मोक्षोपायान्तर्गतं उत्पत्तिप्रकरणम्

श्रीरामाय नमः । ॐ

कृत्वा चित्तं स्वबोधस्मरणविनिहतं प्रौढमोहान्धकारं
स्मृत्वा ज्ञानप्रदां तां सुमहितविभवां श्रीगुरोः पादुकां च ।
ध्यात्वा विघ्नान्तकं तं शिवसुतम् अनघं श्रीगणेशं सुरेशम्
उत्पत्त्याख्यावगाहिप्रकरणविवृतिस् तन्यते भास्करेण ॥

एवं मुमुक्षुव्यवहाराख्ये प्रकरणे वक्ष्यमाणोपदेशाधिकारित्वसम्पादननिमित्तं व्यवहारं प्रतिपाद्य तच्छ्रवणमात्रेण च श्रीरामं प्राप्ततदनुष्ठानफलं विभाव्य प्रपञ्चस्यानुत्पत्तिसतत्त्वोत्पत्तिज्ञानम् उपादेयभूतमोक्षप्राप्तौ मूलकारणतया निश्चित्य तदुपपादकम् उत्पत्तिप्रकरणम् आरभमाणः वक्ष्यमाणब्रह्मैकत्वाश्रयणेन गुरुशिष्यभावानुपपत्तिं पुरस्कृत्य स्वव्यतिरिक्तशिष्योपदेशभावेन परप्रयुक्तं चोद्यम् अभिशङ्कमानः तदुद्धारनिमित्तभूतं ब्रह्मैकत्वेऽपि स्वप्नदृष्टान्तेन पदार्थभेदग्राहकं ब्रह्मविदनुभवं प्रथमं कथयति ॥

वाग्भाभिर् ब्रह्मविद् ब्रह्म भाति स्वप्न इवात्मनि ।
यद्-इदं-तत्-स्व-शब्दार्थैर् यो यद् वेत्ति स वेत्तु तत् ॥ (मो_३,१.१ ॥

उत्तरवाक्यस्थं "वेत्ती"ति पदं पूर्ववाक्येऽपि योजनीयं । तेनायम् अर्थः । "ब्रह्मवित्" ब्रह्मज्ञानी । "वेत्ति" अनुभवति । किम् इति कर्मापेक्षायां पश्य मृगो धावतीतिवत् वाक्यं कर्मत्वेन कथयति "वाग्भाभिर्" इति । "ब्रह्म" नानापदार्थभावेन बृंहितं किम् अपि सूक्ष्मं वस्तु । "भाति" विलसति । स्फुरतीति यावत् । कैः भाति । "यद्-इदं-तत्-स्व-शब्दार्थैः" । "यद्"आदिसर्वनामशब्दवाच्यभूतैः पदार्थैः । तद्रूपेणेति यावत् । इत्थम्भावे तृतीया । पदार्थानां च "यद्"आदिसर्वनामवाच्यत्वं वस्तूपलक्षणं । यत्र सर्वनाम प्रयुज्यते द्रव्यम् इत्य् उच्यते । सोऽर्थः भेद्यत्वेन विवक्षित इत्य् अभियुक्तस्मरणात् ज्ञेयम् । कुत्राधारे भाति । "आत्मनि" स्वभित्तौ । तद्व्यतिरिक्तस्य द्वितीयस्याभावात् । इदं भानं च अर्थात् जाग्रत्कालीनं ज्ञेयम् । स्वप्नस्य दृष्टान्ततयोपादानात् सुषुप्तेः शून्यमात्रभानास्पदत्वाच् च । "यद्-इदं-तत्-स्व-शब्दार्थैः" काभिः । "वाग्भाभिः" । वाग् अत्र समानविषयत्वेन विकल्पः अभिप्रेतः । तेन विकल्पभानरूपैर् इत्य् अर्थः । भासमाना एते पदार्थाः हि स्वप्नपदार्थवत् विकल्परूपा एव । तत्सारतया स्थितस्य शुद्धचिन्मात्रस्यैव वस्तुतः अर्थत्वात् । कस्मिन्न् "इव" भाति । "स्वप्ने" "इव" । यथा "स्वप्ने" । "ब्रह्म" स्वप्नपदार्थतया बृंहितम् । आत्माख्ये वस्तुनि । "आत्मनि" स्वभित्तौ । "वाग्भाभिः" विकल्पभानभूतैः । "यद्-इदं-तत्-स्व-शब्दार्थैः भाति" । तथा इत्य् अर्थः । स्वप्ने हि आत्मभावेन स्थितस्य ब्रह्मणः पदार्थभावेन भानं सर्वसाक्षिकम् एव । नन्व् अन्ये बौद्धादयः सर्वथा पदार्थापह्नवं कुर्वन्ति । तत् कथं त्वयैवम् उक्तम् इत्य् आह "यो यद्" इति । यः यः कश्चित् ब्रह्मविदः बौद्धादिः यत् यत् पदार्थानां सर्वथा असत्त्वादि "वेत्ति" अनुभवति । "सः तत् वेत्तु" अनुभवतु । किम् अस्माकं तद्वेदनेन । ब्रह्मविद्वेदने एव तात्पर्यात् इति भावः । अत्र च "यच्"छब्दः "इदम्"आदित्रयेण सह समानाधिकरण्यदर्शनात् सामान्यनिष्ठः । शिष्टाः "इदम्"आदयः त्रयः विशेषनिष्ठाः । तत्रापि "इदं"शब्दः प्रत्यक्षवेद्यनिष्ठः इति सर्वनामचतुष्केनैव सर्वपदार्थाक्षेपसिद्धाव् अनुपयुक्तत्वाद् अन्येषाम् अकथनम् इति ज्ञेयम् । अथ वा "ब्रह्मविद्" इत्य् आमन्त्रणपदं ब्रह्मज्ञानाधिकृते श्रीरामे विशिष्टाधिकारित्वसूचनाय प्रयुक्तं । तथा च स्फुट एवार्थः । नापि दुर्योजकत्वाख्यदोषापत्तिः ॥ (मोटी_३,१.१ ॥

प्रोक्तब्रह्मविदनुभवाश्रयणेन शङ्काविषयीकृतं परप्रयुक्तं चोद्यं परिहरति

न्यायेनानेन सर्वस्मिन् सर्गे ब्रह्माम्बरे सति ।
किम् इदं कस्य वक्षीति चोद्यचञ्चुर् निराकृतः ॥ (मो_३,१.२ ॥

"अनेन न्यायेन" अनया पदार्थानां ब्रह्ममयत्वेऽपि भेदसाधिकया ब्रह्मविदनुभवरूपया युक्त्या । न तु पदार्थानां सर्वथापह्नवकारिण्या बौद्धादियुक्त्या । "सर्गे" सृजिक्रियाकर्मणि भावजाते । "ब्रह्माम्बरे" ब्रह्माकाशरूपे । "सति" । त्वम् किंरूपः । त्वम् "किम् इदं" किंरूपम् "इदं" शास्त्रं । "कस्य" किंरूपस्य शिष्यस्य । "वक्षि" कथयसि । सर्वस्य ब्रह्मैकरूपत्वात् । "इति" एवंरूपं । यत् "चोद्यम्" आक्षेपः । तेन "चञ्चुः" प्रसिद्धः । एवंरूपचोद्यकारीति यावत् । "निराकृतः" प्रतिक्षिप्तः भवति । तेन वित्त इति चञ्चुप्प्रत्ययः । वित्तः प्रसिद्ध इत्य् अर्थः । ननु कथम् एतेन चोद्यनिरासः । उच्यते । ब्रह्मविदा परमार्थेन ब्रह्मैकत्वेऽपि व्यवहारदशायां स्वप्नतुल्यस्य शिष्यस्य यादृशो यक्षः तादृशो बलिर् इति न्यायाश्रयणेन तद्रूपोपदेशकरणं युक्तम् एव स्वप्नतुल्यस्य जगतः अङ्गीकरणात् । सर्वथा पदार्थापह्नवकारिणां बौद्धादीनाम् एवेदं चोद्यं युक्तम् इति ॥ (मोटी_३,१.२ ॥

एवं शङ्कितचोद्यनिरासं कृत्वा स्वोपदेशं प्रति श्रोतॄन् संमुखीकरोति

हं तावद् यथाज्ञानं यथावस्तु यथाक्रमम् ।
यथास्वभावं वच्मीदं तत् सर्वं श्रूयतां बुधाः ॥ (मो_३,१.३ ॥

"तावच्"छब्दः साकल्ये । "अहं" वसिष्ठाख्यः गुरुः । "इदं" मोक्षोपायाभिधं शास्त्रं । "तावत्" साकल्येन । "वच्मि" कथयामि । कथं वच्मि । "यथाज्ञानम्" ज्ञानानुसारेण । तथा "यथावस्तु" वस्त्वनुसारेण । तद्वत् "यथाक्रमम्" क्रमानुसारेण । पुनः कथम् । "यथास्वभावं" स्वभावानुसारेण । ज्ञानादयः चत्वार एव हि शास्त्रप्रवृत्तिनिमित्तभूताः । "तत्" ततो हेतोः । हे "बुधाः" । युष्माभिः "सर्वम् श्रूयताम्" श्रवणगोचरीक्रियताम् । "बुधा" इत्य् आमन्त्रणपदं बुधानाम् एवैतच्छास्त्रश्रवणे अधिकारित्वं सूचयति । "सर्वम्" इत्य् अनेन सकलम् इदं श्रुत्वा परमप्रयोजनावाप्तिः भविष्यतीत्य् अर्धाद् उत्थाय न गन्तव्यम् इति सूचितम् ॥ (मोटी_३,१.३ ॥

एवं श्रवणयोग्यं बुधवर्गं संमुखीकृत्योत्पत्तिप्रकरणतात्पर्यार्थं श्लोकेन सङ्गृह्य कथयति

स्वप्नवत् पश्यति जगच् चिन्नभो देहविन्मयम् ।
स्वप्नसंसारदृष्टान्ता इहैवान्तः समन्विताः ॥ (मो_३,१.४ ॥

चेतयति पाषाणप्रख्यं करणवर्गं स्वावेशेन चेतनक्रियाकर्तृत्वे प्रेरयतीति "चित्" सर्वान्तर्गतं किम् अपि शुद्धं तत्त्वं । अथ वा चेततीति "चित्" चितिक्रियाकर्तृभूतं किम् अपि तत्त्वम् । सा एव "नभः" सर्वव्यापकत्वात् आकाशं । तत् "चिन्नभः" चिदाकाशः । "जगत्" गमनशीलम् दृश्यप्रपञ्चं । "स्वप्नवत् पश्यति" स्वप्नवत् स्वयं कल्पयित्वा अनुभवति । कीदृशं "जगत्" । "देहविन्मयं" । "देहवित्" देहोऽहम् इति ज्ञानम् । अहङ्कार इति यावत् । तस्य विकारः "देहविन्मयं" अहङ्कारस्वरूपं । न तु शुद्धम् इत्य् अर्थः । ननु स्वप्नः किम् इह दृष्टान्तत्वेन दत्त इत्य् । अत्राह "स्वप्ने"ति । स्वप्ने दृष्टाः संसाराः "स्वप्नसंसाराः" । ते एव "दृष्टान्ताः" निर्णयस्थानानि । ते "स्वप्नसंसारदृष्टान्ताः इहैवा"स्मिन् जाग्रत्प्रपञ्चे एव्"आन्तः" । "सम्"यक् । न तु आमुख एव । "अन्विताः" सम्बद्धाः भवन्ति । कल्पनामात्रसिद्धत्वात् । अतः स्वप्नस्य दृष्टान्तत्वम् उक्तम् इति भावः ॥ (मोटी_३,१.४ ॥

सङ्ग्रहेणोक्तम् अर्थं मूढबुद्धिषु प्रवेशनाय स्वतः सर्वज्ञं श्रीरामं मध्येकृत्य विस्तारयितुं प्रस्तौति

मुमुक्षुव्यवहारोक्तिमयात् प्रकरणात् परम् ।
थोत्पत्तिप्रकरणं मयेदं परिकथ्यते ॥ (मो_३,१.५ ॥

"मुमुक्षुव्यवहारस्योक्तिः" प्राचुर्येण प्रस्तुता यस्मिन् । तत् "मुमुक्षुव्यवहारोक्तिमयं" । तादृशात् "प्रकरणात्" । मुमुक्षुव्यवहाराख्यात् प्रकरणाद् इति यावत् । "परम्" अन्यत् । "परिकथ्यते" सम्यक् कथ्यते ॥ (मोटी_३,१.५ ॥

प्रतिज्ञातप्रकरणारम्भं करोति

बन्धोऽयं दृश्यसद्भावो दृश्याभावे न बन्धनम् ।
न सम्भवति दृश्यं तु यथेदं तच् छृणु क्रमात् ॥ (मो_३,१.६ ॥

"अयम्" अनुभूयमानः । "बन्धः" दृश्यासक्तत्वं । "दृश्यसद्भावः" दृश्येन दृशिक्रियाविषयेण भावजातेन । "सद्भावः" स्वरूपलाभः । द्रष्टारं प्रति स्फुरणम् इति यावत् । यस्य । सः तादृशः भवति । "दृश्याभावे" सति "बन्धनं" बन्धः । "न" भवति । न हि रज्ज्वभावे बन्धनं दृष्टम् । ननु सतो दृश्यस्य कथम् अभावः सेत्स्यतीत्य् । अत्राह "न सम्भवती"ति । "तु"शब्दः सम्भविनः शुद्धद्रष्टुः सकाशात् दृश्यस्य व्यतिरेकद्योतकः । "दृश्यं न सम्भवति" सम्भवनक्रियाकर्तृत्वं न भजति । स्वप्नन्यायेन प्रतीतिमात्रसिद्धत्वात् । ननु कथम् एतद् इत्य् । अत्राह "यथेदम्" इति । "इदं" दृश्यासम्भवनं । "यथा" भवति । "तत् क्रमात् शृणु" ॥ (मोटी_३,१.६ ॥

ननु किमर्थम् उत्पत्तिप्रकरणम् एव प्रथमं कथयसीत्य् अपेक्षायाम् आह

उत्पद्यते यो जगति स एव किल वर्धते ।
स एव मोक्षम् आप्नोति स्वर्गं वा नरकं च वा ॥ (मो_३,१.७ ॥

धर्माधर्मोल्लङ्घनेन "मोक्षम्" । धर्मेण "स्वर्गम्" । अधर्मेण "नरकम्" इति विभागः ॥ (मोटी_३,१.७ ॥

ननु ततः किम् इत्य् । अत्राह

तस् तेष्व् अवबोधार्थं तत् तावत् कथयाम्य् अहम् ।
उत्पत्तिं संसृताव् एति पूर्वम् एव हि यो यथा ॥ (मो_३,१.८ ॥

यतः उत्पत्त्यादीनाम् एकाधिकरणत्वं अस्ति । "अतः तेषु" क्रमभाविषु उत्पत्त्यादिषु मध्ये । "अवबोधार्थं" त्वज्ज्ञानार्थं । इहास्मिन् प्रकरणे । "अहम् तावत्" प्रथमं । "तत् कथयामि" । "तत्" किं । "यः" पुरुषः । "यथा" येन प्रकारेण । "संसृतौ" संसरणस्वभावे संसारे । "पूर्वम् एव" सर्गादौ एव । "उत्पत्तिम् एति" ब्रह्मणः व्यतिरिक्तत्वेन सत्तां भजति । ततोऽनन्तरं स्थितिप्रकरणादौ वर्धनादिकम् अपि कथयामीति भावः । "हि"शब्दः निश्चये । अत एवास्य प्रकरणस्योत्पत्तिप्रकरणम् इति नामापि भवतीति ज्ञेयम् ॥ (मोटी_३,१.८ ॥

तत्र तावत् सङ्क्षेपकथनं प्रतिजानीते

इदं प्रकरणार्थं त्वं सङ्क्षेपाच् छृणु राघव ।
ततः प्रकथयिष्यामि विस्तरं ते यथेप्सितम् ॥ (मो_३,१.९ ॥

हे "राघव" । "त्वम् इदम्" जगदुत्पत्तिरूपं । "प्रकरणार्थं" उत्पत्तिप्रकरणाभिधेयं । "सङ्क्षेपात्" सङ्क्षेपेण "शृणु" । "ततः" सङ्क्षेपानन्तरम् । "यथेप्सितं" ईप्सितानुसारि "विस्तरं" "कथयिष्यामि" । सङ्क्षेपकथनेन विना त्वत्सन्देहानुत्थानात् विस्तरेण कथनं न सम्भवति । सन्देहविषयत्वात् विस्तरस्येति भावः ॥ (मोटी_३,१.९ ॥

प्रतिज्ञातां सङ्क्षेपतः जगदुत्पत्तिं कथयिष्यन् प्रपञ्चाक्रान्तबुद्धेः शिष्यस्य विधिमुखेन मूलकारणस्वरूपकथनम् अयुक्तं ज्ञात्वा स्थूणानिखननन्यायम् आश्रित्य जगन्नाशमुखेन मूलकारणस्वरूपं कथयितुं प्रस्तौति

यद् इदं दृश्यते सर्वं जगत् स्थावरजङ्गमम् । ।
तत् सुषुप्त इव स्वप्नः कल्पान्ते प्रविनश्यति ॥ (मो_३,१.१० ॥

अस्माभिः "यत्" । "इदम्" पुरोवर्ति । "स्थावरजङ्गमं" स्थावरजङ्गमस्वरूप । "जगत्" नश्वरं भावजातं । "दृश्यते" अनुभूयते । "तत् कल्पान्ते" आन्तरार्थविवक्षायां सर्वदृश्यक्षयरूपायां तुर्यावस्थायां विशेषतः तदतीतावस्थायां च । बाह्यार्थविवक्षायां तु कालान्तरभाविनि प्रलयकाले । "प्रविनश्यति" प्रकर्षेण संस्काराख्यात् मूलाद् आधाराद् नश्यति । मूलकारणभावेनावस्थानात् अदर्शनं याति । क "इव" । "स्वप्न इव" । यथा "सुषुप्ते स्वप्नः" नश्यति । तथेत्य् अर्थः । ननु सुषुप्तौ जगतो बीजभावेनावस्थानात् अन्यथा पुनर्भवायोगात् कथम् अयम् उपमानोपमेयभावः सिद्ध्यतीति चेन् । न । स्तैमित्याख्यस्य सामान्यधर्मस्योभयत्राप्य् अवस्थानात् सामान्यधर्ममात्राश्रयणेनैव हि उपमानोपमेयभावः उत्तिष्ठति । इति न कोऽपि विरोधः ॥ (मोटी_३,१.१० ॥

यत्स्वरूपप्रकटनार्थम् अयं यत्नः कृतः तन् मूलकारणं शेषत्वेन कथयति

ततः स्तिमितगम्भीरं न तेजो न तमस् ततम् ।
नाख्यम् अनभिव्यक्तं यत् किञ्चिद् अवशिष्यते ॥ (मो_३,१.११ ॥

"ततः" प्रपञ्चनाशानन्तरम् । "यत् किञ्चित्" केनापि नाम्ना वक्तुम् अशाक्यं किम् अपि सूक्ष्मं वस्तु । "शिष्यते" शेषतया तिष्ठति । तस्यापि नाशे नाशोपलब्धुर् अभावेन सम्पन्नोऽपि प्रपञ्चनाशः । असत्कल्प एव स्याद् इति भावः । ननु नामतः तद् वस्तु कथं नोक्तम् इत्य् । अत्र विशेषणद्वारेण हेतुम् आह्"आनाख्यम्" इति । "अनाख्यम्" आख्याकर्तृत्वेन स्थितत्वात् आख्याकर्मतां नेतुम् अशक्यम् । ननु कथं तद् अनाख्यम् अस्तीत्य् । अत्रापि विशेषणद्वारेण हेतुम् आह्"आनभिव्यक्तम्" इति । "अनभिव्यक्तम्" अतिसूक्ष्मत्वात् । बाह्यान्तरत्वेन स्थितैर् इन्द्रियैर् अप्रत्यक्षीकृतम् इत्य् अर्थः । बाह्यान्तरेन्द्रियाप्रत्यक्षस्य चानाख्यत्वं स्फुटम् एव । वागिन्द्रियस्यापि अगम्यत्वात् । नन्व् अनभिव्यक्तत्वम् अपि कथं तस्यास्तीत्य् । अत्रापि विशेषणद्वारेण हेतुम् आह "न तेजो न तम" इति । चेत्यकलितं चिन्मात्रं "तेजः" । तच्चेत्यं "तमः" । अथ वा सूर्यादिकं "तेजः" । अन्धकारः "तमः" तद्व्यतिरिक्तस्वरूपम् इत्य् अर्थः । तथा च तस्यानभिव्यक्तत्वम् एव । तेजस्तमसोर् एव अभिव्यक्तिविषयत्वात् । तथापि शून्यतापत्तिम् आशङ्क्य विशेषणम् आह "ततम्" इति । सर्वत्र प्रोतस्वरूपम् इत्य् अर्थः । शून्यत्वे कथं ततत्वं स्याद् इति भावः । केन स्वरूपेण तस्य प्रोतत्वम् अस्तीत्य् । अत्राह "स्तिमितगम्भीरम्" इति । स्तिमितं च तत् गम्भीरं चेति "स्तिमितगम्भीरम्" । चिन्मात्ररूपत्वेन चेत्यभावरूपस्य प्रसरणस्याभावात् निःस्पन्दम् । निरालम्बनत्वेन स्वभिन्नस्यावगाढुः अभावात् दुरवगाहं चेत्य् अर्थः । अतश् च निरालम्बशुद्धचिन्मात्ररूपतया प्रोतम् अस्तीति भावः । यद्य् अपि नासर्गं तिष्ठति । "परम्" इति वक्ष्यमाणनीत्या तस्य तत्त्वस्य प्रपञ्चोद्भावनं प्रति सर्वदैव स्पन्दो वर्तत एवेति । शुद्धतया स्थितस्य तस्योपलब्धिः कदापि न सम्भवत्य् एव । तथापि "देशाद् देशान्तरं दूरम्" इत्यादिवक्ष्यमाणनीत्या मध्यवृत्तिषु सदा तदुपलब्धिः सम्भवत्य् एवेति न विमुखेन भवितव्यम् । विदेहमुक्तानां तु सर्वदा तन्मयत्वम् अपि सम्भवति । यतः अस्य चिन्मात्रतत्त्वस्येदृश एव महिमा भवति । यत् सर्वदा विश्वमयं तद् उत्तीर्णं च भवतीति न किञ्चिद् विरुद्धम् ॥ (मोटी_३,१.११ ॥

ननु यदि तत् तत्त्वम् अनाख्यम् अस्ति तत् कथं बुधैः तस्य तत्त्वस्य "ऋतं आत्मे"त्यादिकाः सञ्ज्ञाः कृताः इत्य् । अत्राह

ऋतम् आत्मा परं ब्रह्म सत्यम् इत्यादिका बुधैः ।
कल्पिता व्यवहारार्थं यस्य सञ्ज्ञा महात्मनः ॥ (मो_३,१.१२ ॥

"बुधैः" तत्साक्षात्कारवद्भिः । "कल्पिताः" कल्पनया भाविताः । "व्यवहारार्थं" शिष्योपदेशाख्यव्यवहारसम्पादनार्थम् । न तु किञ्चित् प्रवृत्तिनिमित्तम् उपादाय "ऋता"दिकाः "सञ्ज्ञाः" तत्र प्रवर्तन्ते इति भावः ॥ (मोटी_३,१.१२ ॥

ननु तत् ईदृशं भवतु । किं तत इत्य् । अत्राह

स तथाभूत एवात्मा स्वयम् अन्य इवोल्लसन् ।
जीवताम् उपयातीव भाविनामकदर्थनाम् ॥ (मो_३,१.१३ ॥

"तथाभूत एव" परमार्थतः प्रोक्तात् स्वरूपाद् अप्रच्युत एव । "सः आत्मा" प्रोक्तविशेषणयुक्तम् सर्वदा भातत्वेन सातत्यगमनक्रियाकर्तृभूतं चिन्मात्राख्यं तत्त्वम् । "जीवताम्" सातत्यगमनविरुद्धस्वभावप्राणधारणक्रियाकर्तृभूतं जीवभावम् । "उपयातीव" गच्छतीव । "सः" आत्मा किम् कुर्वन् । "अन्य इवोल्लसन्" । "स्वयं" स्वविषयतासादनेन स्वव्यतिरिक्तं । चेत्यरूप इव "उल्लसन्" । स्वपरामर्शनमात्रेणैव हि चिन्मात्रस्य चेत्यरूपो जीवादिभावः भवति । "तथाभूत" इति पदम् "इव"शब्दद्वयस्य योग्यतां कथयति । न हि तथाभूतस्य परमार्थतः अतथाभावो युक्तः । न हि सदा जलभावात् अप्रच्युतस्य जलस्य तरङ्गतासादनेऽपि परमार्थतः अजलभावो युक्तः । "जीवतां" कथम्भूतां । "भाविनामकदर्थनाम्" । "भाविनीं" अग्रे । भवनशीला "नामकदर्थना" जीवेति नामरूपा । "कदर्थना" मालिन्यं यस्याः । ताम् । जीवेति नामयोग्याम् इत्य् अर्थः । भावित्वं च नाम्नः वैखरीप्रादुर्भावे ज्ञेयम् ॥ (मोटी_३,१.१३ ॥

अधुना तस्यैव जीवत्वानन्तरभाविनीं मनस्तां कथयति

ततः स जीवशब्दार्थकलनाकुलतां गतः ।
मनो भवति मौनात्म मननान् मन्थरीभवन् ॥ (मो_३,१.१४ ॥

"ततः" जीवभावानन्तरम् । "सः" आत्मा । "मनः भवति" । कीदृशं "मनः" । "मौनात्म" । सहजस्वरूपविमर्शासामर्थ्यं "मौनं" । तद्रूपम् कुतः भवतीत्य् । अत्र हेतुगर्भं विशेषणम् आह । "मन्थरीभवन्न्" इति । यतः "मन्थरीभवन्" अलसीभवन् भवति इत्य् अर्थः । कुतः "मन्थरीभवन्" इत्य् अपेक्षायाम् आह । "मननाद्" इति । "मननाज्" जीवत्वमननाख्यात् धर्मात् । मननपरत्वेनैव हि आत्मा स्वपरामर्शं प्रति "मन्थरीभवति" । ततः मनोरूपं भवति । कथम्भूतः "सः" । "जीवशब्दार्थकलनाकुलताम्" । जीवस्य वाचकः शब्दः "जीवशब्दः" । तस्य यः "अर्थः" अणुरूपः जीवः । तस्य यः "कलना "स्वरूपतया परामर्शः । तया या "आकुलता" । "ताम् गतः" । अयं भावः । सर्वथा चेत्यव्यतिरिक्तस्वरूपं चिन्मात्रं प्रथमं चित्त्वेनाहम् इति स्वपरा-मर्शं करोति । तत्र ग्राहकतया स्थितस्य भागस्य चिद् इति नाम । ग्राह्यतया स्थितस्य तु जीवत्वं । ततः तस्य जीवस्य स्वस्मिन् अणुत्वपरामर्शो भवति । तद् एव च तस्य मनस्त्वम् इति ॥ (मोटी_३,१.१४ ॥

फलितं कथयति

मनः सम्पद्यते तेन महतः परमात्मनः ।
सुस्थिराद् अस्थिराकारस् तरङ्ग इव वारिधेः ॥ (मो_३,१.१५ ॥

"तेन" ततः हेतोः । "मनः" अणुरूपं चित्तं । "महतः" व्यापकात् । "परमात्मनः सम्पद्यते" प्रादुर्भवति । क "इव" । "तरङ्ग इव" । यथा "सुस्थिरात्" "वारिधेः" समुद्रात् । "अस्थिराकारः तरङ्गः सम्पद्यते" । तथेत्य् अर्थः । अत्र च सुस्थिरत्वं तरङ्गापेक्षया ज्ञेयम् ॥ (मोटी_३,१.१५ ॥

मनसः उत्पत्तिम् उक्त्वा तत्कार्यभूतस्य जगतः उत्पत्तिं कथयति

तत् स्वयं स्वैरम् एवाशु सङ्कल्पयति नित्यशः ।
तेनेयम् इन्द्रजालश्रीर् विततेव वितन्यते ॥ (मो_३,१.१६ ॥

"तत्" परमात्मोक्तं मनः । "स्वयम्" । न तु अन्यत् किञ्चित् मध्येकृत्य । "स्वैरम्" स्वेच्छया । न तु परप्रेरणया । "सङ्कल्पयति" सङ्कल्पं करोति । अतः "तेन" मनसा । "इयम्" अनुभूयमाना । "इन्द्रजालश्रीः" मिथ्याभातत्त्वेन इन्द्रजालवत् भासमानत्वात् इन्द्रियजालसम्पद्रूपा सृष्टिः । "वितन्यते" विस्तार्यते । कथम्भूत्"एव" । "विततेव" विस्तीर्णा इव । परमार्थतः अणुस्वरूपे मनसि स्थितत्वात् वैतत्यरहितेत्"ईव"शब्दोपादानम् ॥ (मोटी_३,१.१६ ॥

परमात्मोत्थान् मनसः सृष्ट्युत्थानकथनफलम् आह

यथा कटकशब्दार्थः पृथक्त्वार्होऽस्ति कानके ।
न नाम कटके तद्वज् जगच्छब्दार्थता परे ॥ (मो_३,१.१७ ॥

"यथा कटकशब्दार्थः" कटकशब्दाभिधेयभूतः सन्निवेशविशेषः । "पृथक्त्वार्हः" । अर्थात् कानकात् पृथक्त्वयोग्यः "न" भवति । क्व स्थितस्य कटकशब्दस्यार्थः । "कानके" "कटके" कनकनिर्मिते कटके इत्य् अर्थः । "तद्वत् परे जगच्छब्दार्थता" भवति । "तद्वद्" इत्य् अनेन दृष्टान्तगतं सर्वम् आक्षिप्यते । तेनायम् अर्थः । "तद्वत्" तथा । "परे" । अर्थात् प्रोक्तनीत्या जगत्तया स्थिते उत्तीर्णे चिन्मात्रे । स्थितस्य जगच्छब्दस्यार्थः परात् "पृथक्त्वार्हः न" भवति ॥ (मोटी_३,१.१७ ॥

मूढबुद्धिषु सङ्क्रमणार्थं पुनर् अप्य् एतद् एव कथयति

ब्रह्मण्य् एवास्त्य् अनन्यात्म यथास्थितम् इदं जगत् ।
न जगच्छब्दकार्थोऽस्ति हेम्नीव कटकादिता ॥ (मो_३,१.१८ ॥

"यथास्थितम्" अनेन प्रकारेणैव स्थितं । न त्व् अन्यं प्रकारम् आसाद्येति यावत् । "इदं जगत् ब्रह्मणि" बृंहिते चिन्मात्रे । "अनन्यात्म" अनन्यस्वरूपं "अस्ति" । तत्र "जगच्छब्दकार्थः" । "जगच्छब्दकस्य" जगद् इति शब्दस्य । "अर्थः" ब्रह्मव्यतिरिक्तपदार्थरचनारूपं अभिधेयम् । "न" भवति । तत्तयाभिमतस्य जगतः ब्रह्मत्वसाधनात् । "जगच्छब्दकार्थः" का "इव" । "कटकादिता इव" । यथा "कटकादिता" कटकादिभावः । "हेम्नि नास्ति" । तथेत्य् अर्थः ॥ (मोटी_३,१.१८ ॥

असत्त्वसाधिकाम् अत एवोक्तार्थदार्ढ्यकारिणीं मनसः सकाशात् जगदुत्पत्तिम् अनुवदति

सतैवासती तापनद्येव लहरी चला ।
मनसैवेन्द्रजालश्रीर् जागती प्रवितन्यते ॥ (मो_३,१.१९ ॥

"मनसा एव" । न त्व् अन्येन केनचित् । "जागती" जगत्सम्बन्धिनी । जगत्स्वरूपेति यावत् । "इन्द्रजालश्रीः" इन्द्रजालसम्पत् । "प्रवितन्यते" । कथम्भूतेन्"ऐव" । "असता" "एव" असत्स्वरूपेणैव । न हि ब्रह्मव्यतिरेकेण मनसः पृथक् सत्ता अस्ति । कथम्भूत्"एन्द्रजालश्रीः" । "असती" स्वकारणभूतमनोवत् असत्स्वरूपा । मनसा कय्"एव" । तापे भासमाना नदी "तापनदी" । तया "इव" । यथा असत्या तापनद्या "असती चला लहरी प्रवितन्यते" । तथेत्य् अर्थः । ननु कथं पूर्वश्लोके कनककटकस्य दृष्टान्तत्वं इह तापनदीलहर्याः इति चेत् । सत्यम् । पूर्वश्लोके जगतः परमार्थतः ब्रह्मरूपत्वकथनार्थं कनककटकस्य दृष्टान्तत्वं । अस्मिन् श्लोके तु तस्यैवानुपपत्तिनिवारणाय ब्रह्मव्यतिरेकेणासत्त्वकथनार्थं तापनदीलहर्याः दृष्टान्तत्वम् इत्य् एकफलसाधकत्वान् न दृष्टान्तद्वयस्य वैषम्यम् । जगतः मनोनिर्माणत्वाभावे हि परमार्थसत्त्वं प्राप्नोति । तथा च भिन्नसत्ताभाजः तस्य ब्रह्मत्वकथनम् अयुक्तं स्यात् । न हि घटे पटोऽयम् इति वक्तुं युक्तम् । इत्य् अनुपपत्तिनिवारणायास्य श्लोकस्योपन्यासः । इति तदन्तर्गतस्य दृष्टान्तस्यापि तदर्थम् एव सः युक्तः ॥ (मोटी_३,१.१९ ॥

जागतीम् इन्द्रजालश्रियं विशिनष्टि

विद्या संसृतिर् बन्धो माया मोहो महत् तमः ।
कल्पितानीति नामानि यस्याः सकलवेदिभिः ॥ (मो_३,१.२० ॥

"सकलवेदिभिः" सर्वज्ञैः ॥ (मोटी_३,१.२० ॥

अधुना प्रोक्तायाः इन्द्रजालश्रियाः सकाशात् मोक्षकाङ्क्षिणं शिष्यं ज्ञात्वा मोक्षस्वरूपनिरूपणं विना शिष्यस्य मोक्षावाप्तिम् अजानन् मोक्षस्वरूपनिरूपणम् अपि तद्विरुद्धबन्धस्वरूपज्ञानं विनाशक्यं मन्यमानः तत्स्वरूपनिरूपणं प्रतिजानीते । "बन्धस्ये"ति ।

बन्धस्य तावद् रूपं त्वं कथ्यमानम् इदं शृणु ।
ततः स्वरूपं मोक्षस्य ज्ञास्यसीन्दुसमानन ॥ (मो_३,१.२१ ॥

"बन्धस्य" इन्द्रजालश्रीस्वरूपदृश्यासक्तत्वस्य । अनुपादेयबन्धस्वरूपनिरूपणप्रतिज्ञया व्याकुलीभूतं शिष्यं समाश्वासयति "तत" इति । "ततः" बन्धस्वरूपकथनानन्तरम् । "मोक्षस्य" दृश्यनैरपेक्षस्य । हेयनिरूपणानन्तरम् उपादेयनिरूपणस्य युक्तत्वाद् इति भावः ॥ (मोटी_३,१.२१ ॥

बन्धस्वरूपं कथयति

द्रष्टुर् दृश्यत्वसत्ताङ्ग बन्ध इत्य् अभिधीयते ।
द्रष्टा दृश्यवशाद् बद्धो दृश्याभावाद् विमुच्यते ॥ (मो_३,१.२२ ॥

हे "अङ्ग" । पण्डितैः "दृश्यसत्ता" दृश्यसद्भावः । "द्रष्टुः" दृशिक्रियाकर्तुः । "बन्धः अभिधीयते" । भावप्रत्ययः पादपूरणार्थः । एतद् एवान्वयव्यतिरेकाभ्यां आश्वासयोग्यं करोति "द्रष्टे"ति । "दृश्यवशात्" दृश्यवशेन । दृश्यसत्तावशेनेति यावत् । "दृश्याभावात्" दृश्यासत्तया । विषयस्य भावे विषयिणोऽपि भावात् । तदभावे तस्याप्य् अभावात् इति हेतुद्वयं वाक्यद्वये स्वयं योज्यम् ॥ (मोटी_३,१.२२ ॥

तत्र दृश्यस्वरूपं कथयति

जगत् त्वम् अहम् इत्यादि सर्गात्मा दृश्यम् उच्यते ।
यावद् एतत् सम्भवति तावन् मोक्षो न विद्यते ॥ (मो_३,१.२३ ॥

"जगत्" बन्धहेतुः दृश्यप्रपञ्चः । "त्वम्" ततो मोक्षाकाङ्क्षी शिष्यः । "अहम्" इत्य् उपदेष्टा । "आदि"शब्देन मोक्षस्य ग्रहणम् । तस्यापि दृश्यत्वानपायात् । पण्डितैः "जगत् त्वम् अहम् इत्यादि दृश्यम्" दृशिक्रियाकर्म्"ओच्यते" । कुत इत्य् आकाङ्क्षायाम् विशेषणद्वारेण हेतुं कथयति । "सर्गात्मे"ति । सृज्यमानस्वरूप इत्य् अर्थः । सृज्यमानस्य च दृश्यत्वं स्फुटम् एव दर्शनपूर्वकत्वात् । सर्जनस्य च दर्शनपूर्वकत्वं "तद् ऐक्षते"त्यादिश्रुतिसामर्थ्यात् ज्ञेयम् । अस्य बन्धहेतुत्वम् अनुवदति । "यावद्" इति । "यावत् एतत्" इदं जगदादिदृश्यम् । "सम्भवति" सत्तायुक्तं भवति । "तावत् मोक्षः न विद्यते" । बन्धनिमित्तस्य स्थितत्वात् । सत्तामात्रेणैव च दृश्यस्य बन्धनिमित्तत्वस्वभावत्वात् ॥ (मोटी_३,१.२३ ॥

नेदम् इति वचनकथनमात्रेणैव शान्तदृश्यत्वाभिमानयुक्तं शिष्यं प्रति आह

नेदं नेदम् इति व्यर्थैः प्रलापैर् नोपशाम्यति ।
सङ्कल्पजनकैर् दृश्यव्याधिः प्रत्युत वर्धते ॥ (मो_३,१.२४ ॥

"इदम्" अनुभूयमानं । "इदं" दृश्यम् । "न" भवति । "इदं" दृश्यं "न" भवति "इति" एवंरूपेण स्थितैः "व्यर्थैः" दृश्यशान्त्याख्यफलरहितैः । तथा "सङ्कल्पजनकैः" निषेधाख्यसङ्कल्पोत्पादकैः । "प्रलापैः" उन्मत्तप्रलापैः । "दृश्यव्याधिः" दृश्याख्यो रोगः । "नोपशाम्यति" निषेधरूपतया स्थितत्वात् । "प्रत्युत वर्धते" वृद्धिं याति । निषेधाख्यसङ्कल्पवर्धकत्वात् । ननु कथं निषेधस्य दृश्यत्वं । सत्यम् । द्रष्टृविषयत्वात् निषेधोऽपि हि द्रष्टुः स्वतः भिन्नतया भाति ॥ (मोटी_३,१.२४ ॥

