मूलम्
यदृद्धिं सुत्राम्णो वरद परमोच्चैरपि सतीं।
अधश्चक्रे बाणः परिजनविधेयत्रिभुवनः।।
न तच्चित्रं तस्मिन् वरिवसितरि त्वच्चरणयोः।
न कस्याप्युन्नत्यै भवति शिरसस्त्वय्यवनतिः।। १३।।

पदच्छेदः-
यद् ऋद्धिं सुत्राम्णः वरद परमोच्चैः अपि सतीं।अधः चक्रे बाणः परिजन-विधेय-त्रिभुवनः।।
न तत् चित्रं तस्मिन् वरिवसितरि त्वच्चरणयोः।न कस्य अपि उन्नत्यै भवति शिरसः त्वयि अवनतिः।।

अन्वयः-
वरद, परिजन-विधेय-त्रिभुवनः बाणः सुत्राम्णः परमोच्चैः अपि सतीं ऋद्धिं यद् अधः चक्रे, तत् त्वच्चरणयोः वरिवसितरि तस्मिन् चित्रं न । अपि कस्य शिरसः त्वयि अवनतिः उन्नत्यै न भवति? ।। १३।।

सरलार्थः-
हे वरद, बाणासुरेण त्रिभुवनं दासत्वं नीतम्।इन्द्रस्य परमवैभवम् अपि सः तिरस्कृतवान्।बाणस्य विषये एतद् आश्चर्यकरं न।यतो हि सः तव चरणयोः वसति स्म।तव चरणे नमनं कस्य उन्नतिकरं न भवति?१३


शिवस्तोत्राणि   शिवमहिम्न: स्तोत्रं सपदच्छेदान्वयार्थम्
"https://sa.wikibooks.org/w/index.php?title=यदृद्धिं_सुत्राम्णो...&oldid=6168" इत्यस्माद् प्रतिप्राप्तम्