अपि दृढम् ।
विना शंभोः प्रसादेन न सिध्यन्ति कदाचन ।। रस-२.५० ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • वल्लः द्विगुञ्जा गुञ्जात्रयम् इति लीलावती सार्धगुञ्जेति राजनिघण्टुः ।। रसबोध-२.५०;१



अभ्र > मृत > आयुर्वेदीय गुण, अप्प्लिचतिओन्

वेल्लव्योषसमन्वितं घृतयुतं वल्लोन्मितं सेवितं दिव्याभ्रं क्षयपाण्डुरुग्ग्रहणिकाशूलामकुष्ठामयम् ।
जूर्तिं श्वासगदं प्रमेहमरुचिं कासामयं दुर्धरं मन्दाग्निं जठरव्यथां विजयते योगैरशेषामयान् ।। रस-२.५१ ।।

वैक्रान्त > परीक्षा > गोओद् ॠउअलित्य्

अष्टास्रश् चाष्टफलकः षट्कोणो मसृणो गुरुः ।
शुद्धमिश्रितवर्णैश्च युक्तो वैक्रान्त उच्यते ।। रस-२.५२ ।।

वैक्रान्त > सुब्त्य्पेस् > चोलोउर्

श्वेतो रक्तश्च पीतश्च नीलः पारापतच्छविः ।
श्यामलः कृष्णवर्णश्च कर्बुरश्चाष्टधा हि सः ।। रस-२.५३ ।।

वैक्रान्त > आयुर्वेदीय गुण

आयुःप्रदश्च बलवर्णकरोऽतिवृष्यः प्रज्ञाप्रदः सकलदोषगदापहारी ।
दीप्ताग्निकृत् पविसमानगुणस्तरस्वी वैक्रान्तकः खलु वपुर्बललोहकारी ।। रस-२.५४ ।।

रसायनेषु सर्वेषु पूर्वगण्यः प्रतापवान् ।
वज्रस्थाने नियोक्तव्यो वैक्रान्तः सर्वदोषहा ।। रस-२.५५ ।।

वैक्रान्त > मिथकीय उत्पत्ति

दैत्येन्द्रो माहिषः सिद्धः सहदेवसमुद्भवः ।
दुर्गा भगवती देवी तं शूलेन व्यमर्दयत् ।। रस-२.५६ ।।

तस्य रक्तं तु पतितं यत्र यत्र स्थितं भुवि ।
तत्र तत्र तु वैक्रान्तं वज्राकारं महारसम् ।। रस-२.५७ ।।

वैक्रान्त > लोचल् दिस्त्रिबुतिओन्

विन्ध्यस्य दक्षिणे वास्ति ह्य् उत्तरे वास्ति सर्वतः ।

वैक्रान्त > निरुक्ति

विकृन्तयति लोहानि तेन वैक्रान्तकः स्मृतः ।। रस-२.५८ ।।

वैक्रान्त > सुब्त्य्पेस् > चोलोउर्

श्वेतः पीतस्तथा रक्तो नीलः पारावतप्रभः ।
मयूरकण्ठसदृशश्चान्यो मरकतप्रभः ।। रस-२.५९ ।।

देहसिद्धिकरं कृष्णं पीते पीतं सिते सितम् ।
सर्वार्थसिद्धिदं रक्तं तथा मरकतप्रभम् ।
शेषे द्वे निष्फले वर्ज्ये वैक्रान्तमिति सप्तधा ।। रस-२.६० ।।

यत्र क्षेत्रे स्थितं चैव वैक्रान्तं तत्र भैरवम् ।
विनायकं च सम्पूज्य गृह्णीयाच्छुद्धमानसः ।। रस-२.६१ ।।

वैक्रान्त > आयुर्वेदीय गुण

वैक्रान्तो वज्रसदृशो देहलोहकरो मतः ।
विषघ्नो रसराजश्च ज्वरकुष्ठक्षयप्रणुत् ।। रस-२.६२ ।।

वैक्रान्त > शोधन

वैक्रान्तकाः स्युस्त्रिदिनं विशुद्धाः संस्वेदिताः क्षारपटूनि दत्त्वा ।
अम्लेषु मूत्रेषु कुलत्थरम्भानीरेऽथवा कोद्रववारिपक्वाः ।। रस-२.६३ ।।