ननु "नेदम्" इति वचनमात्रेण दृश्यशान्तिः मा भवतु । तर्कादिभिः तच्छान्तिं साधयामः इत्य् । अत्राह

न च तर्कभरक्षोदैर् न तीर्थनियमादिभिः ।
सतो दृश्यस्य जगतो यस्माद् एते विचारकाः ॥ (मो_३,१.२५ ॥

"तर्कभराणां" भेदप्रधानत्वेन दृश्यसत्यत्वापादकानां तर्कसमूहानां । ये "क्षोदाः" विचारणानि । तैः "दृश्यव्याधिः नोपशाम्यति" । तथा "तीर्थनियमादिभिः दृश्यव्याधिः नोपशाम्यति" । यतः "एते" "तर्कभरा"दयः "दृश्यस्य" "जगतः" "सतः विचारकाः" सत्यत्वविचारका भवन्ति । तत्र तर्काणां साक्षाद् एव पदार्थसाधकत्वं । तीर्थादीनां तु स्वर्गादिफलनिष्ठत्वात् । न ह्य् असत्यनिष्ठत्वं युक्तम् ॥ (मोटी_३,१.२५ ॥

ननु तर्काः सद् अपि जगत् पर्यन्ते भागतः अनित्यत्वेन कथयन्तीति तेषाम् अपि भागतः दृश्यशान्त्युपपादकत्वम् अस्त्य् एवेत्य् । अत्राह

जगद् दृश्यं तु यद्य् अस्ति न शाम्यत्य् एव तत् क्वचित् ।
नासतो विद्यते भावो नाभावो विद्यते सतः ॥ (मो_३,१.२६ ॥

"दृश्यम्" दृशिक्रियाविषयीभूतं । "जगत्" नश्वरस्वभावं भावजातं । "यद्य् अस्ति" यदि परमार्थसत् भवति । "तत्" तदा । "क्वचित्" कुत्रापि देशे काले वा । "न शाम्यति" शान्तिं न व्रजति । यतः "असतः" अस्तिक्रियाकर्तृत्वम् अभजतः । "भावः" सत्ता । "न" भवति । तथा "सतः" अस्तिक्रियाकर्तृत्वं भजतः । "अभावः" असत्ता । "ना"स्ति । स्वरूपहानिप्रसङ्गाद् इति भावः ॥ (मोटी_३,१.२६ ॥

दृश्यपरमार्थसत्त्वे दोषम् आह

चेत्यचित्स्वरूपात्मा यत्र यत्रैष तिष्ठति ।
द्रष्टा तत्रास्य दृश्यश्रीः समुदेत्य् अप्य् अणूदरे ॥ (मो_३,१.२७ ॥

चिता स्वयम् आविर्भाव्यस्वविषयीकृतं भावजातं "चेत्यं" । अविद्यमानं चेत्यं यस्यां । सा "अचेत्या" । प्रोक्तस्वरूपचेत्यव्यतिरिक्तेति यावत् । तादृशी या "चित्" । तत्"स्वरूपः" तन्मयः । "आत्मा" स्वरूपं यस्य । सः "अचेत्यचित्स्वरूपात्मा" । "यत्र यत्र" यस्मिन् यस्मिन् देशे । यस्यां यस्याम् अवस्थायाम् इति यावत् । "तिष्ठति" । "अणूदरेऽपि" परमसूक्ष्मोदरेऽपि । "तत्र" तस्मिन् देशे । "अस्य" द्रष्टुः । "दृश्यश्रीः समुदेति" प्रादुर्भवति । ननु तादृशे सूक्ष्मतरे देशेऽर्मे कथम् एतादृशस्य प्रपञ्चस्यावस्थानं सम्भवति । सत्यम् । स्थूलदृश्यसंस्कारोत्पादितया स्मृत्या तत्र तस्य प्रादुर्भावः सिध्यत्य् एव [---]त्वात् ॥ (मोटी_३,१.२७ ॥

अथ तपोध्यानादिभिः सत्यदृश्यशान्त्यभिमानग्रस्तान् प्रति कथयति

द्रष्टुर् अस्ति जगद् दृश्यं तत् प्रमृष्टम् इदं मया ।
त्यक्तं तपोध्यानजपैर् इति काञ्चिकतृप्तिवत् ॥ (मो_३,१.२८ ॥

"द्रष्टुः" दृशिक्रियाकर्तुः । "जगत् दृश्यम्" स्वभिन्नतया दृशिक्रियाविषयो भवति । "तत्" जगद्रूपं दृश्यं । "मया तपोध्यानजपैः त्यक्तम्" शान्तिं नीतम् । "इति" एतत् । "काञ्चिकतृप्तिवत्" काञ्चिकद्रव्येण मम तृप्तिर् जातेति वचनवत् भवति । यथा तृप्त्यर्थं भक्षितेन काञ्चिकद्रव्येण प्रत्युत क्षुत् एव जायते । तथा स्वभिन्नदेवताराधनार्थम् अनुष्ठितैः तपःप्रभृतिभिः अपि दृश्यवृद्धिर् एव जायते इति भावः ॥ (मोटी_३,१.२८ ॥

ननु दृश्यं सत्यं भवतु । मोक्षावस्थायां दृश्यान् निर्गतस्यात एव विशेषगुणासंवेदनपात्रतां गतस्यातिसूक्ष्मस्य जीवस्येदं दृश्यं किं करोति । न हि सुप्तस्य बाह्यजगत्कृतं व्याकुलत्वं दृश्यते इत्य् । अत्राह

यदि नाम जगद् दृश्यम् अस्ति तत् प्रतिबिम्बति ।
परमाणूदरेऽप्य् अस्मिंश् चिदादर्शे न संशयः ॥ (मो_३,१.२९ ॥

"जगत्" नश्वरम् दृश्यजातम् । "यदि नामास्ति" यदि नाम परमार्थसत् भवति । "तदा" "परमाणूदरे" "ऽपि" अतिसूक्ष्ममध्येऽपि । "अस्मिन्" आत्मत्वेन स्थिते । "चिदादर्शे" चिन्मकुरे । "प्रतिबिम्बति" प्रतिबिम्बत्वेन सङ्क्रामति ॥ (मोटी_३,१.२९ ॥

कथम् एतद् इत्य् । अत्राह

यत्र तत्र स्थितं राम यथादर्शे प्रबिम्बति ।
द्रिद्यूर्वीनदीशादि चिदादर्शे तथैव हि ॥ (मो_३,१.३० ॥

हे "राम" । "हि" यस्मात् कारणात् । "यथा" "यत्र तत्र" "स्थितं" वस्तु । "आदर्शे प्रबिम्बति" प्रतिबिम्बति । "तथैव" तद्वत् एव । "अद्रिद्यूर्वीनदीशादि" अद्रयश् च द्यौश् च ऊर्वी च "नदीशाः" समुद्राश् च । ते "अद्रिद्यूर्वीनदीशाः" । ते "आदिः" यस्य जगतः । तत् "अद्रिद्यूर्वीनदीशादि" । तादृशं जगत् । "चिदादर्शे" चिन्मकुरे । प्रतिबिम्बति । स्वभावस्य त्यक्तुम् अशक्यत्वात् । अयं भावः । स्फुरत्ता एव हि सत्ता भवति । सा चेद् दृश्ये परमार्थतः अस्ति तदा स्फुरत्तामात्रमयी चिन्मात्रत्वात् । सा स्वस्फुरत्तात्वतः कदापि न व्यतिरिक्ता भवेत् इति कदापि चिदादर्शः दृश्यप्रतिबिम्बरहितो न भवेत् इति ॥ (मोटी_३,१.३० ॥

तथा च मोक्षाभावप्रसङ्ग इत्य् अभिप्रायेणाह

ततस् तत्र पुनर् दुःखं जरा मरणजन्मनी ।
भावाभावग्रहोत्सर्गाः स्थूलसूक्ष्मचलाचलाः ॥ (मो_३,१.३१ ॥

"ततः" यदि चिदादर्शः दृश्यसद्भावेन पुनः पुनः प्रतिबिम्बयुक्तो भवेत् । तदा "तत्र" तस्मिन् चिन्मात्रे । "पुनः दुःखं" भवेत् । तथा "जरा" भवेत् । तद्वत् "मरणजन्मनी" भवेतां । तथा "भावाभावग्रहोत्सर्गाः" प्रादुर्भावनाशादानत्यागाः भवेयुः । संसारस्यैतत्स्वरूपत्वात् । दुःखादयः कथम्भूताः । "स्थूलसूक्ष्मचलाचलाः" । तत्र जाग्रत्कालीनानां स्थूलत्वम् अचलत्वं च । स्वप्नकालीनानां सूक्ष्मत्वम् चलत्वं चेति विभागः । सुषुप्तौ दुःखादिभानाभावात् । तथा च स्थूलसूक्ष्मदुःखादिरूपसंसारग्रस्तत्वेन जीवस्य कदापि मुक्तिः न स्याद् इति भावः ॥ (मोटी_३,१.३१ ॥

ननु भवतु दृश्यं परमार्थसत् । तथापि समाधिपराणाम् अनर्थम् उत्पादयितुं कास्य शक्तिर् इत्य् । अत्राह

इदं प्रमार्जितं दृश्यं मया नात्राहम् आस्थितः ।
एतद् एवाक्षयं बीजं समाधौ संसृतिस्मृतेः ॥ (मो_३,१.३२ ॥

"मया इदम् दृश्यम् प्रमार्जितम्" समाध्युपायेन नाशितम् । यतः "अहम् अत्र आस्थितः" आस्थायुक्तः "ना"स्मि । "एतद् एव" पूर्वार्धोक्तं वस्तु एव । "समाधौ" दृश्योपरमस्वरूपे समाधाने । "संसृतिस्मृतेः" दृश्यस्मृतेः । "अक्षयं बीजं" स्यात् । संसृतिविषयस्य दृश्यस्य संसृतिशब्दवाच्यत्वं लक्षणया ज्ञेयम् । अयं भावः । समाधिपरिणतस्य दृश्यप्रमार्जनं तदनास्था च सिद्धत्वेन स्फुरति न वा । न चेत् तदा सम्पन्नम् अप्य् एतद् द्वयम् असद् एव । स्फुरत्तायाः एव परमार्थतः सत्तास्वरूपत्वात् । स्फुरति चेत् तदास्थिता एव संसृतिस्मृतिः । तद्बीजस्य स्फुरणस्य स्थितत्वात् । ननु त्वदभिमते दृश्यात्यन्ताभावेऽपि अयं दोषः प्रसजति । स्फुरति चेत् दृश्यात्यन्ताभावः तत् स्थितम् एव दृश्यं । स्फुरणाख्यस्य बीजस्य स्थितत्वात् । न चेत् तद् असन्न् एव दृश्यात्यन्ताभावः । इति चेन् । न । न हि दृश्यात्यन्ताभाववादिनः सर्वोपरमस्वरूपः समाधिः दृश्यात्यन्ताभावतया अभिप्रेतः येन प्रोक्तदोषप्रसङ्गः स्यात् । किं तु दृश्यात्यन्ताभावनिश्चयमात्रम् एव तस्योपयोगि । न हि रज्जुसर्पनिवारणार्थं मन्त्रपठनं युक्तम् । अपि तु नायं सर्प इति सर्पात्यन्ताभावनिश्चयमात्रस्यैव तत्रोपयोगः । अत्यन्ताभावनिश्चयश् च गुरुशास्त्रसङ्गोद्भूतेनाधिष्ठानभूतचिन्मात्रविज्ञानेनैव सिध्यति । न पाषाणभावापादकैः समाधिभिर् इत्य् अलं प्रपञ्चेन ॥ (मोटी_३,१.३२ ॥

न केवलं जगत्सत्यत्ववाच्यभ्युपगतदृश्योपरमस्वरूपस्य समाधेः दृश्यबीजधारत्वमात्रम् एवास्त्य् । अपि तु कार्यकरणे असामर्थ्यम् अप्य् अस्तीत्य् अभिप्रायेणाह

सति त्व् अस्मिञ् जगद्दृश्ये निर्विकल्पसमाधिना ।
न चाक्षयसुषुप्तत्वं तुर्यं वाप्य् उपपद्यते ॥ (मो_३,१.३३ ॥

"तु" पक्षान्तरे । "अस्मिन् जगद्दृश्ये" जगत्स्वरूपे दृश्ये "सति" । "सति" परमार्थसति सति । "निर्विकल्पसमाधिना" सर्वोपरमस्वरूपेण समाधानेन । "अक्षयसुषुप्तत्वं तुर्यं वापि नोपपद्यते" न सिध्यति । "अक्षयसुषुप्तत्वं" विदेहमुक्तगोचरा तुर्यातीतावस्था । "तुर्यं" जीवन्मुक्तगोचरा तुर्यावस्था ॥ (मोटी_३,१.३३ ॥

अनुपपत्तिम् एव साधयति

व्युत्थाने हि समाधीनां सुषुप्तान्त इवाखिलम् ।
जगद्दुःखम् इदम् भाति यथास्थितम् अखण्डितम् ॥ (मो_३,१.३४ ॥

"हि" यस्मात् कारणात् । "समाधीनां व्युत्थाने" अवश्यभाविनि समाधिभ्यः व्युत्थाने । समाधेः व्युत्थानावस्थायाम् इति यावत् । "यथास्थितम्" पूर्ववत् स्थितम् । अत एव "अखण्डितम्" केनाप्य् अंशेन न न्यूनम् । "अखिलं" समस्तं । "इदम् जगद्दुःखम् भाति" स्फुरति । कस्मिन्न् "इव" । "सुषुप्तान्त इव" । अयं भावः । यथा रात्रौ सुषुप्तिं गतस्यात एव विस्मृतसमस्तजगत्प्रपञ्चस्य ततः प्रभाते प्रबुद्धस्य पुरुषस्य पुनः अपि पूर्ववत् जगत्प्रपञ्चः स्फुरति । तथा येन तेनोपायेन सर्वोपरमस्वरूपसमाधिं गतस्य पुरुषस्यावश्यम्भाविनि व्युत्थानसमये पुनर् अपि पूर्ववत् जगत्प्रपञ्चः अवश्यं स्फुरत्य् एव । अन्यथा अस्मदभिमतात्यन्ताभावप्रसङ्गात् । तथा च मातुलानीभक्षणवत् क्षणमात्रं जगदुपरमसाधकेन समाधिना सर्वदा जगदभावस्वरूपस्य तुर्यस्य तदतीतस्य च सिद्धिर् न युक्तेति ॥ (मोटी_३,१.३४ ॥

एतेनायातां समाधेः निष्फलतां कथयति

प्राप्तं भवति हे राम तत् किं नाम समाधिभिः ।
भूयोऽनर्थनिपातेऽपि क्षणसाम्ये हि किं सुखम् ॥ (मो_३,१.३५ ॥

"किं नाम प्राप्तं भवति" । किञ्चिद् अपि प्राप्तं न भवतीत्य् अर्थः । कथम् एतद् इत्य् अत्राह "भूय" इति । "हि" यस्मात् । "भूयोऽनर्थपाते" । "भूयः अनर्थनिपातः" भेदरूपानर्थनिपातः । यस्मिन् । तादृशे "क्षणसाम्येऽपि" क्षणं स्फुरणशीलायां समतायाम् अपि । "किं सुखं" भवति । यतः क्षणभातं साम्यं सुखदं न भवति । ततः तत्प्राप्त्यापि किञ्चित् प्राप्तं न भवतीति भावः । "अपि"शब्दः साम्यस्य असन्दिग्धम् सुखास्पदत्वं द्योतयति ॥ (मोटी_३,१.३५ ॥

ननु समाधौ सततं लीनस्य व्युत्थानाभावेन कथं भूयः जरादुःखप्रादुर्भावः स्याद् इत्य् । अत्राह

यदि वापि समाधाने निर्विकल्पे स्थितिं व्रजेत् ।
तद् अक्षयसुषुप्ताभं तन् मन्ये नामलं पदम् ॥ (मो_३,१.३६ ॥

पुरुषः "निर्विकल्पे समाधाने" निर्विकल्पसमाधौ । "स्थितिं" सततं लीनतां । "यदि वा व्रजेत्" यदि वा गच्छेत् । अहं "मन्ये" । "तत्" तदापि । "तत्" निर्विकल्पसमाधानम् । "अमलं पदम्" जाड्यमलरहितं शुद्धचिन्मात्राख्यं महास्थानं । "न" भवति । दृश्यदर्शनासामर्थ्यरूपस्य जाड्याख्यस्य मलस्य सुप्तिवत् स्थितत्वात् । "तत्" कथम्भूतम् । "अक्षयसुषुप्ताभम्" तुर्यातीतावस्थावत् भासमानं । न तु तत्स्वरूपम् । कालान्तरेऽवश्यम्भाविनः व्युत्थानस्य स्थितत्वात् । न च तुर्यातीतावस्थायाः व्युत्थानं कदापि सम्भवति । चिन्मात्रे अत्यन्तलयीभावात् ॥ (मोटी_३,१.३६ ॥

दृश्यसत्यत्ववादिनः निर्विकल्पसमाधिर् एव न सम्भवति । स्थितिव्रजनस्य तु का कथेत्य् अभिप्रायेणाह

प्राप्यते सति दृश्येऽस्मिन् न च तन् नाम केनचित् ।
यत्र तत्र किलायाति चित्तभ्रान्त्या जगद्भ्रमः ॥ (मो_३,१.३७ ॥

"नाम" निश्चये । "अस्मिन्" अनुभूयमाने जगति "सति" । "सति" परमार्थे सति । "केनचित्" केनापि पुरुषेण । "तत्" निर्विकल्पसमाधानं । "न प्राप्यते" । यतः "यत्र तत्र" स्थितस्यापि समाधिदेशे तदितरदेशे वा स्थितस्य पुरुषस्य । "चित्तभ्रान्त्या" । चित्ते स्थिता "भ्रान्तिः" जगत्सत्यत्वभ्रमः "चित्तभ्रान्तिः" । तया "जगद्भ्रमः" । "किल" निश्चये । "आयाति" । अयं भावः । यथा दृश्यसत्यतायां निश्चितः पुरुषः रात्रौ सुप्तोऽपि दृश्यं पश्यत्य् एव । तथा समाधिं गतोऽपि पश्येद् एव समानन्यायत्वात् । तथा च दृश्यसत्यत्ववादिनः निर्विकल्पसमाधिर् एव न सम्भवति । तत्र स्थितिव्रजनस्य तु का कथेति ॥ (मोटी_३,१.३७ ॥

ननु दृश्यसत्यत्वे निश्चितस्यापि यथा तथा प्रयुक्तेन धारणोपायेन न किञ्चिद् भानरूपो निर्विकल्पसमाधिः सिध्यत्य् एवेत्य् । अत्राह

द्रष्टाथ यदि पाषाणरूपतां भावयन् बलात् ।
किलास्ते तत् तदन्तेऽपि भूयोऽस्योदेति दृश्यता ॥ (मो_३,१.३८ ॥

"द्रष्टा" प्रमाता । "यदि बलात्" केनापि हठप्रयोगेन । "पाषाणरूपतां भावयन् आस्ते" तिष्ठति । "तद् अपि" तदापि । "अस्य" स्वस्मिन् पाषाणभावं भावयतः द्रष्टुः । "तदन्ते" अवश्यभाविनि पाषाणभावान्ते । "दृष्यता" पटादिविषयः दृश्यभावः । "उदेति" स्फुरति । न हि जीवतः सर्वदा पाषाणभावभावनं शक्यं । तथा च दृश्यत्वे निश्चितस्य स्थिरः निर्विकल्पसमाधिः न सिध्यत्य् एवेति भावः ॥ (मोटी_३,१.३८ ॥

पाषाणरूपतागमनस्यासम्भवं कथयति

न च पाषाणतातुल्या निर्विकल्पसमाधयः ।
केषाञ्चित् स्थितिम् आयान्ति सर्वैर् इत्य् अनुभूयते ॥ (मो_३,१.३९ ॥

पाषाणतायाः तुल्याः "पाषाणतातुल्याः" । विकल्परहिता इत्य् अर्थः । पाषाणताभावनम् एव तस्य द्रष्टुः पाषाणभावं नाशयति । न हि पाषाणः स्वं पाषाणत्वं भावयितुं शक्नोतीति भावः ॥ (मोटी_३,१.३९ ॥

यथातथासिद्धस्यापि पाषाणभावस्य न परमपदत्वं युक्तं जडत्वानपायाद् । इति कथयति

न च पाषाणतातुल्या रूढिं याताः समाधयः ।
भवन्त्य् अग्र्यं पदं शान्तं चिद्रूपम् अजम् अव्ययम् ॥ (मो_३,१.४० ॥

"रूढिं" परिणामम् । अयं भावः । दृश्यदर्शनासामर्थ्येन जडत्वानपायात् पाषाणभावस्य चिन्मात्रत्वम् अयुक्तम् । चिन्मात्रं हि सर्वदा चेत्यचेतनसमर्थम् एव भवति । स्वातन्त्र्येण तु यदि कदाचित् तच् चेतनं न करोति तेन नास्य जाड्यापातः । न हि शक्तः पुरुषः स्वातन्त्र्येण कार्यम् अकुर्वन् अशक्त इति वक्तुं युज्यते इति ॥ (मोटी_३,१.४० ॥

पूर्वोक्तम् उपसंहरति

तस्माद् यदीदं सद् दृश्यं तन् न शाम्येत् कदाचन ।
शाम्येत् तपोजपध्यानैर् दृढम् इत्य् अज्ञकल्पना ॥ (मो_३,१.४१ ॥

"तस्मात्" उक्तहेतोः । "यदि दृश्यं सत्" भवति ...



... यत्वेन परबोधत्वायोगात् । तद् एव "निर्वाणमात्रम्" एव । "चित्तमात्रं" पद्मजभावेन स्थितं शुद्धं चित्तं । "आस्ते" । "तत्" चित्तमात्रम् । "वसुधादिताम्" परमार्थसन्तं पृथ्व्यादिभावं । "न याति" । निर्वाणस्वरूपशुद्धबोधमयत्वात् । अत एव पद्मजस्य आधिभौतिकदेहाभाव इति भावः ॥ (मोटी_३,३.१३ ॥

ननु प्रतिजीवं मनोभेदस्य स्थितत्वान् नानाविधानि मनांसि सन्ति । तत् कथं पद्मजरूपात् मनसः एव जगदुत्पत्तिः उक्तेत्य् । अत्राह

सर्वेषां भूतमनसां संसारव्यवहारिणाम् ।
प्रथमोऽसौ प्रतिच्छन्दश् चित्तदेहः स्वतोदयः ॥ (मो_३,३.१४ ॥

संसारे व्यवहरन्तीति तादृशानां "सर्वेषां भूतमनसां" मध्ये । "असौ" पद्मजः । "प्रथमः प्रतिच्छन्दः" भाविमनःसृष्टिकारणं प्रथमं प्रतिभानम् भवति । चिन्मात्रस्येति शेषः । "असौ" कथम्भूतः । "चित्तदेहः" शुद्धमनोरूपः । पुनः कथम्भूतः । "स्वतोदयः" । "स्वतया" स्वभावेन । न तु अन्यतया । "उदयः" नवीनः प्रादुर्भावः यस्य । सः । उदयानन्तरम् अपि पूर्वभावेनैव स्थित इत्य् अर्थः । अत एव अस्माद् एवोत्पत्तिकथनम् इति भावः ॥ (मोटी_३,३.१४ ॥

प्रथमप्रतिच्छन्दत्वम् अस्य साधयति

स्मात् पूर्वात् प्रतिच्छन्दाद् अनन्यैतत्स्वरूपिणी ।
इयं प्रविसृता सृष्टिः स्पन्ददृष्टिर् इवानिलात् ॥ (मो_३,३.१५ ॥

"अस्मात्" पद्मजाख्यात् । "पूर्वात्" प्रथमात् । "प्रतिच्छन्दात्" । "इयम्" अनुभूयमाना । "सृष्टिः" । "प्रविसृता" प्रसारं गता । कथम्भूता । "अनन्या" एतस्माद् अव्यतिरिक्ता । अत एव "एतत्स्वरूपिणी" एतन्मयी । का "इव" । "स्पन्ददृष्टिर् इव" । यथा स्पन्दरूपा दृष्टिः । स्पन्द इति यावत् । "अनिलात्" प्रविसृता भवति । तथेत्य् अर्थः । अतोऽस्यैव प्रथमप्रतिच्छन्दत्वं युक्तम् इति भावः ॥ (मोटी_३,३.१५ ॥

उपसंहारं करोति

प्रतिभानाकृतेर् अस्मात् प्रतिभामात्ररूपधृत् ।
विभात्य् एवम् अयं सर्गः सत्यानुभववत् स्थितः ॥ (मो_३,३.१६ ॥

"एवं" सति । "प्रतिभानाकृतेः" प्रतिभानस्वरूपात् । "अस्मात्" पद्मजात् । "अयं सर्गः" इदं सृजिक्रियाविषयो दृश्यमण्डलं । "प्रतिभामात्ररूपधृत्" एव प्रतिभानमात्ररूपधारी एव । न तु स्थूलभूतमयरूपधारी । "विभाति" स्फुरति । न हि द्रवगुणयुक्तात् जलात् द्रवगुणरहितः तरङ्गः उत्पद्यते । "अयं सर्गः" कथम्भूतः । "स्थितः" । कथं । "सत्यानुभववत्" सत्यः अनुभवः यस्य । सः "सत्यानुभवः" । स इव तद्"वत्" । परमार्थतस् तु स्वप्नवत् प्रतिभानमात्रम् एवेति "वत्"इग्रहणम् ॥ (मोटी_३,३.१६ ॥

अत्र दृष्टान्तद्वयं कथयति

दृष्टान्तोऽत्र स्वप्नपुरं स्वप्नस्त्रीसुरतं तथा ।
सद् अप्य् अर्थसम्पत्त्या सत्यानुभवभास्वरम् ॥ (मो_३,३.१७ ॥

"अत्रा"स्मिन् स्थाने । सर्गस्य प्रतिभानमात्ररूपतायाम् इति यावत् । "स्वप्नपुरं" स्वप्नदृष्टं पुरं । "तथा" तद्वत् । "स्वप्नस्त्रीसुरतं" स्वप्नदृष्टस्त्रीसुरतं । "दृष्टान्तः" भवति । कथम्भूतम् । "असद् अपि" प्रतीतिमात्रसारत्वेनासत्स्वरूपम् अपि । "अर्थसम्पत्त्या" अर्थक्रियासम्पादनेन । "सत्यानुभवभास्वरम्" सत्यानुभवयुक्तवस्तुवत् भासनशीलम् ॥ (मोटी_३,३.१७ ॥

पद्मजस्य देहाभावेऽपि देहभानं कथयति

पृथ्व्यादिमयो भाति व्योमाकृतिर् अदेहकः ।
सदेह इव भूतेशः स्वात्मभूः पुरुषाकृतिः ॥ (मो_३,३.१८ ॥

"अपृथ्व्यादिमयः" पृथ्व्यादिव्यतिरिक्तस्वरूपः । अत एव "व्योमाकृतिः" आकाशाकृतिः । अत एव च "अदेहः" आधिभौतिकदेहरहितः । "स्वात्मभूः" पद्मजः । "सदेह इव भाति" स्फुरति । सदेहकार्यनानाविधप्रपञ्चकर्तृत्वात् । "स्वात्मभूः" कथम्भूतः । "भूतेशः" सर्वभूतोत्पादकत्वेन सर्वभूतस्वामी । पुनः कथम्भूतः । "पुरुषाकृतिः" पुरुषवत् आकृतिः यस्य । सः तादृशः । अन्यथा शास्त्रेषु चतुर्मुखत्वकल्पनां न कुर्याद् इत्य् अर्थः ॥ (मोटी_३,३.१८ ॥

अस्योदयशान्ती तदभावं च कथयति

स चित् सङ्कल्परूपत्वाद् उदेत्य् अप्य् अथ शाम्यति ।
स्वायत्तत्वात् स्वभावस्य नोदेति न च शाम्यति ॥ (मो_३,३.१९ ॥

"चित्" परमार्थतः चित्स्वरूपः । "सः" पद्मजः । "सङ्कल्परूपत्वात्" चिन्मात्राश्रयस्वपरामर्शस्वरूपसङ्कल्परूपत्वेन्"ओदेति" प्रादुर्भवति । "अथ" उदयानन्तरम् । उप"शाम्यत्य्" "अपि" शान्तिं व्रजति च । सङ्कल्पस्योदयशान्तिनियताधारत्वात् । तथा "सः" पद्मजः । "स्वभावस्य" चिन्मात्राख्यस्य स्वरूपस्य । "स्वायत्तत्वात्" तद् एवाहम् इति परामर्शविषयत्वात् । "न उदेति न च शाम्यति" । न हि स्वभावापरपर्यायस्य सदाभातस्य चिन्मात्रस्योदयशान्ती युक्ते इति । तत्र स्वात्मत्वे निश्चितस्य तत्स्वरूपस्य च पद्मजस्यापि ते न युक्ते इति भावः ॥ (मोटी_३,३.१९ ॥

अथास्यैव जगत्कारणत्वं कथयति

ब्रह्मा सङ्कल्परहितः पृथ्व्यादिरहिताकृतिः ।
केवलश् चित्तमात्रात्मा कारणं त्रिजगत्स्थितेः ॥ (मो_३,३.२० ॥

"सङ्कल्परहितः" आतिवाहिकदेहरहितः । तथा "पृथ्व्यादिरहिताकृतिः" स्थूलदेहरहितः । अत एव "केवलः" अद्वितीयः । चिन्मात्ररूप इति यावत् । तथात्वेऽपि "चित्तमात्रात्मा" शुद्धसङ्कल्परूपशुद्धचित्तस्वरूपः । "ब्रह्मा" पद्मजः । "त्रिजगत्स्थितेः" त्रिजगत्सत्तायाः । "कारणम्" भवति ॥ (मोटी_३,३.२० ॥

ननु अद्वितीयाच् चिन्मात्रात् कस्य प्रेरणया शुद्धमनोरूपः पद्मजः उत्तिष्ठतीत्य् । अत्राह

सङ्कल्प एष कचति यथा नाम स्वसम्भवः ।
व्योमात्मैष तथा भाति भवत्सङ्कल्पशैलवत् ॥ (मो_३,३.२१ ॥

"नाम" निश्चये । "यथा एषः" सर्वैः अनुभूयमानः "सङ्कल्पः" । "स्वसम्भवः" स्वोत्थः । न तु परसम्भवः । "कचति" स्फुरति । "तथा एषः" शुद्धमनोरूपः पद्मजः "स्वसम्भवः" । "भाति" स्फुरति । कथं । "भवत्सङ्कल्पशैलवत्" । सङ्कल्पे दृष्टः शैलः "सङ्कल्पशैलः" । भवतः सङ्कल्पशैलः "भवत्सङ्कल्पशैलः" । स इव "भवत्सङ्कल्पशैलवत्" । यथा भवतः सङ्कल्पशैलः स्वसम्भवः भाति । तथेत्य् अर्थः । सङ्कल्पस्य च स्वतः स्फुरणं सर्वेषु प्रसिद्धम् एवेति । स एव सामान्यविशेषभावाभ्यां द्विर् उपमानत्वेनोपात्तः ॥ (मोटी_३,३.२१ ॥

अस्य पद्मजस्याधिभौतिकदेहराहित्यं त्रिभिः श्लोकैः सहेतुकं कथयति

आतिवाहिकतैकान्तविस्मृत्या दृढरूढया ।
आधिभौतिकता येन मुधा भाति पिशाचवत् ॥ (मो_३,३.२२ ॥
इदम्प्रथमतोद्योगसम्प्रबुद्धमहाचितेः ।
नोदेति शुद्धसंवित्त्वाद् आतिवाहिकविस्मृतिः ॥ (मोटी_३,३.२३ ॥


आधिभौतिकता तेन नास्योदेति पिशाचिका ।
सत्या मृगतृष्णेव मिथ्या जाड्यभ्रमप्रदा ॥ (मो_३,३.२४ ॥

"येन" यतः हेतोः । "दृढरूढया" प्रौढिं गतया । "आतिवाहिकतैकान्तविस्मृत्या" । "आतिवाहिकतायाः" आतिवाहिकभावस्य । सूक्ष्मताया इति यावत् । या "एकान्तविस्मृतिः" अत्यन्तविस्मरणं । तया । "आधिभौतिकता" आधिभौतिकभावः । स्थूलता इति यावत् । "पिशाचवत् मुधा" असत्यं । "भाति" स्फुरति । अशुद्धस्य मनसः इति शेषः । "तेन" ततः कारणात् । "अस्य" शुद्धमनोरूपस्य पद्मजस्य । "पिशाचिका" मिथ्याभूतपिशाचरूपा । "आधिभौतिकता" आधिभौतिकभावः । स्थूलभाव इति यावत् । "न" "भाति" न स्फुरति । "आधिभौतिकता" कथम्भूता । "जाड्यस्य" जडतायाः । "भ्रमं" वैपुल्यं । "प्र"कर्षेण द"दा"तीति तादृशी । आधिभौतिकतासादनेन हि मनसः जाड्यम् अधिकीभवति । "आधिभौतिकता" पुनः कथम्भूता । "असत्या" असत्यं भातेत्य् अर्थः । का "इव" । "मृगतृष्णा इव" । यथा मृगतृष्णा असत्या भवति । तथेत्य् अर्थः । ननु आधिभौतिकता आतिवाहिकताविस्मृतिकारणिका भवतु । कथं सा तेन शुद्धमनोरूपे पद्मजे न भवतीत्य् । अत्र श्लोकत्रयमध्यगं द्वितीयं श्लोकं समर्थकत्वेन कथयति "इदम्" इति । "इदम्प्रथमतया" तत्पूर्वं । यः "उद्योगः" स्वपरामर्शं प्रति आभिमुख्यं । तेन "सम्प्रबुद्धा" स्वपरामर्शयुक्ता । या "महाचितिः" चिन्मात्रम् । तस्य । तत्स्वरूपस्येति यावत् । "अस्य" शुद्धमनोरूपस्य पद्मजस्य । "शुद्धसंवित्त्वात्" भेदमलारूषितसंविद्युक्तत्वेन । "आतिवाहिकविस्मृतिः" भावप्रधाननिर्देशाश्रयणेन आतिवाहिकताविस्मरणम् । "नोदेति" न स्फुरति । अत एवास्यातिवाहिकताविस्मृतिकारणिका आधिभौतिकता न भवतीति भावः । दृष्टं हि स्वम् एव भेदरूषितसंविदः अशुद्धस्य मनस एव स्थूलपुरादिभावेन भानम् इति नात्रायस्तम् ॥ (मोटी_३,३.२२-२४ ॥

पद्मजस्य मनोमात्ररूपत्वेन तत्कार्यस्य जगतोऽपि मनोमात्ररूपत्वं योग्यतया अतिदिशति

मनोमात्रं यदा ब्रह्मा न पृथ्व्यादिमयात्मकः ।
मनोमात्रम् अतो विश्वं यद् यतस् तत् तद् एव हि ॥ (मो_३,३.२५ ॥

"यदे"ति यत इत्य् अस्यार्थे । "यदा" यतः । "ब्रह्मा" पद्मजः । मनोमात्रं" शुद्धमनोमात्रं" भवति । "अतः विश्वं मनोमात्रं" भवति । "यतः" । "यत्" वस्तु । "यतः" यस्मात् वस्तुनः । भवति । सत्ताकर्तृतां भजति । "तत्" वस्तु । "तद् एव" भवति । मृदः सत्ताकर्तृत्वं भजतः घटस्य मृत्त्वदर्शनात् । "अतो" जगतः मनोवत् अनुत्पत्तिसतत्त्वा एवोत्पत्तिर् इति भावः ॥ (मोटी_३,३.२५ ॥

ननु पद्मजस्य स्वकारणभूतचिन्मात्रव्यतिरिक्तसहकारिकारणाभावेन चिन्मात्रस्थूलतामात्ररूपम् मनोमात्ररूपत्वम् अस्तु । तज्जस्य जगतः अदृष्टादिसहकारिकारणसद्भावात् कथं मनोमात्ररूपत्वं युज्यते इत्य् । अत्राह

जस्य सहकारीणि कारणानि न सन्ति यत् ।
तज्जस्यापि न सन्त्य् एव तानि तस्मात् तु कानिचित् ॥ (मो_३,३.२६ ॥

"अजस्य" पद्मजस्य । "यत्" यतः कारणात् । "सहकारीणि कारणानि न सन्ति" । "तु" निश्चये । "तस्मात्" ततः कारणात् । "तज्जस्य" तस्माद् उत्पन्नस्य जगतः । "कानिचित्" "तानि" कानिचित् सहकारीणि । "न सन्त्य् एव" । मनःकार्याणाम् अदृष्टादीनां मनः प्रति सहकारित्वायोगात् । न हि यो यस्मात् उत्पद्यते स एव तत्सहकारी भवितुम् अर्हति । स्वोत्पत्तिसमये स्वयम् असत्त्वात् । अन्यान् प्रत्य् एव सहकारिकारणत्वाभ्युपगमे स्वोत्पत्तौ सहकारिकारणान्तरापेक्षायाः स्थितत्वात् । अन्यथा स्वस्यापि परान् प्रति सहकारिकारणत्वायोगात् ॥ (मोटी_३,३.२६ ॥

ननु ततोऽपि किम् इत्य् । अत्राह

कारणात् कार्यवैचित्र्यं तेनात्रास्ति न किञ्चन ।
यादृशं कारणं शुद्धं कार्यं तादृग् इह स्थितम् ॥ (मो_३,३.२७ ॥

"तेन" । यतः जगतः सहकारिकारणानि न सन्ति । तस्मात् । "अत्र" पद्मजजगद्विषये । "कारणात्" "कार्यवैचित्र्यं" कार्यभेदः । "किञ्चन" लेशेनापि । "नास्ति" । दण्डादिसहकारिकारणसान्निध्ये एव मृदो घटाख्यकार्यवैचित्र्यस्य दृष्टत्वात् । अतः "इह" "कारणं यादृशं शुद्धं" भवति । "कार्यम् तादृक् स्थितं" भवति । भिन्नतापादकानां सहकारिकारणानाम् अभावात् । अतः चिन्मात्रम् एव जगद् इति भावः ॥ (मोटी_३,३.२७ ॥

फलितं सिद्धान्तं कथयति

कार्यकारणताद्य् अत्र न किञ्चिद् उपपद्यते ।
यादृग् एव परं ब्रह्म तादृग् एव जगत्त्रयम् ॥ (मो_३,३.२८ ॥

यतः "अत्र" चिन्मात्रपद्मजयोः पद्मजजगतोश् च । "कार्यकारणतादि" कार्यकारणभावादि । "किञ्चित्" लेशेनापि । "नोपपद्यते" । अतः "परं ब्रह्म" शुद्धचिन्मात्रं । "यादृशं" भवति । "जगत्त्रयम्" पद्मजादिरूपम् जगत्त्रयम् । "तादृशं" भवति । कार्यकारणभावादेर् एव भेदापादकत्वात् ॥ (मोटी_३,३.२८ ॥

