याज्ञवल्क्यस्मृतिः आचाराध्यायः

याज्ञवल्क्यस्मृतिः


[१. उपोद्घातप्रकरणम्]

योगीश्वरं याज्ञवल्क्यं संपूज्य मुनयोऽब्रुवन् ।
वर्णाश्रमेतराणां नो ब्रूहि धर्मान् अशेषतः ॥ यास्मृ१.१ ॥

मिथिलास्थः स योगीन्द्रः क्षणं ध्यात्वाब्रवीन् मुनीन् ।
यस्मिन् देशे मृगः कृष्णस् तस्मिन् धर्मान् निबोधत ॥ यास्मृ१.२ ॥

पुराणन्यायमीमांसा- धर्मशास्त्राङ्गमिश्रिताः ।
वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥ यास्मृ१.३ ॥

मन्वत्रिविष्णुहारीत- याज्ञवल्क्योशनोऽङ्गिराः ।
यमापस्तम्बसंवर्ताः कात्यायनबृहस्पती ॥ यास्मृ१.४ ॥

पराशरव्यासशङ्ख- लिखिता दक्षगौतमौ ।
शातातपो वसिष्ठश् च धर्मशास्त्रप्रयोजकाः ॥ यास्मृ१.५ ॥

देशे काल उपायेन द्रव्यं श्रद्धासमन्वितम् ।
पात्रे प्रदीयते यत् तत् सकलं धर्मलक्षणम् ॥ यास्मृ१.६ ॥

श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रियम् आत्मनः ।
सम्यक्संकल्पजः कामो धर्ममूलम् इदं स्मृतम् ॥ यास्मृ१.७ ॥

इज्याचारदमाहिंसा- दानस्वाध्यायकर्मणाम् ।
अयं तु परमो धर्मो यद् योगेनात्मदर्शनम् ॥ यास्मृ१.८ ॥

चत्वारो वेदधर्मज्ञाः पर्षत् त्रैविद्यम् एव वा ।
सा ब्रूते यं स धर्मः स्याद् एको वाध्यात्मवित्तमः ॥ यास्मृ१.९ ॥


[२. ब्रह्मचारिप्रकरणम्]

ब्रह्मक्षत्रियविट्शूद्रा वर्णास् त्व् आद्यास् त्रयो द्विजाः ।
निषेकाद्याः श्मशानान्तास् तेषां वै मन्त्रतः क्रियाः ॥ यास्मृ१.१० ॥

गर्भाधानम् ऋतौ पुंसः सवनं स्पन्दनात् पुरा ।
षष्ठेऽष्टमे वा सीमन्तो मास्य् एते जातकर्म च ॥ यास्मृ१.११ ॥

अहन्य् एकादशे नाम चतुर्थे मासि निष्क्रमः ।
षष्ठेऽन्नप्राशनं मासि चूडा कार्या यथाकुलम् ॥ यास्मृ१.१२ ॥

एवम् एनः शमं याति बीजगर्भसमुद्भवम् ।
तूष्णीम् एताः क्रियाः स्त्रीणां विवाहस् तु समन्त्रकः ॥ यास्मृ१.१३ ॥

गर्भाष्टमेऽष्टमे वाब्दे ब्राह्मणस्योपनायनम् ।
राज्ञाम् एकादशे सैके विशाम् एके यथाकुलम् ॥ यास्मृ१.१४ ॥

उपनीय गुरुः शिष्यं महाव्याहृतिपूर्वकम् ।
वेदम् अध्यापयेद् एनं शौचाचारांश् च शिक्षयेत् ॥ यास्मृ१.१५ ॥

दिवासंध्यासु कर्णस्थ- ब्रह्मसूत्रोदङ्मुखः ।
कुर्यान् मूत्रपुरीषे च रात्रौ चेद् दक्षिणामुखः ॥ यास्मृ१.१६ ॥

गृहीतशिश्नश् चोत्थाय मृद्भिर् अभ्युद्धृतैर् जलैः ।
गन्धलेपक्षयकरं शौचं कुर्याद् अतन्द्रितः ॥ यास्मृ१.१७ ॥

अन्तर्जानु शुचौ देश उपविष्ट उदङ्मुखः ।
प्राग् वा ब्राह्मेण तीर्थेन द्विजो नित्यम् उपस्पृशेत् ॥ यास्मृ१.१८ ॥

कनिष्ठादेशिन्यङ्गुष्ठ- मूलान्य् अग्रं करस्य च ।
प्रजापतिपितृब्रह्म- देवतीर्थान्य् अनुक्रमात् ॥ यास्मृ१.१९ ॥

त्रिः प्राश्यापो द्विर् उन्मृज्य खान्य् अद्भिः समुपस्पृशेत् ।
अद्भिस् तु प्रकृतिस्थाभिर् हीनाभिः फेनबुद्बुदैः ॥ यास्मृ१.२० ॥

हृत्कण्ठतालुगाभिस् तु यथासंख्यं द्विजातयः ।
शुध्येरन् स्त्री च शूद्रश् च सकृत् स्पृष्टाभिर् अन्ततः ॥ यास्मृ१.२१ ॥

स्नानम् अब्दैवतैर् मन्त्रैर् मार्जनं प्राणसंयमः ।
सूर्यस्य चाप्य् उपस्थानं गायत्र्याः प्रत्यहं जपः ॥ यास्मृ१.२२ ॥

गायत्रीं शिरसा सार्धं जपेद् व्याहृतिपूर्विकाम् ।
प्रतिप्रणवसंयुक्तां त्रिर् अयं प्राणसंयमः ॥ यास्मृ१.२३ ॥

प्राणान् आयम्य संप्रोक्ष्य तृचेनाब्दैवतेन तु ।
जपन्न् आसीत सावित्रीं प्रत्यग् आतारकोदयात् ॥ यास्मृ१.२४ ॥

संध्यां प्राक् प्रातर् एवं हि तिष्ठेद् आसूर्यदर्शनात् ।
अग्निकार्यं ततः कुर्यात् संध्ययोर् उभयोर् अपि ॥ यास्मृ१.२५ ॥

ततोऽभिवादयेद् वृद्धान् असाव् अहम् इति ब्रुवन् ।
गुरुं चैवाप्य् उपासीत स्वाध्यायार्थं समाहितः ॥ यास्मृ१.२६ ॥

आहूतश् चाप्य् अधीयीत लब्धं चास्मै निवेदयेत् ।
हितं तस्याचरेन् नित्यं मनोवाक्कायकर्मभिः ॥ यास्मृ१.२७ ॥

कृतज्ञाद्रोहिमेधावि- शुचिकल्यानसूयकाः ।
अध्याप्या धर्मतः साधु शक्ताप्तज्ञानवित्तदाः ॥ यास्मृ१.२८ ॥

दण्डाजिनोपवीतानि मेखलां चैव धारयेत् ।
ब्राह्मणेषु चरेद् भैक्षम् अनिन्द्येष्व् आत्मवृत्तये ॥ यास्मृ१.२९ ॥

आदिमध्यावसानेषु भवच्छब्दोपलक्षिता ।
ब्राह्मणक्षत्रियविशां भैक्षचर्या यथाक्रमम् ॥ यास्मृ१.३० ॥

कृताग्निकार्यो भुञ्जीत वाग्यतो गुर्वनुज्ञया ।
आपोशानक्रियापूर्वं सत्कृत्यान्नम् अकुत्सयन् ॥ यास्मृ१.३१ ॥

ब्रह्मचर्ये स्थितो नैकम् अन्नम् अद्याद् अनापदि ।
ब्राह्मणः कामम् अश्नीयाच् छ्राद्धे व्रतम् अपीडयन् ॥ यास्मृ१.३२ ॥

मधुमांसाञ्जनोच्छिष्ट- शुक्तस्त्रीप्राणिहिंसनम् ।
भास्करालोकनाश्लील- परिवादादि वर्जयेत् ॥ यास्मृ१.३३ ॥

स गुरुर् यः क्रियाः कृत्वा वेदम् अस्मै प्रयच्छति ।
उपनीय ददद् वेदम् आचार्यः स उदाहृतः ॥ यास्मृ१.३४ ॥

एकदेशम् उपाध्याय ऋत्विग् यज्ञकृद् उच्यते ।
एते मान्या यथापूर्वम् एभ्यो माता गरीयसी ॥ यास्मृ१.३५ ॥

प्रतिवेदं ब्रह्मचर्यं द्वादशाब्दानि पञ्च वा ।
ग्रहणान्तिकम् इत्य् एके केशान्तश् चैव षोडशे ॥ यास्मृ१.३६ ॥

आषोडशाद् आद्वाविंशाच् चतुर्विंशाच् च वत्सरात् ।
ब्रह्मक्षत्रविशां कालौपनायनिकः परः ॥ यास्मृ१.३७ ॥

अत ऊर्ध्वं पतन्त्य् एते सर्वधर्मबहिष्कृताः ।
सावित्रीपतिता व्रात्या व्रात्यस्तोमाद् ऋते क्रतोः ॥ यास्मृ१.३८ ॥

मातुर् यद् अग्रे जायन्ते द्वितीयं मौञ्जिबन्धनात् ।
ब्राह्मणक्षत्रियविशस् तस्माद् एते द्विजाः स्मृताः ॥ यास्मृ१.३९ ॥

यज्ञानां तपसां चैव शुभानां चैव कर्मणाम् ।
वेद एव द्विजातीनां निःश्रेयसकरः परः ॥ यास्मृ१.४० ॥

मधुना पयसा चैव स देवांस् तर्पयेद् द्विजः ।
पितॄन् मधुघृताभ्यां च ऋचोऽधीते च योऽन्वहम् ॥ यास्मृ१.४१ ॥

यजूंषि शक्तितोऽधीते योऽन्वहं स घृतामृतैः ।
प्रीणाति देवान् आज्येन मधुना च पितॄंस् तथा ॥ यास्मृ१.४२ ॥

स तु सोमघृतैर् देवांस् तर्पयेद् योऽन्वहं पठेत् ।
सामानि तृप्तिं कुर्याच् च पितॄणां मधुसर्पिषा ॥ यास्मृ१.४३ ॥

मेदसा तर्पयेद् देवान् अथर्वाङ्गिरसः पठन् ।
पितॄंश् च मधुसर्पिर्भ्याम् अन्वहं शक्तितो द्विजः ॥ यास्मृ१.४४ ॥

वाकोवाक्यं पुराणं च नाराशंसीश् च गाथिकाः ।
इतिहासांस् तथा विद्याः शक्त्याधीते हि योऽन्वहम् ॥ यास्मृ१.४५ ॥

मांसक्षीरौदनमधु- तर्पणं स दिवौकसाम् ।
करोति तृप्तिं कुर्याच् च पितॄणां मधुसर्पिषा ॥ यास्मृ१.४६ ॥