वैक्रान्त > शोधन

कुलत्थक्वाथसंस्विन्नो वैक्रान्तः परिशुध्यति ।

वैक्रान्त > मारण

म्रियतेऽष्टपुटैर् गन्धनिम्बुकद्रवसंयुतः ।। रस-२.६४ ।।

वैक्रान्त > मारण

वैक्रान्तेषु च तप्तेषु हयमूत्रं विनिक्षिपेत् ।
पौनःपुन्येन वा कुर्याद्द्रवं दत्त्वा पुटं त्वनु ।
भस्मीभूतं तु वैक्रान्तं वज्रस्थाने नियोजयेत् ।। रस-२.६५ ।।

वैक्रान्त > सत्त्वपातन

मोचमोरटपालाशक्षारगोमूत्रभावितम् ।
वज्रकन्दनिशाकल्कफलचूर्णसमन्वितम् ।। रस-२.६६ ।।

तत्कल्कं टङ्कणं लाक्षाचूर्णं वैक्रान्तसंभवम् ।
नवसारसमायुक्तं मेषशृङ्गीद्रवान्वितं ।। रस-२.६७ ।।

पिण्डितं मूकमूषस्थं ध्मापितं च हठाग्निना ।
तत्रैव पतते सत्त्वं वैक्रान्तस्य न संशयः ।। रस-२.६८ ।।

वैक्रान्त > सत्त्वपातन

सत्त्वपातनयोगेन मर्दितश्च वटीकृतः ।
मूषास्थो घटिकाध्मातो वैक्रान्तः सत्त्वमुत्सृजेत् ।। रस-२.६९ ।।

वैक्रान्त > fओर्मुलतिओन्स्

भस्मत्वं समुपागतो विकृतको हेम्ना मृतेनान्वितः पादांशेन कणाज्यवेल्लसहितो गुञ्जामितः सेवितः ।
यक्ष्माणं जरणं च पाण्डुगुदजं श्वासं च कासामयं दुष्टां च ग्रहणीम् उरःक्षतमुखान् रोगाञ्जयेद् देहकृत् ।। रस-२.७० ।।

सूतभस्मार्धसंयुक्तं नीलवैक्रान्तभस्मकं ।
मृताभ्रसत्त्वमुभयोस्तुलितं परिमर्दितम् ।। रस-२.७१ ।।

क्षौद्राज्यसंयुतं प्रातर्गुञ्जामात्रं निषेवितम् ।
निहन्ति सकलान्रोगान्दुर्जयानन्यभेषजैः ।
त्रिःसप्तदिवसैर् नॄणां गङ्गाम्भ इव पातकम् ।। रस-२.७२ ।।

माक्षिक > मिथकीय उत्पत्ति

सुवर्णशैलप्रभवो विष्णुना काञ्चनो रसः ।
ताप्यां किरातचीनेषु यवनेषु च निर्मितः ।

माक्षिक > तिमे ओf ओरिगिन्

ताप्यः सूर्यांशुसंतप्तो माधवे मासि दृश्यते ।। रस-२.७३ ।।

माक्षिक > आयुर्वेदीय गुण

मधुरः काञ्चनाभासः साम्लो रजतसंनिभः ।
किंचित्कषायमधुरः शीतः पाके कटुर्लघुः ।
तत्सेवनाज्जराव्याधिविषैर्न परिभूयते ।। रस-२.७४ ।।

माक्षिक > सुब्त्य्पेस्

माक्षिको द्विविधो हेममाक्षिकस्तारमाक्षिकः ।

स्वर्णमाक्षिक

तत्राद्यं माक्षिकं कान्यकुब्जोत्थं स्वर्णसंनिभम् ।। रस-२.७५ ।।

तारमाक्षिक

तपतीतीरसम्भूतं पञ्चवर्णसुवर्णवत् ।
पाषाणबहलः प्रोक्तस्ताराख्योऽल्पगुणात्मकः ।। रस-२.७६ ।।

माक्षीकधातुः सकलामयघ्नः प्राणो रसेन्द्रस्य परं हि वृष्यः ।
दुर्मेललोहद्वयमेलनश् च गुणोत्तरः सर्वरसायनाग्र्यः ।। रस-२.७७ ।।

माक्षिक > शोधन

एरण्डतैललुङ्गाम्बुसिद्धं शुध्यति माक्षिकम् ।

माक्षिक > शोधन

सिद्धं वा कदलीकन्दतोयेन घटिकाद्वयम् ।
तप्तं क्षिप्तं वराक्वाथे शुद्धिमायाति माक्षिकम् ।। रस-२.७८ ।।