ननु चिन्मात्राद् उत्पन्नस्य शुद्धमनोरूपस्य पद्मजस्य चिन्मात्ररूपत्वं भवतु । शुद्धमनोरूपात् पद्मजाद् उत्पन्नस्य त्रैलोक्यस्य तु कथं तद् युक्तम् इत्य् । अत्राह

मनस्ताम् इव यातेन ब्रह्मणा तन्यते जगत् ।
नन्यद् आत्मनः शुद्धाद् द्रवत्वम् इव वारिणा ॥ (मो_३,३.२९ ॥

"मनस्ताम्" पद्मजेत्य् अपरनामधेययुक्तशुद्धमनोभावम् । "यातेनेव" गतेनेव । "ब्रह्मणा" पदार्थरूपतया बृंहितेन शुद्धचिन्मात्रेण । "शुद्धात् आत्मनः" स्वस्मात् । "अनन्यत्" अभिन्नम् । इदं "जगत् तन्यते" विस्तार्यते । स्वात्मनि प्रकटीक्रियत इति यावत् । केन्"एव" । "वारिणेव" यथा "वारिणा" । "आत्मनः अनन्यत् द्रवत्वम्" आद्यस्पन्दनासमवायिकारणभूतः द्रवत्वाख्यः गुणः । विस्तार्यते । तथेत्य् अर्थः । मनस्तायाम् अपि परमार्थतः चिन्मात्रत्वानपायाद् "इव"शब्दोपादानम् । अतः जगतोऽपि चिन्मात्राद् उत्पन्नत्वेन चिन्मात्रत्वम् एव युक्तम् इति भावः ॥ (मोटी_३,३.२९ ॥

ननु तर्हि कथम् अयं भेदो भासते इत्य् । अत्राह

मनसा तन्यते सर्वम् असद् एवेदम् आततम् ।
यथा सङ्कल्पनगरं यथा गन्धर्वपत्तनम् ॥ (मो_३,३.३० ॥

"मनसा" पद्मजेति प्रसिद्धेन शुद्धमनसा । "आततं" समन्तात् स्फुरत् । "इदम्" तनुः भासमानं । "इदं" समस्तं जगत् । "तन्यते" परं ब्रह्मणः भिन्नया सत्तया प्रकटीक्रियते । "इदं सर्वं" कथम्भूतम् । "असद् एव" असत्स्वरूपम् एव । न तु सत्स्वरूपं । किं "यथा" । "सङ्कल्पनगरं यथा" । यथा सङ्कल्पनगरं असद् एव भवति । तथेत्य् अर्थः । पुनः किं "यथा" । "गन्धर्वपत्तनं यथा" । यथा गन्धर्वपत्तनं । यथा गन्धर्वपत्तनं सद् एव भवति । तथेत्य् अर्थः । गन्धर्वाः हि स्वावासार्थं कल्पनया शून्ये नगरं रचयन्ति । तद् एव गन्धर्वनगरम् उच्यते । चिन्मात्राद् उत्थितेन "मनसा" एव "इदं" भिन्नतया विस्तार्यते । अन्यथा मनसः किमर्थम् उत्थानं स्याद् इति भावः ॥ (मोटी_३,३.३० ॥

अत्यन्तनिश्चयत्वेन पुनर् अपि आधिभौतिकतायाः असत्यत्वं कथयति

आधिभौतिकता नास्ति रज्ज्वाम् इव भुजङ्गता ।
ब्रह्मादयः प्रबुद्धास् तु कथं तिष्ठन्तु तत्र ते ॥ (मो_३,३.३१ ॥

"ब्रह्मादय" इत्य् । "आदि"शब्देन शुद्धबुद्धिरूपस्य विष्णोः शुद्धाहङ्काररूपस्य रुद्रस्य च ग्रहणम् । "प्रबुद्धाः" अत्यन्तशुद्धत्वेन प्रकृष्टेन बोधेन युक्ताः ॥ (मोटी_३,३.३१ ॥

दण्डापूपिकान्यायेनाधिभौतिकतायाः असत्यतां पुनर् अपि कथयति

आतिवाहिक एवास्ति न प्रबुद्धमतेः किल ।
आधिभौतिकदेहस्य चर्चैवात्र कुतः कथं ॥ (मो_३,३.३२ ॥

"किले"ति निश्चये । "प्रबुद्धमतेः" सम्यक् निश्चितमतेः पुरुषस्य । "आतिवाहिक एव" अतिवहनशीलः सूक्ष्मः देह एव । "नास्ति" । स्वस्मिन् चिन्मात्ररूपताज्ञानात् । "अत्रा"स्मिन् प्रबुद्धमतौ । "आधिभौतिकदेहस्य" "चर्चा एव" कथा एव । "कुतः" स्यात् । "कथं" स्यात् ॥ (मोटी_३,३.३२ ॥

आधिभौतिकदेहरहितात् पद्मजाद् उत्पन्नस्य जगतः असत्यत्वं कथयति

मनोनाम्नो मनुष्यस्य विविधाकारधारिणः ।
मनोराज्यं जगद् इति सत्यरूपम् इव स्थितम् ॥ (मो_३,३.३३ ॥

"विविधान् आकारान्" "धार्"अयतीति तादृशस्य "मनोनाम्नः" मन इति नामधेययुक्तस्य । "मनुष्यस्य" आधिभौतिकदेहरहितस्य पद्मजाख्यस्य मनुष्यस्य । "मनोराज्यम्" मनःकल्पना । "जगद्" "इति स्थितम्" जगद्रूपेण स्थितम् । भवति । "जगत्" कथम्भूतम् "इव" । "सत्यरूपम् इव" । परमार्थतस् तु कल्पनामात्ररूपत्वान् न सत्यरूपम् इत्"ईव"शब्दोपादानम् । स्वप्नस्य चात्र दृष्टान्तत्वं स्फुटम् एवेति नात्रायस्तम् । "मनोनाम्नः मनुष्यस्य मनोराज्यम्" इति राहोः शिर इतिवज् ज्ञेयम् ॥ (मोटी_३,३.३३ ॥

ननु शास्त्रेषु चतुर्मुखस्य कस्यापि देवविशेषस्यैव पद्मजत्वम् उक्तम् अस्ति । तत् कथं त्वया शुद्धस्य मनस एव तद् उक्तम् इत्य् । अत्राह

मन एव विरिञ्चं त्वं विद्धि सङ्कल्पनात्मकम् ।
स्ववपुः स्फारतां नीत्वा मनसेदं वितन्यते ॥ (मो_३,३.३४ ॥

"त्वम्" । "सङ्कल्पनात्मकम्" चिन्मात्रोक्तस्वपरामर्शस्वरूपम् । "मनः" शुद्धं मनः । "विरिञ्चं" पद्मजं । "विद्धि" जानीहि । यतः "स्ववपुः" स्वस्वरूपम् । "स्फारतां" विस्तीर्णतां । "नीत्वा" । "मनसा इदं" जगत् । "वितन्यते" विस्तार्यते । उत्पाद्यते इति यावत् । विरिञ्चस्य हि विरिञ्चत्वम् एतद् एव । यज् जगद् उत्पाद्यते तच् च मनसा एव स्वप्नन्यायेन स्फुटम् उत्पाद्यते । इति तस्यैव विरिञ्चत्वम् युक्तम् । चतुर्मुखदेवविशेषकल्पना तु स्थूलदृष्टीन् प्रत्य् एवेति भावः ॥ (मोटी_३,३.३४ ॥

विरिञ्चमनसोः अत्यन्तम् अभिन्नत्वं कथयति

विरिञ्चो मनसो रूपं विरिञ्चस्य मनो वपुः ।
पृथ्व्यादि विद्यते नात्र तेन पृथ्व्यादि कल्पितम् ॥ (मो_३,३.३५ ॥

"विरिञ्चः" पद्मजः । "मनसः" शुद्धस्य मनसः । "रूपं" स्वरूपं । भवति । "मनः" शुद्धं मनः । "विरिञ्चस्य" पद्मजस्य । "वपुः" स्वरूपं । भवति । उत्पादनाख्यैककार्यकारित्वात् । "अत्रा"नयोः विरिञ्चमनसोः । "पृथ्व्यादि न विद्यते" । शुद्धचिन्मात्रोत्थितत्वेन शुद्धचिन्मात्रत्वानपायात् । "तेन" ततः कारणात् । "पृथ्व्यादि" भूम्यादि । "कल्पितम्" कल्पनायाम् भावितं भवति । स्वप्नवद् इति शेषः ॥ (मोटी_३,३.३५ ॥

ननु विरिञ्चरूपं मनः उपादानकारणं विना कथं जगद् उत्पादयति । न हि कुशलस्यापि कुलालस्य मृदाख्यम् उपादानकारणं विना घटोद्भावने शक्तिर् अस्तीत्य् । अत्राह

पद्माक्षे पद्मिनीवान्तर् मनोहृद्य् अस्ति दृश्यता ।
मनोदृश्यदृशौ भिन्ने न कदाचन किञ्चन ॥ (मो_३,३.३६ ॥

स्वार्थे भावप्रत्ययः आर्षः । तेनायम् अर्थः । "दृश्यता" दृश्यम् । "मनोहृदि" मनसोऽन्तः । "अस्ति" तिष्ठति । सर्वशक्तियुक्ताच् चिन्मात्रात् तथैवोत्थानात् । अन्यथा दृश्यभावेन स्फुरणायोगात् । का "इव" । "पद्मिनीव" । यथा "पद्मिनी" कमलिनी । "पद्माक्षे" पद्मबीजे । "अन्तः अस्ति" । तथेत्य् अर्थः । पद्मिन्याश् च पद्माक्षान्तर्गतत्वं ततः निर्गमेनानुमेयम् । न हि यत् यदन्तर् न भवति तत् ततः निर्याति । निर्जलात् घटाद् इव जलम् । अतः "मनोदृश्यदृशौ" मनोदृक् दृश्यदृक् च । "कदाचन" जातु । "किञ्चन" लेशेनापि । "भिन्ने न" भवतः । उपादानोपादेयभावेन स्थितत्वात् । अतः स्वतो भिन्नस्योपादानकारणस्यात्रापेक्षा नास्तीति भावः ॥ (मोटी_३,३.३६ ॥

एतद् एव दृष्टान्तान्तरेण दृढयति

तथा चात्र भवत्स्वप्नसङ्कल्पश् चित्तराज्यधीः ।
स्वानुभूत्यैव दृष्टान्तस् तस्माद् धृद्य् अस्ति दृश्यभूः ॥ (मो_३,३.३७ ॥

स्पष्टम् ॥ (मोटी_३,३.३७ ॥

तस्माच् चित्तविकल्पस्थः पिशाचो बालकं यथा ।
विनिहन्त्य् एवम् एषान्तर् द्रष्टारं दृश्यरूपिका ॥ (मो_३,३.३८ ॥

"द्रष्टारम्" मनोरूपं द्रष्टारम् ॥ (मोटी_३,३.३८ ॥

यथाङ्कुरोऽन्तर् बीजस्य संस्थितो देशकालतः ।
करोति भासुरं देहं तनोत्य् एवं हि दृश्यधीः ॥ (मो_३,३.३९ ॥

इदं श्लोकत्रयं च प्रथमसर्गान्त्यभागे गतम् इति न पुनर् आयस्तम् ॥ (मोटी_३,३.३९ ॥

सर्गान्तश्लोकेन सिद्धान्तं कथयति

सच् चेन् न शाम्यति कदाचन दृश्यदुःखं
दृश्ये त्व् अशाम्यति न बोद्धरि केवलत्वम् ।
दृश्ये त्व् असम्भवति बोद्धरि बोद्धृभावः
शाम्येत् स्थितेऽपि हि तद् अस्य विमोक्षम् आहुः ॥ (मो_३,३.४० ॥

इदम् अनुभूयमानम् "दृश्यदुःखम्" दृश्याकारं दुःखम् । "सत्" परमार्थसत् । "चेत्" भवति । तदा "कदा"चित् न शाम्यति । नाभावो विद्यते सत इति न्यायाद् इत्य् अर्थः । "दृश्ये अशाम्यति" सति । "बोद्धरि" द्रष्टरि । "केवलत्वं" केवलीभावः । अबोद्धृरूपतेति यावत् । "न" भवति । स्वव्यतिरिक्तस्य दृश्यस्थबोध्यतया स्थितत्वात् । मोक्षाभावप्रकारम् उक्त्वा मोक्षं कथयति । "दृश्य" इति । "तु" पक्षान्तरे । "दृश्ये असम्भवति" सति । उक्तन्यायेन अनुत्पत्तिसतत्त्वोत्पत्तियुक्ते सति । "बोद्धरि" द्रष्टरि । "बोद्धृभावः शाम्येत्" शान्तिं व्रजेत् । न हि दृश्यरहितस्य द्रष्टुः द्रष्टृत्वं नाम किञ्चिद् अस्ति । "दृश्ये" कथम्भूते "ऽपि" । "स्थितेऽपि" । भासमानत्वात् स्थितिं भजत्य् अपि । ननु तेन बोद्धृभावशमनेन किं सेत्स्यतीत्य् । अत्राह । "हि तद् अस्ये"ति । "हि" निश्चये । पण्डिताः "तत्" बोद्धृभावशमनम् । "अस्य" बोद्धुः । "विमोक्षं" विशिष्टां मुक्तिम् । "आहुः" कथयन्ति । दृश्यानौन्मुख्यस्यैव मोक्षत्वाद् । इति शिवम् ॥ (मोटी_३,३.४० ॥


इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायाम् उत्पत्तिप्रकरणे तृतीयः सर्गः ॥ ३,३ ॥



ओं श्रीवाल्मीकिः भरद्वाजं प्रति कथयति

कथयत्य् एवम् उद्दामवचनं मुनिनायके ।
श्रोतुम् एकरसे जाते जने मौन इव स्थिते ॥ (मो_३,४.१ ॥
शान्तेषु किङ्किणीजालस्वनेषु स्पन्दनं विना ।
पञ्जरान्तरहारीतशुकेष्व् अप्य् अस्तकेलिषु ॥ (मो_३,४.२ ॥
सुविस्मृतविलासासु स्थितासु ललनास्व् अपि ।
चित्रभित्ताव् इव न्यस्ते समस्ते राजसद्मनि ॥ (मो_३,४.३ ॥
मुहूर्तशेषम् अभवद् दिवसं मधुरातपम् ।
व्यवहारो रविकरैः सह तानवम् आययौ ॥ (मो_३,४.४ ॥

"मुनिनायके" श्रीवसिष्ठे । "एवम्" अनेन प्रकारेण । "उद्दामवचनम्" अर्थगूढं वचनं । "कथयति" सति । अत एव "मौने इव स्थिते" मौनाख्यव्रतयुक्त इव स्थिते । "जने" सभाजने । "श्रोतुम् एकरसे" केवलास्वादयुक्ते । "जाते" सति । तथा "स्पन्दनं विना" स्वाधारभूतस्त्र्यादिकृतं स्पन्दनं विना । स्वाधारभूतस्त्र्यादिकृतस्पन्दराहित्येनेत्य् अर्थः । "किङ्किणीजालस्वनेषु" सत्सु । तथा "पञ्जरान्तरेषु" स्थिताः ये "हारीतशुकाः" । तेषु "अपि अस्तकेलिषु" त्यक्तक्रीडेषु सत्सु । तथा "ललनासु सुविस्मृतविलासासु" अत्यन्तविस्मृतविलासासु । "स्थितासु" सतीषु । तथा "समस्ते राजसद्मनि" सकले राजगृहे । "चित्रभित्तौ न्यस्ते इव" चित्रलिखिते इव सति । "मधुरातपम्" मन्दातपम् । "दिवसम् मुहूर्तशेषम्" घटिकाद्वयशेषम् । "अभवत्" । तथा "व्यवहारः" लोकव्यवहारः । "रविकरैः सह तानवम् आययौ" ॥ (मोटी_३,४.१-४ ॥

अन्यत् किं तदाभूद् इत्य् अपेक्षायाम् आह

ववुर् उत्फुल्लकमलप्रकरोन्मदमांसलाः ।
वायवो मधुरस्पन्दं श्रवणार्थम् इवागताः ॥ (मो_३,४.५ ॥

"वायवः मधुरस्पन्दम्" कोमलस्पन्दम् । "ववुः" वान्ति स्म । कथम्भूताः । "उत्फुल्लाः" ये "कमलप्रकराः" कमलसमूहाः । तेषु "उन्मदाः" सङ्कोचकारित्वात् उद्गतरूपाः च ते "मांसलाश्" च । तादृशाः "वायवः" । कथम्भूता "इव" । "श्रवणार्थम्" मुनिवाक्श्रवणार्थम् । "आगता इव" । योऽपि श्रवणार्थम् आगच्छति सोऽपि मधुरस्पन्दम् एव वाति ॥ (मोटी_३,४.५ ॥

श्रुतं चिन्तयितुं भानुर् इवाहोरचनाभ्रमम् ।
तत्याजैकान्तम् अगमच् छून्यम् अस्तगिरेस् तटम् ॥ (मो_३,४.६ ॥

"भानुः" सूर्यः । "अहोरचनाभ्रमम्" दिननिर्माणार्थं भ्रमणम् । "तत्याज" त्यक्तवान् । तथा "शून्यं" । अत एव "एकान्तम्" विजनम् । "अस्तगिरेः तटम् अगमत्" गतवान् । किं कर्तुम् "इव" । "श्रुतम्" श्रवणविषयीकृतम् मुनिवाक्कदम्बकम् । "चिन्तयितुम् इव" मननविषयीकर्तुम् इव । योऽपि हि श्रुतं किञ्चिद् उपदेशादिकं चिन्तयितुम् इच्छति सोऽपि क्रियारूपम् भ्रमम् त्यजति । एकान्तं च गच्छति ॥ (मोटी_३,४.६ ॥

उत्तस्थुर् मिहिकारम्भश्यामता वनभूमिषु ।
विज्ञानश्रवणाद् अन्तः शीतलाः शान्तता इव ॥ (मो_३,४.७ ॥

"वनभूमिषु मिहिकारम्भश्यामताः" नीहारारम्भश्यामताः । "उत्तस्थुः" प्रादुर्भूताः । दिनावसाने हि मिहिकाः उत्तिष्ठन्ति । "मिहिकारम्भश्यामताः" का "इव" । "शान्तताः इव" क्षोभराहित्यानीव । यथा "शीतलाः" सन्तापनाशकत्वेन शीतलस्वभावाः । "शान्तताः" । "विज्ञानश्रवणात्" श्रीवसिष्ठोक्तविज्ञानश्रवणेन । "अन्तः" श्रोतृजनमनस्सु । "उत्तस्थुः" । तथेत्य् अर्थः ॥ (मोटी_३,४.७ ॥

बभूवुर् अल्पसञ्चारा जना दशसु दिक्ष्व् अपि ।
सावधानतया श्रोतुम् इव सन्त्यक्तचेष्टिताः ॥ (मो_३,४.८ ॥

दिनावसाने स्वभावसिद्धं "जनानाम् अल्पसञ्चारित्वम्" श्रवणार्थम् कृतेन चेष्टितत्यागेनोत्प्रेक्षितम् ॥ (मोटी_३,४.८ ॥

छाया दीर्घत्वम् आजग्मुर् वासिष्ठं वर्णनक्रमम् ।
इव श्रोतुम् अशेषाणां वस्तूनां दीर्घकन्धराः ॥ (मो_३,४.९ ॥

सायंसमये हि "छायाः दीर्घीभवन्ति" । योऽपि किञ्चिच् छ्रोतुम् इच्छति सोऽपि "दीर्घकन्धरो" भवतीति स्वभावद्वयकथनम् ॥ (मोटी_३,४.९ ॥

प्रतीहारः पुरः प्रह्वो भूत्वाह वसुधाधिपम् ।
देव स्नानद्विजार्चासु कालो ह्य् अतिगतो भृशम् ॥ (मो_३,४.१० ॥

"प्रह्वो भूत्वा" नम्नो भूत्वा । किम् "आहे"ति कर्मापेक्षायाम् उत्तरार्धम् कर्मत्वेन कथयति "देवे"ति । "हि" निश्चये ॥ (मोटी_३,४.१० ॥

श्रीवसिष्ठकृतं वाक्संहरणं कथयति

ततो वसिष्ठो भगवान् संहृत्य मधुरां गिरम् ।
द्य तावन् महाराज श्रुतम् एतावद् अस्तु वः ॥ (मो_३,४.११ ॥
प्रातर् अन्यद् वदिष्याम इत्य् उक्त्वा मौनवान् अभूत् ।
इत्य् आकर्ण्यैवम् अस्तूक्त्वा भूपतिर् भूतिवृद्धये ॥ (मो_३,४.१२ ॥
पुष्पार्घ्यपाद्यसम्मानदक्षिणादानपूजया ।
स देवर्षिमुनीन् विप्रान् पूजयाम् आस सादरम् ॥ (मो_३,४.१३ ॥

श्रोतॄन् श्रवणोत्सुकान् ज्ञात्वा आह "प्रातर्" इति । "आकर्ण्यैव" । न तु प्रतिवादं कृत्वा । "सः" दशरथः ॥ (मोटी_३,४.११-१३ ॥

थोत्तस्थौ सभा सर्वा सराजमुनिमण्डला ।
कुण्डलाकीर्णरश्म्योघपरिवेशावृतानना ॥ (मो_३,४.१४ ॥

"सभा" जनसमूहः । सभां विशिनष्टि । "कुण्डले"ति । "कुण्डलानाम् आकीर्णः" समन्तात् विसारी यः "रश्म्योघः" किरणसमूहः । तस्य यः "परिवेशः" मण्डलं । तेन्"आवृतानि" जनमुखानि । सभासमुखानि यस्यां । सा ॥ (मोटी_३,४.१४ ॥

परस्परांससङ्घट्टरणत्केयूरकङ्कणा ।
हारभाराहतस्वर्णपट्टाभोरस्तटान्तरा ॥ (मो_३,४.१५ ॥

"परस्परं अंससङ्घट्टाः" । तेन मिलन्तः । अत एव "रणन्तः" "केयूराः कङ्कणानि" च यस्यां । सा । "हारभारैः आहतानि सुवर्णपट्टाभानि" "उरस्तटान्तराणि" उरस्तटमध्यानि यस्यां । सा ॥ (मोटी_३,४.१५ ॥

शेखरोत्सर्गविश्रान्तप्रबुद्धमधुपव्रजैः ।
सघुङ्घुमशिरोभागा पतद्भिर् इव मूर्धजैः ॥ (मो_३,४.१६ ॥

"शेखरेषु" सभासदपुष्पशेखरेषु । "उत्सर्गेण" गन्धोद्गिरणेन । "विश्रान्ताः" विश्रान्तियुक्ताः । तथा "प्रबुद्धाः" गन्धघ्राणने चतुराः । ये "मधुपाः" भ्रमराः । तेषां "व्रजैः" समूहैः । "सघुङ्घुमशिरोभागा" घुङ्घुमशब्दयुक्तजनशिरोदेशयुक्ता । "मधुपव्रजैः" कैर् "इव" । "पतद्भिः" पतनशीलैः । "मूर्धजैः" केशैर् "इव" कृष्णवर्णत्वात् ॥ (मोटी_३,४.१६ ॥

काञ्चनाभरणोद्द्योतकनकीकृतदिङ्मुखाः ।
बुद्धिस्थमुनिवागर्थसंशान्तेन्द्रियवृत्तयः ॥ (मो_३,४.१७ ॥
जग्मुर् नभश्चरा व्योम भूचरा भूमिमण्डलम् ।
चक्रुर् दिनसमाचारं स्वं सर्वे स्वेषु सद्मसु ॥ (मो_३,४.१८ ॥

"काञ्चनाभरणानां" यः "उद्द्योतः" प्रकाशः । तेन "कनकीकृतानि" कनकरूपाणि कृतानि । "दिङ्मुखानि" यैः । ते तादृशाः । तथा "बुद्धिस्थः" बुद्धौ स्फुरणशीलः । न तु विस्मारितः । यः "मुनिवागर्थः" । तेन "संशान्ताः" स्वविषयान् प्रति अनौन्मुख्यं गताः । "इन्द्रियवृत्तयः" इन्द्रियव्यापाराः ये । ते तादृशाः । "नभश्चराः" आकाशचारिणः । "व्योम जग्मुः" । "भूचराः भूमिमण्डलम् जग्मुः" । ततः "सर्वे" समस्ताः नभश्चरादयः । "स्वेषु सद्मसु" निजेषु गृहेषु । "स्वं दिनसमाचारं चक्रुः" ॥ (मोटी_३,४.१७-१८ ॥

एतस्मिन्न् अन्तरे श्यामा यामिनी समदृश्यत ।
जनसङ्घातनिर्मुक्ते गृहे बालाङ्गना यथा ॥ (मो_३,४.१९ ॥

"एतस्मिन् अन्तरे" अस्मिन् समये । "श्यामा" रात्रिः । "यामिनी" यामयुक्ता । "जनसङ्घातनिर्मुक्ते" जनसमूहत्यक्ते ॥ (मोटी_३,४.१९ ॥

देशान्तरं भासयितुं ययौ दिवसनायकः ।
सर्वत्रालोककर्तृत्वम् एव सात्पुरुषं व्रतम् ॥ (मो_३,४.२० ॥

"आलोककर्तृत्वम्" आलोककर्तृभावः । "सात्पुरुषं" सत्पुरुषसम्बन्धिनम् ॥ (मोटी_३,४.२० ॥

उदभूद् अभितः सन्ध्या तारानिकरधारिणी ।
उत्फुल्लकिंशुकवना वसन्तश्रीर् इवोदिता ॥ (मो_३,४.२१ ॥

"उदभूत्" प्रादुर्भूता ॥ (मोटी_३,४.२१ ॥

चूतनीपकदम्बाग्रग्रामचैत्यगृहोदरे ।
निलिल्यिरे खगाश् चित्ते तदण्डवृत्तयो यथा ॥ (मो_३,४.२२ ॥

"खगाः" पक्षिणः । "निलिल्यिरे" निलीनाः । कुत्र । "चूतनीपकदम्बाग्रग्रामचैत्यगृहोदरे" । "चूताश्" च "नीपाश्" च "कदम्बाग्राणि" च "ग्रामचैत्यानि" च "गृहोदराणि" च । तत्र । "खगाः" काः "यथा" । "ताः" "वृत्तयः" "यथा" । "यथा ताः वृत्तयः" श्रावकजनमनोव्यापाराः । "चित्ते निलिल्यिरे" । तथेत्य् अर्थः ॥ (मोटी_३,४.२२ ॥

सन्ध्यारागाविर्भावं कथयति

भानोर् भासा भूषितैर् मेघलेशैः
किञ्चित् किञ्चित् कुङ्कुमच्छाययेव ।
पाश्चात्योऽद्रिः पीतवासास् तमोऽब्धेस्
ताराहारश्रीयुतः खं समेतः ॥ (मो_३,४.२३ ॥

"कुङ्कुमच्छायया" "इव" कुङ्कुमरचनासदृशया । "भानोः भासा" सूर्यस्य भासा । "किञ्चित् किञ्चित् भूषितैः" । पीततां नीतैर् इति यावत् ।" मेघलेशैः" मेघखण्डैः । उपलक्षितः "पाश्चात्यः" "अद्रिः" अस्तशैलः । "तमोऽब्धेः" तमःाख्यस्य समुद्रस्य । "पीतवासाः" श्रीनारायणः आसीत् । "पीतवासोयुक्तश्" चासीत् । भानोः भासा भूषितानां मेघलेशानाम् एव पीतवासोरूपत्वात् । अब्धेश् च पीतवाससा श्रीनारायणेन युक्तत्वं युक्तं एव । "पाश्चात्यः अद्रिः" कथम्भूतः । "ताराहारश्रीयुतः" । "तारा" एव "हारः" यस्य । सः "ताराहारः" । "श्रिया" शोभया । युतः । "श्रीयुतः" । ताराहारश् चासौ श्रीयुतश् च "ताराहारश्रीयुतः" । पुनः कथम्भूतः । "खम्" आकाशं । "समेतः" गतः । आकाशव्यापीत्य् अर्थः । अन्यथा ताराहारत्वम् असम्भवि स्यात् । श्रीनारायणस्य च ताराहारयुक्तत्वं लक्ष्मीयुक्तत्वं बल्याक्रमणेन खसमेतत्वं च स्थितम् एव ॥ (मोटी_३,४.२३ ॥

सन्ध्याशान्तिपूर्वं तमःसमुत्थानम् कथयति

पूजाम् आदाय सन्ध्यायां प्रयातायां यथागतम् ।
न्धकाराः समुत्तस्थुर् वेतालवलया इव ॥ (मो_३,४.२४ ॥

स्पष्टम् ॥ (मोटी_३,४.२४ ॥

वश्यायकणस्पन्दी हेलाविधुतपल्लवः ।
कोमलः कुमुदाशंसी ववाव् आशीतलोऽनिलः ॥ (मो_३,४.२५ ॥

"कुमुदाशंसी" कुमुदगन्धेनेति भावः ॥ (मोटी_३,४.२५ ॥

परमान्ध्यम् उपाजग्मुर् दिशोऽपि स्फुटतारकाः ।
लम्बदीर्घतमःकेश्यो विधवा इव योषितः ॥ (मो_३,४.२६ ॥

"लम्बानि दीर्घतमांस्य्" एव "केशाः" यासां । ताः ॥ (मोटी_३,४.२६ ॥

आययौ भुवनं तेजःक्षीरपूरेण पूरयन् ।
रसायनमयाकारः शशिक्षीरार्णवो नभः ॥ (मो_३,४.२७ ॥

"तेजः" एव "क्षीरपूरः" । तेन । "रसायनमयाकारः" अमृतमयाकारः ॥ (मोटी_३,४.२७ ॥

जग्मुस् तिमिरसङ्घाताः पलाय्य क्वाप्य् अदृश्यताम् ।
श्रुतज्ञानगिरश् चित्तान् महीपानाम् इवाज्ञताः ॥ (मो_३,४.२८ ॥

"श्रुताः ज्ञानगिरः" वसिष्ठोक्ताः ज्ञानवाचः येन । तत् । तादृशात् । "महीपानां" दशरथप्रभृतीनां । "अज्ञताः" मौर्ख्याणि ॥ (मोटी_३,४.२८ ॥

ऋषयो भूमिपालाश् च मुनयो ब्राह्मणास् तथा ।
चेतसीव विचित्रार्थाः स्वास्पदेषु विशश्रमुः ॥ (मो_३,४.२९ ॥

"विचित्रार्थाः" श्रीवसिष्ठगिरां सम्बन्धिनो नानाविधा अर्थाः । "स्वास्पदेषु" स्वगृहेषु । "विशश्रमुः" विश्रान्तिं चक्रुः ॥ (मोटी_३,४.२९ ॥

यमकायोपमा श्यामा ययौ तिमिरमांसला ।
आययौ मिहिकाकारा तत्र तेषाम् उषा शनैः ॥ (मो_३,४.३० ॥

"यमकायोपमा" यमशरीरसदृशी । "उषा" । "तेषाम्" ऋषीणां भूमिपालानां च ॥ (मोटी_३,४.३० ॥

लक्ष्यताम् उपाजग्मुस् तारा नभसि भासुराः ।
प्रभातपवनेनेव हृताः कुङ्कुमवृष्टयः ॥ (मो_३,४.३१ ॥

स्पष्टम् ॥ (मोटी_३,४.३१ ॥

दृश्यताम् आजगामार्कप्रभोन्मीलितलोचना ।
विवेकवृत्तिर् महतां मनसीव नवोद्गता ॥ (मो_३,४.३२ ॥

"विवेकवृत्तिः" विवेकाख्यो मनोव्यापारः ॥ (मोटी_३,४.३२ ॥

सभां पुनर् उपाजग्मुर् नभश्चरमहीचराः ।
ह्यस्तनेन क्रमेणैव कृतप्रातस्तनक्रमाः ॥ (मो_३,४.३३ ॥

"नभश्चरमहीचराः ह्यस्तनेन क्रमेण एव सभाम् आजग्मुर्" इति सम्बन्धः ॥ (मोटी_३,४.३३ ॥

सा पूर्वसन्निवेशेन विवेश विपुला सभा ।
बभूवास्पन्दिताकारा वातमुक्तेव पद्मिनी ॥ (मो_३,४.३४ ॥

"पूर्वसन्निवेशेन" पूर्वरचनया । "अस्पन्दिताकारत्वं" च "सभायाः" श्रीवसिष्ठोपदेशश्रवणकुतूहलेन ज्ञेयम् ॥ (मोटी_३,४.३४ ॥

थ प्रसङ्गम् आसाद्य रामो मधुरया गिरा ।
उवाच मुनिशार्दूलं वसिष्ठं वदतां वरम् ॥ (मो_३,४.३५ ॥

"प्रसङ्गम् आसाद्य" । अन्यथा धार्ष्ट्याख्यदोषप्रसङ्गः स्याद् इति भावः ॥ (मोटी_३,४.३५ ॥

किम् उवाचेत्य् अपेक्षायाम् आह

भगवन् मनसो रूपं कीदृशं वद मे स्फुटम् ।
यस्मात् तेनेयम् अखिला तन्यते दोषमञ्जरी ॥ (मो_३,४.३६ ॥

किं तव मनोरूपकथनेनेत्य् । अत्राह "यस्माद्" इति । "तेन" मनसा । "इयम्" सृष्टिरूपा ॥ (मोटी_३,४.३६ ॥

श्रीवसिष्ठः उत्तरं कथयति

रामास्य मनसो रूपं न किञ्चिद् अपि दृश्यते ।
नाममात्राद् ऋते व्योम्नो यथा शून्यजडाकृतेः ॥ (मो_३,४.३७ ॥

हे "रामा"स्माभिः "अस्य मनसः नाममात्राद् ऋते" नाममात्रव्यतिरेकेण । "किञ्चिद् अपि रूपं न दृश्यते" । नाममात्रम् एव मनसः अस्ति न रूपम् इति भावः । "अस्य मनसः" कथम्भूतस्य । "शून्या" विचारासहत्वेन न किञ्चिद्रूपा । "जडा" साक्षिग्रहणापेक्षसिद्धिकत्वेन जाड्यगुणयुक्ता । "आकृतिः" स्वरूपं यस्य । तत् । तादृशस्य कस्य "यथा" । "व्योम्नः यथा" । यथा व्योम शून्यजडाकृति भवति । तथेत्य् अर्थः ॥ (मोटी_३,४.३७ ॥

एतद् एव दृढीकरोति

न बाह्ये नापि हृदये सद्रूपं विद्यते मनः ।
सर्वत्रैव स्थितं चैतद् विद्धि राम यथा नभः ॥ (मो_३,४.३८ ॥

"मनः बाह्ये सद्रूपं न विद्यते" बाह्येन्द्रियैः अदृश्यमानत्वात् । "हृदयेऽपि" हृदयदेशेऽपि । "सद्रूपं न विद्यते" । न हि हृदयदेशे मनो नाम किञ्चिल् लभ्यते । हे "राम" । त्वम् । "एतत्" मनः । "सर्वत्रैव" बाह्ये हृदये च । "स्थितं विद्धि" जानीहि । सङ्कल्पाख्यस्य तत्कार्यस्य बाह्ये हृदये च स्फुरमाणत्वात् । सङ्कल्पोऽपि हि बाह्यं घटादिकं हृदयस्थं सुखादिकं च विषयीकरोति । "मनः" किं "यथा" । "नभो यथा" । यथा नभः "सर्वत्रैव स्थितं" भवति । तथेत्य् अर्थः ॥ (मोटी_३,४.३८ ॥

ननु तथाप्य् अस्य स्वरूपं वक्तव्यं । न हि सर्वथा असतः सर्वत्र स्थितत्वं युक्तम् इत्य् । अत्राह

इदम् अस्यासद् उत्पन्नं मृगतृष्णाम्बुसन्निभम् ।
रूपं तु शृणु सङ्क्षेपाद् द्वितीयेन्दुभ्रमोपमम् ॥ (मो_३,४.३९ ॥

त्वं । "अस्य" मनसः । "असत् उत्पन्नम्" मिथ्या प्रादुर्भूतम् । अत एव "मृगतृष्णाम्बुसन्निभम्" । तथा "द्वितीयेन्दुभ्रमोपमम्" । "इदम्" अनुभूयमानम् । "रूपं" स्वरूपं । "सङ्क्षेपात् शृणु" ॥ (मोटी_३,४.३९ ॥

मनःस्वरूपम् एव कथयति

साधो यद् एतद् अर्थस्य प्रतिभानं प्रथां गतम् ।
सतो वाप्य् असतो वापि तन् मनो विद्धि नेतरत् ॥ (मो_३,४.४० ॥

हे "साधो" । "सतः" "असतः वा अर्थस्य" पदार्थस्य । "यत् एतत् प्रतिभानम्" स्फुरणम् । पदार्थतया अनुसन्धानम् इति यावत् । "प्रथां" दार्ढ्यं । "गतं" भवति । त्वं "तत् मनः विद्धि" । "इतरत्" तार्किकादिभिः विकल्पितं परमाण्वादिरूपं । "मनः" "न" भवति । "सतः असतो वे"ति वादिभेदम् आश्रित्योक्तम् ॥ (मोटी_३,४.४० ॥

पुनः पुनः एतद् एव कथयति

यद् अर्थप्रतिभानं तन् मन इत्य् अभिधीयते ।
न्यन् न किञ्चिद् अप्य् अस्ति मनो नाम कदाचन ॥ (मो_३,४.४१ ॥

"अर्थप्रतिभानम्" अर्थेष्व् अर्थतास्फुरणम् ॥ (मोटी_३,४.४१ ॥

सङ्कल्पनं मनो विद्धि सङ्कल्पात् तन् न भिद्यते ।
यथा द्रवत्वात् सलिलं तथा स्पन्दो यथानिलात् ॥ (मो_३,४.४२ ॥

स्पष्टम् ॥ (मोटी_३,४.४२ ॥

यत्र सङ्कल्पनं तत्र तन् मनोऽङ्ग तथा स्थितम् ।
सङ्कल्पमनसी भिन्ने न कदाचन केचन ॥ (मो_३,४.४३ ॥

"यत्र" यस्याम् अवस्थायां । "सङ्कल्पनं" भवति । हे "अङ्ग" । "तत्र" तस्याम् अवस्थायां । "तत्" प्रसिद्धं । "मनः" "तथा" तेन सङ्कल्पनाख्येन रूपेण । "स्थितं" भवति । "केचन" अनिर्वाच्ये । "सङ्कल्पमनसी" । "कदाचन" जातु । "भिन्ने न" भवतः । एकस्वरूपत्वात् ॥ (मोटी_३,४.४३ ॥

सत्यम् अस्त्य् अथवासत्यं यद् अर्थप्रतिभासनम् ।
तावन्मात्रं मनो विद्धि तद् ब्रह्मैष पितामहः ॥ (मो_३,४.४४ ॥

"सत्यम् अथवा असत्यं यत् अर्थप्रतिभासनम्" अर्थस्फुरणम् । "अस्ति" । त्वं । "तावन्मात्रं तत्" अर्थप्रतिभासनम् । "मनः" चित्तं । "विद्धि" जानीहि । "तत्" अर्थप्रतिभासनरूपं मनः । "एषः" शास्त्रेषु कथितः । "पितामहः" पितामहेत्य् अपरपर्यायः "ब्रह्मा" भवति । सर्वसृष्टिकारणत्वात् । सृष्टिकारणस्यैव शास्त्रेष्व् अपि ब्रह्मत्वकथनात् ॥ (मोटी_३,४.४४ ॥