ते तृप्तास् तर्पयन्त्य् एनं सर्वकामफलैः शुभैः ।
यं यं क्रतुम् अधीते च तस्य तस्याप्नुयात् फलम् ॥ यास्मृ१.४७ ॥

त्रिर् वित्तपूर्णपृथिवी- दानस्य फलम् अश्नुते ।
तपसश् च परस्येह नित्यं स्वाध्यायवान् द्विजः ॥ यास्मृ१.४८ ॥

नैष्ठिको ब्रह्मचारी तु वसेद् आचार्यसंनिधौ ।
तदभावेऽस्य तनये पत्न्यां वैश्वानरेऽपि वा ॥ यास्मृ१.४९ ॥

अनेन विधिना देहं सादयन् विजितेन्द्रियः ।
ब्रह्मलोकम् अवाप्नोति न चेहाजायते पुनः ॥ यास्मृ१.५० ॥


[३. विवाहप्रकरणम्]

गुरवे तु वरं दत्त्वा स्नायाद् वा तदनुज्ञया ।
वेदं व्रतानि वा पारं नीत्वा ह्य् उभयम् एव वा ॥ यास्मृ१.५१ ॥

अविप्लुतब्रह्मचर्यो लक्षण्यां स्त्रियम् उद्वहेत् ।
अनन्यपूर्विकां कान्ताम् असपिण्डां यवीयसीम् ॥ यास्मृ१.५२ ॥

अरोगिणीं भ्रातृमतीम् असमानार्षगोत्रजान् ।
पञ्चमात् सप्तमाद् ऊर्ध्वं मातृतः पितृतस् तथा ॥ यास्मृ१.५३ ॥

दशपूरुषविख्याताच् छ्रोत्रियाणां महाकुलात् ।
स्फीताद् अपि न संचारि- रोगदोषसमन्वितात् ॥ यास्मृ१.५४ ॥

एतैर् एव गुणैर् युक्तः सवर्णः श्रोत्रियो वरः ।
यत्नात् परीक्षितः पुंस्त्वे युवा धीमान् जनप्रियः ॥ यास्मृ१.५५ ॥

यद् उच्यते द्विजातीनां शूद्राद् दारोपसंग्रहः ।
नैतन् मम मतं यस्मात् तत्रायं जायते स्वयम् ॥ यास्मृ१.५६ ॥

तिस्रो वर्णानुपूर्व्येण द्वे तथैका यथाक्रमम् ।
ब्राह्मणक्षत्रियविशां भार्या स्वा शूद्रजन्मनः ॥ यास्मृ१.५७ ॥

ब्राह्मो विवाह आहूय दीयते शक्त्यलंकृता ।
तज्जः पुनात्य् उभयतः पुरुषान् एकविंशतिम् ॥ यास्मृ१.५८ ॥

यज्ञस्थ ऋत्विजे दैव आदायार्षस् तु गोद्वयम् ।
चतुर्दश प्रथमजः पुनात्य् उत्तरजश् च षट् ॥ यास्मृ१.५९ ॥

इत्य् उक्त्वा चरतां धर्मं सह या दीयतेऽर्थिने ।
स कायः पावयेत् तज्जः षट् षड्वंश्यान् सहात्मना ॥ यास्मृ१.६० ॥

आसुरो द्रविणादानाद् गान्धर्वः समयान् मिथः ।
राक्षसो युद्धहरणात् पैशाचः कन्यकाछलात् ॥ यास्मृ१.६१ ॥

पाणिर् ग्राह्यः सवर्णासु गृह्णीयात् क्षत्रिया शरम् ।
वैश्या प्रतोदम् आदद्याद् वेदने त्व् अग्रजन्मनः ॥ यास्मृ१.६२ ॥

पिता पितामहो भ्राता सकुल्यो जननी तथा ।
कन्याप्रदः पूर्वनाशे प्रकृतिस्थः परः परः ॥ यास्मृ१.६३ ॥

अप्रयच्छन् समाप्नोति भ्रूणहत्याम् ऋताव् ऋतौ ।
गम्यं त्व् अभावे दातॄणां कन्या कुर्यात् स्वयंवरम् ॥ यास्मृ१.६४ ॥

सकृत् प्रदीयते कन्या हरंस् तां चोरदण्डभाक् ।
दत्ताम् अपि हरेत् पूर्वाच् छ्रेयांश् चेद् वर आव्रजेत् ॥ यास्मृ१.६५ ॥

अनाख्याय ददद् दोषं दण्ड्य उत्तमसाहसम् ।
अदुष्टां तु त्यजन् दण्ड्यो दूषयंस् तु मृषा शतम् ॥ यास्मृ१.६६ ॥

अक्षता च क्षता चैव पुनर्भूः संस्कृता पुनः ।
स्वैरिणी या पतिं हित्वा सवर्णं कामतः श्रयेत् ॥ यास्मृ१.६७ ॥

अपुत्रां गुर्वनुज्ञातो देवरः पुत्रकाम्यया ।
सपिण्डो वा सगोत्रो वा घृताभ्यक्त ऋताव् इयात् ॥ यास्मृ१.६८ ॥

आगर्भसंभवाद् गच्छेत् पतितस् त्व् अन्यथा भवेत् ।
अनेन विधिना जातः क्षेत्रजोऽस्य भवेत् सुतः ॥ यास्मृ१.६९ ॥

हृताधिकारां मलिनां पिण्डमात्रोपजीविनाम् ।
परिभूताम् अधःशय्यां वासयेद् व्यभिचारिणीम् ॥ यास्मृ१.७० ॥

सोमः शौचं ददाव् आसां गन्धर्वश् च शुभां गिरम् ।
पावकः सर्वमेध्यत्वं मेध्या वै योषितो ह्य् अतः ॥ यास्मृ१.७१ ॥

व्यभिचाराद् ऋतौ शुद्धिर् गर्भे त्यागो विधीयते ।
गर्भभर्तृवधादौ च तथा महति पातके ॥ यास्मृ१.७२ ॥

सुरापी व्याधिता धूर्ता वन्ध्यार्थघ्न्य् अप्रियंवदा ।
स्त्रीप्रसूश् चाधिवेत्तव्या पुरुषद्वेषिणी तथा ॥ यास्मृ१.७३ ॥

अधिविन्ना तु भर्तव्या महद् एनोऽन्यथा भवेत् ।
यत्रानुकूल्यं दंपत्योस् त्रिवर्गस् तत्र वर्धते ॥ यास्मृ१.७४ ॥

मृते जीवति वा पत्यौ या नान्यम् उपगच्छति ।
सेह कीर्तिम् अवाप्नोति मोदते चोमया सह ॥ यास्मृ१.७५ ॥

आज्ञासंपादिनीं दक्षां वीरसूं प्रियवादिनीम् ।
त्यजन् दाप्यस् तृतीयांशम् अद्रव्यो भरणं स्त्रियाः ॥ यास्मृ१.७६ ॥

स्त्रीभिर् भर्तृवचः कार्यम् एष धर्मः परः स्त्रियाः ।
आशुद्धेः संप्रतीक्ष्यो हि महापातकदूषितः ॥ यास्मृ१.७७ ॥

लोकानन्त्यं दिवः प्राप्तिः पुत्रपौत्रप्रपौत्रकैः ।
यस्मात् तस्मात् स्त्रियः सेव्याः कर्तव्याश् च सुरक्षिताः ॥ यास्मृ१.७८ ॥

षोडशर्तुनिशाः स्त्रीणां तस्मिन् युग्मासु संविशेत् ।
ब्रह्मचार्य् एव पर्वाण्य् आद्याश् चतस्रस् तु वर्जयेत् ॥ यास्मृ१.७९ ॥

एवं गच्छन् स्त्रियं क्षामां मघां मूलं च वर्जयेत् ।
सुस्थ इन्दौ सकृत् पुत्रं लक्षण्यं जनयेत् पुमान् ॥ यास्मृ१.८० ॥

यथाकामी भवेद् वापि स्त्रीणां वरम् अनुस्मरन् ।
स्वदारनिरतश् चैव स्त्रियो रक्ष्या यतः स्मृताः ॥ यास्मृ१.८१ ॥

भर्तृभ्रातृपितृज्ञाति- श्वश्रूश्वशुरदेवरैः ।
बन्धुभिश् च स्त्रियः पूज्या भूषणाच्छादनाशनैः ॥ यास्मृ१.८२ ॥

संयतोपस्करा दक्षा हृष्टा व्ययपराङ्मुखी ।
कुर्याच् छ्वशुरयोः पाद- वन्दनं भर्तृतत्परा ॥ यास्मृ१.८३ ॥

क्रीडां शरीरसंस्कारं समाजोत्सवदर्शनम् ।
हास्यं परगृहे यानं त्यजेत् प्रोषितभर्तृका ॥ यास्मृ१.८४ ॥

रक्षेत् कन्यां पिता विन्नां पतिः पुत्रास् तु वार्धके ।
अभावे ज्ञातयस् तेषां न स्वातन्त्र्यं क्वचित् स्त्रियाः ॥ यास्मृ१.८५ ॥

पितृमातृसुतभ्रातृ- श्वश्रूश्वशुरमातुलैः ।
हीना न स्याद् विना भर्त्रा गर्हणीयान्यथा भवेत् ॥ यास्मृ१.८६ ॥

पतिप्रियहिते युक्ता स्वाचारा विजितेन्द्रिया ।
सेह कीर्तिम् अवाप्नोति प्रेत्य चानुत्तमां गतिम् ॥ यास्मृ१.८७ ॥

सत्याम् अन्यां सवर्णायां धर्मकार्यं न कारयेत् ।
सवर्णासु विधौ धर्म्ये ज्येष्ठया न विनेतरा ॥ यास्मृ१.८८ ॥

दाहयित्वाग्निहोत्रेण स्त्रियं वृत्तवतीं पतिः ।
आहरेद् विधिवद् दारान् अग्नींश् चैवाविलम्बयन् ॥ यास्मृ१.८९ ॥


[४. वर्णजातिविवेकप्रकरणम्]

सवर्णेभ्यः सवर्णासु जायन्ते हि सजातयः ।
अनिन्द्येषु विवाहेषु पुत्राः संतानवर्धनाः ॥ यास्मृ१.९० ॥

विप्रान् मूर्धावसिक्तो हि क्षत्रियायां विशः स्त्रियाम् ।
अम्बष्ठः शूद्र्यां निषादो जातः पारशवोऽपि वा ॥ यास्मृ१.९१ ॥

वैश्याशूद्र्योस् तु राजन्यान् माहिष्योग्रौ सुतौ स्मृतौ ।
वैश्यात् तु करणः शूद्र्यां विन्नास्व् एष विधिः स्मृतः ॥ यास्मृ१.९२ ॥