माक्षिक > मारण

मातुलुङ्गाम्बुगन्धाभ्यां पिष्टं मूषोदरे स्थितम् ।
पञ्चक्रोडपुटैर् दग्धं म्रियते माक्षिकं खलु ।। रस-२.७९ ।।

माक्षिक > मारण

एरण्डस्नेहगव्याजैर् मातुलुङ्गरसेन वा ।
खर्परस्थं दृढं पक्वं जायते धातुसंनिभम् ।
एवं मृतं रसे योज्यं रसायनविधाव् अपि ।। रस-२.८० ।।

माक्षिक > सत्त्वपातन

त्रिंशांशनागसंयुक्तं क्षारैर् अम्लैश्च वर्तितम् ।
ध्मातं प्रकटमूषायां सत्त्वं मुञ्चति माक्षिकम् ।। रस-२.८१ ।।

माक्षिक > सत्त्व > नागग्रास

सप्तवारं परिद्राव्य क्षिप्तं निर्गुण्डिकारसे ।
माक्षीकसत्त्वसंमिश्रं नागं नश्यति निश्चितम् ।। रस-२.८२ ।।

माक्षिक > सत्त्वपातन

क्षौद्रगन्धर्वतैलाभ्यां गोमूत्रेण घृतेन च ।
कदलीकन्दसारेण भावितं माक्षिकं मुहुः ।
मूषायां मुञ्चति ध्मातं सत्त्वं शुल्बनिभं मृदु ।। रस-२.८३ ।।

माक्षिक > सत्त्व > गुण

गुञ्जाबीजसमच्छायं द्रुतद्रावं च शीतलम् ।
ताप्यसत्त्वं विशुद्धं तद्देहलोहकरं परम् ।। रस-२.८४ ।।

माक्षिक > सत्त्व > मेदिचिनेस्

माक्षीकसत्त्वेन रसेन्द्रपिष्टं कृत्वा विलीने च बलिं निधाय ।
संमिश्र्य संमर्द्य च खल्वमध्ये निक्षिप्य सत्त्वं द्रुतिमभ्रकस्य ।। रस-२.८५ ।।

विधाय गोलं लवणाख्ययन्त्रे पचेद्दिनार्धं मृदुवह्निना च ।
स्वतः सुशीतं परिचूर्ण्य सम्यग्वल्लोन्मितं व्योषविडङ्गयुक्तम् ।। रस-२.८६ ।।

संसेवितं क्षौद्रयुतं निहन्ति जरां सरोगां त्वपमृत्युमेव ।
दुःसाध्यरोगानपि सप्तवासरैर्नैतेन तुल्योऽस्ति सुधारसोऽपि ।। रस-२.८७ ।।

एरण्डोत्थेन तैलेन गुञ्जाक्षौद्रं च टङ्कणम् ।
मर्दितं तस्य वापेन सत्त्वं माक्षीकजं द्रवेत् ।। रस-२.८८ ।।

विमल > सुब्त्य्पेस्

विमलस्त्रिविधः प्रोक्तो हेमाद्यस्तारपूर्वकः ।
तृतीयः कांस्यविमलस्तत्तत्कान्त्या स लक्ष्यते ।। रस-२.८९ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • विमलस्य भेदमाह विमल इति ।। रसबोध-२.८९;१
  • विमलः माक्षिकविशेषः ।। रसबोध-२.८९;२
  • तत्तत्कान्त्या हेमादीनां प्रभया ।। रसबोध-२.८९;३
  • पर्यायमुक्तावलीकृता विमलशब्देन रौप्यमाक्षिकं गृहीतम् ।। रसबोध-२.८९;४



विमल > फ्य्स्. गुण

वर्तुलः कोणसंयुक्तः स्निग्धश्च फलकान्वितः ।

विमल > आयुर्वेदीय गुण

मरुत्पित्तहरो वृष्यो विमलोऽतिरसायनः ।। रस-२.९० ।।

विमल > सुब्त्य्पेस् > उसे

पूर्वो हेमक्रियासूक्तो द्वितीयो रूप्यकृन्मतः ।
तृतीयो भेषजे तेषु पूर्वपूर्वो गुणोत्तरः ।। रस-२.९१ ।।

विमल > शोधन

आटरूषजले स्विन्नो विमलो विमलो भवेत् ।
जम्बीरस्वरसे स्विन्नो मेषशृङ्गीरसेऽथवा ।
आयाति शुद्धिं विमलो धातवश्च यथा परे ।। रस-२.९२ ।।