स्वप्नादौ सर्वैर् अनुभूयमानातिवाहिकदेहरूपत्वं मनसः कथयति

आतिवाहिकदेहात्मा मन इत्य् अभिधीयते ।
आधिभौतिकबुद्धिस् तु सदा धीस् तु चिरस्थितिः ॥ (मो_३,४.४५ ॥

पण्डितैः "आतिवाहिकस्य" क्षणान्तरे वर्षप्राप्यदेशप्राप्त्या स्फुटम् अतिवहनशीलस्य । "देहस्या"र्थात् स्वप्नसङ्कल्पादौ प्रतिभासमानस्य देहस्य्"आत्मा" स्वरूपं । "मन इत्य् अभिधीयते" । न तु तार्किकाभिमतः परमाणुः । न हि तस्य प्रोक्तस्वरूपम् अतिवहनं युज्यते । तदारब्धे स्थूलदेहे तददर्शनात् । एतत्प्रसङ्गेन बुद्धिदार्ढ्यस्याधिभौतिकदेहत्वं साधयति "आधिभौतिके"ति । "तु" व्यतिरेके । पण्डितैः "आधिभौतिकबुद्धिः" आधिभौतिकदेहाकारा बुद्धिः । आधिभौतिकदेहस्वरूपम् इति यावत् । "चिरस्थितिः धीः" इति दार्ढ्यं गता आतिवाहिकदेहविषया बुद्धिर् इति । "सदाभिधीयते" । मनःस्वरूपातिवाहिकदेहविषया बुद्धिर् एव हि दार्ढ्यं गताधिभौतिकभावेन स्फुरति । न तु मांसमयः आधिभौतिको नाम कश्चित् पृथग् अस्ति यथा तथा सतोऽपि तस्य बुद्धिविषयत्वं विना असत्कल्पत्वात् । बुद्धिविषयत्वे तु बुद्धिरूपत्वानपायात् । विषयो हि स एवोच्यते यः विषय्यग्रस्थ इव भासते । अन्यथा पीतद्रव्यस्यापि नीलज्ञानविषयत्वापातात् । द्वितीयः "तु"शब्दः पादपूरणार्थः ॥ (मोटी_३,४.४५ ॥

दृश्यत्वसाधनार्थं मनसः दृश्यपर्यायत्वं कथयति

विद्या संसृतिश् चित्तं मनो बन्धो मलं तमः ।
इति पर्यायनामानि दृश्यस्य विदुर् उत्तमाः ॥ (मो_३,४.४६ ॥

अतः मनः दृश्यम् एवान्यथा दृश्यपर्यायत्वम् अस्य न स्याद् इति ॥ (मोटी_३,४.४६ ॥

ननु पदार्थग्राहकतया भासमानस्य मनसः कथं दृश्यपर्यायत्वं युक्तम् इत्य् । अत्राह

न हि दृश्याद् ऋते किञ्चिन् मनसो रूपम् अस्ति हि ।
दृश्यं चोत्पन्नम् एवैतन् नेति वक्ष्याम्य् अहं पुनः ॥ (मो_३,४.४७ ॥

"हि" यस्मात् कारणात् । "दृश्याद् ऋते किञ्चित्" दृश्यव्यतिरिक्तं किञ्चित् । "मनसः रूपं" । "हि" निश्चयेन । "नास्ति" । अतः मनसः दृश्यपर्यायत्वं युक्तम् इति भावः । ननु ततोऽपि किम् इत्य् । अत्राह "दृश्यं चे"ति । "एतत् दृश्यं च उत्पन्नं न" भवति । पूर्वम् उक्तत्वात् । अतः मनः अपि अनुत्पन्नम् एव भवतीति भावः । ननु दृश्यानुत्पन्नत्वे मम पूर्वं निश्चयो न जात इत्य् अत्राह्"एती"ति । "अहम्" "इति" एतत् दृश्यानुत्पन्नत्वम् । "पुनः वक्ष्यामि" । दुर्बोधत्वाद् इति भावः ॥ (मोटी_३,४.४७ ॥

दृश्यानुत्पन्नत्वम् एव कथयति

यथा कमलबीजेऽन्तः स्थिता कमलमञ्जरी ।
महाचित्परमाण्वन्तस् तथा दृश्यं जगत् स्थितम् ॥ (मो_३,४.४८ ॥

"यथा कमलमञ्जरी कमलबीजे" पद्माक्षे । "अन्तः स्थिता" भवति । अन्यथा अग्रे निर्गमासम्भवप्रसङ्गात् । "तथा दृश्यम् जगत्" दृशिक्रियाविषयीभूतं जगत् । "महाचित्परमाण्वन्तः" । "महाचित्" अपरिच्छिन्ना चित् । सा एवातिसूक्ष्मत्वात् "परमाणुः" । तस्य्"आन्तः" मध्ये । "स्थितं" भवति । अन्यथा कुतः अस्याः निर्गमः स्यात् इति भावः । अतो दृश्यस्य महाचितः पृथक्त्वाभावेनानुत्पन्नत्वम् एवेति परमो भावः ॥ (मोटी_३,४.४८ ॥

एतद् एव पुनः पुनः कथयति

प्रकाशस्य यथालोको यथा वातस्य चोपनम् ।
यथा द्रवत्वं पयसो दृश्यत्वं द्रष्टुर् ईदृशम् ॥ (मो_३,४.४९ ॥

"आलोकः" अर्थप्राकट्यहेतुः गुणविशेषः । "चोपनं" स्पन्दः । द्रष्टृव्यतिरिक्तदृश्यस्य सत्ता नास्तीति भावः ॥ (मोटी_३,४.४९ ॥

ङ्गदत्वं यथा हेम्नि मृगनद्यां यथा जलम् ।
भित्तिर् यथा स्वप्नपुरे तथा द्रष्टरि दृश्यधीः ॥ (मो_३,४.५० ॥

स्पष्टम् ॥ (मोटी_३,४.५० ॥

अनेन न्यायेन द्रष्टुः दृश्यमयत्वं यत् सिद्धं तद् अपि मलत्वेनोन्मृज्यतया प्रतिजानीते

एवं द्रष्टरि दृश्यत्वम् अनन्यद् इव यत् स्थितम् ।
तद् अप्य् उन्मार्जयाम्य् आशु त्वच्चित्तादर्शतो मलम् ॥ (मो_३,४.५१ ॥

"एवं" सति । "द्रष्टरि" दृशिक्रियाकर्तरि । "अनन्यत्" उक्तन्यायेनाभिन्नं । "यत् दृश्यत्वम्" दृशिक्रियाविषयत्वं । "स्थितम् इव" भवति । अहं । "मलम्" मलभावेन स्थितम् । "तत् अपि" द्रष्टुर् अभिन्नं दृश्यत्वम् अपि । "त्वच्चित्तादर्शतः" त्वच्चित्तदर्पणात् । "उन्मार्जयामि" । येन सर्वथा त्वन्मनसि दृश्यस्पर्शो न स्याद् । असत्त्वेनापि भासमानं दृश्यं लेशतो दुःखदम् एव भवतीति भावः । ननु द्रष्टुर् अभिन्नस्य दृश्यत्वस्य कथं मलत्वं । व्यतिरिक्तस्यैव मलत्वाद् इति चेत् । सत्यम् । द्रष्टा स्वाभिन्नत्वेनापि निश्चितं दृश्यत्वं स्वभिन्नत्वम् अपि आपादयति । स्वभिन्नत्वाख्यं प्रतियोगिनं विना स्वाभिन्नत्वस्यासिद्धेर् इति स्वभिन्नत्वापादकस्य दृश्यस्य मलत्वं स्फुटम् एवेति न कोऽपि विरोधः ॥ (मोटी_३,४.५१ ॥

ननु किमर्थं द्रष्टुर् अनन्यत्वेन स्थितस्य मलरूपस्य अपि दृश्यत्वस्योन्मार्जनं करोषीत्य् । अत्राह

यद् द्रष्टुर् अस्याद्रष्टृत्वं दृश्याभावे भवेद् बलात् ।
तद् विद्धि केवलीभावम् अत एवासतः सतः ॥ (मो_३,४.५२ ॥

"अस्य" आत्मत्वेन स्थितस्य । "द्रष्टुः" दृशिक्रियाकर्तुः । "दृश्याभावे" सति । "बलात्" बलेन । स्वप्रयत्नं विनेति यावत् । "यत् अद्रष्टृत्वं" "भवेत्" । न हि दृश्यं विना द्रष्टुः द्रष्टृत्वं नाम किञ्चिद् अस्ति । शक्तिभावेन स्थितस्यापि तस्य स्वरूपत्वानपायात् । त्वम् । "तत्" अद्रष्टृत्वं । "केवलीभावम्" मुक्तिं । "विद्धि" जानीहि । द्रष्टुः दृश्यानौन्मुख्यमात्रस्यैव मुक्तित्वात् । "द्रष्टुः" कथम्भूतस्य । "अत एवासतः" "सतः" । द्रष्टृत्वापेक्षया "असतः" । केवलीभावापेक्षया "सतः" । न ह्य् असतः केवलीभावः युक्तः । तथा चानिर्वाच्यस्येत्य् अर्थः । अतः केवलीभावसिद्धये सर्वथा दृश्योन्मार्जनम् एव कार्यम् इति भावः ॥ (मोटी_३,४.५२ ॥

ननु दृश्याभावप्रभावात् सिद्धेऽपि अद्रष्टृत्वे केवलीभावो न सिध्यति । दृश्यविषयस्य रागादेः सुषुप्तिवत् वासनाभावेन स्थितत्वाद् इत्य् । अत्राह

तत्ताम् उपगते भावे रागद्वेषादिवासना ।
शाम्यत्य् अस्पन्दिते वाते स्पन्दसङ्क्षुब्धता यथा ॥ (मो_३,४.५३ ॥

"भावे" अन्तरे तत्त्वे । "तत्ताम्" दृश्याभावकृतां अद्रष्टृताम् । "उपगते" सति । "रागद्वेषादिवासना" पूर्वं भातदृश्यविषयरागद्वेषादिसंस्कारः । "शाम्यति" शान्तिं व्रजति । आश्रयविषययोः अभावात् । सुषुप्तौ तु आश्रयविषययोः वासनाभावेन स्थितत्वात् तदनुगतयोः रागद्वेषादिकयोर् अपि वासनाभावेनावस्थानम् अस्ति । न हि सुषुप्तौ द्रष्टृदृश्ययोः समूलं नाशः अस्ति । ततः उत्थितस्य पुनः तदास्थाभावप्रसङ्गात् । न हि समूलं नष्टे आस्था युक्ता । दृश्याभावे निश्चितानां तु भासमानेऽपि दृश्ये कदाचिद् आस्था न विद्यते । अत्र स्वमन एव साक्षिकम् इत्य् अलं प्रपञ्चेन । "रागद्वेषादिवासना" का "यथा" । "स्पन्दसङ्क्षुब्धता यथा" । यथा "वाते अस्पन्दिते" सति । वातकृता "स्पन्दसङ्क्षुब्धता" स्पन्दरूपा सङ्क्षुब्धता । नश्यति । तथेत्य् अर्थः । अतः दृश्याभावकृतस्याद्रष्टृत्वस्य केवलीभावत्वं युक्तम् एवेति भावः ॥ (मोटी_३,४.५३ ॥

एतद् एव अतिदुर्बोधत्वात् पुनः पुनः कथयति

सम्भवति सर्वस्मिन् दिग्भूम्याकाशरूपिणि ।
प्रकाश्ये यादृशं रूपं प्रकाशस्यामलं भवेत् ॥ (मो_३,४.५४ ॥
त्रिजगत् त्वम् अहं चेति दृश्येऽसत्ताम् उपागते ।
द्रष्टुः स्यात् केवलीभावस् तादृशो विमलात्मनः ॥ (मो_३,४.५५ ॥

"दिग्भूम्याकाशरूपिणि" दिग्भूम्याकाशस्वरूपे । "प्रकाश्ये" प्रकाशनीये वस्तुजाते । "असम्भवति" सति । सम्भवक्रियाकर्तृत्वम् अभजति सति । "प्रकाशस्य" सूर्यप्रकाशस्य । "यादृशम् अमलं" शुद्धम् । इन्द्रियातीतम् इति यावत् । "रूपं भवेत्" । न हि सूर्यमण्डलात् निष्क्रान्तः भित्तौ अपतितः प्रकाशः नेत्रगम्यः भवति । "त्रिजगत् त्वं अहं चेति दृश्ये असत्ताम्" अभावम् । "उपागते" सति । "द्रष्टुः" दृश्यप्रकाशकतया स्थितस्य द्रष्टुः । "तादृशः केवलीभावः" अमलरूपत्वं । "स्यात्" भवेत् । "द्रष्टुः" कथम्भूतस्य । "अमलात्मनः" चेत्यमलरूषितचिन्मात्रस्वरूपस्यान्यथा केवलीभावापरपर्यायः निर्मलीभावः अयुक्तः स्यात् ॥ (मोटी_३,४.५४-५५ ॥

नन्ताखिलशैलादिप्रतिबिम्बे हि यादृशी ।
स्याद् दर्पणे दर्पणता केवलात्मस्वरूपिणी ॥ (मो_३,४.५६ ॥
हं त्वं जगद् इत्यादौ प्रशान्ते दृश्यसम्भ्रमे ।
स्यात् तादृशी केवलता स्थिते द्रष्टर्य् अवीक्षके ॥ (मो_३,४.५७ ॥

दार्ष्टान्तिकगतं "प्रशान्ते" इति पदं दृष्टान्तेऽपि योजनीयं । तेनायम् अर्थः । "हि" निश्चये । "अनन्ताः" ये "अखिलाः शैलादयः" । तद्रूपे "प्रतिबिम्बे प्रशान्ते" सति । दार्ष्टान्तिकतया गृहीते "दर्पणे" प्रतिबिम्बभावम् अभजति सति इति यावत् । "दर्पणे केवलात्मस्वरूपिणी" केवलदर्पणाख्यस्वरूपमयी । "यादृशी दर्पणता स्यात्" । "अहं त्वं जगद् इत्यादौ दृश्यसम्भ्रमे" दृश्याकारे सम्भ्रमे । दृश्ये इति यावत् । "प्रशान्ते" सति । ततः "अवीक्षके" दृशिक्रियाम् अकुर्वति । "स्थिते द्रष्टरि" । "तादृशी केवलता स्यात्" । यथा प्रतिबिम्बाभावे शुद्धं दर्पणमात्रम् एव तिष्ठति तथा दृश्याभावे शुद्धः द्रष्टा एव तिष्ठतीति भावः ॥ (मोटी_३,४.५६-५७ ॥

दृश्याभावासम्भवं मन्यमानः श्रीरामः पृच्छति

सच् चेन् न शाम्यतीदं वा नाभावो विद्यते सतः ।
सत्तां च न विद्मोऽस्मिन् दृश्ये दोषप्रदायिनि ॥ (मो_३,४.५८ ॥

"वा"शब्दः यतःशब्दार्थे । "इदं" दृश्यं । "सत्" सत्ताभाक् "चेत्" । "चेत्" यदि भवति । तदा "न शाम्यति" । यतः "सतः" सत्ताभजतः । "अभावः न विद्यते" । स्वरूपहानिप्रसङ्गात् । अन्यथा वह्नेर् अपि दाहकत्वहानिः स्यात् । ननु तर्हि असद् एव भवत्व् इत्य् । अत्राह "असत्तां चे"ति । "दोषप्रदायिनि" रागादिस्वरूपदोषप्रदायिनि । असतः दोषप्रदायित्वं न युक्तं वन्ध्यासुतस्यापि तत्त्वापत्तेर् इति भावः ॥ (मोटी_३,४.५८ ॥

फलितम् आह

तस्मात् कथम् इयं शाम्येद् ब्रह्मन् दृश्यविषूचिका ।
नानोद्भवभ्रमकरी दुःखसन्ततिदायिनी ॥ (मो_३,४.५९ ॥

"नानोद्भवः" चित्रोत्पत्तिः । यः "भ्रमः" मिथ्याज्ञानम् । तं "करोती"ति तादृशी ॥ (मोटी_३,४.५९ ॥

"उन्मार्जयामी"ति प्रतिज्ञां सफलीकर्तुं श्रीवसिष्ठः उत्तरं कथयति

स्य दृश्यपिशाचस्य शान्त्यै मन्त्रम् इमं शृणु ।
रामात्यन्तम् अयं येन मृतिम् एष्यति नङ्क्ष्यति ॥ (मो_३,४.६० ॥

हे "राम" । त्वम् । "अस्य" पुरःस्फुरतः । "दृश्यपिशाचस्य शान्त्यै" । "इमम्" वक्ष्यमाणवाक्यकदम्बकस्वरूपं । "मन्त्रं" "शृणु" । "येन" मन्त्रेण । "अयं" दृश्यपिशाचः । "अत्यन्तम् मृतिम्" त्रैकालिकम् अभावम् । "एति" गच्छति । ततः वि"नङ्क्ष्यति" अदर्शनं याति । युक्तं च पिशाचस्य मन्त्रेण मरणम् अदर्शनं च ॥ (मोटी_३,४.६० ॥

मन्त्रम् एव कथयति

यद् अस्ति तस्य नाशोऽस्ति न कदाचन राघव ।
यस्मात् तन् नष्टम् अप्य् अन्तर् बीजभूतं भवेद् धृदि ॥ (मो_३,४.६१ ॥

हे "राघव" । "यत्" वस्तु । सत्तां भजति । "तस्य नाशः कदाचन" जातु । "न" सम्भवति । "यस्मात् तत्" वस्तु । "नष्टम् अपि" केनचित् पराभिमतेन समवायिकारणनाशादिना नष्टम् अपि । "हृदि अन्तः" मानसान्तः । "बीजभूतम्" । बीजभावेन स्थितम् वा सत्तारूपेण स्थितम् इति यावत् । "भवति" । दृश्यते हि नष्टम् अपि वस्तु हृदि पुनः पुनः आवर्तमानम् ॥ (मोटी_३,४.६१ ॥

ननु ततः को दोषः इत्य् । अत्राह

स्मृतिबीजा चिदाकाशे पुनर् उद्भूय दृश्यधीः ।
लोकशाइलाम्बराकारं दोषं वितनुतेऽतनुम् ॥ (मो_३,४.६२ ॥

"स्मृतिबीजा" स्मृतिकारणिका । "दृश्यधीः" दृश्याकारा धीः । दृश्यम् इति यावत् । "चिदाकाशे उद्भूय" प्रादुर्भूय । "अतनुम्" महान्तम् । "लोकशैलाम्बराकारम् दोषम्" "पुनः वितनुते" सूक्ष्मप्रपञ्चभावेन विशेषेण विस्तारयति । स्वप्ने दृष्टत्वात् ॥ (मोटी_३,४.६२ ॥

ननु ततोऽपि किम् इत्य् । अत्राह

इत्थं निर्मोक्षदोषः स्यान् न च तस्यांशसम्भवः ।
यस्माद् देवर्षिमुनयो दृश्यन्ते मुक्तिभाजनम् ॥ (मो_३,४.६३ ॥

"इत्थं" सति । "निर्मोक्षदोषः" मोक्षाभावप्रसङ्गरूपः दोषः । "स्यात्" । स्थूलसूक्ष्मभावेन द्विविधस्य दृश्याभावस्यैव मोक्षत्वात् । ननु भवतु सः दोषः । किम् अस्माकं करिष्यतीत्य् । अत्राह "न चे"ति । "तस्य" निर्मोक्षदोषस्य । "अंशेना"पि "सम्भवः न च" भवति । "यस्मात् देवर्षिमुनयः मुक्तिभाजनं दृश्यन्ते" ॥ (मोटी_३,४.६३ ॥

पुनर् अप्य् एतद् एव कथयति

यदि स्याज् जगदादीदं तत् स्यान् मोक्षो न कस्यचित् ।
बाह्यस्थम् अस्तु हृत्स्थं वा दृश्यं नाशाय केवलम् ॥ (मो_३,४.६४ ॥

"यदि इदम् जगदादि स्यात्" सत्तां भजेत् । तदा "कस्यचित्" कस्यापि प्रमातुः । "मोक्षः" दृश्यान् मुक्तिः । "न स्यात्" । यथा तथा सम्भावितेऽपि दृश्यनाशे स्मृतिप्रभावात् सूक्ष्मतया पुनः दृश्यस्फुरणात् । यतः "दृश्यम् बाह्यस्थम्" स्थूलरूपम् "अस्तु" । "हृत्स्थम्" सूक्ष्मरूपं "वा अस्तु" । "नाशाय" बन्धाख्यनाशोत्पादार्थम् भवति । क्षोभकत्वाविशेषाद् इति भावः । "आदि"शब्देन सुषुप्तिस्तैमित्यादेः ग्रहणम् । तस्यापि दृश्यत्वाद् ॥ (मोटी_३,४.६४ ॥

ननु तर्हि किं कार्यम् इत्य् । अत्राह

तस्माद् इमां प्रतिज्ञां त्वं शृणु रामातिभीषणाम् ।
याम् उत्तरेण ग्रन्थेन नूनं त्वम् अवबुध्यसे ॥ (मो_३,४.६५ ॥

"अतिभीषणत्वं" च "प्रतिज्ञायाः" असम्भवप्रवृत्तत्वेन ज्ञेयम् ॥ (मोटी_३,४.६५ ॥

श्रीरामावबोधनिमित्तम् "उत्तरग्रन्थम्" एव कथयति

यम् आकाशभूतादिरूपोऽहं चेति लक्षितः ।
जगच्छब्दस्य रामार्थो ननु नास्त्य् एव कश्चन ॥ (मो_३,४.६६ ॥

हे "राम" । "ननु" निश्चये । "आकाशभूतादिरूपः" । तथा "अहं चेति लक्षितः" निश्चितः । "अयम् जगच्छब्दस्यार्थः" अभिधेयम् । परमार्थतः "नास्त्य् एव" सत्तां न भजति एव । न तु सत्ताभाग् भूत्वा नश्यति । तथा च सति न निर्मोक्षदोषप्रसङ्गः । न हि असतः बन्धकत्वं दृष्टम् इति भावः । "आकाशस्य भूतत्वे"ऽपि प्राधान्येन पृथङ्निर्देशः । "आदि"शब्देन भूतकार्याणां ग्रहणम् ॥ (मोटी_३,४.६६ ॥

ननु पुरःस्फुरतः अहमादिकस्य जगतः कथं सर्वथा सत्त्वं युक्तम् इत्य् । अत्राह

यद् इदं दृश्यते किञ्चिद् दृश्यजालं पुरोगतम् ।
एवं ब्रह्मैव तत् सर्वम् अजरामरम् अव्ययम् ॥ (मो_३,४.६७ ॥

अस्माभिः "यद् इदं पुरोगतं दृश्यजालं" नीलसुखादिरूपः दृश्यसमूहः । "दृश्यते" अनुभूयते । "तत् सर्वम् अजरामरम्" देहरहितत्वात् तन्मात्रगतजरादिरहितम् । तथा "अव्ययम्" नाशरहितम् । "ब्रह्मैव" जगत्तया बृंहितं शुद्धचित्तत्त्वम् एव । "एवम्" जगद्भावेन भवति । दृश्यते हि जलस्य तरङ्गभावेन भवनम् । तथा च सति भासमानस्यापि जगतः असत्त्वं युक्तम् एव । न हि जले भासमानस्यापि तरङ्गस्य सत्त्वं दृष्टम् इति भावः ॥ (मोटी_३,४.६७ ॥

दृश्यस्य ब्रह्ममात्रत्वम् एव दृढीकरोति

पूर्णे पूर्णं प्रसरति परे शान्तं परं स्थितम् ।
व्योमन्य् एवोदितं व्योम ब्रह्म ब्रह्मणि तिष्ठति ॥ (मो_३,४.६८ ॥

"पूर्णे" निरपेक्षे । "प्रसरति" सञ्चारं करोति । स्वरूपस्थे "परे" उत्तीर्णे । "ब्रह्मणि" बृंहिते वस्तुनि । अत्र सप्तम्यन्तैः शुद्धचित्तत्त्वस्य कथनं । प्रथमान्तैः तद्रूपस्य जगतः ज्ञेयम् । ननु कथं पूर्णत्वादिगुणयुक्ते शुद्धचित्तत्त्वेऽवस्थानं युक्तम् । न्यूनस्याधिके अवस्थानदर्शनात् । सत्-यम् । अवस्थानम् अत्राधेयभावेन नास्ति येनोक्तदोषप्रसङ्गः स्यात् । किं तु तन्मात्रताभावेनेति नात्र दोषप्रसङ्गः । इत्य् अलं प्रपञ्चैः ॥ (मोटी_३,४.६८ ॥

न दृश्यम् अस्ति नो दृक् च न द्रष्टा न च दर्शनम् ।
न शून्यं न जडं नो चिच् छान्तम् एवेदम् आततम् ॥ (मो_३,४.६९ ॥

"दृश्यम्" दृशिक्रियाकर्म । "नास्ति" सत्तां न भजति । "दृक्" दृशिक्रिया । "नो" अस्ति । "द्रष्टा" दृशिक्रियाकर्ता । "च ना"स्ति । "दर्शनम्" दृशिक्रियासाध्यं फलं । "च ना"स्ति । सर्वेषां एषां प्रतीतिमात्रसारत्वात् । ननु तर्हि एतद् अभाव एवास्ती-त्य् । अत्राह "न शून्यम्" इति । "शून्यम्" दृश्याद्यभावः । च "ना"स्ति । न हि सर्-वथा असतः भानं युक्तं । शशिशृङ्गादेर् अपि भानापत्तेः । ननु तर्हि जाड्यम् एव स्यात् । जाड्ये हि सर्वेषाम् असत्ता एव भवतीत्य् । अत्राह "न जडम्" इति । भावप्रधाननिर्देशः "जडम्" जडत्वम् । "ना"स्ति । तत्त्वे हि दृश्यादिभानम् अयुक्तं स्यात् । ननु तर्हि शिष्टा चिद् एव स्याद् इत्य् । अत्राह "नो चिद्" इति । "चित्" चिन्मात्रम् । "नो" अस्ति । चेत्यापेक्षत्वेन तस्याः स्थितत्वात् । चेत्यस्य चोक्तन्यायेनासम्भवात् । ननु तर्हि किम् अस्ति । न हि सर्वथा असत्ता बुद्ध्यै आरोहतीत्य् । अत्राह "शान्तम्" इति । "आततं" समन्तात् स्फुरत्स्वरूपम् । "इदम्" सर्वम् दृश्यादिकम् । "शान्तम्" । भवति । चेत्यक्षोभरहितं चिन्मात्रं भवति ॥ (मोटी_३,४.६९ ॥

अत्र निश्चयम् अनाप्नुवन् श्रीरामः मुनेः असम्भवार्थाभिधायित्वम् आसञ्जयति

वन्ध्यापुत्रेण पिष्टोऽद्रिः शशशृङ्गं प्रमायते ।
प्रसार्य भुजसङ्घातं शिला नृत्यति ताण्डवम् ॥ (मो_३,४.७० ॥
स्रवन्ति सिकतास् तैलं पठन्त्य् उपलपुत्रिकाः ।
गर्जन्ति चित्रजलदा इतीवेदं वचः प्रभो ॥ (मो_३,४.७१ ॥

"तवे"ति शेषः । हे "प्रभो" । "इदम्" तव "वचः" । "इति" भवति । एवंरूपं भवति इति । किम् "इति" । "वन्ध्यापुत्रेणे"त्यादि । जनैः "शशशृङ्गं प्रमायते" प्रमातुम् आरभ्यते इत्य् अर्थः । "प्रमायते" इति प्रयोगः आर्षः । सर्वथा असम्बद्धार्थाभिधाय्य् एव तव वचनम् इति भावः । असम्भवार्थप्रतिपादकत्वारोपप्रकाशिताविनयनिरासनार्थं "प्रभो" इत्य् आमन्त्रणम् ॥ (मोटी_३,४.७०-७१ ॥

जरामरणदुःखादिशैलाकाशमयं जगत् ।
नास्तीति किम् इदं नाम भवतापि ममोच्यते ॥ (मो_३,४.७२ ॥

न हि प्रत्यक्षम् अनुभूयमानस्य जरादिरूपस्य भावजातस्यापह्नवः युक्त इति भावः । "अपि"शब्दः श्रीवसिष्ठस्यासम्भववादित्वायोग्यत्वसूचनार्थः । "ममे"त्य् अनेन स्वस्य सच्छिष्यत्वं द्योतयति ॥ (मोटी_३,४.७२ ॥

"यथे"त्य् एतत् सत्यम् एवास्ति तर्हि युक्तं "कथये"त्य् । अनेनाभिप्रायेणाह

यथेदं न स्थितं विश्वं नोत्पन्नं न च विद्यते ।
तथा कथय मे ब्रह्मन् येनैतन् निश्चितं भवेत् ॥ (मो_३,४.७३ ॥

"एतत्" स्थित्याद्यभावः ॥ (मोटी_३,४.७३ ॥

श्रीवसिष्ठ उत्तरं कथयति

नासमन्वितवाग् अस्मि शृणु राघव कथ्यते ।
यथेदम् असद् आभाति वन्ध्यापुत्र इवारवी ॥ (मो_३,४.७४ ॥

"अहम्" वसिष्ठाख्यः अहम् । "असमन्विता" असम्बद्धा । "वाग्" यस्य । सः । तादृशः "नास्मि" । हे "राघव" । त्वं "शृणु" । "इदं" जगत् । "यथा" येन प्रकारेण । "असत् भाति" । त्वां प्रति स्फुरति । मया तथा "कथ्यते" । "इदं" क "इव" । "आरवी वन्ध्यापुत्र इव" । आरवकारी वन्ध्यापुत्र इव । यथा सः असत् भाति । तथेत्य् अर्थः ॥ (मोटी_३,४.७४ ॥

तद् एव कथयति

इदम् आदाव् अनुत्पन्नं सर्गादौ तेन नास्त्य् अलम् ।
इदं हि मनसा भाति स्वप्नादौ पत्तनं यथा ॥ (मो_३,४.७५ ॥

"इदम्" दृश्यं जगत् । "आदौ" आदिभूते । "सर्गादौ" चिन्मात्रस्य चेत्योन्मुखतारूपे सर्गारम्भे । अनुद्भूतं आसीत् । परमार्थतः चिन्मात्रभावाद् अच्युतेः । ततः भिन्नया सत्तयाश्रितं न आसीत् । न हि बहिर् अपि मृदः उत्पद्यमानस्य घटस्य मृदः भिन्ना सत्ता दृश्यते । "तेन" ततः कारणात् । "इदम्" जगत् । "अलम्" अतिशयेन । "नास्ति" सत्तां न भजति । "स्वप्नपत्तनवत्" चिन्मात्रसाक्षितामात्रेण लब्धसत्ताकत्वात् । ननु तर्हि कथम् इदं भासते इत्य् । अत्राह "इदम्" इति । "हि" निश्चये । "इदं" दृश्यम् जगत् । "मनसा" विकल्पेन । "भाति" दृश्यतया स्फुरति । किम् इव । "पत्तनम्" इव । "यथा" "स्वप्नादौ पत्तनं मनसा भाति" । तथेत्य् अर्थः ॥ (मोटी_३,४.७५ ॥

ननु सत्स्वरूपेण मनसा भातस्य दृश्यस्य सत्त्वं युक्तम् एवेत्य् । अत्राह

मन एव च सर्गादाव् अनुत्पन्नम् असद्वपुः ।
तथैतच् छृणु वक्ष्यामि यथैतद् अनुभूयते ॥ (मो_३,४.७६ ॥

"सर्गादौ" प्रोक्तस्वरूपे सर्गारम्भे । "मनः एव अनुत्पन्नम्" । अत एव्"आसद्वपुः" असत्स्वरूपं भवति । त्वं "शृणु" । "यथा" त्वया "एतत् अनुभूयते" । अहम् "तथा एतत् वक्ष्यामि" ॥ (मोटी_३,४.७६ ॥

ननु प्रकृतं दृश्यासत्त्वकथनं विहाय मनोऽसत्त्वकथनम् अयुक्तम् इत्य् । अत्राह

मनो दृश्यमयं दोषं तनोतीमं क्षयात्मकम् ।
सद् एवासदाकारं स्वप्नः स्वप्नान्तरं यथा ॥ (मो_३,४.७७ ॥

"मनः इमम्" पुरः भासमानम् । "क्षयात्मकम्" नश्वरस्वभावम् । "दृश्यमयं दोषम्" दृश्यस्वरूपं दोषं । "तनोति" विस्तारयति । "मनः" कथम्भूतम् । "असद् एव" स्फुरणमात्ररूपत्वात् असत्स्वरूपम् एव । "दृश्यमयं दोषं" कथम्भूतम् । "असदाकारम्" असत्स्वरूपम् । असता विस्तार्यमाणत्वात् । न ह्य् असता विस्तारितं सत् भवितुं योग्यम् । वन्ध्यापुत्रविस्तारितस्य वाग्जालस्यापि सत्तापत्तेः । "मनः" कः "यथा" । "स्वप्नो" "यथा" । यथा असत्स्वरूपः "स्वप्नः" "असदाकारं स्वप्नान्तरं तनोति" । तथेत्य् अर्थः । दृश्यते हि स्वप्ने स्वप्नान्तरम् इति नात्र विवादः ॥ (मोटी_३,४.७७ ॥

स्वाश्रयभूतं देहं प्रत्य् अपि अस्यैव कारणत्वं कथयति

तत् स्वयं स्वैरम् एवाशु सङ्कल्पयति देहकम् ।
तेनेयम् इन्द्रजालश्रीर् विततेन वितन्यते ॥ (मो_३,४.७८ ॥

"तत्" मनः । इदं "देहकम्" आत्मतया भासमानं स्थूलदेहम् । "आशु" शीघ्रं । "स्वयम्" अन्यसाहाय्यानपेक्षं । "स्वैरम्" स्वेच्छया । "सङ्कल्पयति" सङ्कल्पमात्रेण सम्पादयति । पुनर् अपि प्रकृतम् एव कथयति "तेनेयम्" इति । "तेन" मनसा । "इयम्" दृश्यत्वेन भासमाना ॥ (मोटी_३,४.७८ ॥

उक्तम् अर्थं सर्गान्तश्लोकेन सङ्गृह्य कथयति

स्फुरति गच्छति वल्गति याचते भवति मज्जति संहरति स्वयम् ।
परताम् उपयात्य् अपि केवलं चलति चञ्चलशक्तितया मनः ॥ (मो_३,४.७९ ॥

उपलक्षणं चैतत् । तेन या काचित् क्रिया इह भवति सा मनःकृता एव भवतीति सङ्क्षिप्तार्थ इति शिवम् ॥ (मोटी_३,४.७९ ॥

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायाम् उत्पत्तिप्रकरणे चतुर्थः सर्गः ॥



एवं मनोनिर्णयम् अवश्यकर्तव्यतया श्रुत्वा श्रीरामः पृच्छति

भगवन् मुनिशार्दूल किम् इवेह मनो भ्रमे ।
विद्यते कथम् उत्पन्नं मनो मायामयं कुतः ॥ (मो_३,५.१ ॥

"भगवन् मुनिशार्दूल" हे भगवन् मुनिश्रेष्ठ । "इह भ्रमे" अस्मिन् जगद्रूपे भ्रमे । "मनः किम् इव विद्यते" किंस्वरूपम् इवास्ति । तथा "कथम् उत्पन्नम्" केन प्रकारेण प्रादुर्भूतम् । "मनः मायामयं" मायास्वरूपं "कुतः" भवति ॥ (मोटी_३,५.१ ॥

तत्राप्य् "आदौ उत्पत्तिम्" एव कथयेत्य् अभिप्रायेणाह

उत्पत्तिम् आदाव् इति मे समासेन वद प्रभो ।
प्रवक्ष्यसि ततः शिष्टं वक्तव्यं वदतां वर ॥ (मो_३,५.२ ॥

हे "प्रभो" । त्वम् । "मे इति उत्पत्तिम्" मनोनिष्ठाम् उत्पत्तिम् । मत्पृष्टं "शिष्टं" स्यात् । तत् "प्रवक्ष्यसि" कथयिष्यसि । स्वयम् एव शिष्टत्वाद् इति भावः ॥ (मोटी_३,५.२ ॥

श्रीवसिष्ठ उत्तरं कथयति

महाप्रलयसम्पत्ताव् असत्तां समुपागते ।
शेषदृश्ये सर्गादौ शान्तम् एवावशिष्यते ॥ (मो_३,५.३ ॥

"महाप्रलयस्य" तुर्याख्यस्यावस्थाविशेषस्य महाकल्पान्तसमयस्य वा । "सम्पत्तौ" पूर्णतायां सत्यां । "सर्गादौ अशेषदृश्ये" सृष्टिसंहारतत्संस्काररूपे समस्ते दृश्ये । "असत्ताम्" अदर्शनम् । "समुपागते" सति । "शान्तम् एव" शनैः शनैः सर्गादिनाशसाक्षिताख्यात् क्षोभाद् अपि निष्क्रान्तम् किम् अप्य् अनिर्वाच्यं तत्त्वम् एव्"आवशिष्यते" शिष्टम् भवति । अत्र सर्गः स्वविषयं पदार्थजातसाक्षि प्रति । संहारः स्वसाध्यम् पदार्थाभावं । संस्कारः पदार्थसंस्कारं पदार्थाभावं । तयोः संस्कारः पदार्थसंस्कारं पदार्थाभावसंस्कारं चेति विभागो ज्ञातव्यः ॥ (मोटी_३,५.३ ॥

शान्तावशिष्टम् एव स्फुटं कथयति

आस्तेऽनस्तमितो भास्वान् अजो देवो निरामयः ।
सर्वदा सर्वकृत् सर्वः परमात्मा महेश्वरः ॥ (मो_३,५.४ ॥

"परमात्मा" सर्वेषां परमार्थतः अहन्ताविषयतया भासमानम् किम् अप्य् आन्तरं तत्त्वम् । "आस्ते" तिष्ठति । प्रथमम् महाप्रलयसाक्षिभावेन तदनन्तरम् अपि यथा तथा कल्प्यमानानां स्वाभावानां साक्षिभावेन स्थितत्वात् । अत्र "सर्वदा" स्थितस्यात्मनः स्थितिवर्तमानताकथनं प्रमात्रपेक्षया प्रयुक्तत्वात् न दोषावहम् । कथम्भूतः असौ "परमात्मे"त्य् अपेक्षायां विशेषणानि कथयति "अनस्तमित" इति । "अनस्तमितः" यथा तथा कल्पितस्य स्वास्तस्यापि ग्राहकत्वेन स्थितत्वात् फलतः अस्तरहितः । "भास्वान्" साक्षितया सर्वप्रकाशकत्वात् सूर्यस्वरूपः । आश्चर्यं च भास्वतः अनस्तमितत्वम् । "अजः" जन्मरहितः । प्रादुर्भूतिः हि जन्म । सा च तस्य न युक्ता । आत्मत्वेन सदा प्रादुर्भूतत्वात् । न ह्य् आत्मनः अप्रादुर्भूतत्वं कदापि युक्तम् । स्वाप्रादुर्भूतेर् अपि ग्राहकतया स्थितत्वात् । "देवः" क्रीडाशीलः । अन्यथा एतादृशं जगत् कथं प्रादुर्भवेत् । अक्रीडाशीलो हि हस्तचालनमात्राद् अपि पराङ्मुखो भवति । "निरामयः" मायाख्यरोगात् निष्क्रान्तः । अन्यथा मायाख्यामयग्रस्तत्वात् मायाप्रेरकत्वम् अयुक्तम् स्यात् । न हि आमयग्रस्तः आमयप्रेरको भवति । "सर्वदा सर्वकृत्" सर्वेषु देशेषु कालेषु च सर्वकारी । अन्यथा अनुभूयमानः सर्वदा सर्वोद्भवः अयुक्तः स्यात् । "सर्वः" सर्वस्वरूपः । अन्यथा पदार्थानां किंमयत्वं स्यात् । "महेश्वरः" परमनियन्ता । अन्यथा सर्वे स्वस्वभावे नियताः न स्युः ॥ (मोटी_३,५.४ ॥