ब्राह्मण्यां क्षत्रियात् सूतो वैश्याद् वैदेहकस् तथा ।
शूद्राज् जातस् तु चण्डालः सर्वधर्मबहिष्कृतः ॥ यास्मृ१.९३ ॥

क्षत्रिया मागधं वैश्याच् छूद्रात् क्षत्तारम् एव च ।
शूद्राद् आयोगवं वैश्या जनयामास वै सुतम् ॥ यास्मृ१.९४ ॥

माहिष्येण करण्यां तु रथकारः प्रजायते ।
असत्सन्तस् तु विज्ञेयाः प्रतिलोमानुलोमजाः ॥ यास्मृ१.९५ ॥

जात्युत्कर्षो युगे ज्ञेयः सप्तमे पञ्चमेऽपि वा ।
व्यत्यये कर्मणां साम्यं पूर्ववच् चाधरोत्तरम् ॥ यास्मृ१.९६ ॥


[५. गृहस्थधर्मप्रकरणम्]

कर्म स्मार्तं विवाहाग्नौ कुर्वीत प्रत्यहं गृही ।
दायकालाहृते वापि श्रौतं वैतानिकाग्निषु ॥ यास्मृ१.९७ ॥

शरीरचिन्तां निर्वर्त्य कृतशौचविधिर् द्विजः ।
प्रातःसंध्याम् उपासीत दन्तधावनपूर्वकम् ॥ यास्मृ१.९८ ॥

हुत्वाग्नीन् सूर्यदैवत्यान् जपेन् मन्त्रान् समाहितः ।
वेदार्थान् अधिगच्छेच् च शास्त्राणि विविधानि च ॥ यास्मृ१.९९ ॥

उपेयाद् ईश्वरं चैव योगक्षेमार्थसिद्धये ।
स्नात्वा देवान् पितॄंश् चैव तर्पयेद् अर्चयेत् तथा ॥ यास्मृ१.१०० ॥

वेदाथर्वपुराणानि सेतिहासानि शक्तितः ।
जपयज्ञप्रसिद्ध्यर्थं विद्यां चाध्यात्मिकीं जपेत् ॥ यास्मृ१.१०१ ॥

बलिकर्मस्वधाहोम- स्वाध्यायातिथिसत्क्रियाः ।
भूतपित्रमरब्रह्म- मनुष्याणां महामखाः ॥ यास्मृ१.१०२ ॥

देवेभ्यश् च हुताद् अन्नाच् छेषाद् भूतबलिं हरेत् ।
अन्नं भूमौ श्वचाण्डाल- वायसेभ्यश् च निक्षिपेत् ॥ यास्मृ१.१०३ ॥

अन्नं पितृमनुष्येभ्यो देयम् अप्य् अन्वहं जलम् ।
स्वाध्यायं सततं कुर्यान् न पचेद् अन्नम् आत्मने ॥ यास्मृ१.१०४ ॥

बालस्ववासिनीवृद्ध- गर्भिण्यातुरकन्यकाः ।
संभोज्यातिथिभृत्यांश् च दंपत्योः शेषभोजनम् ॥ यास्मृ१.१०५ ॥

आपोशनेनोपरिष्टाद् अधस्ताद् अश्नता तथा ।
अनग्नम् अमृतं चैव कार्यम् अन्नं द्विजन्मना ॥ यास्मृ१.१०६ ॥

अतिथित्वेन वर्णानां देयं शक्त्यानुपूर्वशः ।
अप्रणोद्योऽतिथिः सायम् अपि वाग्भूतृणोदकैः ॥ यास्मृ१.१०७ ॥

सत्कृत्य भिक्षवे भिक्षा दातव्या सव्रताय च ।
भोजयेच् चागतान् काले सखिसंबन्धिबान्धवान् ॥ यास्मृ१.१०८ ॥

महोक्षं वा महाजं वा श्रोत्रियायोपकल्पयेत् ।
सत्क्रियान्वासनं स्वादु भोजनं सूनृतं वचः ॥ यास्मृ१.१०९ ॥

प्रतिसंवत्सरं त्व् अर्घ्याः स्नातकाचार्यपार्थिवाः ।
प्रियो विवाह्यश् च तथा यज्ञं प्रत्य् ऋत्विजः पुनः ॥ यास्मृ१.११० ॥

अध्वनीनोऽतिथिर् ज्ञेयः श्रोत्रियो वेदपारगः ।
मान्याव् एतौ गृहस्थस्य ब्रह्मलोकम् अभीप्सतः ॥ यास्मृ१.१११ ॥

परपाकरुचिर् न स्याद् अनिन्द्यामन्त्रणाद् ऋते ।
वाक्पाणिपादचापल्यं वर्जयेच् चातिभोजनम् ॥ यास्मृ१.११२ ॥

अतिथिं श्रोत्रियं तृप्तम् आसीमन्तम् अनुव्रजेत् ।
अहःशेषं सहासीत शिष्टैर् इष्टैश् च बन्धुभिः ॥ यास्मृ१.११३ ॥

उपास्य पश्चिमां संध्यां हुत्वाग्नींस् तान् उपास्य च ।
भृत्यैः परिवृतो भुक्त्वा नातितृप्त्याथ संविशेत् ॥ यास्मृ१.११४ ॥

ब्राह्मे मुहूर्ते चोत्थाय चिन्तयेद् आत्मनो हितम् ।
धर्मार्थकामान् स्वे काले यथाशक्ति न हापयेत् ॥ यास्मृ१.११५ ॥

विद्याकर्मवयोबन्धु- वित्तैर् मान्या यथाक्रमम् ।
एतैः प्रभूतैः शूद्रोऽपि वार्धके मानम् अर्हति ॥ यास्मृ१.११६ ॥

वृद्धभारिनृपस्नात- स्त्रीरोगिवरचक्रिणाम् ।
पन्था देयो नृपस् तेषां मान्यः स्नातश् च भूपतेः ॥ यास्मृ१.११७ ॥

इज्याध्ययनदानानि वैश्यस्य क्षत्रियस्य च ।
प्रतिग्रहोऽधिको विप्रे याजनाध्यापने तथा ॥ यास्मृ१.११८ ॥

प्रधानं क्षत्रिये कर्म प्रजानां परिपालनम् ।
कुसीदकृषिवाणिज्य- पाशुपाल्यं विशः स्मृतम् ॥ यास्मृ१.११९ ॥

शूद्रस्य द्विजशुश्रूषा तयाजीवन् वणिग् भवेत् ।
शिल्पैर् वा विविधैर् जीवेद् द्विजातिहितम् आचरन् ॥ यास्मृ१.१२० ॥

भार्यारतिः शुचिर् भृत्य- भर्ता श्राद्धक्रियारतः ।
नमस्कारेण मन्त्रेण पञ्चयज्ञान् न हापयेत् ॥ यास्मृ१.१२१ ॥

अहिंसा सत्यम् अस्तेयं शौचम् इन्द्रियनिग्रहः ।
दानं दमो दया क्षान्तिः सर्वेषां धर्मसाधनम् ॥ यास्मृ१.१२२ ॥

वयोबुद्ध्यर्थवाग्वेष- श्रुताभिजनकर्मणाम् ।
आचरेत् सदृशीं वृत्तिम् अजिह्माम् अशठां तथा ॥ यास्मृ१.१२३ ॥

त्रैवार्षिकाधिकान्नो यः स हि सोमं पिबेद् द्विजः ।
प्राक्सौमिकीः क्रियाः कुर्याद् यस्यान्नं वार्षिकं भवेत् ॥ यास्मृ१.१२४ ॥

प्रतिसंवत्सरं सोमः पशुः प्रत्ययनं तथा ।
कर्तव्याग्रयणेष्टिश् च चातुर्मास्यानि चैव हि ॥ यास्मृ१.१२५ ॥

एषाम् असंभवे कुर्याद् इष्टिं वैश्वानरीं द्विजः ।
हीनकल्पं न कुर्वीत सति द्रव्ये फलप्रदम् ॥ यास्मृ१.१२६ ॥

चाण्डालो जायते यज्ञ- करणाच् छूद्रभिक्षितात् ।
यज्ञार्थं लब्धम् अददद् भासः काकोऽपि वा भवेत् ॥ यास्मृ१.१२७ ॥

कुशूलकुम्भीधान्यो वा त्र्याहिकोऽश्वस्तनोऽपि वा ।
जीवेद् वापि शिलोञ्छेन श्रेयान् एषां परः परः ॥ यास्मृ१.१२८ ॥


[६. स्नातकधर्मप्रकरणम्]

न स्वाध्यायविरोध्यर्थम् ईहेत न यतस् ततः ।
न विरुद्धप्रसङ्गेन संतोषी च भवेत् सदा ॥ यास्मृ१.१२९ ॥

राजान्तेवासियाज्येभ्यः सीदन्न् इच्छेद् धनं क्षुधा ।
दम्भिहैतुकपाखण्डि- बकवृत्तींश् च वर्जयेत् ॥ यास्मृ१.१३० ॥

शुक्लाम्बरधरो नीच- केशश्मश्रुनखः शुचिः ।
न भार्यादर्शनेऽश्नीयान् नैकवासा न संस्थितः ॥ यास्मृ१.१३१ ॥

न संशयं प्रपद्येत नाकस्माद् अप्रियं वदेत् ।
नाहितं नानृतं चैव न स्तेनः स्यान् न वार्धुषी ॥ यास्मृ१.१३२ ॥

दाक्षायणी ब्रह्मसूत्री वेणुमान् सकमण्डलुः ।
कुर्यात् प्रदक्षिणं देव- मृद्गोविप्रवनस्पतीन् ॥ यास्मृ१.१३३ ॥

न तु मेहेन् नदीछाया- वर्त्मगोष्ठाम्बुभस्मसु ।
न प्रत्यग्न्यर्कगोसोम- संध्याम्बुस्त्रीद्विजन्मनः ॥ यास्मृ१.१३४ ॥

नेक्षेतार्कं न नग्नां स्त्रीं न च संसृष्टमैथुनाम् ।
न च मूत्रं पुरीषं वा नाशुची राहुतारकाः ॥ यास्मृ१.१३५ ॥

अयं मे वज्र इत्य् एवं सर्वं मन्त्रम् उदीरयेत् ।
वर्षत्य् अप्रावृतो गच्छेत् स्वपेत् प्रत्यक्शिरा न च ॥ यास्मृ१.१३६ ॥

ष्ठीवनासृक्शकृन्मूत्र- रेतांस्य् अप्सु न निक्षिपेत् ।
पादौ प्रतापयेन् नाग्नौ न चैनम् अभिलङ्घयेत् ॥ यास्मृ१.१३७ ॥

जलं पिबेन् नाञ्जलिना न शयानं प्रबोधयेत् ।
नाक्षैः क्रीडेन् न धर्मघ्नैर् व्याधितैर् वा न संविशेत् ॥ यास्मृ१.१३८ ॥