विमल > मारण

गन्धाश्मलकुचाम्लैश्च म्रियते दशभिः पुटैः ।। रस-२.९३ ।।

विमल > सत्त्वपातन

सटङ्कलकुचद्रावैर्मेषशृङ्ग्याश्च भस्मना ।
पिष्टो मूषोदरे लिप्तः संशोष्य च निरुध्य च ।। रस-२.९४ ।।

षट्प्रस्थकोकिलैर्ध्मातो विमलः सीससंनिभः ।
सत्त्वं मुञ्चति तद्युक्तो रसः स्यात्स रसायनः ।। रस-२.९५ ।।

विमल > सत्त्वपातन

विमलं शिग्रुतोयेन काङ्क्षीकासीसटङ्कणम् ।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • काङ्क्षी सौराष्ट्रमृत्तिका ।। रसबोध-२.९६कख;१



वज्रकन्दसमायुक्तं भावितं कदलीरसैः ।। रस-२.९६ ।।

मोक्षकक्षारसंयुक्तं ध्मापितं मूकमूषगम् ।
सत्त्वं चन्द्रार्कसंकाशं पतते नात्र संशयः ।। रस-२.९७ ।।

विमल > सत्त्व > आयुर्वेदीय उसे

तत्सत्त्वं सूतसंयुक्तं पिष्टं कृत्वा सुमर्दितम् ।
विलीने गन्धके क्षिप्त्वा जारयेत्त्रिगुणालकं ।। रस-२.९८ ।।

शिलां पञ्चगुणां चापि वालुकायन्त्रके खलु ।
तारभस्मदशांशेन तावद्वैक्रान्तकं मृतं ।। रस-२.९९ ।।

सर्वमेकत्र संचूर्ण्य पटेन परिगाल्य च ।
निक्षिप्य कूपिकामध्ये परिपूर्य प्रयत्नतः ।। रस-२.१०० ।।

लीढो व्योषवरान्वितो विमलको युक्तो घृतैः सेवितो हन्याद्दुर्भगकृज्ज्वराञ्श्वयथुकं पाण्डुप्रमेहारुचीः ।
मूलार्तिं ग्रहणीं च शूलमतुलं यक्ष्मामयं कामलां सर्वान्पित्तमरुद्गदान्किमपरैर्योगैरशेषामयान् ।। रस-२.१०१ ।।

शिलाजतु > सुब्त्य्पेस्

शिलाधातुर् द्विधा प्रोक्तो गोमूत्राद्यो रसायनः ।
कर्पूरपूर्वकश्चान्यस्तत्राद्यो द्विविधः पुनः ।
ससत्त्वश्चैव निःसत्त्वस्तयोः पूर्वो गुणाधिकः ।। रस-२.१०२ ।।

शिलाजतु > ओरिगिन् दुरिन्ग् सुम्मेर्

ग्रीष्मे तीव्रार्कतप्तेभ्यः पादेभ्यो हिमभूभृतः ।
स्वर्णरूप्यार्कगर्भेभ्यः शिलाधातुर्विनिःसरेत् ।। रस-२.१०३ ।।

शिलाजतु > fरोम् गोल्द्

स्वर्णगर्भगिरेर्जातो जपापुष्पनिभो गुरुः ।
सस्वल्पतिक्तः सुस्वादुः परमं तद्रसायनम् ।। रस-२.१०४ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • तत्रादौ स्वर्णादिभ्य उत्पत्तिभेदेन त्रिविधस्य गोमूत्रगन्धिनः तस्य लक्षणादिकमाह स्वर्णेति ।। रसबोध-२.१०४;१
  • तन्त्रान्तरे तु उत्पत्तिभेदेन भिन्नस्य तस्य चातुर्विध्यमुक्तं यथा चरके ।
  • नात्युष्णशीतं धातुभ्यश्चतुर्भ्यस्तस्य संभवः ।
  • हेम्नोऽथ रजतात्ताम्रात् वरं कालायसादपि ।। रसबोध-२.१०४;२
  • इति ।। रसबोध-२.१०४;३
  • अत्र तु आयसं नोक्तं तल्लक्षणमपि तत्रैव द्रष्टव्यं यथा ।
  • यत्तु गुग्गुलुसंकाशं तिक्तकं लवणान्वितम् ।
  • विपाके कटु शीतं च सर्वश्रेष्ठं तदायसं ।। रसबोध-२.१०४;४
  • गोमूत्रगन्धि सर्वेषां सर्वकर्मसु यौगिकम् ।
  • रसायनप्रयोगेषु पश्चिमं तु विशिष्यते ।। रसबोध-२.१०४;५
  • इति ।। रसबोध-२.१०४;६
  • अत्र हैमशिलाजतुनो परमरसायनत्वेनोक्तत्वाद् आयसस्यापि मुख्यतः रसायनगुणत्वेन एककार्यकत्वाद् आयसं पृथङ्नोक्तमिति मन्तव्यम् ।। रसबोध-२.१०४;७