पुनर् अपि तम् एव विशिनष्टि

यतो वाचो निवर्तन्ते यो मुक्तैर् अवगम्यते ।
यस्य चात्मादिकाः सञ्ज्ञाः कल्पिता न स्वभावजाः ॥ (मो_३,५.५ ॥

"वाचः" समस्ताः लौकिकाः वैदिकाश् च वाचः । "यतः" यस्मात् परमात्मनः । "निवर्तन्ते" । वाक् हि सङ्केतं पुरस्कृत्य वस्तुनि प्रवर्तते । सङ्केतश् च परमात्मनि कर्तुम् अशक्यः । बाह्यान्तःकरणागोचरत्वात् । इन्द्रियगोचरे एव वस्तुनि हस्तग्राहिकया सङ्केतकरणं दृश्यते । तर्हि असौ नास्तीत्य् । अत्राह "यो मुक्तैर्" इति । "मुक्तैः" एव दृश्यानासक्तचित्तैः एव । न तु लौकिकैः । "यः अवगम्यते" आत्मतया ज्ञायते । मुक्ताः हि शुद्धं किम् अपि तत्त्वं आत्मतया जानन्ति । अन्यथा मुक्तत्वायोगात् । तथा चासत्ता अस्य न युक्तेति भावः । ननु वाचां ततः निवर्तनकथनम् अयुक्तं आत्मादिशब्दानां तद्वाचकत्वात् इत्य् । अत्राह "यस्य चे"ति । तत्त्वज्ञैर् इति शेषः । "कल्पिताः" प्रवृत्तिनिमित्तम् अनपेक्ष्यैव तैलपायिकादिसञ्ज्ञावत् कल्पनया स्थापिताः ॥ (मोटी_३,५.५ ॥
ननु यदि सः एक एवास्ति तत् कथं साङ्ख्यादिभिः पुरुषादयः कथिता इत्य् । अत्राह

यः पुमान् साङ्ख्यदृष्टीनां ब्रह्म वेदान्तवादिनाम् ।
विज्ञानमात्रं विज्ञानविदाम् एकान्तनिर्मलम् ॥ (मो_३,५.६ ॥

"साङ्ख्यदृष्टीनां" साङ्ख्यदर्शनरतानाम् । साङ्ख्याः हि प्रकृतिव्यतिरिक्तम् जीवापरपर्यायं पुरुषम् एव शेषत्वेन कथयन्ति । स च विचार्यमाणः उक्तपरमात्मरूपत्वे एव विश्राम्यतीति युक्तम् उक्तं "यः पुमान् साङ्ख्यदृष्टीनाम्" इति । एवं सर्वत्र योज्यम् । तथा च नामभेदस्यैव स्थितत्वान् नोक्तदोषप्रसङ्ग इति भावः । ननु श्रीवसिष्ठेन किं दर्शनम् आश्रित्येदं शास्त्रम् उक्तम् इति चेत् । सत्यम् । सर्वेषां दर्शनानां सारम् आश्रित्य एतेनेदं शास्त्रं कृतम् । अन्यथा सर्वमताङ्गीकारः अयुक्तः स्यात् । बाहुल्येन वेदान्तशास्त्रचर्चा अत्र दृश्यते । तदपेक्षया स्तोकेन महारहस्यभूतस्य शिवशास्त्रस्यापि इत्य् अलम् अप्रकृतचिन्तनेन । "ब्रह्म" अज्ञानाश्रयविषयीभूतम् शान्तम् चित्तत्त्वम् । "विज्ञानमात्रम्" घटपटादिविषयं निराकारं ज्ञानम् ॥ (मोटी_३,५.६ ॥

यः शून्यवादिनां शून्यं भासको योऽर्कतेजसाम् ।
वक्ता स्मर्ता ऋतं भोक्ता द्रष्टा कर्ता सदैव यः ॥ (मो_३,५.७ ॥

"शून्यम्" सुषुप्तौ अनुभूयमानं न किञ्चित्त्वं । उपलक्षणं चैतत् । तेन सर्वेषां दर्शनानां यत् वस्तु विश्रान्तिस्थानं भवति तद् असाव् एवेति ज्ञेयम् । पुनः कथम्भूतोऽसौ भवतीत्य् । अत्राह "भासक" इति । "यः अर्कतेजसाम्" अर्कादिस्वरूपाणां तेजसां । "भासकः" नेत्राख्याधिष्ठानविशेषाधिश्रयणेन प्रकाशकः भवति । तथा "यः सदा एव" नित्यम् एव । "ऋतम्" सत्यतया । परमार्थतः इति यावत् । "वक्ता स्मर्ता भोक्ता द्रष्टा कर्ता" भवति । समस्तवक्त्राद्यात्मत्वेन स्थितत्वात् । "ऋतम्" इति क्रियाविशेषणम् ॥ (मोटी_३,५.७ ॥

सद् अप्य् असद् यो जगति यो देहस्थोऽपि दूरगः ।
चित्प्रकाशो ह्य् अयं यस्माद् आलोक इव भास्वतः ॥ (मो_३,५.८ ॥

"यः" आत्मा । "सद् अपि" एतावतः जगद्भ्रमस्याधिष्ठानतया स्थितत्वात् सत्स्वरूपम् अपि । "असत्" भवति । बाह्यान्तःकरणागोचरत्वात् । "यः" आत्मा । "देहस्थः अपि" पाषाणरूपस्य देहस्यान्यथा चेष्टाश्रयत्वायोगात् तत्रस्थोऽपि । "दूरगः" भवति । अन्यथाकाशस्थितानां सूर्यादीनां ग्रहणं न स्यात् । "हि" निश्चये । "अयं चित्प्रकाशः" पदार्थचेतनरूपः प्रकाशः । "यस्मात्" भवति । क "इव" । "आलोक इव" । यथा "आलोकः" पदार्थदर्शनम् । "भास्वतः" सूर्याद् । भवति । तथेत्य् अर्थः ॥ (मोटी_३,५.८ ॥

यस्माद् विष्ण्वादयो देवाः सूर्याद् इव मरीचयः ।
यस्माज् जगन्त्य् अनन्तानि बुद्बुदा जलधेर् इव ॥ (मो_३,५.९ ॥

"देवाश्" चाध्यात्मिकाः आधिदैविकाश् चेति द्विविधाः ज्ञेयाः । तत्र आधिदैविकाः प्रसिद्धाः । आध्यात्मिका यथा । मनः ब्रह्मा । बुद्धिः "विष्णुः" । अहङ्कारः रुद्रः । इन्द्रिय्"आदयः" "देवा" इति । "जगन्त्य्" अपि एवं द्विविधानि ज्ञेयानि । तान्य् अपि आधिदैविकानि प्रसिद्धानि । आध्यात्मिकानि तु मानसिकाः सङ्कल्पाः ज्ञेयाः ॥ (मोटी_३,५.९ ॥

यं यान्ति दृश्यवृन्दानि पयांसीव महार्णवम् ।
य आत्मानं पदार्थं च प्रकाशयति दीपवत् ॥ (मो_३,५.१० ॥

"दृश्यवृन्दानि यम्" द्रष्टृरूपम् यं । "यान्ति" यस्मिन् लयीभवन्तीत्य् अर्थः । "यः" शुद्धचित्स्वरूपः यः ।" आत्मानम्" चिन्मात्रस्वरूपम् स्वात्मानम् । तथा "पदार्थं" जातौ एकवचनम् । पदार्थांश् च "दीपवत् प्रकाशयति" प्रकटीकरोति ॥ (मोटी_३,५.१० ॥

आकाशे यः शरीरे च दृशत्स्व् अप्सु लतासु च ।
पांसुष्व् अद्रिषु वातेषु पातालेषु च संस्थितः ॥ (मो_३,५.११ ॥

"यः" आत्मा । "आकाशे शरीरे च" । तथा "दृशत्सु" शिलासु । "अप्सु लतासु च पांसुषु" रजस्सु । "अद्रिषु" पर्वतेषु । "वातेषु पातालेषु च संस्थितः" भवति । उपलक्षणं चैतत् । तेन सर्वत्र स्थावरे स्थित इति ज्ञेयम् । स्थावरेषु स्थितत्वं आत्मनः कथम् अस्तीति चेत् । सत्यम् । सर्वे स्थावराः तावत् विचार्यमाणाः अनिर्वाच्यतायाम् एव विश्राम्यन्ति । अनिर्वाच्यता एव च आत्मनः स्वरूपम् इति न कश्चिद् विरोधः । अथ वा स्थावराः तावत् आत्मयुक्ताः निरात्मकाः वा । निरात्मकत्वे किंरूपत्वं तेषां स्यात् । सात्मकत्वे तु स्फुटम् एव तेष्व् आत्मनः अवस्थानम् इति योज्यम् ॥ (मोटी_३,५.११ ॥

यः प्लावयति संरब्धं पुर्यष्टकम् इतस् ततः ।
येन मूकीकृता मूढाः शिलाध्यानम् इवास्थिताः ॥ (मो_३,५.१२ ॥

"यः" आत्मा । "पुर्यष्टकम्" अन्तःकरणत्रयं तन्मात्रपञ्चकम् इतिस्वरूपं पुर्यष्टकं । अर्थाच् चेतनवर्गम् । "इतः ततः प्लावयति" यत्र तत्र गमयति । चेष्टां कारयतीति यावत् । "मूढाः" जडाः । "येन" सारतया स्थितेन आत्मना । "मूकीकृताः" विमर्शासमर्थाः कृताः सन्तः । "शिलाध्यानम्" शिलावत् ध्यानम् । "आस्थिताः इव" भवन्ति । अत्यन्तजडा इव भवन्तीति यावत् । मूढानाम् अपि परमार्थतः शुद्धचिन्मात्ररूपत्वात् "इव"शब्दप्रयोगः ॥ (मोटी_३,५.१२ ॥

व्योम येन कृतं शून्यं शैला येन घनीकृताः ।
आपो द्रुताः कृता येन दीप्तो यस्य वशाद् रविः ॥ (मो_३,५.१३ ॥

"येन" सर्वशक्तित्वात् निस्तत्त्वरूपताम् आश्रितेन येनात्मना । "व्योम" व्याप्यतया स्थितम् आकाशम् । "शून्यम्" निस्तत्त्वस्वरूपं । "कृतम्" । तथा "येन" मृच्छिलाभावं श्रितेन येनात्मना । "शैलाः" स्वव्याप्याः पर्वताः । "घनीकृताः" निबिडाः सम्पादिताः । तथा "येन" द्रवत्वभावं गतेन येनात्मना । "आपः" स्वव्याप्यानि जलानि । "द्रुताः" द्रवत्वाख्यगुणयुक्ताः । "कृताः" । तथा "रविः" व्याप्यभावेन स्थितः सूर्यः । "यस्य वशात्" दीपनशीलतेजोभावं गतस्य यस्यात्मनः वशेन । "दीप्तो" भवति । उपलक्षणं चैतत् ॥ (मोटी_३,५.१३ ॥

प्रसरन्ति यतश् चित्राः संसारासारवृष्टयः ।
क्षयामृतसम्पूर्णाद् अम्भोदाद् इव वृष्टयः ॥ (मो_३,५.१४ ॥

"अक्षयम्" नाशरहितम् । यत् "अमृतम्" आनन्दरसः । तेन "सम्पूर्णात्" निर्भरात् । "यतः" यस्मात् आत्मनः । "संसारासारवृष्टयः" संसाररूपाः धारासारवृष्टयः । "प्रसरन्ति" सञ्चरं यान्ति । का "इव" । "वृष्टयः इव" । यथा "अक्षयामृतसम्पूर्णात्" अविनाशिजलपूर्णात् । "अम्भोदात्" मेघात् । "वृष्टयः प्रसरन्ति" । तथेत्य् अर्थः ॥ (मोटी_३,५.१४ ॥

आविर्भावतिरोभावमय्यस् त्रिभुवनोर्मयः ।
स्फुरन्त्य् अविरतं यस्मिन् घृणाव् इव मरीचयः ॥ (मो_३,५.१५ ॥

"आविर्भावतिरोभावमय्यः" आविर्भावतिरोभावयुक्ताः । "त्रिभुवनोर्मयः" । "यस्मिन्" अर्थात् समुद्ररूपे । "यस्मिन् अविरतम् स्फुरन्ति" । का "इव" । "मरीचयः इव" । यथा "घृणौ" सूर्ये । "मरीचयः स्फुरन्ति" । तथेत्य् अर्थः ॥ (मोटी_३,५.१५ ॥

नाशरूपोऽविनाशात्मा योऽन्तःस्थः सर्ववस्तुषु ।
गुप्तो यो व्यतिरिक्तोऽपि सर्वभावेषु संस्थितः ॥ (मो_३,५.१६ ॥

"अविनाशात्मा" यथा तथा सम्भावितस्य स्वनाशस्यापि साक्षितया स्थितत्वात् विनाशरहितः । "यः" आत्मा । "नाशरूपः" भवति । नाशभावेनापि स्थितत्वात् । अन्यथा आत्मरहितस्य नाशस्य केन रूपेण भानं स्यात् । तथा "व्यतिरिक्तः अपि" शुद्धचिन्मात्ररूपत्वेन समस्तपदार्थोत्तीर्णस्वरूपः अपि । "यः" आत्मा । "सर्वभावेषु संस्थितः" भवति । सारतया स्थितत्वात् । विरुद्धं च अविनाशिनः विनाशरूपत्वम् सर्वभावव्यतिरिक्तस्य "सर्वभावेषु" संस्थितत्वम् । "यः" आत्मा कथम्भूतः । "सर्ववस्तुषु अन्तःस्थः" । "अन्तः" नियामकत्वेन स्थितः । अत एव "गुप्तः" बहिः अदृश्यः ॥ (मोटी_३,५.१६ ॥

प्रकृतिव्रततिर् व्योम्नि जाता ब्रह्माण्डसत्फला ।
चित्तमूलेन्द्रियदला येन नृत्यति वायुना ॥ (मो_३,५.१७ ॥

"प्रकृतिः" जगन्मूलकारणभूतं किम् अपि तत्त्वम् । सा एव "व्रततिः" लता । "येन वायुना" येनात्मरूपेण वातेन । "नृत्यति" कार्यभावेन परिणामे कर्तृत्वं भजति । अन्यथा कार्यवर्गगतजडत्वान्यथानुपपत्त्या जडरूपायाः तस्याः कार्यभावेन परिणामं प्रति कर्तृत्वायोगात् । "प्रकृतिव्रततिः" कथम्भूता । "व्योम्नि" न किञ्चिद्रूपतया आकाशस्वरूपे चिन्मात्रे । "जाता" प्रादुर्भूता । तथा "ब्रह्माण्डम्" एव "सत्फलं" यस्याः । सा । तादृशी । तथा "चित्तम्" एव "मूलं" यस्याः । सा । तादृशी । तथा "इन्द्रियाण्य्" एव "दलाणि" यस्याः । सा । तादृशी । चित्तमूलत्वेन प्रकृतेः प्रतीतिमात्रसिद्धत्वमात्रम् उक्तम् इति ब्रह्माण्डमूलकारणभूतायाः प्रकृतेः कथं तदन्तर्गतपुरुषचिन्मात्रमूलत्वम् उक्तम् इति न पर्यनुयोज्यम् ॥ (मोटी_३,५.१७ ॥

यश् चिन्मणिः प्रकचति प्रतिदेहसमुद्गकम् ।
यस्मिन्न् इन्दौ स्फुरन्त्य् एता जगज्जालमरीचयः ॥ (मो_३,५.१८ ॥

"चिन्मणिः" चिद् एव मणिः । प्रकाशकत्वात् रत्नम् । तत्स्वरूपः "यः" आत्मा । "प्रतिदेहसमुद्गकम्" सर्वेषु देहसमुद्गेषु । "प्रकचति" जीवभावेन स्फुर-ति । अन्यथा देहान्तर्गतानां जीवानां किंरूपत्वं स्यात् । युक्तं च समुद्गके रत्नप्रकचनम् । "एताः" पुरः दृश्यमानाः । "जगज्जालमरीचयः" । "यस्मिन् इन्दौ स्फुरन्ति" । अन्यथा किमाधारम् आसां भानं स्यात् । न हि निराधारस्य जगज्जालस्य स्फुरणं बुद्धिम् आरोहति । मरीचित्वं च जगज्जालस्य चित्प्रकाशविषयत्वेन चित्प्रकाशतानपायाज् ज्ञेयम् । अचिद्रूपो हि चिद्विषयतायोग्यो न भवति । विरुद्धत्वेन तत्सान्निध्ये तस्य सन्निधानासम्भवात् ॥ (मोटी_३,५.१८ ॥

प्रशान्तचिद्घने यस्मिन् स्फुरन्त्य् अमृतवर्षिणि ।
धाराजलानि भूतानि दृष्टयस् तडितः स्फुटाः ॥ (मो_३,५.१९ ॥

"अमृतवर्षिणि" आनन्दवर्षिणि । "प्रशान्तचिद्घने यस्मिन्" निरपेक्षशुद्धचिदाख्यमेघस्वरूपे यस्मिन् आत्मनि । "भूतानि" समस्ताः पदार्थाः । "धाराजलानि" । "दृष्टयः" तद्विषयाणि ज्ञानानि । "स्फुटाः" प्रकटाः । "तडितः" "स्फुरन्ति" । युक्तं च जलवर्षिणि मेघे धाराजलानां तडितां च स्फुरणम् । आनन्दवर्षित्वं चात्मनः परप्रेमास्पदत्वेन ज्ञेयम् । न हि आनन्दावर्षी परप्रेमास्पदो भवति । आनन्दवर्षिणि पुत्रादौ एव प्रेमास्पदत्वदर्शनात् । आत्मनः परप्रेमास्पदत्वं च सर्वेषु स्वसाक्षिकम् एवेति नायस्तम् ॥ (मोटी_३,५.१९ ॥

चमत्कुर्वन्ति वस्तूनि यदालोकनया मिथः ।
सज् जातम् असद् येन येन सत् सत्त्वम् आगतम् ॥ (मो_३,५.२० ॥

"वस्तूनि" भोक्तृभोग्यरूपाणि भावजातानि । "मिथः" अन्योऽन्यस्मिन् । "यदालोकनया" यद्दर्शनेन । यद्दर्शनभावेनेति यावत् । "चमत्कुर्वन्ति" आनन्दम् अनुभवन्ति । यद्दर्शनम् एव तेषां चमत्कारकारणम् अस्तीति यावत् । मिथ्या इति सामान्याक्षेपेणोक्तम् । अयं भावः । भोक्तारः तावत् इष्टानिष्टान् भोग्यान् अनुभूय भोग्यान्तरनिरपेक्षा जायन्ते । अन्यथा तत्कालं विषयीकृतस्य भोग्यस्य भोगः समाप्तिं न व्रजेत् । तत्कालं भोग्यान्तरनिरपेक्षत्वं च तत्र तेषां चमत्कारानुभवनं विना न सिध्यति । एकस्मिन् विषये अनुभूयमानेन चमत्कारेणैव हि पुरुषः अन्येषु विषयेषु निरपेक्षो भवति । स च चमत्कारः विचार्यमाणः नैरपेक्ष्यकारणत्वात् आत्मस्वरूप एव भवति । परमविश्रान्तिपदस्वरूपस्य आत्मन एव नैरपेक्ष्यकारणत्वात् इति युक्तम् एव भोक्तुः भोग्येषु यद्दर्शनरूपं चमत्कारकारणम् इति । अनुभवमात्रगम्येऽस्मिन् वस्तुनि प्रतिभावद्भिः स्वयम् अपि यतनीयम् इत्य् अलं प्रपञ्चेन । तथा "येन" साक्षितया स्थितेन येनात्मना । "असत्" "असत्" "जातम्" । तथा "येन" तादृशेन येनात्मना । "सत् सत्त्वम् आगतम्" । साक्षिणं विना सदसद्गतयोः सत्त्वासत्त्वयोः असङ्कल्पत्वात् ॥ (मोटी_३,५.२० ॥

चलतीदम् अनिच्छस्य कायायो यस्य सन्निधौ ।
जडं परमरत्नस्य शान्तम् आत्मनि तिष्ठतः ॥ (मो_३,५.२१ ॥

"अनिच्छस्य" इच्छाधारमते रहितत्वात् इच्छारहितस्य । अत एव्"आत्मनि" शान्ते । "तिष्ठतश्" चलनेच्छाख्यक्षोभरहितं तिष्ठतः । "यस्य परमरत्नस्य सन्निधौ जडं" ग्राह्यैकरूपत्वेन अचेतनम् । "इदं कायायः" शरीराख्यम् "अयः" । "चलति" चेष्टां करोति । कायचेष्टाकारणत्वेनाभिमतस्य प्राणस्यापि आत्मशक्तियुक्तत्वेन परमार्थतः कायचलनकारणत्वायोगात् । बाह्यरत्नगतजडत्वराहित्यद्योतनार्थं "परम"पदोपादानम् । युक्तम् च "अयसः" अयस्कान्ताख्यरत्नसन्निधाने चलनम् ॥ (मोटी_३,५.२१ ॥

नियतिर् देशकालौ च चलनं स्पन्दनं क्रियाः ।
इति येन गतं सत्तां सर्वसत्त्वाभिगामिना ॥ (मो_३,५.२२ ॥

"नियतिः" पदार्थेषु नियमादायकः शक्तिविशेषः । "देशः" पदार्थाधारभूतः वस्तुविशेषः । "कालः" सूर्यचाराद्यनुमेयः कलनामात्रस्वरूपः पदार्थपरिवर्तिकारकः कोऽपि वस्तुविशेषः । "चलनम्" सामान्यचलनम् । "स्पन्दनं" क्रियाविषया चेष्टा । "क्रिया" पाकादिरूपं कर्म । उपलक्षणं चैतत् । "इति" एतत् । "सर्वसत्त्वाभिगामिना" समस्तसत्ताविषयपदार्थव्यापकेन । "येना"त्मना । "सत्तां गतम्" । व्यापकेनैव हि व्याप्यं सत्तां लभते ॥ (मोटी_३,५.२२ ॥

शुद्धसंविन्मयत्वाद् यः खं भवेद् व्योमवित्तया ।
पदार्थवित्तयार्थत्वम् अवतिष्ठत्य् अनिष्ठितः ॥ (मो_३,५.२३ ॥

"शुद्धसंविन्मयत्वात्" । "शुद्धा" केनापि रूपेण निष्ठां न गता । या "संवित्" संवेदनं । तत्स्वरूपत्वात् । "अनिष्ठितः" केनापि रूपेण निष्ठां न गतः । "यः" । "व्योमवित्तया" व्योमाहम् इति संविद्युक्तत्वेन । "खं" व्योम । भवति । पदार्थाभावरूपं भवतीत्य् अर्थः । "पदार्थवित्तया" पदार्थोऽहम् इति संविद्युक्तत्वेन । "अर्थत्वम्" पदार्थभावम् । "अवतिष्ठति" आश्रयति । उपसर्गसामर्थ्यात् "तिष्ठतेर्" आश्रयणम् अर्थः । घटत्वे निष्ठितः घटः पटतां न यातीति "अनिष्ठित" इत्य् उक्तम् ॥ (मोटी_३,५.२३ ॥

सर्गान्तश्लोकेनात्ममाहात्म्यवर्णनं समापयति

कुर्वन्न् अपीव जगतां महताम् अनन्त-
स्पन्दं न किञ्चन करोति कदाचनापि ।
स्वात्मन्य् अनस्तमयसंविदि निर्विकारे
त्यक्तोदयस्थितिमतिः स्थित एक एव ॥ (मो_३,५.२४ ॥


"य" इति शेषः । यः आत्मा "महताम् जगताम् अनन्तस्पन्दम् कुर्वन् अपि इव" जगत्प्रादुर्भावान्यथानुपपत्त्या महाजगद्विषयम् "अनन्तं स्पन्दं" "कुर्वन्न् अपीव" । "कदाचन किञ्चन न करोति" अतिशुद्धेन कर्तृत्वाभिमानाभावात् । अन्यथा "इव"शब्दप्रयोगायोगात् । यः कथम्भूतः । "अनस्तमयसंविदि" । "अनस्तमया" यथा तथा कल्पितस्य स्वास्तमयस्यापि साक्षित्वेनावस्थानात् परमार्थतः अस्तमयरहिता । या "संवित्" । तत्स्वरूपे । तथा "निर्विकारे" रागद्वेषादिरूपेभ्यः विकारेभ्यः निष्क्रान्ते । "स्वात्मनि" स्वस्वरूपे । "स्थितः" । पुनः कथम्भूतः । "त्यक्ता उदयस्थित्योः" जगद्विषयोः उदयस्थित्योः । "मतिः" येन । सः । तादृशः । जगतः उदये स्थितौ अर्थात् संहारे च निरपेक्ष इत्य् अर्थः । इति शिवम् ॥ (मोटी_३,५.२४ ॥

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायाम् उत्पत्तिप्रकरणे पञ्चमः सर्गः ॥ ३,५ ॥



ओं एवं परमात्मनः स्वरूपं माहात्म्यं च प्रतिपाद्य श्रीरामं तत्प्राप्तिं प्रति त्वरमाणं ज्ञात्वा सुगमं तत्प्राप्त्युपायं कथयति

स्य देवातिदेवस्य परस्य परमात्मनः ।
ज्ञानाद् एव परा सिद्धिर् न त्व् अनुष्ठानखेददा ॥ (मो_३,६.१ ॥

"अस्य" प्रोक्तस्वरूपस्य । "देवातिदेवस्य" निरतिशयक्रीडाशीलस्य द्योतनशीलस्य च निरतिशय"परमात्मनः" । "ज्ञानाद् एव" ज्ञानाख्याद् उपायाद् एव । "सिद्धिः" प्राप्तिरूपा सिद्धिः । भवति । "अस्य सिद्धिः अनुष्ठानखेददा" । "अनुष्ठानेन" यः "खेदः" । तं द"दा"तीति तादृशी । "न" भवति ॥ (मोटी_३,६.१ ॥

नन्व् अनुष्ठानं विना कथं युक्तता स्याद् इत्य् । अत्राह

त्र ज्ञानम् अनुष्ठानं न त्व् अन्यद् उपयुज्यते ।
मृगतृष्णाजलभ्रान्तिशान्तिवेदनरूपि तत् ॥ (मो_३,६.२ ॥

"अत्र" अस्यां आत्मप्राप्तिरूपायां सिद्धौ । "ज्ञानम् अनुष्ठानं" सिद्धेः कार्यसाधकः प्रयत्नः । भवति । "अन्यत्" ज्ञानाख्यानुष्ठानव्यतिरिक्तं कायव्यापाराख्यं । "अनुष्ठानं नोपयुज्यते" । "तत्" ज्ञानम् । "मृगतृष्णायां" या "जलभ्रान्तिः" । तस्याः "शान्तिः" । येन । तत् । तादृशं यत् "वेदनम्" । तद्वत् "रूपम्" । अस्यास्तीति तादृशं भवति । सम्यग्ज्ञानरूपं भवतीत्य् अर्थः ॥ (मोटी_३,६.२ ॥

नन्व् ईदृशोऽसाव् आत्मा कुत्र तिष्ठतीत्य् । अत्राह

न चैष दूरे नाकाशे नालभ्यो विषमो न च ।
स्वानन्दभासरूपोऽसौ स्वदेहाद् एव लभ्यते ॥ (मो_३,६.३ ॥

"एषः" आत्मा । "दूरे न च" भवति । स्वशरीरान्तर्वर्तित्वात् । एतेन दूरस्थमहातीर्थाश्रयत्वशङ्का निवारिता । "एषः" आत्मा । "आकाशे न" भवति । एतेन उपरिस्थभुवनाश्रयत्वशङ्का निवारिता । "एषः" आत्मा । "अलभ्यः" लब्धुम् अशक्यः । "न" भवति । सदा लब्धत्वात् । अन्यथा आत्मत्वायोग्यत्वात् । एतेन दुर्लभत्वशङ्का निवारिता । "एषः" आत्मा । "विषमः" कठिनः । "न च" भवति । परप्रेमास्पदत्वात् । न हि कठिने प्रेमास्पदत्वं युक्तम् । परत्वविशेषितस्य तु प्रेम्नः का कथा । एतेन ऐश्वर्यलेशमदग्रस्तराजादिवत् क्रौर्याशङ्का निवारिता । पुरुषेण "स्वानन्दभासरूपः" भोगादिविषयनिरपेक्षस्वयम्भातानन्दप्रतिभासस्वरूपः । "असौ" आत्मा । "स्वदेहाद् एव" "लभ्यते" । "स्वानन्दभासरूप" इत्य् अनेन विषमत्वनिरासः । "स्वदेहाद्" इत्य् अनेन दूरस्थत्वाकाशस्थत्वयोः निरासः । "लभ्यते" इत्य् अनेन अलभ्यत्वनिरासः ॥ (मोटी_३,६.३ ॥

ननु तपःप्रभृतिनापि केचिद् आत्मप्राप्तिं कथयन्तीत्य् । अत्राह

किञ्चिन् नोपकरोत्य् अत्र तपोदानव्रतादिकम् ।
स्वभावमात्रविश्रान्तिम् ऋते नात्रास्ति साधनम् ॥ (मो_३,६.४ ॥

"अत्र" अस्यां आत्मप्राप्तिरूपायां सिद्धौ । "तपोदानव्रतादिकम् किञ्चित् नोपकरोति" लेशेनापि उपकारं न करोति । बाह्याङ्गत्वेन आरादुपकारकत्वात् । तपःप्रभृतिना हि सत्त्वशुद्धिर् एव भवति । नात्मप्राप्तिः । "अत्र" अस्यां आत्मप्राप्तौ । "स्वभावविश्रान्तिम् ऋते" स्वरूपविश्रान्तिं विहाय । "साधनं न" भवति ॥ (मोटी_३,६.४ ॥

स्वभावविश्रान्तौ असमर्थान् प्रति उपायं कथयति

शास्त्रसत्सङ्गसद्योगिपरतैवात्र केवलम् ।
साधनं बोधनं मोहजालस्य यद् अकृत्रिमम् ॥ (मो_३,६.५ ॥

"अत्र" अस्याम् आत्मप्राप्तौ । "शास्त्रं" च अध्यात्मशास्त्रं । तच् च "सत्सङ्गसद्योगिनः" च "शास्त्रसत्सङ्गसद्योगिनः" । तत्र "परता" एकनिष्ठत्वम् । "एव" । न तु तपःप्रभृतिकम् । "साधनं" उपायः । भवति । "साधनं" किं । "यत् मोहजालस्य" जगति जगत्त्वज्ञानाख्यस्य मिथ्याज्ञानप्रपञ्चस्य । लक्षणया जगति जगत्त्वज्ञानाख्यस्य मोहजालयुक्तस्य पुरुषस्य्"आकृत्रिमं" सहजं । "बोधनं" ब्रह्मैवेदम् इत्य् । एवंबोधकारि भवति ॥ (मोटी_३,६.५ ॥

शास्त्रादिपरताफलभूतस्यात्मविश्रान्तिम् प्रति साधनभूतस्य मुख्यम् उपायत्वं कथयति

यं स देव इत्य् एव सम्परिज्ञानमात्रतः ।
जन्तोर् न जायते दुःखं जीवन्मुक्तत्वम् एति च ॥ (मो_३,६.६ ॥

"अयम्" अहन्तया इदन्तया च पुरःस्फुरणशीलः अहङ्कारादिकः संसारः । "सः" सर्वेषां परमार्थतः आत्मभावेन स्थितत्वात् प्रसिद्धः । "देवः" द्योतनशीलं क्रीडाशीलं च चित्तत्त्वं भवति । "इत्य् एव" एतावन्मात्रेणैव । "सम्परिज्ञानमात्रतः" सम्यग्ज्ञानमात्रेण । "जन्तोः दुःखं न जायते" । प्रवाहागतस्य दुःखस्यापि चिन्मात्रत्वज्ञानात् । सः जन्तुः "जीवन्मुक्तत्वं चैति" प्राप्नोति । शरीरसान्निध्येऽपि मुक्तत्वात् ॥ (मोटी_३,६.६ ॥

साधनभावेन प्रसिद्धस्य तपःप्रभृतिकस्यासाधनत्वम् असहमानः आत्मनः सुलभत्वे निकटवर्तित्वे च सन्दिहानश् च श्रीरामः पृच्छति

सम्परिज्ञातमात्रेण किलानेनात्मनात्मनि ।
पुनर् दोषा न बाधन्ते मरणाद्याः कदाचन ॥ (मो_३,६.७ ॥

"आत्मनि" स्वस्मिन् । "सम्परिज्ञातमात्रेण" अहमादिजगदधिष्ठानतया सम्यङ्निश्चितेन । "अनेन आत्मना मरणाद्याः दोषाः न बाधन्ते" । न हि चिन्मात्रतां गतस्य देहगताः "मरणाद्याः" बाधां कर्तुं समर्थाः भवन्ति ॥ (मोटी_३,६.७ ॥
तर्हि ज्ञातज्ञेयत्वेन मौनम् एव कुर्व् इत्य् । अत्राह

देवदेवो महान् एष कुतो दूराद् अवाप्यते ।
तपसा केन तीव्रेण क्लेशेन कियताथ वा ॥ (मो_३,६.८ ॥

अस्माभिः "एषः देवदेवः कुतः दूरात्" कियतः दूरात् । "अवाप्यते" । तथा "केन तीव्रेण तपसा अवाप्यत अथ वा कियता क्लेशेन" प्राणरोधनादिरूपेण क्लेशेन । "अवाप्यते" । न हि ईदृशस्य देवदेवस्य तपआदिकं प्राणरोधनादिकं च विना प्राप्तिः युज्यते । सर्वेषां तत्प्राप्तिप्रसङ्गात् । न हि सर्वे तत्प्राप्तिभाजः दृश्यन्ते । न चानवाप्तस्य ज्ञानविषयत्वं युक्तं । प्राप्तस्य घटादेर् एव तद्विषयतादर्शनाद् इति भावः ॥ (मोटी_३,६.८ ॥

श्रीवसिष्ठः उत्तरं कथयति

स्वपौरुषप्रयत्नेन विवेकेन विकासिना ।
स देवो ज्ञायते राम न तपस्स्नानकर्मभिः ॥ (मो_३,६.९ ॥

हे "राम" । "स्वपौरुषप्रयत्नेन" निजमानसिकपौरुषाख्यप्रयत्नस्वरूपेण । तथा "विकासिना" विकासयुक्तेन विचारेण । कोऽहम् इदं जगच् च किम् इत्य् एवंरूपेण "विवेकेन" । पुरुषेण "स देवः ज्ञायते" । "तपःस्नानकर्मभिः न ज्ञायते" । चित्तादिशोधनमात्रपरत्वात् तेषाम् । "ज्ञायते" इत्य् अनेन ज्ञानमात्रम् एवात्र साधनीयं । नावाप्तिः । न हि पुरःस्थायां शुक्तौ रजतभ्रमयुक्तस्य शुक्त्यवाप्तिं काङ्क्षमाणस्यापि शुक्त्यवाप्तिः सधनीया । शुक्तिर् एवेयम् इत्य् एवंरूपस्य ज्ञानमात्रस्यैव साधनीयत्वात् इति द्योतितम् । "कुतो दूराद्" इत्य् अस्यात्यन्तासङ्गतत्त्वेनोत्तराकथनम् ॥ (मोटी_३,६.९ ॥

रागादियुक्तस्य तपआदेः स्फुटम् एव असाधनत्वम् । तद्रहितस्य तु साधनत्वेऽपि रागादिराहित्यस्यैव साधनत्वं युक्तम् इत्य् अभिप्रायेणाह

रागद्वेषतमःक्रोधमदमात्सर्यवर्जनम् ।
विना राम तपोदानं क्लेश एव न वास्तवम् ॥ (मो_३,६.१० ॥

तपश् च दानं च तत् "तपोदानं" । "वास्तवम्" सहजभावकृतं ॥ (मोटी_३,६.१० ॥

रागाद्युपहते चित्ते वञ्चयित्वा परं धनम् ।
यद् अर्ज्यते ततो दानाद् यस्यार्थस् तस्य तत् फलम् ॥ (मो_३,६.११ ॥

"ततः" तस्य धनस्य । सार्वविभक्तिकः तसिल् ॥ (मोटी_३,६.११ ॥

रागाद्युपहते चित्ते व्रतादि क्रियते च यत् ।
स दम्भः प्रोच्यते तस्य फलम् अस्ति मनाङ् न वा ॥ (मो_३,६.१२ ॥

"वा"शब्दः पक्षान्तरे ॥ (मोटी_३,६.१२ ॥

फलितं कथयति

तस्मात् पुरुषयत्नेन मुख्यम् औषधम् आहरेत् ।
सच्छास्त्रसज्जनासङ्गं संसृतिव्याधिनाशने ॥ (मो_३,६.१३ ॥

"आहरेत्" अर्जयेत् । कुर्याद् इति यावत् । "संसृतिव्याधिनाशने" संसृत्याख्यव्याधिनाशनार्थम् ॥ (मोटी_३,६.१३ ॥

त्रैकं पौरुषं यत्नं वर्जयित्वेतरा गतिः ।
सर्वदुःखक्षयप्राप्तौ न काचिद् उपपद्यते ॥ (मो_३,६.१४ ॥

"अत्रा"स्याम् आत्मप्राप्तौ । "पौरुषं यत्नम्" सच्छास्त्रविचारादिरूपं । "गतिः" उपायः । "सर्वदुःखक्षयप्राप्तौ" समस्तदुःखक्षयप्राप्तिरूपायां ॥ (मोटी_३,६.१४ ॥

ननु तत् पौरुषं कीदृग् अस्तीत्य् । अत्राह

शृणु तत् पौरुषं कीदृग् आत्मज्ञानस्य लब्धये ।
येन शाम्यन्त्य् अशेषेण रागद्वेषविषूचिकाः ॥ (मो_३,६.१५ ॥

त्वं "शृणु" । "कीदृक्" कीदृशं । "तत् पौरुषं आत्मज्ञानस्य लब्धये" भवति । "येन" पौरुषेण । "रागद्वेषविषूचिकाः अशेषेण शाम्यन्ति" । अन्यथा आत्मज्ञानलब्धिहेतुत्वं तस्य न स्याद् इति भावः ॥ (मोटी_३,६.१५ ॥