विरुद्धं वर्जयेत् कर्म प्रेतधूमं नदीतरम् ।
केशभस्मतुषाङ्गार- कपालेषु च संस्थितिम् ॥ यास्मृ१.१३९ ॥

नाचक्षीत धयन्तीं गां नाद्वारेण विशेत् क्वचित् ।
न राज्ञः प्रतिगृह्णीयाल् लुब्धस्योच्छास्त्रवर्तिनः ॥ यास्मृ१.१४० ॥

प्रतिग्रहे सूनिचक्रि- ध्वजिवेश्यानराधिपाः ।
दुष्टा दशगुणं पूर्वात् पूर्वाद् एते यथाक्रमम् ॥ यास्मृ१.१४१ ॥

अध्यायानाम् उपाकर्म श्रावण्यां श्रवणेन वा ।
हस्तेनौषधिभावे वा पञ्चम्यां श्रावणस्य तु ॥ यास्मृ१.१४२ ॥

पौषमासस्य रोहिण्याम् अष्टकायाम् अथापि वा ।
जलान्ते छन्दसां कुर्याद् उत्सर्गं विधिवद् बहिः ॥ यास्मृ१.१४३ ॥

त्र्यहं प्रेतेष्व् अनध्यायः शिष्यर्त्विग्गुरुबन्धुषु ।
उपाकर्मणि चोत्सर्गे स्वशाखाश्रोत्रिये तथा ॥ यास्मृ१.१४४ ॥

[स्वाशाखाश्रोत्रिये ट्xत्]

संध्यागर्जितनिर्घात- भूकंपोल्कानिपातने ।
समाप्य वेदं द्युनिशम् आरण्यकम् अधीत्य च ॥ यास्मृ१.१४५ ॥

पञ्चदश्यां चतुर्दश्याम् अष्टम्यां राहुसूतके ।
ऋतुसंधिषु भुक्त्वा वा श्राद्धिकं प्रतिगृह्य च ॥ यास्मृ१.१४६ ॥

पशुमण्डूकनकुल- श्वाहिमार्जारमूषकैः ।
कृतेऽनन्तरे त्व् अहोरात्रं शक्रपाते तथोच्छ्रये ॥ यास्मृ१.१४७ ॥

श्वक्रोष्टृगर्दभोलूक- सामबाणार्तनिःस्वने ।
अमेध्यशवशूद्रान्त्य- श्मशानपतितान्तिके ॥ यास्मृ१.१४८ ॥

देशेऽशुचाव् आत्मनि च विद्युत्स्तनितसंप्लवे ।
भुक्त्वार्द्रपाणिर् अम्भोऽन्तर् अर्धरात्रेऽतिमारुते ॥ यास्मृ१.१४९ ॥

पांसुप्रवर्षे दिग्दाहे संध्यानीहारभीतिषु ।
धावतः पूतिगन्धे च शिष्टे च गृहम् आगते ॥ यास्मृ१.१५० ॥

खरोष्ट्रयानहस्त्यश्व- नौवृक्षेरिणरोहणे ।
सप्तत्रिंशदनध्यायान् एतांस् तात्कालिकान् विदुः ॥ यास्मृ१.१५१ ॥

देवर्त्विक्स्नातकाचार्य- राज्ञां छायां परस्त्रियाः ।
नाक्रामेद् रक्तविण्मूत्र- ष्ठीवनोद्वर्तनादि च ॥ यास्मृ१.१५२ ॥

विप्राहिक्षत्रियात्मानो नावज्ञेयाः कदाचन ।
आमृत्योः श्रियम् आकाङ्क्षेन् न कंचिन् मर्मणि स्पृशेत् ॥ यास्मृ१.१५३ ॥

दूराद् उच्छिष्टविण्मूत्र- पादाम्भांसि समुत्सृजेत् ।
श्रुतिस्मृत्युदितं सम्यङ् नित्यम् आचारम् आचरेत् ॥ यास्मृ१.१५४ ॥

गोब्राह्मणानलान्नानि नोच्च्छिष्टो न पदा स्पृशेत् ।
न निन्दाताडने कुर्यात् पुत्रं शिष्यं च ताडयेत् ॥ यास्मृ१.१५५ ॥

कर्मणा मनसा वाचा यत्नाद् धर्मं समाचरेत् ।
अस्वर्ग्यं लोकविद्विष्टं धर्म्यम् अप्य् आचरेन् न तु ॥ यास्मृ१.१५६ ॥

मातृपित्रतिथिभ्रातृ- जामिसंबन्धिमातुलैः ।
वृद्धबालातुराचार्य- वैद्यसंश्रितबान्धवैः ॥ यास्मृ१.१५७ ॥

ऋत्विक्पुरोहितापत्य- भार्यादाससनाभिभिः ।
विवादं वर्जयित्वा तु सर्वांल् लोकाञ् जयेद् गृही ॥ यास्मृ१.१५८ ॥

पञ्च पिण्डान् अनुद्धृत्य न स्नायात् परवारिषु ।
स्नायान् नदीदेवखात- ह्रदप्रस्रवणेषु च ॥ यास्मृ१.१५९ ॥

परशय्यासनोद्यान- गृहयानानि वर्जयेत् ।
अदत्तान्य् अग्निहीनस्य नान्नम् अद्याद् अनापदि ॥ यास्मृ१.१६० ॥

कदर्यबद्धचौराणां क्लीबरङ्गावतारिणाम् ।
वैणाभिशस्तवार्धुष्य- गणिकागणदीक्षिणाम् ॥ यास्मृ१.१६१ ॥

चिकित्सकातुरक्रुद्ध- पुंश्चलीमत्तविद्विषाम् ।
क्रूरोग्रपतितव्रात्य- दाम्भिकोच्छिष्टभोजिनाम् ॥ यास्मृ१.१६२ ॥

अवीरास्त्रीस्वर्णकार- स्त्रीजितग्रामयाजिनाम् ।
शस्त्रविक्रयिकर्मार- तन्तुवायश्ववृत्तिनाम् ॥ यास्मृ१.१६३ ॥

नृशंसराजरजक- कृतघ्नवधजीविनाम् ।
चैलधावसुराजीव- सहोपपतिवेश्मनाम् ॥ यास्मृ१.१६४ ॥

पिशुनानृतिनोश् चैव तथा चाक्रिकबन्दिनाम् ।
एषाम् अन्नं न भोक्तव्यं सोमविक्रयिणस् तथा ॥ यास्मृ१.१६५ ॥

शूद्रेषु दासगोपाल- कुलमित्रार्धसीरिणः ।
भोज्यान्नाः नापितश् चैव यश् चात्मानं निवेदयेत् ॥ यास्मृ१.१६६ ॥


[७. भक्ष्याभक्ष्यप्रकरणम्]

अनर्चितं वृथामांसं केशकीटसमन्वितम् ।
शुक्तं पर्युषितोच्छिष्टं श्वस्पृष्टं पतितेक्षितम् ॥ यास्मृ१.१६७ ॥

उदक्यास्पृष्टसंघुष्टं पर्यायान्नं च वर्जयेत् ।
गोघ्रातं शकुनोच्छिष्टं पदा स्पृष्टं च कामतः ॥ यास्मृ१.१६८ ॥

अन्नं पर्युषितं भोज्यं स्नेहाक्तं चिरसंस्थितम् ।
अस्नेहा अपि गोधूम- यवगोरसविक्रियाः ॥ यास्मृ१.१६९ ॥

संधिन्यनिर्दशावत्सा- गोपयः परिवर्जयेत् ।
औष्ट्रम् ऐकशफं स्त्रैणम् आरण्यकम् अथाविकम् ॥ यास्मृ१.१७० ॥

देवतार्थं हविः शिग्रुं लोहितान् व्रश्चनांस् तथा ।
अनुपाकृतमांसानि विड्जानि कवकानि च ॥ यास्मृ१.१७१ ॥

क्रव्यादपक्षिदात्यूह- शुकप्रतुदटिट्टिभान् ।
सारसैकशफान् हंसान् सर्वांश् च ग्रामवासिनः ॥ यास्मृ१.१७२ ॥

कोयष्टिप्लवचक्राह्व- बलाकाबकविष्किरान् ।
वृथाकृसरसम्याव- पायसापूपशष्कुलीः ॥ यास्मृ१.१७३ ॥

कलविङ्कं सकाकोलं कुररं रज्जुदालकम् ।
जालपादान् खञ्जरीटान् अज्ञातांश् च मृगद्विजान् ॥ यास्मृ१.१७४ ॥

चाषांश् च रक्तपादांश् च सौनं वल्लूरम् एव च ।
मत्स्यांश् च कामतो जग्ध्वा सोपवासस् त्र्यहं वसेत् ॥ यास्मृ१.१७५ ॥

पलाण्डुं विड्वराहं च छत्राकं ग्रामकुक्कुटम् ।
लशुनं गृञ्जनं चैव जग्ध्वा चान्द्रायणं चरेत् ॥ यास्मृ१.१७६ ॥

भक्ष्याः पञ्चनखाः सेधागोधाकच्छपशल्लकाः ।
शशश् च मत्स्येष्व् अपि हि सिंहतुण्डकरोहिताः ॥ यास्मृ१.१७७ ॥

तथा पाठीनराजीव- सशल्काश् च द्विजातिभिः ।
अतः शृणुध्वं मांसस्य विधिं भक्षणवर्जने ॥ यास्मृ१.१७८ ॥

प्राणात्यये तथा श्राद्धे प्रोक्षिते द्विजकाम्यया ।
देवान् पितॄन् समभ्यर्च्य खादन् मांसं न दोषभाक् ॥ यास्मृ१.१७९ ॥

वसेत् स नरके घोरे दिनानि पशुरोमभिः ।
सम्मितानि दुराचारो यो हन्त्य् अविधिना पशून् ॥ यास्मृ१.१८० ॥

सर्वान् कामान् अवाप्नोति हयमेधफलं तथा ।
गृहेऽपि निवसन् विप्रो मुनिर् मांसविवर्जनात् ॥ यास्मृ१.१८१ ॥


[८. द्रव्यशुद्धिप्रकरणम्]

सौवर्णराजताब्जानाम् ऊर्ध्वपात्रग्रहाश्मनाम् ।
शाकरज्जुमूलफल- वासोविदलचर्मणाम् ॥ यास्मृ१.१८२ ॥

पात्राणां चमसानां च वारिणा शुद्धिर् इष्यते ।
चरुस्रुक्स्रुवसस्नेह- पात्राण्य् उष्णेन वारिणा ॥ यास्मृ१.१८३ ॥

स्फ्यशूर्पाजिनधान्यानां मुसलोलूखलानसाम् ।
प्रोक्षणं संहतानां च बहूनां धान्यवाससाम् ॥ यास्मृ१.१८४ ॥