शिलाजतु > fरोम् सिल्वेर्

रूप्यगर्भगिरेर्जातं मधुरं पाण्डुरं गुरु ।
शिलाजं पित्तरोगघ्नं विशेषात्पाण्डुरोगहृत् ।। रस-२.१०५ ।।

शिलाजतु > fरोम् चोप्पेर्

ताम्रगर्भं गिरेर्जातं नीलवर्णं घनं गुरु ।
शिलाजं कफवातघ्नं तिक्तोष्णं क्षयरोगहृत् ।। रस-२.१०६ ।।

शिलाजतु > परीक्षा > शुद्ध

वह्नौ क्षिप्तं भवेद्यत्तल्लिङ्गाकारमधूमकम् ।
सलिलेऽथ विलीनं च तच्छुद्धं हि शिलाजतु ।। रस-२.१०७ ।।

शिलाजतु > आयुर्वेदीय गुण

नूनं सज्वरपाण्डुशोफशमनं मेहाग्निमान्द्यापहं मेदश्छेदकरं च यक्ष्मशमनं शूलामयोन्मूलनम् ।
गुल्मप्लीहविनाशनं जठरहृच्छूलघ्नमामापहं सर्वत्वग्गदनाशनं किमपरं देहे च लोहे हितम् ।। रस-२.१०८ ।।

शिलाजतु > पोस्सेस्सेस् गुण ओf इत्स् सोउर्चेस्

रसोपरससूतेन्द्ररत्नलोहेषु ये गुणाः ।
वसन्ति ते शिलाधातौ जरामृत्युजिगीषया ।। रस-२.१०९ ।।

शिलाजतु > शोधन

क्षाराम्लगोजलैर् धौतं शुध्यत्येव शिलाजतु ।। रस-२.११० ।।

शिलाजतु > शोधन

शिलाधातुं च दुग्धेन त्रिफलामार्कवद्रवैः ।
लोहपात्रे विनिक्षिप्य शोधयेदतियत्नतः ।। रस-२.१११ ।।

शिलाजतु > शोधन

क्षाराम्लगुग्गुलोपेतैः स्वेदनीयन्त्रमध्यगैः ।
स्वेदितं घटिकामानाच्छिलाधातु विशुध्यति ।। रस-२.११२ ।।

शिलाजतु > मारण

शिलया गन्धतालाभ्यां मातुलुङ्गरसेन च ।
पुटितं हि शिलाधातु म्रियतेऽष्टगिरिण्डकैः ।। रस-२.११३ ।।

शिलाजतु > आयुर्वेदीय अप्प्लिचतिओन्

भस्मीभूतशिलोद्भवं समतुलं कान्तं च वैक्रान्तकं युक्तं च त्रिफलाकटुत्रिकघृतैर्वल्लेन तुल्यं भजेत् ।
पाण्डौ यक्ष्मगदे तथाग्निसदने मेहेषु मूलामये गुल्मप्लीहमहोदरे बहुविधे शूले च योन्यामये ।। रस-२.११४ ।।

सेवेत यदि षण्मासं रसायनविधानतः ।
वलीपलितनिर्मुक्तो जीवेद्वर्षशतं सुखी ।। रस-२.११५ ।।

शिलाजतु > सत्त्वपातन

पिष्टं द्रावणवर्गेण साम्लेन गिरिसंभवम् ।
क्षिप्त्वा मूषोदरे रुद्ध्वा गाढैर्ध्मातं हि कोकिलैः ।
सत्त्वं मुञ्चेच्छिलाधातुः श्वसनैर्लोहसंनिभम् ।। रस-२.११६ ।।

कर्पूरशिलाजतु > फ्य्स्. गुण

पाण्डुरं सिकताकारं कर्पूराद्यं शिलाजतु ।

कर्पूरशिलाजतु > आयुर्वेदीय गुण

मूत्रकृच्छ्राश्मरीमेहकामलापाण्डुनाशनम् ।। रस-२.११७ ।।

कर्पूरशिलाजतु > शोधन

एलातोयेन संभिन्नं सिद्धं शुद्धिमुपैति तत् ।

कर्पूरशिलाजतु > मारण, सत्त्वपातन

नैतस्य मारणं सत्त्वपातनं विहितं बुधैः ।। रस-२.११८ ।।

सस्यक > मिथकीय उत्पत्ति

पीत्वा हालाहलं वान्तं पीतामृतगरुत्मता ।
विषेणामृतयुक्तेन गिरौ मरकताह्वये ।
तद्वान्तं हि घनीभूतं संजातं सस्यकं खलु ।। रस-२.११९ ।।