प्रतिज्ञातं पौरुषस्वरूपकथनम् एव करोति

यथासम्भवया वृत्त्या लोकशास्त्राविरुद्धया ।
सन्तोषसन्तुष्टमना भोगगर्धं परित्यजन् ॥ (मो_३,६.१६ ॥
यथासम्भवम् उद्योगाद् अनुद्विग्नतया स्वया ।
साधुसङ्गमसच्छास्त्रपरतां प्रथमं श्रयेत् ॥ (मो_३,६.१७ ॥

"यथासम्भवया" सम्भवानुसरिण्या । न तु प्रयत्नसाधितया । "वृत्त्या" जीविकया । "भोगगर्धं" भोगलोभम् ॥ (मोटी_३,६.१६-१७ ॥

यथाप्राप्तार्थसन्तुष्टो यो गर्हितम् उपेक्षते ।
साधुसङ्गमसच्छास्त्ररतः शीघ्रं स मुच्यते ॥ (मो_३,६.१८ ॥

"गर्हितम्" अन्यायागतम् धनादिकम् ॥ (मोटी_३,६.१८ ॥

ननु कथं "सः शीघ्रं मुच्यते" इत्य् । अत्राह

विचारणापरिज्ञातस्वभावस्य महामतेः ।
नुकम्प्या भवन्त्य् एते ब्रह्मविष्ण्विन्द्रशङ्कराः ॥ (मो_३,६.१९ ॥

"विचारणया" साधुसङ्गादिप्रभावसिद्धेन विचारेण । "परिज्ञातः" देहादिव्यतिरिक्तत्वेन निश्चितः । "स्वभावः" स्वरूपं । येन । सः । तादृशस्य "महामतेः" बुद्धियुक्तस्य पुरुषस्य । "एते ब्रह्मविष्ण्विन्द्रशङ्कराः अनुकम्प्याः" । कीदृशाः । एषां जगज्जननादिव्यापारपरतारूपा विपद् अस्तीत्य् एवंरूपानुकम्पाविषयाः "भवन्ति" । किम् उ वक्तव्यं तस्य शीघ्रं मोक्षः कथं स्याद् इति भावः ॥ (मोटी_३,६.१९ ॥

ननु प्रथमं तावत् त्वया साधुसङ्गतिर् एवोपायत्वेनोक्ता । स साधुर् एव कः स्याद् यस्य सङ्गतिः क्रियते इत्य् । अत्राह

भृशं यं सुजनप्रायं लोकाः साधुं प्रचक्षते ।
स विशिष्टः स साधुः स्यात् तं प्रयत्नेन संश्रयेत् ॥ (मो_३,६.२० ॥

"सुजनप्रायम्" बाहुल्येन सुजनम् । "प्राय"पदेनासाधुत्वेऽपि । प्रयोजनवशाद् बान्धवैः उक्तसुजनत्वे पुरुषे साधुत्वेऽपि परनिन्दैकरसिकखलजनप्रोक्तासाधुजनत्वे पुरुषे साधुत्वासाधुत्वयोः निरासः ॥ (मोटी_३,६.२० ॥

साधुनिर्णयं कृत्वा शास्त्रनिर्णयं करोति

ध्यात्मविद्या विद्यानां प्रधानं तत्कथाश्रयम् ।
शास्त्रं सच्छास्त्रम् इत्य् आहुर् मुच्यते तद्विचारवान् ॥ (मो_३,६.२१ ॥

"विद्यानाम्" समस्तज्ञानानां मध्ये । "अध्यात्मविद्या" आत्मज्ञानं । "प्रधानं" भवति । अतः पण्डिताः "तत्कथाश्रयम्" अध्यात्मविद्याकथावाचकम् । "शास्त्रम् सच्छास्त्रम् इत्य् आहुः" । "तद्विचारवान्" प्रोक्तसच्छास्त्रविचारयुक्तः पुरुषः । "मुच्यते" संसारकृतात् बन्धनात् मुक्तो भवति । अतः अध्यात्मशास्त्रम् एवात्रोपयुक्तम् अस्तीति भावः ॥ (मोटी_३,६.२१ ॥

सच्छास्त्रादेः उत्पन्नस्य विवेकस्य मुख्योपायत्वं सर्गान्तश्लोकेन स्फुटीकृत्य कथयति

सच्छास्त्रसत्सङ्गमजैर् विवेकैस्
तथा विनश्यन्ति बलान् मलानि ।
यथा जलानां कतकानुषङ्गाद्
यथा जडानाम् अभयोपयोगात् ॥ (मो_३,६.२२ ॥

"मलानि" रागादिरूपाणि । जनपक्षे रजोरूपाणि । "कतकम्" जलशुद्धिकारी द्रव्यविशेषः । द्वितीयं दृष्टान्तं कथयति । "यथा जडानाम्" इति । "जडानां" स्वविवेकहीनानाम् । "अभयोपयोगात्" । "अभयेन" केनचिद् दत्तेनाभयेन । कृतः यः "उपयोगः" समाश्वासनाख्यः उपयोगः । तस्मात् "मलानि" रज्जुसर्पादिकृतभयरूपाणि मलानि । "विनश्यन्ति" । तथेत्य् अर्थः । विवेकिनां अभयं स्वविचारेण विनश्यन्तीति "जडानाम्" इत्य् उक्तम् । इति शिवम् ॥ (मोटी_३,६.२२ ॥


इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायाम् उत्पत्तिप्रकरणे षष्ठः सर्गः ॥ ३,६ ॥



दूरदेशगमनं उपायजालप्रयोगं च विनात्मावाप्तिम् अमन्यमानः श्रीरामः पुनर् अपि पूर्वोक्तम् एव प्रश्नं करोति

य एष देवः कथितो यस्मिञ् ज्ञाते विमुच्यते ।
वद क्वासौ स्थितो देवः कथम् एनम् अहं लभे ॥ (मो_३,७.१ ॥

त्वया "यः एषः देवः कथितः" । तथा "यस्मिन्" देवे । "ज्ञाते" सति । पुरुषेण "विमुच्यते" मुक्तिः प्राप्यते । त्वम् "वद" । "असौ" "देवः" "क्व स्थितः" भवति । "अहम् एनम्" अमुं देवं । "कथम्" कैः उपायैः । "लभे" प्राप्नोमि ॥ (मोटी_३,७.१ ॥

श्रीवसिष्ठः उत्तरं कथयति

य एष देवः कथितो नैष दूरेऽवतिष्ठते ।
शरीरे संस्थितो नित्यं चिन्मात्रम् इति विश्रुतः ॥ (मो_३,७.२ ॥

मया "यः एषः देवः कथितः" । "एषः दूरे" दूरदेशे । "नावतिष्ठते" । यतः "चिन्मात्रम् इति विश्रुतः" प्रसिद्धः । एषः "नित्यं शरीरे स्थितः" भवति । अन्यथा पाषाणतुल्यस्य शरीरस्यापि मृतशरीरवत् चेष्टाश्रयत्वं न स्यात् । न च शरीरस्थस्य दूरस्थत्वं वक्तुं युक्तं । स्वहस्तयोर् अपि दूरस्थत्वासंयोगात् इति भावः ॥ (मोटी_३,७.२ ॥

ननु तर्हि देहपरिमाणः एवासौ स्यात् । तथा च देहवद् अनित्यत्वम् अप्य् अस्य स्याद् इत्य् । अत्राह

एष सर्वम् इदं विश्वं न विश्वं त्व् एष सर्वगः ।
विद्यते ह्य् एष एवैको न तु विश्वाभिधास्ति दृक् ॥ (मो_३,७.३ ॥

"एषः" आत्मा । "सर्वम् इदम् विश्वम्" सर्वम् इदं जगत् । भवति । "सर्वं" सारत्वेन स्थितत्वात् । "तु" पक्षान्तरे । "सर्वगः" स च सारत्वेन सर्वपदार्थगः । "एषः विश्वं न" भवति । "हि" यस्मात् । "एष एक एव विद्यते" । "विश्वाभिधा दृक्" विश्वनामा दृष्टिः । विश्वम् इति यावत् । "न अस्ति" । भासमानस्यापि विश्वस्य तद्दृष्ट्या एतद्रूपत्वानपायात् । न हि तरङ्गाक्रान्ते जले तरङ्गाभिधा दृक् भवति । भासमानेष्व् अपि तरङ्गेषु विवेकिजनदृष्ट्या जलत्वानपायात् ॥ (मोटी_३,७.३ ॥

ननु शशिभृदादयोऽपि महादेवतास्वरूपाः सन्त्य् । तत् कथम् त्वया "विद्यते ह्य्" "एष एवैक" इत्य् उक्तम् इत्य् । अत्राह

चिन्मात्रम् एष शशिभृच् चिन्मात्रं गरुडध्वजः ।
चिन्मात्रम् एव तपनश् चिन्मात्रं कमलोद्भवः ॥ (मो_३,७.४ ॥

"एषः" सृष्टिसंहारकत्वेन प्रसिद्धः । "शशिभृत्" श्रीमहादेवः । "चिन्मात्रं" भवति । ननु कथम् एतद् इति चेत् । सत्यं । "शशिभृत्" सचेतनोऽस्ति चेतनारहितो वा । अचेतनत्वे पाषाणरूपस्य तस्य जगद्गतस्यावरतुल्ययोगक्षेमत्वम् एव । सचेतनत्वे तु स्फुटम् चिन्मात्रम् एव तद्भावेन स्फुरति । ननु तर्हि शशिभृत्कीटयोः समत्वम् एव स्याद् इति चेत् । केनोक्तं नास्तीति । ननु कार्यविलक्षणतादर्शनाद् भेदः कल्प्यते । अयुक्तम् एव कल्प्यते । न हि अग्निकणमहाग्निचययोः कार्यवैलक्षण्येन भेदः कल्पयितुं युक्तः । ननु अग्निकणमहाग्निचययोः कार्यवैलक्षण्यं नास्ति दाहाख्यस्यैकस्य कार्यस्य दर्शनात् इति चेत् । शशिभृत्कीटयोर् अपि । किंरूपं कार्यवैलक्षण्यम् अस्ति ज्ञानक्रियायाः करणक्रियायाश् चैकत्वात् । यस् तु बह्वल्पताकृतो भेदः अस्ति । सः दृष्टान्तेऽप्य् अस्तीति न कोऽपि विरोधः । एवम् अन्यत्रापि योज्यम् । "गरुडध्वजः" स्थित्यधिकारी । "तपनः" ब्रह्माण्डगतवस्तुपाककारी सूर्यः । "कमलोद्भवः" सर्गाधिकारी श्रीब्रह्मा । आभ्यन्तरार्थविवक्षायां "शशिभृत्" अहङ्कारः । "गरुडध्वजः" बुद्धिः । "तपनः" प्राणः । "कमलोद्भवः" मनः । इति योज्यम् ॥ (मोटी_३,७.४ ॥

श्रीरामः पृच्छति

बाला अपि वदन्त्य् एतद् यदि चेतनमात्रकम् ।
जगद् इत्य् एव केवात्र नाम स्याद् उपदेशता ॥ (मो_३,७.५ ॥

"यदि जगत् चेतनमात्रकम्" भवति । "इत्य् एव" भवति । एतद् एव सत्यं भवतीति यावत् । तदा "बाला अपि एतत् वदन्ति" । सर्वे एव हि चेतनापरपर्यायजीवमयं "जगत्" कथयन्ति । अतः "अत्र उपदेशता नाम का स्यात्" । अज्ञातज्ञापनस्यैवोपदेशत्वात् । अत्र "बाला" इत्य् अनेन विज्ञानवादिनां बौद्धानां ग्रहणम् । ते एव हि विज्ञानापरपर्यायस्य चेतनस्यात्मत्वं कथयन्ति ॥ (मोटी_३,७.५ ॥

श्रीवसिष्ठः उत्तरं कथयति

चिन्मात्रं चेतनं विश्वम् इति यज् ज्ञातवान् असि ।
न किञ्चिद् एतद् विज्ञातं भवता भवतारणम् ॥ (मो_३,७.६ ॥

"चेतनं चिन्मात्रं" चेतनाख्यं चिन्मात्रम् । "विश्वं" भवति । "इति" एवम् । "असि" त्वम् । "यत् ज्ञातवान्" । "भवता एतत् किञ्चित्" लेशेनापि । "भवतारणम्" संसारात् तारकं । "न विज्ञातम्" । चिन्मात्रपदार्थानभिज्ञत्वात् । चिन्मात्रपदार्थज्ञानमात्रेणैव हि च संसारः नश्यति ॥ (मोटी_३,७.६ ॥

कथम् एतद् इत्य् । अत्राह

चेतनं नाम संसारो जीव एष पशुः स्मृतः ।
एतस्माद् एव निर्यान्ति जरामरणवीचयः ॥ (मो_३,७.७ ॥

"नाम" निश्चये । "चेतनं संसारः" भवति । चिन्मात्रस्थस्य चेत्यौन्मुख्यस्यैव चेतनत्वात् चेत्यौन्मुख्यस्यैव च संसारत्वात् । "संसारो" हि संसरणम् उच्यते । संसरणं च स्वस्थानात् उत्थानं । चिन्मात्रस्य च चेत्यौन्मुख्यसमये शुद्धचिन्मात्रतारूपात् स्वस्थानात् उत्थानं भवत्य् एवान्यथा चेत्यौन्मुख्यत्वं नाम किं स्यात् । पण्डितैः "एषः" चेतनरूपः संसारः । "पशुः" स्वरूपज्ञानरहितत्वेन पशुतुल्यः । "जीवः स्मृतः" । जीवनक्रियाकर्ता हि "जीवः" उच्यते । "चेतनं" च जीवनम् एव । अतः तद्वति तदुपचारात् चेतनस्यैव जीवत्वम् भवति । तद्वति तदुपचाराश्रयणं त्व् अत्र परमार्थतः शुद्धचिन्मात्ररूपस्य जीवस्य जीवत्वे जीवनक्रियाव्यतिरिक्तसाधनान्तरबुद्धिनिरासार्थं कृतम् । ननु ततोऽपि किम् इत्य् । अत्राह्"ऐतस्माद् एवे"ति । "जरामरणवीचयः" शरीरादिगताः जरामरणतरङ्गाः । "एतस्माद् एव" अस्माच् चेतनात् एव । "निर्यान्ति" निर्गच्छन्ति । प्रादुर्भवन्तीति यावत् । स्वप्नद्रष्टरि न स्वप्नशरीरगताः जरामरणवीचय इति भावः ॥ (मोटी_३,७.७ ॥

पुनर् अप्य् एतद् एव कथयति

पशुर् अज्ञो ह्य् अमूर्तोऽपि दुःखस्यैवैष भाजनम् ।
चेतनत्वाच् चेततीदम् अत्यनर्थः स्वयं स्थितः ॥ (मो_३,७.८ ॥

"अमूर्तः" स्थूलसूक्ष्मशरीरव्यतिरिक्तः । तथा "दुःखस्यैव" स्वयम् उत्पाद्यमानप्रपञ्चरूपस्य दुःखस्यैव । "भाजनं" पात्रभूतः । तद्रूपतया शुद्धचिन्मात्रात् उत्थानात् । अन्यथा उत्थानस्यापि व्यर्थत्वात् । तथा "अज्ञः" शुद्धचिन्मात्राख्यस्वस्वरूपपरामर्शहीनः । अत एव "पशुः" "अपि" पशुतुल्योऽपि सन् । "एषः" जीवः । "चेतनत्वात्" चेतनमात्रस्वरूपत्वात् । "इदम्" अग्रे स्फुरत्स्वरूपम् अहङ्कारादिकं जगत् । "चेतति" स्वस्फूर्तिविषयं करोति । चेतनस्य ह्य् एतद् एव चेतनत्वं यत् किञ्चिच् "चेतती"ति "चेतनत्वाद्" इत्य् उक्तम् । ननु तच्चेतनेन किं सम्पन्नम् इत्य् । अत्राह्"आती"ति । ततः "अत्यनर्थः" जगद्रूपः महान् अनर्थः । "स्वयं" तदिच्छां विना । "स्थितः" प्रादुर्भूतः । अत्र च स्वप्नस्य दृष्टान्तत्वं स्फुटम् एवेति नायस्तम् ॥ (मोटी_३,७.८ ॥

नन्व् अस्य चेतनस्येदं दुःखं किं कदाचिच् छ्राम्येद् अपीत्य् । अत्राह

चेत्यनिर्मुक्तता या स्याद् अचेत्योन्मुखताथ वा ।
स्य सा भरितावस्था तां ज्ञात्वा नानुशोचति ॥ (मो_३,७.९ ॥

"चेत्यात् निर्मुक्तता" प्रथमं स्वातन्त्र्येण चेत्याभिमुखीभूय ततः विचारद्वारेण ततः निष्क्रान्तिः । "या" भवति । "अथ वा अचेत्योन्मुखता" चेत्यानौन्मुख्यम् एव । "या" भवति । "अस्य" चेतनस्य । "सा भरितावस्था" पूर्णावस्था । भवति । स्वरूपभूतेन चिन्मात्रत्वेन पूर्णत्वात् । "तां" भरितावस्थां । "ज्ञात्वा" परमार्थस्वरूपत्वेन निश्चित्य । "नानुशोचति" संसाराख्यदुःखभाक् न भवति । भरितावस्थानेन स्वस्मिन् स्थितायाः चेतनतायाः असत्यत्वज्ञानेन तदुक्ते दुःखेऽप्य् असत्यत्वज्ञानात् । अत्र च "चेत्यनिर्मुक्तता" जीवन्मुक्ततावस्थायां भवति । "अचेत्योन्मुखता" विदेहमुक्ततावस्थायाम् इति विभागो ज्ञेयः ॥ (मोटी_३,७.९ ॥

ननु तदा अस्य चेतनस्य कीदृशी अवस्था भविष्यतीत्य् । अत्राह

भिद्यते हृदयग्रन्थिश् छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परापरे ॥ (मो_३,७.१० ॥

"तस्मिन्" सर्वात्मत्वेन स्थितत्वात् प्रसिद्धे । "परापरे" पररूपचिन्मात्रापररूपचेतनस्वरूपे महाचिन्मात्रे । "दृष्टे" परमार्थतः आत्मभावेन निश्चिते सति । अस्यां भरितावस्थायां ज्ञातायाम् इति यावत् । "अस्य" चेतनस्य । "हृदयग्रन्थिः" भोगादिविषया । "भिद्यते" नश्यते । तृप्तत्वात् । तथा "सर्वसंशयाः" पदार्थस्वरूपविषयाः सर्वे सन्देहाः । "छिद्यन्ते" । चिन्मात्रसारतानिश्चयात् । तथा "कर्माणि" शरीरयात्रानिमित्तं कृतानि कर्माणि । "क्षीयन्ते" । लेपानादायकत्वात् ॥ (मोटी_३,७.१० ॥

ननु तर्हि अत्यन्तोपादेयभूतं अचेत्योन्मुखत्वम् एवाहं साधयामीत्य् । अत्राह

तस्य चेत्योन्मुखत्वं तु चेत्यासम्भवनं विना ।
रोद्धुं न शक्यं दृश्यं तु चेत्यं शाम्यतु वै कथम् ॥ (मो_३,७.११ ॥

"तस्य" चेतनस्य । "चेत्योन्मुखत्वम्" चेतनत्वापादकं चेत्यौन्मुख्यम् । "चेत्यासम्भवनं विना रोद्धुं शक्यं न" भवति । न हि तूलपिण्डे पतितः अग्निः शान्तो भवति । ननु तर्हि चेत्यम् एव नाशयामि इत्य् । अत्राह "चेत्यम्" इति । "दृश्यं" दृश्यस्वरूपं चेत्यम् । "कथं शाम्यतु" । न शाम्यत्य् एव सतः नाशायोगात् । अयं भावः । चेत्यं यदि अस्ति तर्हि कथं शाम्येत् । यदि नास्ति तदा चेत्यानौन्मुख्यं स्वयम् एव सिद्धं भवतीति । न तदाहरणे ज्ञानमात्रं विना प्रयत्नो युक्तः । न हि वन्ध्यापुत्रनाशचिन्ता केनापि क्रियते इति ॥ (मोटी_३,७.११ ॥

अत्र श्रीरामः पृच्छति

साधुसङ्गमसच्छास्त्रैः संसारार्णवतारकः ।
दृश्यते परमात्मा यः स ब्रह्मन् वद कीदृशः ॥ (मो_३,७.१२ ॥

हे "ब्रह्मन्" । पुरुषेण "साधुसङ्गमसच्छास्त्रैः" । "संसार" एव दुर्लङ्घ्यत्वेन "अर्णवः" । तस्मात् "तारकः" । "यः परमात्मा दृश्यते" । त्वम् "वद" । "सः कीदृशः" भवति ॥ (मोटी_३,७.१२ ॥

श्रीवसिष्ठः श्रीरामप्रश्नम् अनादृत्य पूर्वोक्तम् एवार्थं कथयति

यद् एतच् चेतनं जीवो विशीर्णो जन्मजङ्गले ।
एतम् आत्मानम् इच्छन्ति ये तेऽज्ञाः पण्डिता अपि ॥ (मो_३,७.१३ ॥

"यद् एतत् चेतनम् जन्मजङ्गले विशीर्णः" परिच्छिन्नतां गतः । "जीवः" भवति । "एतम् ये आत्मानम् इच्छन्ति ते पण्डिताः अपि" देहात्माभिमानिभ्यः सकाशात् किञ्चिन्मात्रम् विचारिणः अपि । "अज्ञाः" भवन्ति । अनात्मनि "जीवो" आत्मत्वदर्शनात् ॥ (मोटी_३,७.१३ ॥

कथम् एतद् इत्य् । अत्राह

जीव एवेह संसाराश् चेतनाद् दुःखसन्ततेः ।
स्मिञ् ज्ञाते न विज्ञातं किञ्चिद् भवति कुत्रचित् ॥ (मो_३,७.१४ ॥

"संसाराः" जाग्रदादिभेदभिन्नाः संसाराः । "दुःखसन्ततेः" "चेतनात्" संसारगतदुःखसन्ततेः । स्वाश्रयतया अनुभवनात् "जीवे एव" भवन्ति । अतः "अस्मिन्" संसाराश्रये जीवे । "ज्ञाते" सति । लक्षणया प्राप्ते सति । "किञ्चित् विज्ञातं" ज्ञानविषयीकृतं । लक्षणया प्राप्तं । "न भवति" ॥ (मोटी_३,७.१४ ॥

तर्हि कस्य ज्ञानेन किञ्चित् प्राप्तं भवतीत्य् । अत्राह

ज्ञायते परमात्मा चेद् राम तद् दुःखसन्ततिः ।
क्षयम् एति विषावेशशान्ताव् इव विषूचिका ॥ (मो_३,७.१५ ॥

हे "राम" । "परमात्मा" प्रोक्तस्य जीवस्य सारतया स्थितम् परमात्मतत्त्वम् । "चेत्" यदि । "ज्ञायते" । लक्षणया प्राप्यते । "तत्" तदा । "दुःखसन्ततिः" संसाररूपा दुःखसन्ततिः । "क्षयम्" नाशम् । "एति" गच्छति । तदैव किञ्चित् प्राप्तं भवतीत्य् अर्थः । का "इव" । "विषूचिका इव" । यथा सा "विषावेशशान्तौ क्षयम् एति" । तथेत्य् अर्थः ॥ (मोटी_३,७.१५ ॥

श्रीरामः परमात्मस्वरूपश्रवणाकाङ्क्षानिर्भरत्वेन कथनायोग्यत्वाच् छ्रीवसिष्ठेनानादृतम् अपि आत्मस्वरूपप्रश्नं पुनः करोति

रूपं कथय मे ब्रह्मन् यथावत् परमात्मनः ।
यस्मिन् दृष्टे नरो मोहात् समग्रात् सन्तरिष्यति ॥ (मो_३,७.१६ ॥

"रूपम्" स्वरूपम् । "यथावत्" सम्यक् ॥ (मोटी_३,७.१६ ॥

श्रीवसिष्ठः आकाङ्क्षानिर्भरत्वेन श्रीरामस्याधिकारित्वं निश्चित्योत्तरं कथयति

देशाद् देशान्तरं दूरं प्राप्तायाः संविदो वपुः ।
निमेषेणैव यन् मध्ये तद् रूपं परमात्मनः ॥ (मो_३,७.१७ ॥

"देशात्" आलम्बनीकृतात् एकस्मात् संवेद्यरूपात् देशात् । "दूरं" अत्यन्तविलक्षणम् । "देशान्तरम्" आलम्बनविषयीक्रियमाणम् अन्यसंवेद्याख्यम् देशान्तरम् । "निमेषेणैव" एकस्मिन् निमेषे एव । न तु मध्ये मौढ्यम् अनुभूय । "प्राप्तायाः" आलम्बनभावेन गृह्णन्त्याः । "संविदः" दृश्यग्रहणोन्मुखायाः चितः । "मध्ये" पूर्वापरसंवेद्यरागारूषितायां मध्यावस्थायां । "यत् वपुः" भवति यत् अनिर्वाच्यं स्वरूपं भवति । "तद्" एव । न तु तत्सदृशम् अन्यत् । "परमात्मनः" समस्तजीवात्मसारभूतस्य परमात्मतत्त्वस्य । "रूपं" भवति । सर्वमयत्वेऽपि सर्वोत्तीर्णत्वात् । ननु पूर्वसंवेद्यम् आलम्बनीकृत्य तदैवोत्तरसंवेद्यम् आलम्बनीकुर्वन्त्याः संविदः किम् इदं मध्यं नाम यत्रस्थायाः चितः परमात्मरूपता उक्ता । उच्यते । पूर्वसंवेद्येन रञ्जितायाः संविदः स्वं निर्मलं रूपम् अप्राप्योत्तरसंवेद्येन करिष्यमाणस्य रागस्यायुक्तत्वात् निर्मलस्वरूपतामयं मध्यम् अवश्यम् एवास्तीति ज्ञातव्यम् । यथा नीलीरागरञ्जितस्य पटस्य पीतरागकरणेच्छया प्रक्षालणेन स्फुटीकृतं शुद्धपटतामयं मध्यं भवति । अन्यथा करिष्यमाणस्य पीतरागस्य करणासम्भवात् । ननु पूर्वसंवेद्यविषया संवित् पूर्वम् एव क्षीणा । उत्तरसंवेद्यविषया तु नवीना जाता । तथा च मध्यं नाम शून्यम् एवास्तीति । किं शून्यरूप एवात्मास्तीति चेत् । न । उत्तरसंवेद्यग्रहणकाले पूर्वसंवेद्यस्मृत्यनुपपत्तेः । न हि पूर्वसंवेद्यग्रहणकालस्थां मध्ये शुद्धरूपतया स्थितां उत्तरसंवेद्यग्रहणकालेऽपि स्थिताम् एकां संविदम् अन्तरेण पूर्वसंवेद्यविषया स्मृतिः उपपद्यते । एतेन संवेद्योपरागरहितं जाड्यारूषितं संवित्तत्त्वं परमात्मत्वेनोक्तम् । अत्र चाभ्यासं कुर्वताम् अचिराद् अयत्नेनैव परमात्मलाभो भविष्यत्य् । अस्यैव च मध्यधामावेश इति नामास्तीत्य् अलं रहस्योद्घाटनेन । अत्र च सदृशयोः संवेद्ययोः मध्यम् अतिदुर्लभम् इति "दूरम्" इत्य् उक्तम् ॥ (मोटी_३,७.१७ ॥

त्यन्ताभाव एवास्ति संसारस्य जगत्स्थितेः ।
यस्मिन् बोधमहाम्भोधौ तद् रूपं परमात्मनः ॥ (मो_३,७.१८ ॥

"यस्मिन् बोधमहाम्भोधौ" बोधाख्ये महासमुद्रे । "जगत्स्थितेः" जगत्सत्तास्वरूपस्य । "संसारस्य" । "अत्यन्ताभाव एव" बुद्बुदवत् त्रैकालिकः अभावः एव । "अस्ति" । "तत् परमात्मनः रूपं" भवति । अयं भावः । मुमुक्षुः सच्छास्त्रादिभिः प्रथमं रज्जुसर्पादिदृष्टान्तेन ततः कनककटकादिदृष्टान्तेन दृश्यस्य ब्रह्मव्यतिरिक्तसत्ताभावं निश्चित्य शुद्धचित्तत्त्वैक्ये जातनिश्चयः यदा अभ्यासबलेन सर्वत्र शुद्धचित्तत्त्वमात्रम् एवानुभवति सुवर्णकार इव कटकादिषु सुवर्णताम् तदा तस्य ज्ञानम् यत्स्वरूपं भवति तद् एव परमात्मस्वरूपम् इति । ननु जगत्प्रतियोगिकः अत्यन्ताभावः न सम्भवति । पूर्वं भूतत्वात् जगतः जगदत्यन्ताभावे निश्चितस्यापि हि पूर्वं जगद् भासमानम् आसीद् एवेति चेद् । असत् एतत् । पौर्वकालिकं मिथ्याभानं हि वस्तुनः उत्तरकाले निश्चितं त्रैकालिकाभावप्रतियोगित्वं न निहन्ति । पूर्वं रज्जौ भाते सर्पेऽपि अत्यन्ताभावप्रतियोगित्वघातित्वप्रसङ्गात् । पूर्वं सर्पत्वेन भातायां रज्जौ तु सर्वे सर्पस्य त्रैकालिकात्यन्ताभावप्रतियोगित्वं स्फुटम् एव पश्यन्तीति न कोऽपि विरोधः ॥ (मोटी_३,७.१८ ॥

द्रष्टृदृश्यक्रमो यत्र स्थितोऽप्य् अस्तम् अलं गतः ।
यद् अनाकाशम् आकाशस् तद् रूपं परमात्मनः ॥ (मो_३,७.१९ ॥

"स्थितः अपि" प्रत्यक्षं भासमानोऽपि । "द्रष्टृदृश्यक्रमः" अयं द्रष्टा इदं दृश्यम् इत्य् एवंरूपः क्रमः । "यत्र" यस्मिन् वस्तुनि । "अलं" अतिशयेन । सम्यग् इति यावत् । "अस्तं" लयं । "गतः" भवति । ननु स्थितस्य द्रष्टृदृश्यक्रमस्य कथम् अन्यस्मिन् लयसम्भवः । तथा चानेन द्वारेण परमात्मस्वरूपकथनम् अयुक्तम् एवेति चेन् । न । द्रष्टृदृश्यौ तावत् कस्यचित् साक्षिणः भातौ भवतः न वा । न चेत् कथं तर्हि तयोः द्रष्टृदृश्यत्वे सिध्यतः । यथा तथा तत्सिद्धौ अपि कथं तयोः व्यवस्था सिध्यति । अयं द्रष्टैवेदं दृश्यम् एवेति भातौ चेत् तर्हि तस्मिन् लयः तयोः सुकरः एव । न हि स्वप्नसाक्षिणम् अतिक्रम्य स्वप्नभाते द्रष्टृदृश्ये केनापि स्वरूपेण युक्ते सम्भवतः इति न कश्चिद् विरोधः । तथा "यत्" वस्तु । "अनाकाशम्" ग्राहकैकस्वभावत्वेन ग्राह्यत्वाभावात् ग्राह्यैकस्वरूपाकाशव्यतिरिक्तम् अपि सत् । "आकाशः" भवति । व्यापकत्वस्वच्छत्वादिगुणैः "आकाश"शब्दवाच्यो भवतीत्य् अर्थः । "तत्" तद् एव वस्तु । न तु तत्सदृशम् अन्यत् किञ्चित् । "परमात्मनः रूपं" भवति ॥ (मोटी_३,७.१९ ॥

शून्यम् इव यच् छून्यं यस्मिञ् शून्ये जगत् स्थितम् ।
सर्गौघे सति यच् छून्यं तद् रूपं परमात्मनः ॥ (मो_३,७.२० ॥

"शून्यम्" बाह्यान्तःकरणाग्राह्यत्वेन न किञ्चिद् रूपं । "यत्" वस्तु । "अशून्यम् इव" किञ्चिद् इव । भवति । अन्यथा जगद्रूपभ्रमाधिष्ठानत्वासम्भवात् । न हि असद् वस्तु कस्यचिद् अधिष्ठानीभवितुम् अर्हति । वन्ध्यापुत्रस्यापि मैत्रभ्रमाधिष्ठानत्वप्रसङ्गात् । तथा "शून्ये" प्रोक्तन्यायेन शून्यस्वरूपे । "यस्मिन्" । "जगत् स्थितं" सत्ताभाक् भवति । मृदीव घटादयः । अन्यथा जगतः किंरूपत्वं स्यात् इति भावः । तथा "सर्गौघे" सृष्टिसमूहे । "सति" अधिष्ठेयतया कार्यतया वा स्थितिं भजति सति । "यत् शून्यम्" स्वव्यतिरिक्तवस्तुरहितम् एव । भवति । न हि रज्जौ सर्पावस्थानेन मृदि वा घटावस्थानेन स्वव्यतिरिक्तवस्तुयुक्तत्वं कल्पयितुं शक्यते । "तत् परमात्मनः रूपं" भवति ॥ (मोटी_३,७.२० ॥

यन् महाचिन्मयम् अपि बृहत्पाषाणवत् स्थितम् ।
जडं त्व् अजडम् एवान्तस् तद् रूपं परमात्मनः ॥ (मो_३,७.२१ ॥

"यत्" यत् वस्तु । "महाचिन्मयम् अपि" समस्तजगत्साक्षितान्यथानुपपत्त्या महाचित्प्रकाशस्वरूपम् अपि सत् । "बृहत्पाषाणवत् स्थितं" भवति । महाजडम् इव भवति । अतिशान्तत्वेन स्वपरामर्शेऽपि स्वातन्त्र्येण विमुखत्वात् । "यत्" कथम्भूतं "तु" । "अन्तः" पारमार्थिके स्वरूपे । "अजडम् एव" सत् । "जडं तु" जडम् इव इत्य् अर्थः । इदं विशेषणद्वयम् यथासङ्ख्यातिक्रमेण पूर्वार्धोक्तस्यार्थस्य समर्थकत्वेन ज्ञेयम् । "तत् परमात्मनः रूपं" भवति ॥ (मोटी_३,७.२१ ॥

सबाह्याभ्यन्तरं सर्वं येन सम्प्राप्य सङ्गमम् ।
स्वरूपसत्ताम् आप्नोति तद् रूपं परमात्मनः ॥ (मो_३,७.२२ ॥

"सर्वं सबाह्याभ्यन्तरं" बाह्याभ्यन्तरत्वेन वर्तमानं समस्तं जगत् । "येन" साक्षितया स्थितेन येन वस्तुना । "सङ्गमं" सम्बन्धं । "प्राप्य" । यद्विषयत्वं प्राप्येति यावत् । "स्वरूपसत्ताम्" प्रातिस्विकस्य रूपस्य सत्ताम् । प्र्"आप्नोति" । साक्षिप्रतीतौ स्फुरणं विना हि सतोऽपि नीलसुखादेः सत्ता असत्कल्पा एव दृश्यते । "तत् परमात्मनः रूपं" भवति ॥ (मोटी_३,७.२२ ॥

प्रकाशस्य यथालोको यथा शून्यत्वम् अम्बरे ।
तथेदं संस्थितं यत्र तद् रूपं परमात्मनः ॥ (मो_३,७.२३ ॥

"प्रकाशस्य" तेजसः । "यथा आलोकः" पदार्थप्राकट्यहेतुः भास्वरताख्यो गुणविशेषः भवति । "यथा" वा "शून्यत्वम्" शून्यभावः । "अम्बरे" आकाशे । भवति । "तथा" तद्वत् । "इदम्" जगत् । "यत्र" यस्मिन् अदृश्ये वस्तुनि । "स्थितं" भवति । "तत् परमात्मनः रूपं" भवति । अयं भावः । यथा भासमानः आलोकः स्वप्रधानत्वेन न कथ्यते । अन्यथा प्रकाशगुणत्वकथनानुपपत्तेः । प्रकाशश् च विचार्यमाणः अनिर्वाच्यताम् एवावगाहते । तथा भासमानम् इदं जगत् अपि अनिर्वाच्ये कस्मिन् चित्सारभूते प्रधाने स्थितम् इति ज्ञेयम् । यस्मिन् तु स्थितम् अस्ति तद् एव परमात्मा भवतीति । नन्व् एतैः अनुमानगम्यस्य कस्यापि वस्तुनः परमात्मत्वं साधितम् । तथा चासौ परमात्मा कल्पित इति ज्ञेयम् । अनुमानगम्यस्य कल्पितत्वात् । निर्विकल्पप्रत्यक्षमात्रगम्यस्य स्वलक्षणस्यैव परमार्थसत्त्वाद् इति चेद् । असद् एतत् । उपदेश्यस्य प्रतिक्षणं मध्यावस्थासु आत्मत्वेन प्रत्यक्षं स्फुरणशीलम् अप्य् आत्मतया अज्ञातम् परमात्मस्वरूपं । चिरविस्मृतपुरःस्थितबान्धववत् तवात्मा भवतीति न कोऽप्य् अत्र प्रतिभावतः प्रति अनुमानस्पर्शः । अप्रतिभावतां त्व् अत्राधिकार एव नास्तीत्य् अलं परदोषगुणविचारणेन ॥ (मोटी_३,७.२३ ॥

श्रीरामः पृच्छति

सर्वतः परमात्मैष कथं नामाभिबुध्यते ।
इयतोऽस्य जगन्नाम्नो दृश्यस्यासम्भवः कुतः ॥ (मो_३,७.२४ ॥

अस्माभिः । "एषः" जगद्व्यतिरिक्तस्वरूपः । "परमात्मा" । "सर्वतः" सर्वत्र । सर्वास्व् अवस्थास्व् इति यावत् । "कथं नाम अभिबुध्यते" । यतः "इयतः" बाह्यान्तरव्यापकस्य । "अस्य दृश्यस्य असम्भवः" "कुतः" स्यात् । जाग्रति हि स्थूलं जगत् स्फुरति । स्वप्ने स्वप्नजगत् । सुषुप्तौ जाड्यम् । एताभ्यः व्यतिरिक्ता तु अवस्था नास्तीति । अयं च प्रश्नः सर्वदा परमात्ममयत्वासादनाकाङ्क्षिणा श्रीरामेण जाग्रति प्रतिक्षणं स्फुरमाणाः शुद्धपरमात्मस्वरूपमय्यः मध्यावस्थाः अनाश्रित्य कृतः ॥ (मोटी_३,७.२४ ॥

श्रीवसिष्ठः उत्तरं कथयति

भ्रमस्य जागतस्यास्य जातस्याकाशवर्णवत् ।
त्यन्ताभावसम्बोधो यदि रूढिबलं भवेत् ॥ (मो_३,७.२५ ॥
तज् ज्ञातं ब्रह्मणो रूपं भवेन् नान्येन कर्मणा ।
दृश्यात्यन्ताभावतस् तु ऋते नान्या शुभा गतिः ॥ (मो_३,७.२६ ॥