तक्षणं दारुशृङ्गास्थ्नां गोवालैः फलसंभुवाम् ।
मार्जनं यज्ञपात्राणां पाणिना यज्ञकर्मणि ॥ यास्मृ१.१८५ ॥

सोषरोदकगोमूत्रैः शुध्यत्य् आविककौशिकम् ।
सश्रीफलैर् अंशुपट्टं सारिष्टैः कुतपं तथा ॥ यास्मृ१.१८६ ॥

सगौरसर्षपैः क्षौमं पुनःपाकान् महीमयम् ।
कारुहस्तः शुचिः पण्यं भैक्षं योषिन्मुखं तथा ॥ यास्मृ१.१८७ ॥

भूशुद्धिर् मार्जनाद् दाहात् कालाद् गोक्रमणात् तथा ।
सेकाद् उल्लेखनाल् लेपाद् गृहं मार्जनलेपनात् ॥ यास्मृ१.१८८ ॥

गोघ्रातेऽन्ने तथा केश- मक्षिकाकीटदूषिते ।
सलिलं भस्म मृद् वापि प्रक्षेप्तव्यं विशुद्धये ॥ यास्मृ१.१८९ ॥

त्रपुसीसकताम्राणां क्षाराम्लोदकवारिभिः ।
भस्माद्भिः कांस्यलोहानां शुद्धिः प्लावो द्रवस्य च ॥ यास्मृ१.१९० ॥

अमेध्याक्तस्य मृत्तोयैः शुद्धिर् गन्धादिकर्षणात् ।
वाक्शस्तम् अम्बुनिर्णिक्तम् अज्ञातं च सदा शुचि ॥ यास्मृ१.१९१ ॥

शुचि गोतृप्तिकृत् तोयं प्रकृतिस्थं महीगतम् ।
तथा मांसं श्वचण्डाल- क्रव्यादादिनिपातितम् ॥ यास्मृ१.१९२ ॥

रश्मिर् अग्नी रजश्छाया गौर् अश्वो वसुधानिलः ।
विप्रुषो मक्षिकाः स्पर्शे वत्सः प्रस्नवने शुचिः ॥ यास्मृ१.१९३ ॥

अजाश्वयोर् मुखं मेध्यं न गोर् न नरजा मलाः ।
पन्थानश् च विशुध्यन्ति सोमसूर्यांशुमारुतैः ॥ यास्मृ१.१९४ ॥

मुखजा विप्रुषो मेध्यास् तथाचमनबिन्दवः ।
श्मश्रु चास्यगतं दन्त- सक्तं त्यक्त्वा ततः शुचिः ॥ यास्मृ१.१९५ ॥

स्नात्वा पीत्वा क्षुते सुप्ते भुक्त्वा रथ्योपसर्पणे ।
आचान्तः पुनर् आचामेद् वासो विपरिधाय च ॥ यास्मृ१.१९६ ॥

रथ्याकर्दमतोयानि स्पृष्टान्य् अन्त्यश्ववायसैः ।
मारुतेनैव शुध्यन्ति पक्वेष्टकचितानि च ॥ यास्मृ१.१९७ ॥


[९. दानप्रकरणम्]

तपस् तप्त्वासृजद् ब्रह्मा ब्राह्मणान् वेदगुप्तये ।
तृप्त्यर्थं पितृदेवानां धर्मसंरक्षणाय च ॥ यास्मृ१.१९८ ॥

सर्वस्य प्रभवो विप्राः श्रुताध्ययनशीलिनः ।
तेभ्यः क्रियापराः श्रेष्ठास् तेभ्योऽप्य् अध्यात्मवित्तमाः ॥ यास्मृ१.१९९ ॥

न विद्यया केवलया तपसा वापि पात्रता ।
यत्र वृत्तम् इमे चोभे तद् धि पात्रं प्रकीर्तितम् ॥ यास्मृ१.२०० ॥

गोभूतिलहिरण्यादि पात्रे दातव्यम् अर्चितम् ।
नापात्रे विदुषा किंचिद् आत्मनः श्रेय इच्छता ॥ यास्मृ१.२०१ ॥

विद्यातपोभ्यां हीनेन न तु ग्राह्यः प्रतिग्रहः ।
गृह्णन् प्रदातारम् अधो नयत्य् आत्मानम् एव च ॥ यास्मृ१.२०२ ॥

दातव्यं प्रत्यहं पात्रे निमित्तेषु विशेषतः ।
याचितेनापि दातव्यं श्रद्धापूतं स्वशक्तितः ॥ यास्मृ१.२०३ ॥

हेमशृङ्गी शफै रौप्यैः सुशीला वस्त्रसंयुता ।
सकांस्यपात्रा दातव्या क्षीरिणी गौः सदक्षिणा ॥ यास्मृ१.२०४ ॥

दातास्याः स्वर्गम् आप्नोति वत्सरान् रोमसम्मितान् ।
कपिला चेत् तारयति भूयश् चासप्तमं कुलम् ॥ यास्मृ१.२०५ ॥

सवत्सारोमतुल्यानि युगान्य् उभयतोमुखीम् ।
दातास्याः स्वर्गम् आप्नोति पूर्वेण विधिना ददत् ॥ यास्मृ१.२०६ ॥

यावद् वत्सस्य पादौ द्वौ मुखं योन्यां च दृश्यते ।
तावद् गौः पृथिवी ज्ञेया यावद् गर्भं न मुञ्चति ॥ यास्मृ१.२०७ ॥

यथाकथंचिद् दत्त्वा गां धेनुं वाधेनुम् एव वा ।
अरोगाम् अपरिक्लिष्टां दाता स्वर्गे महीयते ॥ यास्मृ१.२०८ ॥

श्रान्तसंवाहनं रोगि- परिचर्या सुरार्चनम् ।
पादशौचं द्विजोच्छिष्ट- मार्जनं गोप्रदानवत् ॥ यास्मृ१.२०९ ॥

भूदीपांश् चान्नवस्त्राम्भस्- तिलसर्पिःप्रतिश्रयान् ।
नैवेशिकं स्वर्णधुर्यं दत्त्वा स्वर्गे महीयते ॥ यास्मृ१.२१० ॥

गृहधान्याभयोपानच्- छत्रमाल्यानुलेपनम् ।
यानं वृक्षं प्रियं शय्यां दत्त्वात्यन्तं सुखी भवेत् ॥ यास्मृ१.२११ ॥

सर्वधर्ममयं ब्रह्म प्रदानेभ्योऽधिकं यतः ।
तद् ददत् समवाप्नोति ब्रह्मलोकम् अविच्युतम् ॥ यास्मृ१.२१२ ॥

प्रतिग्रहसमर्थोऽपि नादत्ते यः प्रतिग्रहम् ।
ये लोका दानशीलानां स तान् आप्नोति पुष्कलान् ॥ यास्मृ१.२१३ ॥

कुशाः शाकं पयो मत्स्या गन्धाः पुष्पं दधि क्षितिः ।
मांसं शय्यासनं धानाः प्रत्याखेयं न वारि च ॥ यास्मृ१.२१४ ॥

अयाचिताहृतं ग्राह्यम् अपि दुष्कृतकर्मणः ।
अन्यत्र कुलटाषण्ढ- पतितेभ्यस् तथा द्विषः ॥ यास्मृ१.२१५ ॥

देवातिथिअर्चनकृते गुरुभृत्यार्थम् एव वा ।
सर्वतः प्रतिगृह्णीयाद् आत्मवृत्त्यर्थम् एव च ॥ यास्मृ१.२१६ ॥


[१०. श्राद्धप्रकरणम्]

अमावास्याष्टका वृद्धिः कृष्णपक्षोऽयनद्वयम् ।
द्रव्यं ब्राह्मणसंपत्तिर् विषुवत् सूर्यसंक्रमः ॥ यास्मृ१.२१७ ॥

व्यतीपातो गजच्छाया ग्रहणं चन्द्रसूर्ययोः ।
श्राद्धं प्रति रुचिश् चैते श्राद्धकालाः प्रकीर्तिताः ॥ यास्मृ१.२१८ ॥

अग्र्यः सर्वेषु वेदेषु श्रोत्रियो ब्रह्मविद् युवा ।
वेदार्थविज् ज्येष्ठसामा त्रिमधुस् त्रिसुपर्णकः ॥ यास्मृ१.२१९ ॥

स्वस्रीयर्त्विज्जामातृ- याज्यश्वशुरमातुलाः ।
त्रिणाचिकेतदौहित्र- शिष्यसंबन्धिबान्धवाः ॥ यास्मृ१.२२० ॥

कर्मनिष्ठास् तपोनिष्ठाः पञ्चाग्निर् ब्रह्मचारिणः ।
पितृमातृपराश् चैव ब्राह्मणाः श्राद्धसंपदः ॥ यास्मृ१.२२१ ॥

रोगी हीनातिरिक्ताङ्गः काणः पौनर्भवस् तथा ।
अवकीर्णी कुण्डगोलौ कुनखी श्यावदन्तकः ॥ यास्मृ१.२२२ ॥

भृतकाध्यापकः क्लीबः कन्यादूष्य् अभिशस्तकः ।
मित्रध्रुक् पिशुनः सोम- विक्रयी परिविन्दकः ॥ यास्मृ१.२२३ ॥

मातापितृगुरुत्यागी कुण्डाशी वृषलात्मजः ।
परपूर्वापतिः स्तेनः कर्मदुष्टाश् च निन्दिताः ॥ यास्मृ१.२२४ ॥

निमन्त्रयेत पूर्वेद्युर् ब्राह्मणान् आत्मवान् शुचिः ।
तैश् चापि संयतैर् भाव्यं मनोवाक्कायकर्मभिः ॥ यास्मृ१.२२५ ॥

अपराह्णे समभ्यर्च्य स्वागतेनागतांस् तु तान् ।
पवित्रपाणिर् आचान्तान् आसनेषूपवेशयेत् ॥ यास्मृ१.२२६ ॥

युग्मान् दैवे यथाशक्ति पित्र्येऽयुग्मांस् तथैव च ।
परिस्तृते शुचौ देशे दक्षिणाप्रवणे तथा ॥ यास्मृ१.२२७ ॥

द्वौ दैवे प्राक् त्रयः पित्र्य उदग् एकैकम् एव वा ।
मातामहानाम् अप्य् एवं तन्त्रं वा वैश्वदेविकम् ॥ यास्मृ१.२२८ ॥

पाणिप्रक्षालनं दत्त्वा विष्टरार्थं कुशान् अपि ।
आवाहयेद् अनुज्ञातो विश्वे देवास इत्य् ऋचा ॥ यास्मृ१.२२९ ॥

यवैर् अन्ववकीर्याथ भाजने सपवित्रके ।
शं नो देव्या पयः क्षिप्त्वा यवोऽसीति यवांस् तथा ॥ यास्मृ१.२३० ॥