सस्यक > परीक्षा > गोओद् ॠउअलित्य्

मयूरकण्ठसच्छायं भाराढ्यमतिशस्यते ।। रस-२.१२० ।।

द्रव्यं विषयुतं यत्तद्द्रव्याधिकगुणं भवेत् ।
हालाहलं सुधायुक्तं सुधाधिकगुणं तथा ।। रस-२.१२१ ।।

मयूरतुत्थ > आयुर्वेदीय गुण

निःशेषदोषविषहृद्गदशूलमूलकुष्ठाम्लपैत्तिकविबन्धहरं परं च ।
रसायनं वमनरेककरं गरघ्नं श्वित्रापहं गदितमत्र मयूरतुत्थम् ।। रस-२.१२२ ।।

सस्यक > शोधन

सस्यकं शुद्धिमाप्नोति रक्तवर्गेण भावितम् ।। रस-२.१२३ ।।

स्नेहवर्गेण संसिक्तं सप्तवारमदूषितम् ।
दोलायन्त्रेण सुस्विन्नं सस्यकं प्रहरत्रयम् ।
गोमहिष्याजमूत्रेषु शुध्यते पञ्चखर्परम् ।। रस-२.१२४ ।।

तुत्थखर्पर > मारण

लकुचद्रावगन्धाश्मटङ्कणेन समन्वितम् ।
निरुध्य मूषिकामध्ये म्रियते कौक्कुटैः पुटैः ।। रस-२.१२५ ।।

खर्पर > सत्त्वपातन

सस्यकस्य तु चूर्णं तु पादसौभाग्यसंयुतम् ।
करञ्जतैलमध्यस्थं दिनमेकं निधापयेत् ।। रस-२.१२६ ।।

अन्धमूषास्यमध्यस्थं ध्मापयेत्कोकिलत्रयम् ।
इन्द्रगोपाकृति चैव सत्त्वं भवति शोभनम् ।। रस-२.१२७ ।।

खर्पर > सत्त्वपातन

निम्बुद्रवाल्पटङ्काभ्यां मूषामध्ये निरुध्य च ।
ताम्ररूपं परिध्मातं सत्त्वं मुञ्चति सस्यकम् ।। रस-२.१२८ ।।

खर्पर > सत्त्वपातन

शुद्धं सस्यं शिलाक्रान्तं पूर्वभेषजसंयुतम् ।
नानाविधानयोगेन सत्त्वं मुञ्चति निश्चितम् ।। रस-२.१२९ ।।

सत्त्वमेतत्समादाय खरभूनागसत्त्वभुक् ।
तन्मुद्रिका कृतस्पर्शा शूलघ्नी तत्क्षणाद् भवेत् ।। रस-२.१३० ।।

चराचरं विषं भूतडाकिनीदृग्गतं जयेत् ।
मुद्रिकेयं विधातव्या दृष्टप्रत्ययकारिका ।। रस-२.१३१ ।।

रामवत् सोमसेनानीर् मुद्रितेऽपि तथाक्षरम् ।
हिमालयोत्तरे पार्श्वे अश्वकर्णो महाद्रुमः ।
तत्र शूलं समुत्पन्नं तत्रैव विलयं गतम् ।। रस-२.१३२ ।।

मन्त्रेणानेन मुद्राम्भो निपीतं सप्तमन्त्रितम् ।
सद्यः शूलहरं प्रोक्तमिति भालुकिभाषितम् ।। रस-२.१३३ ।।

अनया मुद्रया तप्तं तैलमग्नौ सुनिश्चितम् ।
लेपितं हन्ति वेगेन शूलं यत्र क्वचिद्भवेत् ।
सद्यः सूतिकरं नार्याः सद्यो नेत्ररुजापहम् ।। रस-२.१३४ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • चपलः यशदः दस्तेति लोके ।। रसबोध-२.१३४;१



चपल > सुब्त्य्पेस्

गौरः श्वेतोऽरुणः कृष्णश्चपलस्तु चतुर्विधः ।
हेमाभश्चैव ताराभो विशेषाद्रसबन्धनः ।। रस-२.१३५ ।।