"आकाशवर्णवत् जातस्य" प्रादुर्भूतस्य । "अस्य" पुरःस्फुरतः । जगत इति यावत् । "अत्यन्ताभावसम्बोधः" अत्यन्ताभावज्ञानम् । न तु नाशनाख्यः । "रूढि" सिद्धियुक्तं । "बलं" यत्र । तत् । तादृशं । "भवेत्" "यदि" स्यात् । "तत्" तदा । "ब्रह्मणः" परमात्मनः । "रूपं" स्वरूपं । "ज्ञातं भवेत्" । "अन्येन कर्मणा" एतद्व्यतिरिक्तेन तपःप्रभृतिना । "न" भवेत् । यतः "दृश्यात्यन्ताभावतः ऋते" दृश्यात्यन्ताभावाद् ऋते । "अन्या शुभा गतिः" शुभः उपायः । "न" भवति । दृश्यात्यन्ताभावश् च ज्ञानद्वारेणैव सिध्यति । प्रयत्नसाधितस्य अभावस्य प्रध्वंसाभावत्वाद् इति शुक्तौ रजतात्यन्ताभाववत् मृदि घटात्यन्ताभाववद् वात्यन्ताभावसम्बोधस्योपायत्वकथनम् ॥ (मोटी_३,७.२५-२६ ॥

ननु सम्यग्ज्ञानद्वारेण सिद्धस्य दृश्यत्वरूपजगदत्यन्ताभावस्यैव कथं परमात्मप्राप्तौ उपायत्वम् अस्तीत्य् । अत्राह

त्यन्ताभावसम्पत्तौ दृश्यस्यास्य यथास्थितेः ।
शिष्यते परमार्थोऽसौ बुध्यते ज्ञायते ततः ॥ (मो_३,७.२७ ॥

"यथास्थितेः" एवम् एव वर्तमानस्य । न तु प्रयत्ननाशितस्य । "अस्य दृश्यस्य" जगद्रूपस्य दृश्यस्य । "अत्यन्ताभावसम्पत्तौ" अत्यन्ताभावस्य सम्पत्तौ । शुक्तौ भातरजतात्यन्ताभाववत् मृदि भातघटात्यन्ताभाववद् वा सिद्धौ सत्यां । "असौ परमार्थः" दृश्याधिष्ठानभूतः दृश्यसारभूतः वा असौ परमात्मा । "शिष्यते" शेषत्वेन स्थितो भवति । रजतात्यन्ताभावज्ञाने इव शुक्तिः घटात्यन्ताभावज्ञाने इव वा मृत् । तद्व्यतिरेकेणान्यस्य कस्याप्य् असत्त्वात् ततः पुरुषेण्"आसौ बुध्यते" । अस्तीति परोक्षप्रतीत्या निश्चीयते । "ततः" तदनन्तरम् । "ज्ञायते" । अहम् इत्य् अपरोक्षप्रतीत्या निश्चीयते ॥ (मोटी_३,७.२७ ॥

ननु ज्ञानोपायिकः दृश्यात्यन्ताभावो मा सिध्यतु प्राणरोधनाद्युपायजालसाधितया विस्मृत्या एव परमात्मज्ञानं भविष्यतीत्य् । अत्राह

न चिद् अप्रतिबिम्बास्ति दृश्याभावाद् ऋते क्वचित् ।
क्व विना प्रतिबिम्बेन किलादर्शोऽवतिष्ठते ॥ (मो_३,७.२८ ॥

"चित्" साक्षिभावेन स्थितम् चित्तत्त्वम् । "दृश्याभावाद् ऋते" स्वसाक्षिभावसिद्धात् दृश्याभावात् ऋते । "अप्रतिबिम्बा" दृश्यप्रतिबिम्बरहिता । दृश्यसाक्षिताम् अकुर्वतीति यावत् । "क्वचिन् न" भवति । स्वभावत्यागप्रसङ्गात् । अत्र समर्थकं दृष्टान्तं कथयति । "क्व विने"ति । न हि बिम्बसत्तायां प्रतिबिम्बरहितः "आदर्शः" दृश्यते इति भावः । नन्व् अन्यदेशस्थे बिम्बे सत्तां भजत्य् अपि आदर्शः प्रतिबिम्बरहितः दृश्यते । तथा बहिः दृश्यसत्ता भवतु । प्राणरोधादिद्वारेण बहिः अप्रसरन्ती चित् दृश्यस्पर्शरहिता भविष्यतीति चेत् । असद् एतत् । अत्यन्ताभावज्ञानं विना दृश्यबीजस्य नाशयितुम् अशक्यत्वात् । अन्यथा निद्रितस्यान्तः स्वप्नप्रपञ्चभानं न स्यात् । ननु तस्य प्राणरोधाद्युपायराहित्यात् स्वप्नप्रतिभानम् अस्तीति चेत् । तर्हि दृश्यात्यन्ताभावज्ञानहीनान् कपटरहितान् प्राणरोधादिकारिणः एव पृच्छ । किं युष्माकं स्वप्नप्रतिभानम् अस्ति न वेति । ननु कपटरहिताः दृश्यात्यन्ताभावज्ञानयुक्ता अपि अस्माभिः पृष्टा एव । तैर् अपि स्वस्य स्वप्नप्रदर्शकत्वम् उक्तम् । उच्यतां नाम का हानिः । यथा जाग्रति भासत एव जगतः अत्यन्ताभावज्ञानं तेषाम् अस्ति तथा स्वप्नेऽपि । न हि ते भासमानम् एव दृश्यं दृश्यतया पश्यन्ति । किं तु ब्रह्मतयेत्य् अलं प्रपञ्चेन ॥ (मोटी_३,७.२८ ॥

ननु तथापि दृश्यात्यन्ताभावेन विनैवात्मतत्त्वं पश्याम इत्य् । अत्राह

जगन्नाम्नोऽस्य दृश्यस्य सत्तासम्भवनं विना ।
बुध्यते परमं तत्त्वं न कदाचन केनचित् ॥ (मो_३,७.२९ ॥

"अस्य" पुरःस्फुरतः । "जगन्नाम्नः" जगद् इति नामधेययुक्तस्य । "दृश्यस्य" दृशिक्रियाविषयस्य भावजातस्य । "सत्तासम्भवनं विना" अत्यन्ताभावं विना । "केनचित्" पुरुषेण । "कदाचित्" । "परमं तत्त्वम्" परमात्माख्यं तत्त्वम् । "न बुध्यते" न ज्ञायते । तस्मात् दृश्यात्यन्ताभावः सम्यग्ज्ञानोपायेन साध्यः इति भावः ॥ (मोटी_३,७.२९ ॥

दृश्यासत्तायां सन्दिहानः श्रीरामः पृच्छति

इयतो दृश्यजालस्य ब्रह्माण्डस्य जगत्स्थितेः ।
मुने कथम् असत्तास्ति क्व मेरुः सर्षपोदरे ॥ (मो_३,७.३० ॥

वैपुल्यकथनम् । यथा "मेरुः सर्षपोदरे" अस्तीति केनचिद् उक्ते सति । तस्मिन् असम्भवार्थप्रतिपादकत्वम् एव विश्राम्यति । तथा जगतः सत्ता नास्तीति प्रतिपादके त्वय्य् अपीति भावः ॥ (मोटी_३,७.३० ॥

श्रीवसिष्ठः उत्तरं कथयति

दिनानि कतिचिद् राम यदि तिष्ठस्य् अखिन्नधीः ।
साधुसङ्गमसच्छास्त्रपरमस् तद् अहम् क्षणात् ॥ (मो_३,७.३१ ॥
प्रमार्जयामि ते दृश्यं बोधो मृगजलं यथा ।
दृश्याभावे द्रष्टृता च शाम्येद् बोधोऽवशिष्यते ॥ (मो_३,७.३२ ॥

हे "राम" । त्वं । चेत् "यदि कतिचित् दिनानि" कियन्ति दिनानि । "अखिन्नधीः" अनुद्विग्नमतिः सन् । संमुखधीः सन्न् इति यावत् । "साधुसङ्गमसच्छास्त्रपरमः तिष्ठसि" । "तत्" तदा । "अहं क्षणात् ते" तव । त्वां प्रतीति यावत् । "दृश्यम्" दृश्यरूपं जगत् । "प्रमार्जयामि" नाशयामि । ज्ञानद्वारेणात्यन्ताभावयुक्तत्वं सम्पादयामीति यावत् । कः "यथा" । "बोधो यथा" । "यथा बोधः" सम्यग्ज्ञानम् । "मृग"तृष्णा"जलं" प्रमार्जयति । तथेत्य् अर्थः । अनेन साधुसङ्गादेः दृश्यात्यन्ताभावज्ञानं प्रति मुख्यम् उपायत्वम् उक्तम् । ननु दृश्यमार्जनेन किं सेत्स्यतीत्य् । अत्राह "दृश्याभावे" इति । "दृश्याभावे" ज्ञानद्वारेण दृश्याभावे सिद्धे सति । "द्रष्टृता च शाम्येत्" लयं व्रजेत् । ननु तर्हि अभाव एव शिष्यते इत्य् । अत्राह "बोध" इति । "बोधः" दृश्यद्रष्ट्रत्यन्ताभावसाक्षिभूतं शुद्धचित्तत्त्वं । "शिष्यते" अवशिष्टं भवति । अन्यथा सिद्धस्यापि दृश्यात्यन्ताभावस्य असत्कल्पत्वं स्यात् ॥ (मोटी_३,७.३१-३२ ॥

ननु कथं दृश्यमात्रात्यन्ताभावेनैव द्रष्टृता शान्तिं व्रजतीत्य् । अत्राह

द्रष्टृत्वं सति दृश्येऽस्मिन् दृश्यत्वं सत्य् अवेक्षके ।
एकत्वं सति हि द्वित्वे द्वित्वं चैकत्ववेदने ॥ (मो_३,७.३३ ॥

"अस्मिन्" पुरःस्फुरणशीले । "दृश्ये" दृशिक्रियाविषये भावजाते । "सति" सत्तां भजति सति । "द्रष्टृत्वम्" परमार्थतः शुद्धचिन्मात्रस्वरूपद्रष्टृविषयः द्रष्टृभावः स्यात् । विषयसद्भावेन दृशिक्रियां प्रति कर्तृत्वसम्भवात् । तण्डुलादिषु हि सत्सु तद्विषयां पाकक्रियां प्रति कर्तृत्वं भजतः पुरुषस्यैव पाचकत्वं भवति । न केवलं दृश्यसत्तया द्रष्टुः एव द्रष्टृता भवति । अपि तु द्रष्टृसत्तयापि दृश्यस्य दृश्यत्वम् अस्तीत्य् अभिप्रायेणाह "दृश्यत्वम्" इति । "अवेक्षके" प्रेक्षके । द्रष्टरीति यावत् । "सति" सत्ताम् भजति सति । "दृश्यत्वम्" परमार्थतः शुद्धचिन्मात्रस्वरूपदृश्याश्रयः दृश्यभावः स्यात् । न हि पाचकेन पाकक्रियाविषयीकृतं तण्डुलादिकम् ओदनावस्थाद्यपरपर्यायं पाच्यभावम् अवलम्बते । अतः अन्योऽन्यापेक्षत्वेन दृश्यमात्रात्यन्ताभावेन द्रष्टृविषया द्रष्टृता नश्यत्य् एवेति भावः । द्रष्टृत्वदृश्यत्वान्योऽन्याश्रयकथनप्रसङ्गेन तयोः एकत्वद्वित्वयोर् अपि अन्योऽन्याश्रयं कथयति "एकत्वम्" इति । "एकत्वम्" मुख्यतया पूर्वं गणनार्हे द्रष्टरि गतम् एकत्वम् । "द्वित्वे" अवरतया पश्चाद् गणनार्हदृश्यगते द्वित्वे । "सति" सत्तां भजति सति । स्यात् । द्वित्वाभावे गणनस्यैव अप्रवृत्तेः । गणनं हि द्वित्वादिकं वीक्ष्यैव व्यवस्थातुं प्रवर्तते । द्वित्वाद्यभावे तु किमर्थं तस्य प्रवर्तनं स्यात् । व्यवस्थायाः स्वयं वृत्तौ च तत्प्रथमावयवभूतस्य एकत्वस्य स्फुटा एवासिद्धिः । तथा "द्वित्वम्" दृश्यगतं द्वित्वम् । "एकत्ववेदने" एकत्वाकारे वेदने । द्रष्टृगते एकत्वे इति यावत् । "सति" । स्यात् । एकं विगणय्यैव द्वितीयो गणनविषयतां यातीति स्फुटा एव हि एकत्वं विना द्वित्वस्य अनुपपत्तिः ॥ (मोटी_३,७.३३ ॥

फलितं कथयति

एकाभावे द्वयोर् एव सिद्धिर् भवति नात्र हि ।
द्वित्वैक्यद्रष्टृदृश्यत्वक्षये सद् अवशिष्यते ॥ (मो_३,७.३४ ॥

"हि" निश्चये । अतः "अत्र" अनयोः एकत्वद्वित्वयोः मध्ये । "एकाभावे" एकस्य द्वित्वस्य वा अभावे सति । "द्वयोः एव" उभयोः द्वित्वैकत्वयोः एव । "सिद्धिः न भवति" । ननु ततः किं सेत्स्यतीत्य् । अत्राह "द्वित्वैक्ये"ति । द्वित्वैक्ययोः द्रष्टृदृश्ययोश् च क्षयः "द्वित्वैक्यद्रष्टृदृश्यक्षयः" । तस्मिन् सति "सत्" द्वित्वादिसाक्षित्वेन स्थितं सदाख्यं वस्तु । "अवशिष्यते" अवशिष्टं भवति ॥ (मोटी_३,७.३४ ॥

व्यवहितं दृश्यप्रमार्जनप्रतिज्ञां पुनर् अपि करोति

हन्तादि जगद् दृश्यं सर्वं ते मार्जयाम्य् अहम् ।
त्यन्तासत्त्वसंवित्त्या मनोमकुरतो मलम् ॥ (मो_३,७.३५ ॥

"अहम्" । "अहन्तादि" अहम्भावप्रमुखम् । "मलं" मलभूतं । "सर्वं दृश्यं जगत्" । "ते मनोमकुरतः" त्वन्मनोदर्पणात् । "अत्यन्तासत्त्वसंवित्त्या" अत्यन्ताभावज्ञानेन । दृश्यविषयात्यन्ताभावज्ञानोत्पादनेनेति यावत् । प्र"मार्जयामि" । युक्तं च मकुरात् मलापमार्जनम् ॥ (मोटी_३,७.३५ ॥

नन्व् एतावतः दृश्यस्य प्रमार्जनं कथं कर्तुं शक्नोषीत्य् । अत्राह

नासतो विद्यते भावो नाभावो विद्यते सतः । ।
यत् तु नास्ति स्वभावेन कः क्लेशस् तत्प्रमार्जने ॥ (मो_३,७.३६ ॥

"असतः" सत्ताकर्तृत्वम् अभजतः । "भावः" सत्ता । "न विद्यते" । शशशृङ्गस्यापि सत्तापत्तेः । "सतः" सत्ताकर्तृत्वं भजतः । "अभावः" असत्ता । "न विद्यते" । स्वरूपहानिप्रसङ्गात् । न च स्वरूपहानिः युक्ता । अग्नेर् अपि अग्नित्वहानिप्रसङ्गात् । "यत्" स्वरूपेण "नास्ति" । "तत्प्रमार्जने कः क्लेशः" भवति । न हि शशिशृङ्गत्रोटने कस्यापि यत्नः दृष्टः ॥ (मोटी_३,७.३६ ॥

ननु तथापि प्रवर्तने किम् आयातम् इत्य् । अत्राह

जगद् आदाव् अनुत्पन्नम् यच् चेदं दृश्यते ततम् ।
तत् स्वात्मन्य् एव विमले ब्रह्म चित्त्वात् स्वबृंहितम् ॥ (मो_३,७.३७ ॥

"जगत् आदौ" प्रथमं एव । "अनुत्पन्नं" भवति । अतः जगत्प्रमार्जने क्लेशो नास्तीति भावः । ननु यदि जगत् प्रथमम् एवानुत्पन्नं भवति तर्हि किम् इदं भासत इत्य् । अत्राह "यच् चेदम्" इति । "यच् चेदम्" यच् चैतत् । "ततम्" विस्तारितस्वरूपं किञ्चित् "दृश्यते" । "तत् ब्रह्म" "एव" ब्रह्माख्यं वस्तु एव । "विमले स्वात्मनि" शुद्धचिन्मात्रस्वरूपायां स्वभित्तौ । "चित्त्वात् स्वबृंहितं" अतिशयेन बृंहागतं भवति । अन्यथा ब्रह्मत्वायोगात् । बृंहायुक्तम् एव हि ब्रह्मोच्यते । न च वस्तुनि बृंहणं नामान्यवस्तुनः उत्पत्तिः वक्तुं शक्यते । जलेऽपि द्रवत्वात् प्रादुर्भूतस्य तरङ्गतया बृंहणस्यान्यवस्तूत्पत्तित्वप्रसङ्गात् । न च मूर्खोऽपि जले तरङ्गानाम् अन्यत्वम् अङ्गीकरोति । चिद्रूपस्यात्मन एव स्वप्नपदार्थभावेन बृंहणं दृष्टम् इति "चित्त्वाद्" इत्य् उक्तम् ॥ (मोटी_३,७.३७ ॥

पुनः पुनर् एतद् एव कथयति

जगन् नाम न चोत्पन्नं न चास्ति न च दृश्यते ।
हेम्नीव कटकादित्वं किम् एतन्मार्जने श्रमः ॥ (मो_३,७.३८ ॥

"नाम" निश्चये । "जगत् न चोत्पन्नं" भवति । "न च अस्ति" । "न च दृश्यते" । ब्रह्मण एवैतद्रूपतया स्थितत्वात् । जगत् किम् "इव" । "कटकादित्वम् इव" । यथा "हेम्नि" भासमानं "कटकादित्वं" नास्ति । हेम्नः एव तद्रूपतया स्थितत्वात् । तथा इत्य् अर्थः । अतः "एतत्"प्र"मार्जने" श्रमः किं भवति । ब्रह्मताज्ञानमात्रेणैव प्रमार्जितत्वात् । न हि हेम्नि भासमानं कटकादित्वं अशक्यप्रमार्जनं भवति । हेमताज्ञानमात्रेणैव तस्य प्रमार्जितत्वात् ॥ (मोटी_३,७.३८ ॥

एतावत आश्वासरहितं शिष्यं ज्ञात्वा तस्य समाश्वासनं करोति

तथैतद् विस्तरेणेह वक्ष्यामो बहुयुक्तिभिः ।
बाधितं यथा नूनं स्वयम् एवानुभूयते ॥ (मो_३,७.३९ ॥

वयम् । "एतत्" पूर्वोक्तं वस्तु । "विस्तरेण बहुयुक्तिभिः तथा इहा"स्मिन् शास्त्रे । "वक्ष्यामः" । "नूनं" निश्चये । "यथा" त्वया "एतत् अबाधितं स्वयम् एवानुभूयते" ॥ (मोटी_३,७.३९ ॥

प्रकृतम् एव कथयति

आदाव् एव हि नोत्पन्नं यत् तस्येहास्तिता कुतः ।
कुतो मरौ जलसरिद् द्वितीयेन्दौ कुतो ग्रहः ॥ (मो_३,७.४० ॥

"हि" निश्चये । "यत्" वस्तु । "आदाव् एव उत्पन्नं न" भवति । "तस्येहास्तिता" सत्त्वम् । "कुतः" भवति । अत्र दृष्टान्तद्वयम् कथयति "कुत" इत्यादि ॥ (मोटी_३,७.४० ॥

यथा वन्ध्यासुतो नास्ति यथा नास्ति मरौ जलम् ।
यथा नास्ति नभोवृक्षस् तथा नास्ति जगद्भ्रमः ॥ (मो_३,७.४१ ॥

"जगद्भ्रमः" जगद्रूपः भ्रमः । जगद् इति यावत् ॥ (मोटी_३,७.४१ ॥

तर्हि किम् इदं भासते इत्य् । अत्राह

यद् इदं दृश्यते राम तद् ब्रह्मैव निरामयम् ।
एतत् पुरस्ताद् वक्ष्यामो युक्तितो न गिरैव वः ॥ (मो_३,७.४२ ॥

अस्माभिः "यत् इदं दृश्यते" । "तत् निरामयम्" भावाभावाख्यामयरहितम् । "ब्रह्मैव" भवति । वयम् । "एतत् पुरस्तात्" अग्रे । "युक्तितः" युक्तिभिः । "वः" युष्माकम् । "वक्ष्यामः" । "न गिरा एव वक्ष्यामः" । सार्वविभक्तिकस् तसिल् ॥ (मोटी_३,७.४२ ॥

सर्गान्तश्लोकेन युक्तियुक्तवाक्योपेक्षां त्याज्यत्वेन कथयति

यन् नाम युक्तिभिर् इह प्रवदन्ति तज्ज्ञास्
तत्रावहेलनम् अयुक्तम् उदारबुद्धेः । ।
यो युक्तियुक्तम् अवमत्य विमूढबुद्ध्या
कष्टावहो भवति तं विदुर् अज्ञम् एव ॥ (मो_३,७.४३ ॥

"नाम" निश्चये । "अवहेलनम्" उपेक्षा । "कष्टावहः" कष्टदायी । असम्भवप्रयत्नैर् आत्मन इति शेषः । इति शिवम् ॥ (मोटी_३,७.४३ ॥


इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायाम् उत्पत्तिप्रकरणे सप्तमः सर्गः ॥ ३,७ ॥



श्रीरामः पृच्छति

कयैतज् ज्ञायते युक्त्या कथम् एतत् प्रसिध्यति ।
न्यायेऽनुभूत एतस्मिन् न ज्ञेयम् अवशिष्यते ॥ (मो_३,८.१ ॥

"एतत्" दृश्यासत्यत्वम् । ननु किमर्थम् अत्र युक्तिं पृच्छसीत्य् । अत्राह "न्याये"ति । यतः "एतस्मिन् न्याये" । न्यायेन "अनुभूते" सति । "ज्ञेयम् नावशिष्यते" । युक्तिश्रवणेन सर्वस्य ज्ञातत्वात् ॥ (मोटी_३,८.१ ॥

श्रीवसिष्ठः विस्तरकथनप्रतिज्ञां सम्पादयिष्यन्न् उत्तरं कथयति

बहुकालम् इयं रूढा मिथ्याज्ञानविषूचिका ।
जगन्नाम्नी विचाराख्याद् ऋते मन्त्रान् न शाम्यति ॥ (मो_३,८.२ ॥

आ"रूढा" बुद्धौ सत्यतया स्फुरिता । जगतश् च मिथ्याज्ञानरूपत्वं शुक्तिरजतवज् ज्ञेयम् । युक्तश् च "विषूचिकायाः मन्त्रेण" नाशः ॥ (मोटी_३,८.२ ॥

वक्ष्यमाणोपदेशश्रवणं प्रति श्रीरामं दृढीकरोति

वदाम्य् आख्यायिका राम या इमा बोधसिद्धये ।
ताश् चेच् छृणोषि तत् साधो मुक्त एवासि बुद्धिमान् ॥ (मो_३,८.३ ॥

"आख्यायिकाः" उपदेशकारीणि आख्यानानि । "बोधसिद्धये" दृश्यात्यन्ताभावज्ञानसिद्धये । "मुक्तः" दृश्येनास्पृष्टः ॥ (मोटी_३,८.३ ॥

अश्रवणे दण्डं कथयति

नो चेद् उद्वेगशीलत्वाद् अर्धाद् उत्थाय गच्छसि ।
तत् तिर्यग्धर्मिणस् तेऽद्य किञ्चिन् नापि तु सेत्स्यति ॥ (मो_३,८.४ ॥

त्वं "नो चेत्" शृणोषि । अथ वा "उद्वेगशीलत्वात् अर्धाद् उत्थाय गच्छसि" । "तत्" तदा । "तिर्यग्धर्मिणः" पशुतुल्यस्य । "ते" । "किञ्चिद् अपि न सेत्स्यति" ॥ (मोटी_३,८.४ ॥

ननु दृढतया श्रवणेनापि यदि किञ्चिन् न सेत्स्यति तदा किं कार्यम् इत्य् । अत्राह

यो यम् अर्थं प्रार्थयते तदर्थं यतते तथा ।
सोऽवश्यं तद् अवाप्नोति न चेच् छ्रान्तो निवर्तते ॥ (मो_३,८.५ ॥

"यः" पुरुषः । "यम् अर्थम्" यत् वस्तु । "प्रार्थयते" प्रार्थनाविषयं करोति । "तथा" तदनुकल्पेन । न त्व् अन्यथा । "यतते" । "सः अवश्यं तत् आप्नोति" । "चेत्" यदि । "श्रान्तः न निवर्तते" ॥ (मोटी_३,८.५ ॥

नन्व् अहम् अस्मिन् प्रार्थिते वस्तुनि किंरूपं यत्नं करोमीत्य् । अत्राह

साधुसङ्गमसच्छास्त्रपरो भवसि राम चेत् ।
तद् दिनैर् एव वा मासैः प्राप्नोषि परमं पदम् ॥ (मो_३,८.६ ॥

निरतिशयप्रतिभावत्त्वे "दिनैः" । अन्यथा "मासैर्" । इति विभागः ॥ (मोटी_३,८.६ ॥

श्रीवसिष्ठसाधुत्वे निश्चितः श्रीरामः आत्मज्ञानप्रबोधनिमित्तं शास्त्रं पृच्छति

आत्मज्ञानप्रबोधाय शास्त्रं शास्त्रविदां वर ।
किंनाम तत्प्रधानं स्याद् यस्मिञ् ज्ञाते न शोच्यते ॥ (मो_३,८.७ ॥

"आत्मज्ञानप्रबोधाय" आत्मज्ञानाविर्भावार्थम् । "न शोच्यते" दृश्यासक्तिरूपं शोचनं नानुभूयते ॥ (मोटी_३,८.७ ॥

श्रीवसिष्ठ उत्तरं कथयति

आत्मज्ञानप्रधानानाम् इदम् एव महामते ।
शास्त्राणां परमं शास्त्रं महारामायणाभिधम् ॥ (मो_३,८.८ ॥

"आत्मज्ञानं प्रधानं" वाच्यतया सारभूतं येषां । ते । तादृशानाम् । "इदं रामायणाभिधम्" अयम् महारामायणाख्यः इतिहासः । ननु श्रीवाल्मीकिना स्वेनोपनिबद्धे श्रीमहारामायणे श्रीरामवृत्तान्तकथनप्रसङ्गतः श्रीरामं प्रति श्रीवसिष्ठेन कृतः उपदेशः निबद्धः यः केनापि दयालुना अस्माच् छ्रीमहारामायणाद् उद्धृतः तत् कथम् उपदेशकालानन्तरभाविनः श्रीमहारामायणस्य श्रीवसिष्ठेन "इदम्" इत्य् अनेन परामर्शः कृतः । अनेन हि श्रीमहारामायणस्य श्रीवसिष्ठकृतत्वं द्योतते इति चेत् । आरम्भे एवास्माभिः अयं निर्णयः कृतः । किं पुनः पुनः पृच्छसि । यतः तत्र प्रतिभावतां स्वयम् अस्यार्थस्यावबोधकत्वं उक्तम् । तद्रहितानां त्व् अनधिकारः उक्तः । इति प्रतिभाम् एव पृच्छ । यदि न प्रतिभा अस्ति तदानधिकारित्वान् मौनम् एव कार्यम् इत्य् अलं प्रपञ्चेन ॥ (मोटी_३,८.८ ॥

श्रीमहारामायणम् एव प्रशंसति

इतिहासोत्तमाद् अस्मात् परो बोधः प्रवर्तते ।
सर्वेषाम् इतिहासानाम् अयं सार उदाहृतः ॥ (मो_३,८.९ ॥

"अस्मात्" रामायणाख्यात् ॥ (मोटी_३,८.९ ॥

श्रुतेऽस्मिन् वाङ्मये यस्माज् जीवन्मुक्तत्वम् अक्षतम् ।
उदेति स्वयम् एवात इदम् एवातिपावनम् ॥ (मो_३,८.१० ॥

"वाङ्मये" शास्त्रे ॥ (मोटी_३,८.१० ॥

स्थितम् एवास्तम् आयाति जगद्दृश्यं विचारणात् ।
यथा स्वप्ने परिज्ञाते स्वप्नार्थाद् एव भावना ॥ (मो_३,८.११ ॥

"स्थितम् एव" न तु मुद्गरादिप्रहारैः नाशं नीतम् । अत्र दृष्टान्तम् आह "यथे"ति । "भावना" सत्यताभावना । "एव"कारः पादपूरणार्थः । अयं भावः । यथा स्वप्ने जाग्रदवस्थायां असत्यतया परिज्ञाते सति । तत्रानुभूतैः भावाभावैः हर्षामर्षौ न ज्ञायेते । अन्यथा हि जाग्रत्य् अनुभूतैर् अतीतैर् अपि भावाभावैर् इव तत्रत्यैः भावाभावैः हर्षामर्षोत्पादः स्यात् । तथा महारामायणविचारणेन दृश्ये असत्यतया ज्ञाते सति दृश्यविषयैः भावाभावैः हर्षामर्षौ न ज्ञायेते इति ॥ (मोटी_३,८.११ ॥

नन्व् अन्यान्य् अपि शास्त्राणि सन्त्य् एव । तत् कथम् अस्यैवासाधारणकारणत्वं कथयसीत्य् । अत्राह

यद् इहास्ति तद् अन्यत्र यन् नेहास्ति न तत् क्वचित् ।
इदं समस्तविज्ञानशास्त्रकोशं विदुर् बुधाः ॥ (मो_३,८.१२ ॥

"यत् इह" अस्मिन् रामायणे । "अस्ति" सामस्त्येन विद्यते । "तत् अन्यत्र" अन्यशास्त्रेषु । "अस्ति" व्यस्तत्वेन भवतीत्य् अर्थः । "यत् इह नास्ति तत् क्वचित्" कुत्रापि शास्त्रे । "नास्ति" । अतः "बुधाः" समस्तशास्त्रसारज्ञाः । "इदम्" एतत् श्रीमहारामायणं । "समस्तविज्ञानशास्त्रकोशं" सकलाध्यात्मशास्त्रभाण्डागारं । "विदुः" जानन्ति ॥ (मोटी_३,८.१२ ॥

उक्तलक्षणश्रीमहारामायणश्रवणे फलं कथयति

य इदं शृणुयाद् नित्यं तस्योदारचमत्कृतेः ।
बालस्यापि परं बोधं बुद्धिर् एति न संशयः ॥ (मो_३,८.१३ ॥

"बालस्यापि" मूर्खस्यापीत्य् अर्थः । पण्डितस्य तु का कथेति भावः ॥ (मोटी_३,८.१३ ॥

एतद्विमुखस्य कर्तव्यं कथयति

यस्मै नेदं त्व् अभव्याय रोचते दुष्कृतोदयात् ।
विचारयतु यत्किञ्चित् स शास्त्रं ज्ञानवाङ्मयम् ॥ (मो_३,८.१४ ॥

"अभव्याय" आसुरस्वभावयुक्ताय । "ज्ञानवाङ्मयम्" ज्ञानवाक्यनिर्भरम् ॥ (मोटी_३,८.१४ ॥

ननु मुक्तिकामस्य मम किम् एतच्छ्रवणेनेत्य् । अत्राह

जीवन्मुक्तत्वम् अस्मिंस् तु श्रुते समनुभूयते ।
स्वयम् एव यथा पीते नीरोगत्वं वरौषधे ॥ (मो_३,८.१५ ॥

"स्वयम् एव" अयत्नम् एव ॥ (मोटी_३,८.१५ ॥

श्रूयमाणे हि शास्त्रेऽस्मिञ् श्रोता वेत्त्य् एतद् आत्मना ।
यथावद् इदम् अस्माभिर् न तूक्तं वरशापवत् ॥ (मो_३,८.१६ ॥

"एतत्" मदुक्तं वस्तु । ननु यद्य् एतच्छ्रवणे प्रवृत्तस्य किञ्चित् प्रत्यवायादि स्यात् तदा किं कार्यम् इत्य् । अत्राह "इदम्" इति । "वरशापवत्" वरशापयुक्तम् । मन्त्रवद् इति शेषः ॥ (मोटी_३,८.१६ ॥

सर्गान्तश्लोकेन स्वात्मविचारस्य दृश्यात्यन्ताभावज्ञाने असाधारणकारणत्वं कथयति

शाम्यति संसृतिदुःखम् इदं ते
स्वात्मविचारमहाकथयैव ।
नो धनदानतपःश्रुतवेदैस्
तत्कथनोज्झितयत्नशतेन ॥ (मो_३,८.१७ ॥

"ते" तव । "इदं" दृश्यस्वरूपं । "संसृतिदुःखम्" जन्माख्यं दुःखं । "स्वात्मविचारमहाकथया" । "स्वात्मविचारस्य" । या "महाकथा" अन्योऽन्यं महती कथा । तय्"ऐव शाम्यति" । "धनदानतपःश्रुतवेदैः इदं संसृतिदुःखम् नो शाम्यति" । अतः भवितव्यम् इति शेषः । अतः कारणात् पुरुषेण । तस्य "स्वात्मविचारस्य" । यत् "कथनम्" साधुभिः सह अन्योऽन्यकथनं । तदर्थं "उज्झितानि" त्यक्तानि । "यत्नशतानि" कथनव्यतिरिक्तानि यत्नशतानि । येन । सः । तादृशेन भवितव्यम् । इति शिवम् ॥ (मोटी_३,८.१७ ॥


इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायाम् उत्पत्तिप्रकरणेऽष्टमः सर्गः ॥ ३,८ ॥



ओं पूर्वसर्गान्तश्लोकार्थम् एव स्फुटं कथयति

तच्चित्तास् तद्गतप्राणा बोधयन्तः परस्परम् ।
कथयन्तश् च तं नित्यं तुष्यन्ति रमयन्ति ये ॥ (मो_३,९.१ ॥
तेषां ज्ञानैकनिष्ठानाम् आत्मज्ञानविचारणात् ।
सा जीवन्मुक्ततोदेति विदेहोन्मुक्ततैव या ॥ (मो_३,९.२ ॥

"तच्चित्ताः" । "तस्मिन्" स्वात्मविचारे । "चित्तं" येषां । ते । तादृशाः । तथा "तस्मिन्" स्वात्मविचारे । "गताः" निष्ठां गताः । "प्राणाः" बाह्येन्द्रियाणि येषां । ते । तादृशाः । तथा "तम्" आत्मविचारं । "परस्परम् बोधयन्तः" । तथा "तं" आत्मविचारं । "कथयन्तश्" "च ये" साधवः । "तुष्यन्ति" तुष्टियुक्ताः भवन्ति । तथा "रमयन्ति" अन्यान् तुष्टियुक्तान् सम्पादयन्ति । आत्म"ज्ञानैकनिष्ठानां" आत्मविचारैकपराणां । "तेषां" पुरुषाणाम् । "आत्मज्ञानविचारणात् सा जीवन्मुक्तता उदेति" प्रादुर्भवति । "या विदेहमुक्ततैव" भवति । निःशेषं देहाभिमानाभावात् ॥ (मोटी_३,९.१-२ ॥

श्रीरामः पृच्छति

ब्रह्मन् विदेहमुक्तस्य जीवन्मुक्तस्य लक्षणम् ।
ब्रूहि येन तथैवाहं यते शास्त्रदृशा धिया ॥ (मो_३,९.३ ॥

"जीवन्मुक्तस्ये"त्य् अत्र "च"शब्दोऽध्याहार्यः । "यते" यत्नं करोमि । "लक्षणम्" स्वरूपप्रतिष्ठापकः धर्मः । "धिया" बुद्ध्या । कथम्भूतया । "शास्त्रम्" एव "दृक्" नेत्रे । यस्याः । सा । तादृश्या । शास्त्रानुसारिण्येत्य् अर्थः ॥ (मोटी_३,९.३ ॥

श्रीवसिष्ठ उत्तरं कथयति

यथास्थितम् इदं यस्य व्यवहारवतोऽपि च ।
स्तं गतं स्थितं व्योम स जीवन्मुक्त उच्यते ॥ (मो_३,९.४ ॥

"व्यवहारवतोऽपि" विश्वपदार्थेषु व्यवहारं कुर्वतोऽपि । "यस्य" पुरुषस्य । "यथास्थितम्" अनेन प्रकारेणैव स्थितम् । न तु केनापि प्रयत्नेन नाशितस्वरूपं । "इदम्" पुरःस्फुरणशीलं जगत् । "अस्तं" "गतं" नाशं गतं । अत एव "व्योम" शून्यरूपं भवति । पण्डितैः "स जीवन्मुक्तः उच्यते" । भासमानस्य जगतः शुक्तिकारजतवत् असत्यत्वदर्शित्वं जीवन्मुक्तलक्षणम् इति भावः ॥ (मोटी_३,९.४ ॥

बोधैकनिष्ठतां यातो जाग्रत्य् एव सुषुप्तवत् ।
य आस्ते व्यवहर्तैव स जीवन्मुक्त उच्यते ॥ (मो_३,९.५ ॥

"बोधे" दृश्यात्यन्ताभावज्ञानपूर्वके आत्मज्ञाने । "एकं" केवलं । "निष्ठा" रतिः यस्य । सः "बोधैकनिष्ठः" । तस्य भावः तत्"ता" । ताम् "यातः" गतः । "यः" पुरुषः । "जाग्रत्य् एव" जाग्रदवस्थायाम् एव । तत्रापि "व्यवहर्तैव" प्रवाहागतव्यवहारकार्य् एव । "सुषुप्तवत्" सुषुप्त्याविष्ट इव । "आस्ते" । निरनुसन्धान आस्ते इति यावत् । पण्डितैः "सः जीवन्मुक्तः उच्यते" । दृश्यते च स्त्र्यादिनिष्ठस्य पुरुषस्य जाग्रति व्यवहर्तुर् एव सतः सुषुप्तवद् अवस्थितिर् इति नायस्तम् ॥ (मोटी_३,९.५ ॥

नोदेति नास्तम् आयाति सुखे दुःखे मुखप्रभा ।
यथाप्राप्तस्थितेर् यस्य स जीवन्मुक्त उच्यते ॥ (मो_३,९.६ ॥

"यथाप्राप्तस्थितेः" प्रवाहागतनिष्ठस्य । "यस्य" । "सुखे दुःखे" च "मुखप्रभा नोदेति नास्तम् आयाति" हर्षामर्षराहित्यात् । पण्डितैः "सः जीवन्मुक्तः उच्यते" ॥ (मोटी_३,९.६ ॥

यो जागर्ति सुषुप्तस्थो यस्य जाग्रन् न विद्यते ।
यस्य निर्वासनो बोधः स जीवन्मुक्त उच्यते ॥ (मो_३,९.७ ॥

"यः" पुरुषः । "जागर्ति" बाह्यपदार्थविषयं बोधं भजति । कथम्भूतः । "सुषुप्ते" सुषुप्तौ इव तिष्ठतीति । तादृशः । एकचिन्मात्रतानिश्चयेन बाह्यप्रपञ्चानुसन्धानरहितत्वात् । तथा "यस्य" पुरुषस्य । "जाग्रत्" लौकिका जाग्रदवस्था । "न विद्यते" तुर्यमयत्वात् । जीवन्मुक्तो हि जाग्रति सर्वं चिन्मात्रमयं पश्यन् तुर्यावस्थाविष्ट एव भवति । तथा "यस्य निर्वासनः" अहंममतारूपवासनारहितः । "बोधः" बाह्यदेहादिपदार्थज्ञानं । भवति । पण्डितैः "स जीवन्मुक्त उच्यते" ॥ (मोटी_३,९.७ ॥