या दिव्या इति मन्त्रेण हस्तेष्व् अर्घ्यं विनिक्षिपेत् ।
दत्त्वा उदकं गन्धमाल्यं धूपदानं सदीपकम् ॥ यास्मृ१.२३१ ॥

तथाच्छादनदानं च करशौचार्थम् अम्बु च ।
अपसव्यं ततः कृत्वा पितॄणाम् अप्रदक्षिणम् ॥ यास्मृ१.२३२ ॥

द्विगुणांस् तु कुशान् दत्त्वा ह्य् उषन्तस् त्वेत्य् ऋचा पितॄन् ।
आवाह्य तदनुज्ञातो जपेद् आयन्तु नस् ततः ॥ यास्मृ१.२३३ ॥

अपहता इति तिलान् विकीर्य च समन्ततः ।
यवार्थास् तु तिलैः कार्याः कुर्याद् अर्घ्यादि पूर्ववत् ॥ यास्मृ१.२३४ ॥

दत्त्वा अर्घ्यं संस्रवांस् तेषां पात्रे कृत्वा विधानतः ।
पितृभ्यः स्थानम् असीति न्युब्जं पात्रं करोत्य् अधः ॥ यास्मृ१.२३५ ॥

अग्नौ करिष्यन्न् आदाय पृच्छत्य् अन्नं घृतप्लुतम् ।
कुरुष्वेत्य् अभ्यनुज्ञातो हुत्वाग्नौ पितृयज्ञवत् ॥ यास्मृ१.२३६ ॥

हुतशेषं प्रदद्यात् तु भाजनेषु समाहितः ।
यथालाभोपपन्नेषु रौप्येषु च विशेषतः ॥ यास्मृ१.२३७ ॥

दत्त्वान्नं पृथिवीपात्रम् इति पात्राभिमन्त्रणम् ।
कृत्वेदं विष्णुर् इत्य् अन्ने द्विजाङ्गुष्ठं निवेशयेत् ॥ यास्मृ१.२३८ ॥

सव्याहृतिकां गायत्रीं मधु वाता इति त्र्यृचम् ।
जप्त्वा यथासुखं वाच्यं भुञ्जीरंस् तेऽपि वाग्यताः ॥ यास्मृ१.२३९ ॥

अन्नम् इष्तं हविष्यं च दद्याद् अक्रोधनोऽत्वरः ।
आतृप्तेस् तु पवित्राणि जप्त्वा पूर्वजपं तथा ॥ यास्मृ१.२४० ॥

अन्नम् आदाय तृप्ताः स्थ शेषं चैवानुमान्य च ।
तद् अन्नं विकिरेद् भूमौ दद्याच् चापः सकृत् सकृत् ॥ यास्मृ१.२४१ ॥

सर्वम् अन्नम् उपादाय सतिलं दक्षिणामुखः ।
उच्छिष्टसंनिधौ पिण्डान् दद्याद् वै पितृयज्ञवत् ॥ यास्मृ१.२४२ ॥

मातामहानाम् अप्य् एवं दद्याद् आचमनं ततः ।
स्वस्तिवाच्यं ततः कुर्याद् अक्षय्योदकम् एव च ॥ यास्मृ१.२४३ ॥

दत्त्वा तु दक्षिणां शक्त्या स्वधाकारम् उदाहरेत् ।
वाच्यताम् इत्य् अनुज्ञातः प्रकृतेभ्यः स्वधोच्यताम् ॥ यास्मृ१.२४४ ॥

ब्रूयुर् अस्तु स्वधेत्य् उक्ते भूमौ सिञ्चेत् ततो जलम् ।
विश्वे देवाश् च प्रीयन्तां विप्रैश् चोक्त इदं जपेत् ॥ यास्मृ१.२४५ ॥

दातारो नोऽभिवर्धन्तां वेदाः संततिर् एव च ।
श्रद्धा च नो मा व्यगमद् बहु देयं च नोऽस्त्व् इति ॥ यास्मृ१.२४६ ॥

इत्य् उक्त्वोक्त्वा प्रिया वाचः प्रणिपत्य विसर्जयेत् ।
वाजे वाज इति प्रीतः पितृपूर्वं विसर्जनम् ॥ यास्मृ१.२४७ ॥

यस्मिंस् तु संस्रवाः पूर्वम् अर्घ्यपात्रे निवेशिताः ।
पितृपात्रं तदुत्तानं कृत्वा विप्रान् विसर्जयेत् ॥ यास्मृ१.२४८ ॥

प्रदक्षिणम् अनुव्रज्य भुञ्जीत पितृसेवितम् ।
ब्रह्मचारी भवेत् तां तु रजनीं ब्राह्मणैः सह ॥ यास्मृ१.२४९ ॥

एवं प्रदक्षिणावृत्को वृद्धौ नान्दीमुखान् पितॄन् ।
यजेत दधि कर्कन्धु- मिश्रान् पिण्डान् यवैः क्रियाः ॥ यास्मृ१.२५० ॥

एकोद्दिष्टं देवहीनम् एकार्घ्यैकपवित्रकम् ।
आवाहनाग्नौकरण- रहितं ह्य् अपसव्यवत् ॥ यास्मृ१.२५१ ॥

उपतिष्ठताम् अक्षय्य- स्थाने विप्रविसर्जने ।
अभिरम्यताम् इति वदेद् ब्रूयुस् तेऽभिरताः स्म ह ॥ यास्मृ१.२५२ ॥

गन्धोदकतिलैर् युक्तं कुर्यात् पात्रचतुष्टयम् ।
अर्घ्यार्थं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत् ॥ यास्मृ१.२५३ ॥

ये समाना इति द्वाभ्यां शेषं पूर्ववद् आचरेत् ।
एतत् सपिण्डीकरणम् एकोद्दिष्टं स्त्रिया अपि ॥ यास्मृ१.२५४ ॥

अर्वाक्सपिण्डीकरणं यस्य संवत्सराद् भवेत् ।
तस्याप्य् अन्नं सोदकुम्भं दद्यात् संवत्सरं द्विजे ॥ यास्मृ१.२५५ ॥

मृतेऽहनि प्रकर्तव्यं प्रतिमासं तु वत्सरम् ।
प्रतिसंवत्सरं चैवम् आद्यम् एकादशेऽहनि ॥ यास्मृ१.२५६ ॥

पिण्डांस् तु गोऽजविप्रेभ्यो दद्याद् अग्नौ जलेऽपि वा ।
प्रक्षिपेत् सत्सु विप्रेषु द्विजोच्छिष्टं न मार्जयेत् ॥ यास्मृ१.२५७ ॥

हविष्यान्नेन वै मासं पायसेन तु वत्सरम् ।
मात्स्यहारिणकौरभ- शाकुनच्छागपार्षतैः ॥ यास्मृ१.२५८ ॥

ऐणरौरववाराह- शाशैर् मांसैर् यथाक्रमम् ।
मासवृद्ध्याभितृप्यन्ति दत्तैर् इह पितामहाः ॥ यास्मृ१.२५९ ॥

खड्दामिषं महाशल्कं मधु मुन्यन्नम् एव वा ।
लौहामिषं महाशाकं मांसं वार्ध्रीणसस्य च ॥ यास्मृ१.२६० ॥

यद् ददाति गयास्थश् च सर्वम् आनन्त्यम् अश्नुते ।
तथा वर्षात्रयोदश्यां मघासु च विशेषतः ॥ यास्मृ१.२६१ ॥

कन्यां कन्यावेदिनश् च पशून् वै सत्सुतान् अपि ।
द्यूतं कृषिं वाणिज्यां च द्विशफैकशफांस् तथा ॥ यास्मृ१.२६२ ॥

ब्रह्मवर्चस्विनः पुत्रान् स्वर्णरूप्ये सकुप्यके ।
ज्ञातिश्रैष्ठ्यं सर्वकामान् आप्नोति श्राद्धदः सदा ॥ यास्मृ१.२६३ ॥

प्रतिपत्प्रभृतिष्व् एकां वर्जयित्वा चतुर्दशीम् ।
शस्त्रेण तु हता ये वै तेभ्यस् तत्र प्रदीयते ॥ यास्मृ१.२६४ ॥

स्वर्गं ह्य् अपत्यम् ओजश् च शौर्यं क्षेत्रं बलं तथा ।
पुत्रं श्रैष्ठ्यं च सौभाग्यं समृद्धिं मुख्यतां शुभम् ॥ यास्मृ१.२६५ ॥

प्रवृत्तचक्रतां चैव वाणिज्यप्रभृतीन् अपि ।
अरोगित्वं यशो वीत- शोकतां परमां गतिम् ॥ यास्मृ१.२६६ ॥

धनं वेदान् भिषक्सिद्धिं कुप्यं गा अप्य् अजाविकम् ।
अश्वान् आयुश् च विधिवद् यः श्राद्धं संप्रयच्छति ॥ यास्मृ१.२६७ ॥

कृत्तिकादिभरण्यन्तं स कामान् आप्नुयाद् इमान् ।
आस्तिकः श्रद्दधानश् च व्यपेतमदमत्सरः ॥ यास्मृ१.२६८ ॥

वसुरुद्रादितिसुताः पितरः श्राद्धदेवताः ।
प्रीणयन्ति मनुष्याणां पितॄन् श्राद्धेन तर्पिताः ॥ यास्मृ१.२६९ ॥

आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुखानि च ।
प्रयच्छन्ति तथा राज्यं प्रीता नॄणां पितामहाः ॥ यास्मृ१.२७० ॥


[११. गणपतिकल्पप्रकरणम्]

विनायकः कर्मविघ्न- सिद्ध्यर्थं विनियोजितः ।
गणानाम् आधिपत्ये च रुद्रेण ब्रह्मणा तथा ॥ यास्मृ१.२७१ ॥

तेनोपसृष्टो यस् तस्य लक्षणानि निबोधत ।
स्वप्नेऽवगाहतेऽत्यर्थं जलं मुण्डांश् च पश्यति ॥ यास्मृ१.२७२ ॥

काषायवाससश् चैव क्रव्यादांश् चाधिरोहति ।
अन्त्यजैर् गर्दभैर् उष्ट्रैः सहैकत्रावतिष्ठते ॥ यास्मृ१.२७३ ॥

व्रजन्न् अपि तथात्मानं मन्यतेऽनुगतं परैः ।
विमना विफलारम्भः संसीदत्य् अनिमित्ततः ॥ यास्मृ१.२७४ ॥

तेनोपसृष्टो लभते न राज्यं राजनन्दनः ।
कुमारी च न भर्तारम् अपत्यं गर्भम् अङ्गना ॥ यास्मृ१.२७५ ॥

आचार्यत्वं श्रोत्रियश् च न शिष्योऽध्ययनं तथा ।
वणिग्लाभं न चाप्नोति कृषिं चापि कृषीवलः ॥ यास्मृ१.२७६ ॥

