मूलम्
रथः क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो।
रथाङ्गे चन्द्रार्कौ रथ-चरण-पाणिः शर इति।।
दिधक्षोस्ते कोऽयं त्रिपुरतृणमाडम्बर विधिः।
विधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः।। १८।।

पदच्छेदः-
रथः क्षोणी यन्ता शतधृतिः अगेन्द्रः धनुः अथ उ।रथाङ्गे चन्द्रार्कौ रथ-चरण-पाणिः शरः इति।।
दिधक्षोः ते कः अयं त्रिपुरतृणम् आडम्बर-विधिः।विधेयैः क्रीडन्त्यः न खलु परतन्त्राः प्रभुधियः।।

अन्वयः-
क्षोणी रथः, शतधृतिः यन्ता, अगेन्द्रः धनुः, अथ उ रथाङ्गे चन्द्रार्कौ, शरः रथ-चरण-पाणिः इति त्रिपुरतृणम् दिधक्षोः ते कः अयम् आडम्बर-विधिः? विधेयैः क्रीडन्त्यः प्रभुधियः न खलु परतन्त्राः ।। १८।।

सरलार्थः-
त्रिपुरासुरं हन्तुं यदा त्वं प्रवृत्तः, तदा त्वया पृथिव्याः रथः कृतः।तत्र इन्द्रस्य सारथ्यं स्वीकृतम्।मेरुपर्वतस्य धनुः कृतम्।रथस्य चक्रयोः चन्द्रसूर्ययोः योजना कृता।बाणे विष्णोः स्थापना कृता।त्रिपुरासुरः तृणवत् तुच्छः।तं हन्तुं प्रवृत्तस्य कोऽयं आडम्बरः? ईश्वरस्य बुद्धिः स्ववशतया क्रीडति।सा परतन्त्रा नास्ति इति सत्यम्।॥१८


 शिवस्तोत्राणि    शिवमहिम्न: स्तोत्रं सपदच्छेदान्वयार्थम्
"https://sa.wikibooks.org/w/index.php?title=रथः_क्षोणी...&oldid=6173" इत्यस्माद् प्रतिप्राप्तम्