शेषौ तु मध्यौ लाक्षावच्छीघ्रद्रावौ तु निष्फलौ ।


  • टीका रससरत्नसमुच्चयटीका:
  • अथोद्देशक्रमानुरोधेन तुत्थवर्णनान्तरं चपलं वर्णयति गौर इति ।। रसटी-२.१३६कख;१
  • अयं पदार्थो व्यावहारिकनाम्नास्मिन् देशे लोके न प्रसिद्धः ।। रसटी-२.१३६कख;२
  • पाषाणविशेषोऽयं जसदखनिसंनिहितभूगर्भ उपलभ्यत इत्यनुमीयते ।। रसटी-२.१३६कख;३
  • आङ्ग्लभाषायां रेडियम् इति नाम्नोपलब्धः पदार्थोऽयम् एवेति केचित् ।। रसटी-२.१३६कख;४
  • कृत्रिमस्तु परिभाषाध्याये वक्ष्यमाणः ।। रसटी-२.१३६कख;५



चपल > निरुक्ति

वङ्गवद्द्रवते वह्नौ चपलस्तेन कीर्तितः ।। रस-२.१३६ ।।

चपल > आयुर्वेदीय गुण

चपलो लेखनः स्निग्धो देहलोहकरो मतः ।
रसराजसहायः स्यात्तिक्तोष्णमधुरो मतः ।। रस-२.१३७ ।।

चपल > फ्य्स्. गुण

चपलः स्फटिकच्छायः षडस्री स्निग्धको गुरुः ।

चपल > आयुर्वेदीय गुण

त्रिदोषघ्नोऽतिवृष्यश्च रसबन्धविधायकः ।। रस-२.१३८ ।।

चपल > एलेमेन्त् ओf महारस

महारसेषु कैश्चिद्धि चपलः परिकीर्तितः ।। रस-२.१३९ ।।

चपल > शोधन

जम्बीरकर्कोटकशृङ्गवेरैर् विभावनाभिश्चपलस्य शुद्धिः ।। रस-२.१४० ।।

चपल > सत्त्वपातन

शैलं तु चूर्णयित्वा तु धान्याम्लोपविषैर् विषैः ।
पिण्डं बद्ध्वा तु विधिवत्पातयेच्चपलं तथा ।। रस-२.१४१ ।।

रसक > सुब्त्य्पेस्

रसको द्विविधः प्रोक्तो दुर्दुरः कारवेल्लकः ।
सदलो दुर्दुरः प्रोक्तो निर्दलः कारवेल्लकः ।। रस-२.१४२ ।।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • रसकस्य द्वैविध्यं लक्षणं चाह रसक इति ।। रसबोध-२.१४२;१
  • रसकः खर्परीतुत्थकविशेषः यद् उक्तं भावप्रकाशे ।
  • खर्परीतुत्थकं तुत्थाद् अन्यत् तद् रसकं स्मृतम् ।
  • ये गुणास्तुत्थके प्रोक्तास्ते गुणाः रसके स्मृताः ।। रसबोध-२.१४२;२
  • इति ।। रसबोध-२.१४२;३
  • सदलः सपत्त्रः वंशपत्त्रहरितालवद् इति भावः ।। रसबोध-२.१४२;४


$


  • टीका रससरत्नसमुच्चयटीका:
  • अथोद्देशक्रमप्राप्तं रसकं वर्णयति रसक इति ।। रसटी-२.१४२;१
  • रसको जसदोपादानखनिजमृत्तिका ।। रसटी-२.१४२;२
  • तत्सत्त्वं जसदतुल्यम् एवोत्पद्यते ।। रसटी-२.१४२;३



सत्त्वपाते शुभः पूर्वो द्वितीयश्चौषधादिषु ।

रसक > आयुर्वेदीय गुण

रसकः सर्वमेहघ्नः कफपित्तविनाशनः ।
नेत्ररोगक्षयघ्नश्च लोहपारदरञ्जनः ।। रस-२.१४३ ।।

नागार्जुनेन संदिष्टौ रसश्च रसकावुभौ ।
श्रेष्ठौ सिद्धरसौ ख्यातौ देहलोहकरौ परम् ।। रस-२.१४४ ।।

रसश्च रसकश्चोभौ येनाग्निसहनौ कृतौ ।
देहलोहमयी सिद्धिर्दासी तस्य न संशयः ।। रस-२.१४५ ।।