स्नपनं तस्य कर्तव्यं पुण्येऽह्नि विधिपूर्वकम् ।
गौरसर्षपकल्केन साज्येनोत्सादितस्य च ॥ यास्मृ१.२७७ ॥

सर्वाउषधैः सर्वगन्धैर् विलिप्तशिरसस् तथा ।
भद्रासनोपविष्टस्य स्वस्तिवाच्या द्विजाः शुभाः ॥ यास्मृ१.२७८ ॥

अश्वस्थानाद् गजस्थानाद् वल्मीकात् संगमाद् ह्रदात् ।
मृत्तिकां रोचनां गन्धान् गुग्गुलुं चाप्सु निक्षिपेत् ॥ यास्मृ१.२७९ ॥

या आहृता ह्य् एकवर्णैश् चतुर्भिः कलशैर् ह्रदात् ।
चर्मण्य् आनडुहे रक्ते स्थाप्यं भद्रासनं ततः ॥ यास्मृ१.२८० ॥

सहस्राक्षं शतधारम् ऋषिभिः पावनं कृतम् ।
तेन त्वाम् अभिषिञ्चामि पावमान्यः पुनन्तु ते ॥ यास्मृ१.२८१ ॥

भगं ते वरुणो राजा भगं सूर्यो बृहस्पतिः ।
भगम् इन्द्रश् च वायुश् च भगं सप्तर्षयो ददुः ॥ यास्मृ१.२८२ ॥

यत् ते केशेषु दौर्भाग्यं सीमन्ते यच् च मूर्धनि ।
ललाटे कर्णयोर् अक्ष्णोर् आपस् तद् घ्नन्तु सर्वदा ॥ यास्मृ१.२८३ ॥

स्नातस्य सार्षपं तैलं स्रुवेणौदुम्बरेण तु ।
जुहुयान् मूर्धनि कुशान् सव्येन परिगृह्य च ॥ यास्मृ१.२८४ ॥

मितश् च सम्मितश् चैव तथा शालकटङ्कटौ ।
कूश्माण्डो राजपुत्रश् चेत्य् अन्ते स्वाहासमन्वितैः ॥ यास्मृ१.२८५ ॥

नामभिर् बलिमन्त्रैश् च नमस्कारसमन्वितैः ।
दद्याच् चतुष्पथे शूर्पे कुशान् आस्तीर्य सर्वतः ॥ यास्मृ१.२८६ ॥

कृताकृतांस् तण्डुलांश् च पललौदनम् एव च ।
मत्स्यान् पक्वांस् तथैवामान् मांसम् एतावद् एव तु ॥ यास्मृ१.२८७ ॥

पुष्पं चित्रं सुगन्धं च सुरां च त्रिविधाम् अपि ।
मूलकं पूरिकापूपांस् तथैवोण्डेरकस्रजः ॥ यास्मृ१.२८८ ॥

दध्य् अन्नं पायसं चैव गुडपिष्टं समोदकम् ।
एतान् सर्वान् समाहृत्य भूमौ कृत्वा ततः शिरः ॥ यास्मृ१.२८९ ॥

विनायकस्य जननीम् उपतिष्ठेत् ततोऽम्बिकाम् ।
दूर्वासर्षपपुष्पाणां दत्त्वार्घ्यं पूर्णम् अञ्जलिम् ॥ यास्मृ१.२९० ॥

रूपं देहि यशो देहि भगं भवति देहि मे ।
पुत्रान् देहि धनं देहि सर्वकामांश् च देहि मे ॥ यास्मृ१.२९१ ॥

ततः शुक्लाम्बरधरः शुक्लमाल्यानुलेपनः ।
ब्राह्मणान् भोजयेद् दद्याद् वस्त्रयुग्मं गुरोर् अपि ॥ यास्मृ१.२९२ ॥

एवं विनायकं पूज्य ग्रहांश् चैव विधानतः ।
कर्मणां फलम् आप्नोति श्रियं चाप्नोत्य् अनुत्तमाम् ॥ यास्मृ१.२९३ ॥

आदित्यस्य सदा पूजां तिलकं स्वामिनस् तथा ।
महागणपतेश् चैव कुर्वन् सिद्धिम् अवाप्नुयात् ॥ यास्मृ१.२९४ ॥


[१२. ग्रहशान्तिप्रकरणम्]

श्रीकामः शान्तिकामो वा ग्रहयज्ञं समाचरेत् ।
वृष्ट्यायुःपुष्टिकामो वा तथैवाभिचरन्न् अपि ॥ यास्मृ१.२९५ ॥

सूर्यः सोमो महीपुत्रः सोमपुत्रो बृहस्पतिः ।
शुक्रः शनैश्चरो राहुः केतुश् चेति ग्रहाः स्मृताः ॥ यास्मृ१.२९६ ॥

ताम्रकात् स्फटिकाद् रक्त- चन्दनात् स्वर्णकाद् उभौ ।
राजताद् अयसः सीसात् कांस्यात् कार्या ग्रहाः क्रमात् ॥ यास्मृ१.२९७ ॥

स्ववर्णैर् वा पटे लेख्या गन्धैर् मण्डलकेषु वा ।
यथावर्णं प्रदेयानि वासांसि कुसुमानि च ॥ यास्मृ१.२९८ ॥

गन्धाश् च बलयश् चैव धूपो देयश् च गुग्गुलुः ।
कर्तव्या मन्त्रवन्तश् च चरवः प्रतिदैवतम् ॥ यास्मृ१.२९९ ॥

आकृष्णेन इमं देवा अग्निर् मूर्धा दिवः ककुत् ।
उद्बुध्यस्वेति च ऋचो यथासंख्यं प्रकीर्तिताः ॥ यास्मृ१.३०० ॥

बृहस्पतेऽति यद् अर्यस् तथैवान्नात् परिस्रुतः ।
शं नो देवीस् तथा काण्डात् केतुं कृण्वन्न् इमांस् तथा ॥ यास्मृ१.३०१ ॥

अर्कः पलाशः खदिर अपामार्गोऽथ पिप्पलः ।
उदुम्बरः शमी दूर्वा कुशाश् च समिधः क्रमात् ॥ यास्मृ१.३०२ ॥

एकैकस्य त्व् अष्टशतम् अष्टाविंशतिर् एव वा ।
होतव्या मधुसर्पिर्भ्यां दध्ना क्षीरेण वा युताः ॥ यास्मृ१.३०३ ॥

गुडौदनं पायसं च हविष्यं क्षीरषाष्टिकम् ।
दध्योदनं हविश् चूर्णं मांसं चित्रान्नम् एव च ॥ यास्मृ१.३०४ ॥

दद्याद् ग्रहक्रमाद् एवं द्विजेभ्यो भोजनं बुधः ।
शक्तितो वा यथालाभं सत्कृत्य विधिपूर्वकम् ॥ यास्मृ१.३०५ ॥

धेनुः शङ्खस् तथानड्वान् हेम वासो हयः क्रमात् ।
कृष्णा गौर् आयसं छाग एता वै दक्षिणाः स्मृताः ॥ यास्मृ१.३०६ ॥

यश् च यस्य यदा दुःस्थः स तं यत्नेन पूजयेत् ।
ब्रह्मणैषां वरो दत्तः पूजिताः पूजयिष्यथ ॥ यास्मृ१.३०७ ॥

ग्रहाधीना नरेन्द्राणाम् उच्छ्रायाः पतनानि च ।
भावाभावौ च जगतस् तस्मात् पूज्यतमा ग्रहाः ॥ यास्मृ१.३०८ ॥

ग्रहाणाम् इदम् आतिथ्यं कुर्यात् संवत्सराद् अपि ।
आरोग्यबलसंपन्नो जीवेत् स शरदः शतम् ॥ यास्मृ१.३०८आ ॥


[१३. राजधर्मप्रकरणम्]

महोत्साहः स्थूललक्षः कृतज्ञो वृद्धसेवकः ।
विनीतः सत्त्वसंपन्नः कुलीनः सत्यवाक् शुचिः ॥ यास्मृ१.३०९ ॥

अदीर्घसूत्रः स्मृतिमान् अक्षुद्रोऽपरुषस् तथा ।
धार्मिकोऽव्यसनश् चैव प्राज्ञः शूरो रहस्यवित् ॥ यास्मृ१.३१० ॥

स्वरन्ध्रगोप्तान्वीक्षिक्यां दण्डनीत्यां तथैव च ।
विनीतस् त्व् अथ वार्तायां त्रय्यां चैव नराधिपः ॥ यास्मृ१.३११ ॥

स मन्त्रिणः प्रकुर्वीत प्राज्ञान् मौलान् स्थिरान् शुचीन् ।
तैः सार्धं चिन्तयेद् राज्यं विप्रेणाथ ततः स्वयम् ॥ यास्मृ१.३१२ ॥

पुरोहितं प्रकुर्वीत दैवज्ञम् उदितोदितम् ।
दण्डनीत्यां च कुशलम् अथर्वाङ्गिरसे तथा ॥ यास्मृ१.३१३ ॥

श्रौतस्मार्तक्रियाहेतोर् वृणुयाद् एव च र्त्विजः ।
यज्ञांश् चैव प्रकुर्वीत विधिवद् भूरिदक्षिणान् ॥ यास्मृ१.३१४ ॥

भोगांश् च दद्याद् विप्रेभ्यो वसूनि विविधानि च ।
अक्षयोऽयं निधी राज्ञां यद् विप्रेषूपपादितम् ॥ यास्मृ१.३१५ ॥

अस्कन्नम् अव्यथं चैव प्रायश्चित्तैर् अदूषितम् ।
अग्नेः सकाशाद् विप्राग्नौ हुतं श्रेष्ठम् इहोच्यते ॥ यास्मृ१.३१६ ॥

अलब्धम् ईहेद् धर्मेण लब्धं यत्नेन पालयेत् ।
पालितं वर्धयेन् नीत्या वृद्धं पात्रेषु निक्षिपेत् ॥ यास्मृ१.३१७ ॥

दत्त्वा भूमिं निबन्धं वा कृत्वा लेख्यं तु कारयेत् ।
आगामिभद्रनृपति- परिज्ञानाय पार्थिवः ॥ यास्मृ१.३१८ ॥

पटे वा ताम्रपट्टे वा स्वमुद्रोपरिचिह्नितम् ।
अभिलेख्यात्मनो वंश्यान् आत्मानं च महीपतिः ॥ यास्मृ१.३१९ ॥

प्रतिग्रहपरीमाणं दानच्छेदोपवर्णनम् ।
स्वहस्तकालसंपन्नं शासनं कारयेत् स्थिरम् ॥ यास्मृ१.३२० ॥

रम्यं पशव्यम् आजीव्यं जाङ्गलं देशम् आवसेत् ।
तत्र दुर्गाणि कुर्वीत जनकोशात्मगुप्तये ॥ यास्मृ१.३२१ ॥

तत्र तत्र च निष्णातान् अध्यक्षान् कुशलान् शुचीन् ।
प्रकुर्याद् आयकर्मान्त- व्ययकर्मसु चोद्यतान् ॥ यास्मृ१.३२२ ॥

नातः परतरो धर्मो नृपाणां यद् रणार्जितम् ।
विप्रेभ्यो दीयते द्रव्यं प्रजाभ्यश् चाभयं सदा ॥ यास्मृ१.३२३ ॥

य आहवेषु वध्यन्ते भूम्यर्थम् अपराङ्मुखाः ।
अकूटैर् आयुधैर् यान्ति ते स्वर्गं योगिनो यथा ॥ यास्मृ१.३२४ ॥

पदानि क्रतुतुल्यानि भग्नेष्व् अविनिवर्तिनाम् ।
राजा सुकृतम् आदत्ते हतानां विपलायिनाम् ॥ यास्मृ१.३२५ ॥

तवाहंवादिनं क्लीबं निर्हेतिं परसंगतम् ।
न हन्याद् विनिवृत्तं च युद्धप्रेक्षणकादिकम् ॥ यास्मृ१.३२६ ॥

कृतरक्षः समुत्थाय पश्येद् आयव्ययौ स्वयम् ।
व्यवहारांस् ततो दृष्ट्वा स्नात्वा भुञ्जीत कामतः ॥ यास्मृ१.३२७ ॥

हिरण्यं व्यापृतानीतं भाण्डागारेषु निक्षिपेत् ।
पश्येच् चारांस् ततो दूतान् प्रेषयेन् मन्त्रिसंगतः ॥ यास्मृ१.३२८ ॥

ततः स्वैरविहारी स्यान् मन्त्रिभिर् वा समागतः ।
बलानां दर्शनं कृत्वा सेनान्या सह चिन्तयेत् ॥ यास्मृ१.३२९ ॥

संध्याम् उपास्य शृणुयाच् चाराणां गूढभाषितम् ।
गीतनृत्यैश् च भुञ्जीत पठेत् स्वाध्यायम् एव च ॥ यास्मृ१.३३० ॥

संविशेत् तूर्यघोषेण प्रतिबुध्येत् तथैव च ।
शास्त्राणि चिन्तयेद् बुद्ध्या सर्वकर्तव्यतास् तथा ॥ यास्मृ१.३३१ ॥

प्रेषयेच् च ततश् चारान् स्वेष्व् अन्येषु च सादरान् ।
ऋत्विक्पुरोहिताचार्यैर् आशीर्भिर् अभिनन्दितः ॥ यास्मृ१.३३२ ॥

दृष्ट्वा ज्योतिर्विदो वैद्यान् दद्याद् गां काञ्चनं महीम् ।
नैवेशिकानि च ततः श्रोत्रियेभ्यो गृहाणि च ॥ यास्मृ१.३३३ ॥

ब्राह्मणेषु क्षमी स्निग्धेष्व् अजिह्मः क्रोधनोऽरिषु ।
स्याद् राजा भृत्यवर्गेषु प्रजासु च यथा पिता ॥ यास्मृ१.३३४ ॥

पुण्यात् षड्भागम् आदत्ते न्यायेन परिपालयन् ।
सर्वदानाधिकं यस्मात् प्रजानां परिपालनम् ॥ यास्मृ१.३३५ ॥

चाटतस्करदुर्वृत्त- महासाहसिकादिभिः ।
पीड्यमानाः प्रजा रक्षेत् कायस्थैश् च विशेषतः ॥ यास्मृ१.३३६ ॥

अरक्ष्यमाणाः कुर्वन्ति यत्किंचित् किल्बिषं प्रजाः ।
तस्मात् तु नृपतेर् अर्धं यस्माद् गृह्णात्य् असौ करान् ॥ यास्मृ१.३३७ ॥

ये राष्ट्राधिकृतास् तेषां चारैर् ज्ञात्वा विचेष्टितम् ।
साधून् सम्मानयेद् राजा विपरीतांश् च घातयेत् ॥ यास्मृ१.३३८ ॥

उत्कोचजीविनो द्रव्य- हीनान् कृत्वा विवासयेत् ।
सद्दानमानसत्कारान् श्रोत्रियान् वासयेत् सदा ॥ यास्मृ१.३३९ ॥

अन्यायेन नृपो राष्ट्रात् स्वकोशं योऽभिवर्धयेत् ।
सोऽचिराद् विगतश्रीको नाशम् एति सबान्धवः ॥ यास्मृ१.३४० ॥

प्रजापीडनसंतापात् समुद्भूतो हुताशनः ।
राज्ञः कुलं श्रियं प्राणांश् चादग्ध्वा न निवर्तते ॥ यास्मृ१.३४१ ॥

य एव नृपतेर् धर्मः स्वराष्ट्रपरिपालने ।
तम् एव कृत्स्नम् आप्नोति परराष्ट्रं वशं नयन् ॥ यास्मृ१.३४२ ॥

यस्मिन् देशे य आचारो व्यवहारः कुलस्थितिः ।
तथैव परिपाल्योऽसौ यदा वशम् उपागतः ॥ यास्मृ१.३४३ ॥

मन्त्रमूलं यतो राज्यं तस्मान् मन्त्रं सुरक्षितम् ।
कुर्याद् यथास्य न विदुः कर्मणाम् आफलोदयात् ॥ यास्मृ१.३४४ ॥

अरिर् मित्रम् उदासीनोऽनन्तरस् तत्परः परः ।
क्रमशो मण्डलं चिन्त्यं सामादिभिर् उपक्रमैः ॥ यास्मृ१.३४५ ॥

उपायाः साम दानं च भेदो दण्डस् तथैव च ।
सम्यक्प्रयुक्ताः सिध्येयुर् दण्डस् त्व् अगतिका गतिः ॥ यास्मृ१.३४६ ॥

संधिं च विग्रहं यानम् आसनं संश्रयं तथा ।
द्वैधीभावं गुणान् एतान् यथावत् परिकल्पयेत् ॥ यास्मृ१.३४७ ॥

यदा सस्यगुणोपेतं परराष्ट्रं तदा व्रजेत् ।
परश् च हीन आत्मा च हृष्टवाहनपूरुषः ॥ यास्मृ१.३४८ ॥

दैवे पुरुषकारे च कर्मसिद्धिर् व्यवस्थिता ।
तत्र दैवम् अभिव्यक्तं पौरुषं पौर्वदेहिकम् ॥ यास्मृ१.३४९ ॥

केचिद् दैवात् स्वभावाद् वा कालात् पुरुषकारतः ।
संयोगे केचिद् इच्छन्ति फलं कुशलबुद्धयः ॥ यास्मृ१.३५० ॥

यथा ह्य् एकेन चक्रेण रथस्य न गतिर् भवेत् ।
एवं पुरुषकारेण विना दैवं न सिध्यति ॥ यास्मृ१.३५१ ॥

हिरण्यभूमिलाभेभ्यो मित्रलब्धिर् वरा यतः ।
अतो यतेत तत्प्राप्त्यै रक्षेत् सत्यं समाहितः ॥ यास्मृ१.३५२ ॥

स्वाम्य् अमात्या जनो दुर्गं कोशो दण्डस् तथैव च ।
मित्राण्य् एताः प्रकृतयो राज्यं सप्ताङ्गम् उच्यते ॥ यास्मृ१.३५३ ॥

तद् अवाप्य नृपो दण्डं दुर्वृत्तेषु निपातयेत् ।
धर्मो हि दण्डरूपेण ब्रह्मणा निर्मितः पुरा ॥ यास्मृ१.३५४ ॥

स नेतुं न्यायतोऽशक्यो लुब्धेनाकृतबुद्धिना ।
सत्यसंधेन शुचिना सुसहायेन धीमता ॥ यास्मृ१.३५५ ॥

यथाशास्त्रं प्रयुक्तः सन् सदेवासुरमानवम् ।
जगद् आनन्दयेत् सर्वम् अन्यथा तत् प्रकोपयेत् ॥ यास्मृ१.३५६ ॥

अधर्मदण्डनं स्वर्ग- कीर्तिलोकविनाशनम् ।
सम्यक् तु दण्डनं राज्ञः स्वर्गकीर्तिजयावहम् ॥ यास्मृ१.३५७ ॥

अपि भ्राता सुतोऽर्घ्यो वा श्वशुरो मातुलोऽपि वा ।
नादण्ड्यो नाम राज्ञोऽस्ति धर्माद् विचलितः स्वकात् ॥ यास्मृ१.३५८ ॥

यो दण्ड्यान् दण्डयेद् राजा सम्यग् वध्यांश् च घातयेत् ।
इष्टं स्यात् क्रतुभिस् तेन समाप्तवरदक्षिणैः ॥ यास्मृ१.३५९ ॥

इति संचिन्त्य नृपतिः क्रतुतुल्यफलं पृथक् ।
व्यवहारान् स्वयं पश्येत् सभ्यैः परिवृतोऽन्वहम् ॥ यास्मृ१.३६० ॥

कुलानि जातीः श्रेणीश् च गणान् जानपदान् अपि ।
स्वधर्माच् चलितान् राजा विनीय स्थापयेत् पथि ॥ यास्मृ१.३६१ ॥

जालसूर्यमरीचिस्थं त्रसरेणू रजः स्मृतम् ।
तेऽष्टौ लिक्षा तु तास् तिस्रो राजसर्षप उच्यते ॥ यास्मृ१.३६२ ॥

गौरस् तु ते त्रयः षट् ते यवो मध्यस् तु ते त्रयः ।
कृष्णलः पञ्च ते माषस् ते सुवर्णस् तु षोडश ॥ यास्मृ१.३६३ ॥

पलं सुवर्णाश् चत्वारः पञ्च वापि प्रकीर्तितम् ।
द्वे कृष्णले रूप्यमाषो धरणं षोडशैव ते ॥ यास्मृ१.३६४ ॥

शतमानं तु दशभिर् धरणैः पलम् एव तु ।
निष्कं सुवर्णाश् चत्वारः कार्षिकस् ताम्रिकः पणः ॥ यास्मृ१.३६५ ॥

साशीतिपणसाहस्रो दण्ड उत्तमसाहसः ।
तदर्धं मध्यमः प्रोक्तस् तदर्धम् अधमः स्मृतः ॥ यास्मृ१.३६६ ॥

धिग्दण्डस् त्व् अथ वाग्दण्डो धनदण्डो वधस् तथा ।
योज्या व्यस्ताः समस्ता वा ह्य् अपराधवशाद् इमे ॥ यास्मृ१.३६७ ॥

ज्ञात्वापराधं देशं च कालं बलम् अथापि वा ।
वयः कर्म च वित्तं च दण्डं दण्ड्येषु पातयेत् ॥ यास्मृ१.३६८ ॥