रसक > शोधन

कटुकालाबुनिर्यास आलोड्य रसकं पचेत् ।
शुद्धं दोषविनिर्मुक्तं पीतवर्णं तु जायते ।। रस-२.१४६ ।।

रसक > शोधन

खर्परः परिसंतप्तः सप्तवारं निमज्जितः ।
बीजपूररसस्यान्तर्निर्मलत्वं समश्नुते ।। रस-२.१४७ ।।

रसक > शोधन

नृमूत्रे वाश्वमूत्रे वा तक्रे वा काञ्जिकेऽथवा ।
प्रताप्य मज्जितं सम्यक्खर्परं परिशुध्यति ।। रस-२.१४८ ।।

रसक > शोधन

नरमूत्रे स्थितो मासं रसको रञ्जयेद्ध्रुवम् ।
शुद्धताम्रं रसं तारं शुद्धस्वर्णप्रभं यथा ।। रस-२.१४९ ।।

रसक > सत्त्वपातन

हरिद्रात्रिफलारालासिन्धुधूमैः सटङ्कणैः ।
सारुष्करैश्च पादांशैः साम्लैः संमर्द्य खर्परम् ।। रस-२.१५० ।।

लिप्तं वृन्ताकमूषायां शोषयित्वा निरुध्य च ।
मूषामुखोपरि न्यस्य खर्परं प्रधमेत्ततः ।। रस-२.१५१ ।।

खर्परे प्रहृते ज्वाला भवेन्नीला सिता यदि ।
तदा संदंशतो मूषां धृत्वा कृत्वा त्वधोमुखीम् ।। रस-२.१५२ ।।

शनैरास्फालयेद्भूमौ यथा नालं न भज्यते ।
वङ्गाभं पतितं सत्त्वं समादाय नियोजयेत् ।
एवं त्रिचतुरैर्वारैः सर्वं सत्त्वं विनिःसरेत् ।। रस-२.१५३ ।।

रसक > सत्त्वपातन

साभयाजतुभूनागनिशाधूमजटङ्कणम् ।
मूकमूषागतं ध्मातं शुद्धं सत्त्वं विमुञ्चति ।। रस-२.१५४ ।।

रसक > सत्त्वपातन

लाक्षागुडासुरीपथ्याहरिद्रासर्जटङ्कणैः ।
सम्यक्संचूर्ण्य तत्पक्वं गोदुग्धेन घृतेन च ।। रस-२.१५५ ।।

वृन्ताकमूषिकामध्ये निरुध्य गुटिकाकृतिम् ।
ध्मात्वा ध्मात्वा समाकृष्य ढालयित्वा शिलातले ।
सत्त्वं वङ्गाकृतिं ग्राह्यं रसकस्य मनोहरम् ।। रस-२.१५६ ।।

रसक > सत्त्वपातन

यद्वा जलयुतां स्थालीं निखनेत्कोष्ठिकोदरे ।
सच्छिद्रं तन्मुखे मल्लं तन्मुखेऽधोमुखीं क्षिपेत् ।। रस-२.१५७ ।।

मूषोपरि शिखित्रांश्च प्रक्षिप्य प्रधमेद्दृढम् ।
पतितं स्थालिकानीरे सत्त्वमादाय योजयेत् ।। रस-२.१५८ ।।

रसक > सत्त्व > मारण

तत्सत्त्वं तालकोपेतं प्रक्षिप्य खलु खर्परे ।


  • टीका रससरत्नसमुच्चयबोधिनी:
  • खर्परे मृत्कटाहे इत्यर्थः ।। रसबोध-२.१५९कख;१



मर्दयेल्लोहदण्डेन भस्मीभवति निश्चितम् ।। रस-२.१५९ ।।

रसक > सत्त्व > मृत > आयुर्वेदीय उसे

तद्भस्म मृतकान्तेन समेन सह योजयेत् ।
अष्टगुञ्जामितं चूर्णं त्रिफलाक्वाथसंयुतम् ।। रस-२.१६० ।।

कान्तपात्रस्थितं रात्रौ तिलजप्रतिवापकम् ।
निषेवितं निहन्त्याशु मधुमेहमपि ध्रुवम् ।। रस-२.१६१ ।।

पित्तं क्षयं च पाण्डुं च श्वयथुं गुल्ममेव च ।
रक्तगुल्मं च नारीणां प्रदरं सोमरोगकम् ।। रस-२.१६२ ।।

योनिरोगानशेषांश्च विषमांश्च ज्वरानपि ।
रजःशूलं च नारीणां कासं श्वासं च हिध्मिकाम् ।। रस-२.१६३ ।।