रागद्वेषभयादीनाम् अनुरूपं चरन्न् अपि ।
योऽन्तर् व्योमवद् अत्यच्छः स जीवन्मुक्त उच्यते ॥ (मो_३,९.८ ॥

"यः" पुरुषः । "रागद्वेषभयादीनाम् अनुरूपं चरन् अपि" । रागाधारे पुत्रादौ रतिं भजन् अपि । द्वेषाधारे शत्रौ विमुखो भवन् अपि । भयकारणात् सिंहादेः चलन् अपि । "अन्तः" मनसि । "व्योमवत् अत्यच्छः" अतिनिर्मलः भवति । पुत्रादिविषयस्य रत्यादेः प्रवाहबलेन निरनुसन्धानकरणात् । अनुसन्धान एव हि मनसि मलं भवति । पण्डितैः "सः जीवन्मुक्तः उच्यते" । "आदि"शब्देन देहादिविषयाणाम् अस्मितादीनां ग्रहणम् ॥ (मोटी_३,९.८ ॥

यस्य नाहङ्कृतो भावो बुद्धिर् यस्य न लिप्यते । ।
कुर्वतोऽकुर्वतो वापि स जीवन्मुक्त उच्यते ॥ (मो_३,९.९ ॥

"यस्य" पुरुषस्य । "अहङ्कृतः भावः" अहङ्कारमयी चित्तवृत्तिः । "ना"स्ति । सर्वत्र ब्रह्मकर्तृत्वदर्शनात् । तथा "यस्य" पुरुषस्य । "बुद्धिः न लिप्यते" लेपयुक्ता न क्रियते । रागादिरूपैः पापैर् इति शेषः । पण्डितैः "सः जीवन्मुक्त उच्यते" । "यस्य" कथम्भूतस्य । "कुर्वतः" शरीरयात्रानिमित्तं प्रवाहागतं वा कर्म कुर्वतः । तथा केनापि कारणेन "अकुर्वतः" वा । तत्र करणकाले निरनुसन्धानकरणात् अकरणकाले शुद्धचिन्मात्रपरामर्शनिष्ठत्वात् अहम्भावधीलेपराहित्यं ज्ञेयम् ॥ (मोटी_३,९.९ ॥

यश् चोन्मेषनिमेषाभ्यां विधेः प्रलयसम्भवौ ।
पश्येत् त्रिलोक्याः खसमः स जीवन्मुक्त उच्यते ॥ (मो_३,९.१० ॥

"खसमः" आकाशसदृशः । "यः" पुरुषः । "त्रिलोक्याः विधेः" भ्वादिबाह्यत्रिलोकीविधानस्य जाग्रदाद्यान्तरत्रिलोकीविधानस्य च । "उन्मेषनिमेषाभ्यां" । अर्थात् परमात्मतया निश्चितस्य चित्तत्त्वस्य "उन्मेषेण" चेत्यानौन्मुख्याख्येन प्रादुर्भावेन । "निमेषेण" चेत्यौन्मुख्याख्येन स्वरूपगोपनेन । "प्रलयसम्भवौ" "पश्यति" संहारोत्पत्ती । तथा तिरोभावाविर्भावौ पश्यति । पण्डितैः "सः जीवन्मुक्तः उच्यते" । अथ वा स्वपरामर्शः "उन्मेषः" । तत्रापि उपेक्षा "निमेषः" । तथा च उन्मेषेण सम्भवः । निमेषेण प्रलयः । इति यथासङ्ख्यं विहायैव सम्बन्धः कार्यः ॥ (मोटी_३,९.१० ॥

भोक्तैव यो न भोक्तेव शुद्धबोधैकतां गतः ।
बुद्धः सुप्त इवास्तेऽन्तः स जीवन्मुक्त उच्यते ॥ (मो_३,९.११ ॥

"शुद्धबोधैकतां" शुद्धबोधेनैकत्वं "गतः" । "यः" पुरुषः । "बुद्धः" बोधयुक्तः सन् । "अन्तः सुप्तः इव आस्ते" तिष्ठति । निरनुसन्धानत्वात् । "यः" कथम्भूत "इव" । "भोक्ता एव" भुजिक्रियाकर्तृत्वं भजन्न् एव । "अभोक्ता इव" स्वस्मिन् शुद्धबोधताज्ञानेन भोक्ताहम् इत्य् अभिमानाभावात् । पण्डितैः "सः जीवन्मुक्तः उच्यते" ॥ (मोटी_३,९.११ ॥

नित्यं द्रष्टैव चाद्रष्टा जीवन्न् एव मृतोपमः ।
व्यवहर्तैव शैलाभः स जीवन्मुक्त उच्यते ॥ (मो_३,९.१२ ॥

यः "द्रष्टैव" दृशिक्रियाकर्तृत्वं भजन्न् एव । न त्व् अन्धवत् तिष्ठन् । "अद्रष्टा" भवति । तथा यः "जीवन्न् एव" जीवनक्रियाकर्तृत्वं भजन्न् एव । "मृतोपमः" भवति । मृतसदृशः भवति । मृतवत् भोगादिवाञ्छाभावात् । तथा यः "व्यवहर्ता एव" व्यवहारं कुर्वन् एव । "शैलाभः" भवति । तत्त्वतः क्षोभराहित्यात् । पण्डितैः "सः जीवन्मुक्तः उच्यते" ॥ (मोटी_३,९.१२ ॥

यस्मान् नोद्विजते लोको लोकान् नोद्विजते च यः ।
हर्षामर्षभयोन्मुक्तः स जीवन्मुक्त उच्यते ॥ (मो_३,९.१३ ॥

"लोकः" सामान्यलोकः । "यस्मात् नोद्विजते" उद्वेगकारणाभावेन उद्वेगं न याति । तथा "यः लोकात् न उद्विजते" निष्प्रयोजनत्वात् । स्वप्रयोजनपरः एव हि येभ्यः स्वप्रयोजनं न पश्यति तेभ्यः उद्विजते । "यः" कथम्भूतः । "हर्षामर्षभयोन्मुक्तः" हर्षामर्षभयरहितः । स्वस्मिन् शुद्धबोधैकताज्ञानात् । पण्डितैः "सः जीवन्मुक्तः उच्यते" ॥ (मोटी_३,९.१३ ॥

शान्तसंसारकलनः कलावान् अपि निष्कलः ।
यः सचित्तोऽपि निश्चित्तः स जीवन्मुक्त उच्यते ॥ (मो_३,९.१४ ॥

"शान्ता" आत्मनि चिन्मात्रतादर्शनेन लयं गता । "संसारकलना" यस्य । सः । तादृशः । "यः" पुरुषः । "कलावान् अपि" ज्ञानाख्यकलायुक्तोऽपि । "निष्कलः" कलाभ्यः निष्क्रान्तः भवति । स्वस्य निष्कलचिन्मात्रताज्ञानात् । तथा "यः सचित्तः अपि" शुद्धसत्त्वस्वरूपचित्तयुक्तः अपि । "निश्चित्तः" चित्तान् निष्क्रान्तः भवति । मलिनचित्ताभावात् । पण्डितैः "सः जीवन्मुक्तः उच्यते" ॥ (मोटी_३,९.१४ ॥

यः समस्तार्थजातेषु व्यवहार्य् अपि शीतलः ।
परार्थेष्व् इव पूर्णात्मा स जीवन्मुक्त उच्यते ॥ (मो_३,९.१५ ॥

"पूर्णात्मा" निरपेक्षशान्तचिन्मात्रत्वेन तृप्तात्मा । "यः समस्तार्थजातेषु" प्रवाहागतेषु सकलेषु प्रयोजनसमूहेषु । "शीतलः" किम् अयं सिध्यति न वेति सन्तापरहितः भवति । केष्व् "इव" । "परार्थेष्व् इव" । यथा लौकिकः "परार्थेषु शीतलः" भवति । तथेत्य् अर्थः । पण्डितैः "स जीवन्मुक्तः उच्यते" ॥ (मोटी_३,९.१५ ॥

जीवन्मुक्तिम् उक्त्वा क्रमप्राप्तां विदेहमुक्तिं कथयति

जीवन्मुक्तपदं त्यक्त्वा देहे कालवशात् क्षते ।
चिद् यात्य् अदेहमुक्तत्वं पवनः स्पन्दनाम् इव ॥ (मो_३,९.१६ ॥

"चित्" लक्षणया चिद्भावतागतः जीवन्मुक्तः । "देहे" शरीरे । "कालवशात्" नियतिवशेन । "क्षते" नष्टे सति । "जीवन्मुक्तपदम्" जीवन्मुक्ततां । "त्यक्त्वा" । "अदेहमुक्तत्वं" विदेहमुक्तभावं । "याति" । क "इव" कां "त्यक्त्वा" । "पवन इव स्पन्दनाम्" । यथा "पवनः स्पन्दनाम्" चेष्टाकरणम् । त्यजति । तथेत्य् अर्थः । "पवनः स्पन्दताम् इवे"ति वा पाठः ॥ (मोटी_३,९.१६ ॥

जीवन्मुक्तवत् तस्यापि लक्षणानि लेशतः कथयति

विदेहमुक्तो नोदेति नास्तम् एति न शाम्यति ।
न सन् नासन् न दूरस्थं न चाहं न च वेतरत् ॥ (मो_३,९.१७ ॥

"विदेहमुक्तः" अनहम्भावेन गृहीतस्य देहस्याप्य् अभावेन विदेहमुक्तिं गतः पुरुषः । "न उदेति" सदोदितचिन्मात्रभावेन अवस्थानात् । तथा "अस्तम् न एति" । यथा तथा कल्पितस्य तदस्तस्य ततः एवोत्थानात् । अन्यथासम्भवात् । तथा "न शाम्यति" संसारभानाभावप्रसङ्गात् । "न सत्" भवति । बाह्यान्तरकरणागोचरत्वात् । तथा "असत् न" भवति । एतादृक्प्रपञ्चभावेन भानाभावप्रसङ्गात् । न हि शशशृङ्गं केनापि रूपेण भातुं शक्नोति । तथा "दूरस्थं न" भवति । सर्वेषाम् अहन्तासारत्वेन स्थितत्वात् । तथा "अहं न" भवति । परिच्छिन्नः प्रमाता न भवति । अपरिमितप्रमातृत्वेन स्थितत्वात् । तथा "इतरत्" परिमितं प्रमेयं । "न" भवति । अपरिमितप्रमेयभावेन स्थितत्वात् ॥ (मोटी_३,९.१७ ॥

विश्वोत्तीर्णताम् उक्त्वा विश्वमयतां लेशतः कथयति

सूर्यो भूत्वा प्रतपति विष्णुः पाति जगत्त्रयम् ।
रुद्रः सर्वान् संहरति सर्वान् सृजति पद्मजः ॥ (मो_३,९.१८ ॥

असौ शुद्धचिन्मात्रतां यातः विदेहमुक्तः "सूर्यो भूत्वा" सूर्यभावम् आसाद्य । "प्रतपति" तापक्रियाकर्तृत्वं भजति । तथा "विष्णुः भूत्वा जगत्त्रयं पाति" रक्षति । एवं सर्वत्र योज्यम् । एषां सूर्यादीनां च बाह्यान्तरत्वेन द्वैविध्यं ज्ञेयम् । बाह्ये हि "सूर्यः" यः व्योम्नि दृश्यते । आन्तरस् तु प्राणः । सूर्यवत् शरीरपाककारित्वात् । तथा "विष्णुः" बुद्धिः । तद्वत् सङ्कल्पस्थितिकारित्वात् । तथा "रुद्रः" अहङ्कारः । तद्वत् सर्वसङ्कल्पानां स्वस्मिन् लयीकरणात् । तथा "पद्मजः" मनः । तद्वत् सङ्कल्पोत्पादकत्वात् । एवं यथासम्भवं सर्वत्र योज्यम् । ननु कथं विदेहमुक्तः सूर्यादिचराचरपदार्थभावम् आगत्य तद्गताः सर्वाः क्रियाः करोतीति चेत् । सत्यम् । तत्र चराः तावत् स्फुटम् एव अन्तर्यामिशुद्धचित्तत्त्वाधिष्ठिताः लक्ष्यन्ते । अन्यथा मरणावस्थां गतेष्व् अपि तेषु प्राग्वत् क्रियाधारत्वप्रसङ्गात् । ननु तत्क्रियायां प्राण एव प्रेरकः दृश्यते । निष्प्राणानाम् अचरशरीराणां निष्क्रियत्वदर्शनात् । असद् एतत् । न हि प्राणो नामात्र प्रेरकत्वे समर्थः कश्चिच् चेतन इव लक्ष्यते । किं त्व् अन्यस्य कस्यापि स्वतन्त्रस्य चेतनस्य प्रेरणया । देवदत्तप्रेर्यमाणकन्दुकवत् निर्गमप्रवेशकारीव दृश्यते इति शुद्धस्य चिन्मात्रस्यैव चरान्तर्यामित्वेन चरगतक्रियाकर्तृत्वं ज्ञायते । अचरेष्व् अपि दृश्यमाणा अवस्थितिक्रिया क्रियात्वात् चरगतक्रियावत् तत्कृता एव ज्ञेया । यतः यत्र साक्षाच् चेतनतया भासमानानां चराणां स्वक्रियायाम् असामर्थ्यम् अस्ति तत्र साक्षाज् जडत्वेन भासमानानां अचराणां का कथा क्रियाकारित्वे । तेन यथा अधिष्ठातृभूतेन देवदत्तेन क्वचित् स्थापिताः स्तम्भादयः तिष्ठन्ति तथा स्वान्तर्गतेन केनापि तत्त्वेन स्थापिताः अचराः तिष्ठन्तीति ज्ञेयम् । तत्र देवदत्तस्य तेभ्यः बहिःस्थता प्रत्यक्षम् एव दृश्यते इति न तत्र तस्य तदन्तर्गतत्वं कल्प्यते । अत्र तु बहिः स्थूलस्य कस्याप्य् अदर्शनात् तदन्तर्गतत्वं कल्प्यते । बहिर्गतत्वम् अपि तस्य न विरुध्यते इत्य् आस्ताम् एतत् । एवं च शुद्धचिन्मात्रे पर्यवसितं सर्वक्रियाकर्तृत्वं तन्मयतागते तस्मिन्न् अपि सिद्धम् एव । समुद्रे लीनस्य जलबिन्दोः इव समुद्रगुणविशिष्टत्वम् । अवशिष्टं मृतशरीरम् अपि पक्षाक्षिप्तम् एव ज्ञेयम् । ननु तथापि विदेहमुक्तः सर्वाः क्रियाः करोतीत्य् एतावन्मात्रम् एव सिद्धम् । न तु सर्वं भूत्वेत्य् एतत् सिद्धम् । तत्र का वार्तेति चेत् । सत्यम् । तत्रेयं वार्ता । चराचराः भावाः किम्मयाः इति विचार्यमाणे तत्स्वरूपं हस्तग्राहाभावात् अनिर्वाच्यतायाम् एव विश्राम्यति । अनिर्वाच्यता एव च शुद्धचित्तत्त्वस्य स्वरूपम् इति शुद्धचिद्रूपतां गतस्य विदेहमुक्तस्य सर्वभावो युक्त एवेति न कोऽपि विरोधः । एतच् च शुद्धचित्तत्त्वस्वरूपम् अनुभवत्सु प्रत्यक्षसिद्धम् एव । तदविद्वदर्थे तु अयं प्रयत्नः कृत इत्य् अलं प्रपञ्चेन ॥ (मोटी_३,९.१८ ॥

खं भूत्वा पवनस्कन्धान् धत्ते सर्क्षसुरासुरान् ।
कुलाचलगणो भूत्वा लोकपालपुरास्पदम् ॥ (मो_३,९.१९ ॥

"सर्क्षसुरासुरान्" नक्षत्रदेवासुरसहितान् । "कुलाचलगणः भूत्वा लोकपालपुरास्पदं" भवतीति सम्बन्धः ॥ (मोटी_३,९.१९ ॥

भूमिर् भूत्वा बिभर्तीमां लोकस्थितिम् अखण्डिताम् ।
तृणगुल्मलता भूत्वा ददाति फलसन्ततिम् ॥ (मो_३,९.२० ॥

स्पष्टम् ॥ (मोटी_३,९.२० ॥

बिभ्रज् जलानलाकारं ज्वलति भवति द्रुतः ।
चन्द्रोऽमृतं प्रस्रवति मृतिं हालाहलं विषम् ॥ (मो_३,९.२१ ॥

"जलाकारं बिभ्रद् द्रुतः" द्रवगुणयुक्तः । "भवति" । "अनलाकारं बिभ्रत् ज्वलती"त्य् योज्यम् । "चन्द्रो" भूत्वा "हालाहलं" भूत्वेति सम्बन्धनीयम् ॥ (मोटी_३,९.२१ ॥

तेजः प्रकटयत्य् आशास् तनोत्य् आन्ध्यं तमो भवत् ।
शून्यं सद् व्योमताम् एति गिरिः सन् रोधयत्य् अलम् ॥ (मो_३,९.२२ ॥

"रोधयति" रोधनं करोति ॥ (मोटी_३,९.२२ ॥

करोति जङ्गमं चित्त्वे स्थावरं स्थावराकृतिः ।
भूत्वार्णवो वलयति भूस्त्रियं वलयो यथा ॥ (मो_३,९.२३ ॥

"चित्त्वे" चिद्भावे स्थित्वा । चिद्भावयुक्तो भूत्वेति यावत् । "जङ्गमं करोति" "स्थावराकृतिः" सन् "स्थावरं करोति" । "अर्णवः भूत्वा भूस्त्रियं" भूर् एव स्त्री । ताम् "वलयति" समन्तात् पर्यन्तेषु आवृणोति । को "यथा" । "वलयो यथा" । "यथा वलयः स्त्रियं" । अर्थात् स्त्रीभुजं । "वलयति" । तथेत्य् अर्थः ॥ (मोटी_३,९.२३ ॥

परमार्कवपुर् भूत्वा प्रकाशेऽन्तर् विसारयन् ।
त्रिजगत्त्रसरेण्वोघं शान्तम् एवावतिष्ठति ॥ (मो_३,९.२४ ॥

"परमार्कवपुः" चित्सूर्यवपुः । "भूत्वा" । "प्रकाशे" प्रकाशरूपायां स्वभित्तौ । "त्रिजगत्त्रसरेण्वोघं" त्रिजगदाख्यं परमाणुसमूहं । "विसारयन्" विस्तारयन् । "शान्तम् एव" साक्षिभावेन स्थितत्वात् तत्कृतक्षोभरहितम् एव्"आवतिष्ठति" । युक्तं चार्कस्य प्रकाशे त्रसरेण्वोघविसारणं शान्तम् अवस्थानं च ॥ (मोटी_३,९.२४ ॥

विशेषकलनाम् अशक्यां ज्ञात्वा सामान्येन कथयति

यत् किञ्चिद् इदम् आभाति भातं वा भाम् उपैष्यति ।
कालत्रयगतं दृश्यं तद् असौ सर्वम् एव वा ॥ (मो_३,९.२५ ॥

"वा" पक्षान्तरे । "यत् किञ्चित् इदं" जगत् । "भातम्" पूर्वं स्फुरितं । तथा "आभाति" अद्य स्फुरति । तथा "भाम्" स्फुरणम् । "उपैष्यति" अग्रे आगमिष्यति । "तत् कालत्रयगतम् सर्वं दृश्यम् असौ" उक्तः विदेहमुक्तः । भवति ॥ (मोटी_३,९.२५ ॥

अत्र श्रीरामः पृच्छति

कथम् एवं वद ब्रह्मन् भूयते विषमा हि मे ।
दृष्टिर् एषा तु दुष्प्रापा दुराक्रम्येति निश्चयः ॥ (मो_३,९.२६ ॥

हे "ब्रह्मन्" । त्वं "वद" कथय । पुरुषेण "एवम्" एतादृग्गुणयुक्तेन विदेहमुक्तेन । "कथम् भूयते" कथं सम्पद्यते । "हि" यस्मात् कारणात् । "मे निश्चयः" । "इति" एवं । भवति । "इति" किम् । "इति विषमा" कठिना । "एषा" पूर्वोक्ता । "दृष्टिः" विदेहमुक्तिरूपा दृष्टिः । "दुष्प्रापा दुराक्रम्या" च भवति ॥ (मोटी_३,९.२६ ॥

श्रीवसिष्ठ उत्तरं कथयति

मुक्तिर् एषोच्यते राम ब्रह्मैतत् समुदाहृतम् ।
निर्वाणम् एतत् कथितं शृणु सम्प्राप्यते कथम् ॥ (मो_३,९.२७ ॥

हे "राम" । पण्डितैः "एषा" एतत् विदेहमुक्तत्वं । "मुक्तिः उच्यते" । जीवन्मुक्तत्वस्य सत्त्वरूपचित्ताश्रयत्वेनामुक्तिकल्पत्वात् । पण्डितैः "एतत्" "ब्रह्म समुदाहृतम्" कथितम् । सर्वपदार्थभावेन बृंहणाभाक्त्वात् । पण्डितैः "एतत् निर्वाणं कथितम्" सर्वथा परिमिताहन्तायाः लयीभावात् । त्वं "शृणु एतत्" पुरुषेण "कथं प्राप्यते" ॥ (मोटी_३,९.२७ ॥

यद् इदं दृश्यते दृश्यम् अहंत्वत्तादिसंयुतम् ।
सतोऽप्य् अस्याप्य् अनुत्पत्त्या बुद्ध्या वैतद् अवाप्यते ॥ (मो_३,९.२८ ॥

अस्माभिः । "अहंत्वत्तादिसंयुतं यद् इदम् दृश्यं" जगत् । "दृश्यते" अनुभूयते । "सतः अपि" एवम् एव स्थितस्यापि । "अस्य" जगतः । "अनुत्पत्त्याः बुद्ध्या" अनुत्पन्नम् एवेदम् इत्य् एवंरूपस्य अभावस्य ज्ञानेनैव । तज्जगद्विषयानुत्पन्नत्वज्ञानेनेति यावत् । "एतत्" उक्तगुणं विदेहमुक्तत्वम् । "अवाप्यते" प्राप्यते । "अपिवा"शब्दौ एवशब्दार्थे । एतेन दृश्यात्यन्ताभावस्य विदेहमुक्तिं प्रति कारणत्वम् उक्तम् ॥ (मोटी_३,९.२८ ॥

श्रीरामः पुनः पृच्छति

विदेहमुक्तास् त्रैलोक्यं सम्पद्यन्ते यदा तदा ।
मन्ये ते सर्गताम् एव गता वेद्यविदां वर ॥ (मो_३,९.२९ ॥

"विदेहमुक्ताः यदा" यदि । "त्रैलोक्यं सम्पद्यन्ते" । हे "वेद्यविदां वर" । अहं "मन्ये" । "तदा ते सर्गताम् एव गताः" सर्गभावम् एव गताः भवन्ति । सर्गान्तर्गतपदार्थभावेनैव स्फुरणात् ॥ (मोटी_३,९.२९ ॥

श्रीवसिष्ठ उत्तरं कथयति

विद्यते चेत् त्रिभुवनं तत् तत्तां सम्प्रयान्तु ते ।
यत्र त्रैलोक्यशब्दार्थो न सम्भवति कश्चन ॥ (मो_३,९.३० ॥
तत्र त्रिलोकतां यातं ब्रह्मेत्य् उक्त्यर्थधीः कुतः ।
तस्मान् नो सम्भवत्य् अन्या जगच्छब्दार्थकल्पना ॥ (मोटी_३,९.३१ ॥


"त्रिभुवनं" सर्गः ।"चेद्" यदि । "विद्यते" सत्यं भवति । "तत्" तदा । "ते" विदेहमुक्ताः । "तत्ताम्" त्रिभुवनतां । "सम्प्रयान्तु" सम्यक् गच्छन्तु । "यत्र" यस्मिन् स्थाने । "कश्चन त्रैलोक्यशब्दार्थः" त्रैलोक्यशब्दयुक्तः अर्थः । "त्रैलोक्यशब्दार्थः" त्रैलोक्याख्यः शब्दः तदर्थश् चेति यावत् । "न सम्भवति" । "तत्र" तस्मिन् स्थाने । "इत्य् उक्त्यर्थधीः" एवंरूपोक्त्यर्थाकारा धीः । एवंरूपा उक्तिः एवंरूपः अर्थश् चेति यावत् । "कुतः" भवति । त्रैलोक्यशब्दार्थयोर् असम्भवात् । न सम्भवतीत्य् अर्थः । "इति" किम् । "इति" "ब्रह्म" लक्षणया विदेहमुक्तः । "त्रिलोकतां" सर्गतां । "यातं" भवति । उपसंहारं करोति "तस्माद्" इति । "तस्मात्" ततो हेतोः । "अन्या" ब्रह्मणः अन्या । "जगच्छब्दार्थकल्पना" जगच्छब्दार्थरूपा कल्पना । "न" भवति ॥ (मोटी_३,९.३०-३१ ॥

अनेन प्रसङ्गेन जगद्ब्रह्मणोः ऐक्यम् एव पुनः पुनः कथयति

नन्यच् छान्तम् आभासमात्रम् आकाशनिर्मलम् ।
ब्रह्मैव जगद् इत्य् एव सत्यं सत्यावबोधिनः ॥ (मो_३,९.३२ ॥

"जगत्" कर्तृ । "अनन्यत्" सर्वरूपत्वेन स्थितत्वात् स्वव्यतिरिक्तवस्तुरहितं । "शान्तं" स्वरूपे विश्रान्तम् । "आभासमात्रकम्" आभासमात्रस्वरूपम् । "आकाशनिर्मलम्" आकाशवत् स्वच्छम् । "ब्रह्म एव" भवति । "इत्य् एव" एतद् एव । "सत्यावबोधिनः" सत्यज्ञानयुक्तस्य । "सत्यं" भवति ॥ (मोटी_३,९.३२ ॥

अत्र दृष्टान्तं कथयति

यथा हि हेमकटके विचार्यापि न दृश्यते ।
कटकत्वं क्वचिन् नाम ऋते निर्मलहाटकम् ॥ (मो_३,९.३३ ॥

"यथा ही"ति दृष्टान्तत्वद्योतकम् । अस्माभिः । "हेमकटके" सुवर्णवलये । "विचार्यापि" विचारयित्वापि । "निर्मलहाटकम् ऋते कटकत्वं नाम क्वचित् न दृश्यते" । यथा कटकं हेमैव भवति तथा जगत् ब्रह्मैव भवतीति पूर्वश्लोकदृष्टान्ततया योज्यम् उत्तरश्लोकद्वयं च ॥ (मोटी_३,९.३३ ॥

द्वितीयं दृष्टान्तं कथयति

जलाद् ऋते पयोवीचौ नाहं पश्यामि किञ्चन ।
वीचित्वं त्वादृशैर् दृष्टं यत् तु नास्त्य् एव तत्र हि ॥ (मो_३,९.३४ ॥

"अहं पयोवीचौ" जलतरङ्गे । "जलाद् ऋते किञ्चन न पश्यामि" पयोवीचौ "नास्ति" ॥ (मोटी_३,९.३४ ॥

तृतीयं दृष्टान्तं कथयति

स्पन्दत्वं पवनाद् अन्यन् न कदाचन कुत्रचित् ।
स्पन्द एव सदा वायुर् जगत् तस्मान् न विद्यते ॥ (मो_३,९.३५ ॥

"कदाचन" कुत्रापि काले । "कुत्रचित्" कुत्रापि देशे । "स्पन्दत्वम् पवनात् अन्यत् न" भवति । यतः "वायुः स्पन्द एव" भवति । फलितं कथयति "जगद्" इति । यतः जगतः ब्रह्मत्वे दृष्टान्तत्रयम् अस्ति "तस्मात् जगत् न विद्यते" । अतश् च विदेहमुक्तस्य सर्गतागमनं कथं भवतीति भावः ॥ (मोटी_३,९.३५ ॥

पुनर् अपि पूर्वोक्तम् अर्थम् एव सदृष्टान्तं कथयति

यथा शून्यत्वम् आकाशस् ताप एव मरौ जलम् ।
तेज एव यथालोको ब्रह्मैव त्रिजगत् तथा ॥ (मो_३,९.३६ ॥

स्पष्टम् ॥ (मोटी_३,९.३६ ॥

श्रीरामः पृच्छति

त्यन्ताभावसम्पत्त्या जगद्दृश्यस्य मुक्तता ।
ययोदेति मुने युक्त्या तां ममोपदिशोत्तमाम् ॥ (मो_३,९.३७ ॥

हे "मुने" । "जगद्दृश्यस्य" जगद्रूपस्य दृश्यस्य । "यया युक्त्या अत्यन्ताभावसम्पत्त्या" अत्यन्ताभावसम्पादनेन । "मुक्तता उदेति" । त्वम् "मम उत्तमां" निरतिशयाम् । "ताम्" युक्तिं । "उपदिश" । जगद्विषयस्यात्यन्ताभावस्य मुक्ततासाधने कथं सामर्थ्यम् अस्तीत्य् अत्र युक्तिं कथयेति भावः ॥ (मोटी_३,९.३७ ॥

ननु युक्तिम् एव किं पुनः पुनः पृच्छसीत्य् अत्रोत्तरकथनपूर्वं प्रश्नान्तरं करोति

मिथः सम्पन्नयोर् द्रष्टृदृश्ययोर् एकसङ्क्षये ।
द्वयाभावे स्थितिं याते निर्वाणम् अवशिष्यते ॥ (मो_३,९.३८ ॥
दृश्यस्य जगतस् तस्माद् अत्यन्तानुद्भवो यथा ।
ब्रह्म चेत्थं स्वभावस्थं बुध्यते वद मे तथा ॥ (मो_३,९.३९ ॥

उक्तनीत्या "मिथः सम्पन्नयोः" यतः त्वयैवैतद् उक्तम् इति शेषः । यतः त्वया एव उक्तं "मिथः सम्पन्नयोः" उक्तनीत्या मिथः सिद्धयोः । "द्रष्टृदृश्ययोः" मध्ये । "एकसङ्क्षये" सति । ततः "द्वयाभावे स्थितिं याते" सति । "निर्वाणं" कैवल्यम् । "अवशिष्यते" । "तस्मात्" ततः कारणात् । "दृश्यस्य जगतः" दृश्यस्वरूपस्य जगतः । "अत्यन्तानुद्भवः" अत्यन्ताभावस्वरूपा अत्यन्तानुत्पत्तिः । "यथा" यया युक्त्या । "बुध्यते" ज्ञायते । "तथा ब्रह्म" जगद्भावेन बृंहितं शुद्धचित्तत्त्वं । "इत्थं" जगद्रूपेण । "स्वभावस्थं" स्वरूपस्थं । "यथा बुध्यते" । त्वं "तथा च मे वद" कथय ॥ (मोटी_३,९.३८-३९ ॥

रसावेशेनोन्मत्तवत् पुनर् अपि दृश्यात्यन्ताभावसिद्धियुक्तिं ब्रह्मणः इत्थंस्वभावावस्थितियुक्तिं च पृच्छति

कयैतज् ज्ञायते युक्त्या कथम् एतत् प्रसिध्यति । ।
एतस्मिंस् तु मुने सिद्धे न साध्यम् अवशिष्यते ॥ (मो_३,९.४० ॥

"एतत्" अयं दृश्यात्यन्ताभावः इदम् ब्रह्मणः इत्थंस्वभावावस्थानं च । ननु किमर्थम् अत्र पुनः पुनः प्रश्नान् करोषीत्य् । अत्राह "एतस्मिन्" इति । हे "मुने" । "एतस्मिन् सिद्धे" सति । "साध्यम्" साधनीयं । "नावशिष्यते" अवशिष्टं न भवति । मुक्तिमात्रस्यैवाकाङ्क्षितत्वात् तस्य चानेनैव सिद्धत्वात् ॥ (मोटी_३,९.४० ॥

श्रीवसिष्ठः उत्तरं कथयति

बहुकालम् इयं रूढा मिथ्याज्ञानविषूचिका । ।
नूनं विचारमन्त्रेण निर्मूलम् उपशाम्यति ॥ (मो_३,९.४१ ॥

"नूनं" निश्चये । "इयं मिथ्याज्ञानविषूचिका" शुद्धचिन्मात्रे दृश्यम् इदम् इत्य् एवंरूपो ज्ञानविशेषः । "रूढा" मनसि सत्यत्वेन भाता । युक्तं च "मन्त्रेण" विषूचिकायाः उपशमनम् । "विचारश्" चात्र किंरूपम् इदं दृश्यम् इत्य् एवंरूपो ज्ञेयः ॥ (मोटी_३,९.४१ ॥

नन्व् अस्मिन् समये मया कृत एव लेशतो विचारः । तत् कथम् इदं दृश्यं न शान्तम् इत्य् । अत्राह

न शक्यते झगित्य् एव समुच्छेदयितुं क्षणात् ।
समप्रयतने ह्य् अद्रौ समारोहावरोहणे ॥ (मो_३,९.४२ ॥

"समुच्छेदयितुं" नाशयितुम् । उत्तरार्धेनैतत् समर्थयति "समे"ति । यथा कश्चित् पर्वताग्रम् आरूढः ततश् चावतरितुम् इच्छन् "न झगित्य् एवा"वतरितुं शक्नोति । तथा चिररूढा दृश्यसत्यताप्रतीतिः "न झगिति" दूरीकर्तुं "शक्यते" इति बहुकालं विचारः कर्तव्य इति भावः ॥ (मोटी_३,९.४२ ॥

युक्तिकथनं फलितत्वेन प्रतिजानीते

तस्माद् अभ्यासयोगेन युक्त्या न्यायोपपत्तिभिः ।
जगद्भ्रान्तिर् यथा शाम्येत् तथेदं कथ्यते शृणु ॥ (मो_३,९.४३ ॥

"तस्मात्" ततो हेतोः । "अभ्यासयोगेन" विचाराभ्यासयुक्त्या । तथा "युक्त्या" स्वबुद्धिकृतया युक्त्या । तथा "न्यायोपपत्तिभिः" न्यायशास्त्रेषूक्ताभिः युक्तिभिः । "जगद्भ्रान्तिः" दृश्यस्वरूपजगद्भ्रमः । "यथा" येन प्रकारेण । "शाम्येत्" । "तथा" तेन प्रकारेण । "इदम्" वक्ष्यमाणं वाग्जालं । मया "कथ्यते" । त्वं तत् "शृणु" श्रवणविषयं कुरु ॥ (मोटी_३,९.४३ ॥

ननु तच्छ्रवणेन मम किं सेत्स्यतीत्य् । अत्राह

वदाम्य् आख्यायिकां राम याम् इमां बोधसिद्धये ।
तां चेच् छृणोषि तत् साधो मुक्त एवासि बुद्धिमान् ॥ (मो_३,९.४४ ॥

स्पष्टम् ॥ (मोटी_३,९.४४ ॥

समनन्तरकृतां प्रतिज्ञां सम्पादयन् प्रकरणारम्भे प्रतिज्ञातं सविस्तरकथनं प्रस्तौति

थोत्पत्तिप्रकरणं मयेदं तव कथ्यते । ।
यः किलोत्पद्यते राम तेन मुक्तेन भूयते ॥ (मो_३,९.४५ ॥

"अथ"शब्दः आनन्तर्यार्थः सङ्क्षेपकथनानन्तरतां द्योतयति । किमर्थम् उत्पत्तिप्रकरणम् एव प्रथमं कथ्यते इत्य् । अत्राह "यः किले"ति । अतः मुक्तिकथने प्रवृत्तैर् अस्माभिः उत्पत्तिप्रकरणकथनम् एव कार्यम् । अन्यथा निराधारायाः मुक्तेः कथनम् अयुक्तं स्याद् इति भावः ॥ (मोटी_३,९.४५ ॥

विस्तरेण कथयिष्यमाणेऽस्मिन्न् उत्पत्तिप्रकरणे त्वं किं कथयसीत्य् । अत्राह

इयम् इत्थं जगद्भ्रान्तिर् भात्य् अजातैव खात्मिका ।
इत्य् उत्पत्तिप्रकरणे कथ्यतेऽस्मिन् मयाधुना ॥ (मो_३,९.४६ ॥

"इयम्" पुरःस्फुरणशीला । "जगद्भ्रान्तिः" जगदाकारः भ्रमः । "इत्थं" अनया युक्त्या । "अजाता एव" अनुत्पन्ना एव । अतः "खात्मिका" आकाशस्वरूपा सती । "भाति" स्फुरति । "इति" एतत् । "मया अधुना" "अस्मिन् उत्पत्तिप्रकरणे कथ्यते" ॥ (मोटी_३,९.४६ ॥

उत्पत्तिप्रकरणम् एव कथयिष्यन् स्थूणानिखननन्यायेनोत्पत्तिमूलकारणभूतशुद्धचिन्मात्रप्रकटनार्थम् आदौ तदावरकप्रपञ्चलयं तावत् कथयति

यद् इदं दृश्यते किञ्चिज् जगत् स्थावरजङ्गमम् । ।
सर्वं सर्वप्रकाराढ्यं ससुरासुरकिंनरम् ॥ (मो_३,९.४७ ॥
तन् महाप्रलये प्राप्ते रुद्रादिपरिणामिनि ।
भवत्य् असद् अदृश्यं च क्वापि याति विनश्यति ॥ (मो_३,९.४८ ॥

"किञ्चित्" अनिर्वाच्यस्वरूपम् । "सर्वप्रकाराढ्यं" समस्तभावाभावादिप्रकारयुक्तं । "महाप्रलये" तुर्याख्ये अवस्थाविशेषे महाकल्पान्तसमये च । "रुद्रादिपरिणामिनि" रुद्रादिलययुक्ते । रुद्रोऽत्र अहङ्कारः संहाराधिकारी श्रीमहादेवो ज्ञेयः । "आदि"शब्देन बुद्ध्यादेः सृष्टिस्थित्यधिकारिणः विष्ण्वादेश् च ग्रहणम् । "अदृश्यम्" बाह्येन्द्रियागोचरम् । ननु कथम् "अदृश्यं च" "भवती"त्य् । अत्राह "क्वापी"ति । "क्वापि याति" अनिर्वाच्ये कस्मिन् चित्तत्त्वे एकतां याति । अन्यतया स्फुरतीति यावत् । अत एव "विनश्यति" अदर्शनं गच्छति । न हि भासमानस्य सर्वथा विनाशो युक्तः । शुक्तिकारजतस्यापि सर्वथा विनाशप्रसङ्गात् । न हि शुक्तिकारजतं सर्वथा विनश्यति । किं तु शुक्तिभावेन स्फुरति ॥ (मोटी_३,९.४७-४८ ॥

ननु भासमानस्यैतस्य जगतः नाशे किं शिष्यते । भासमानस्य शुक्तिकारजतस्य नाशे हि शुक्तिका शिष्यते इत्य् । अत्राह

ततः स्तिमितगम्भीरं न तेजो न तमस् ततम् ।
नाख्यम् अनभिव्यक्तं सत् किञ्चिद् अवशिष्यते ॥ (मो_३,९.४९ ॥

"ततः" दृश्यनाशानन्तरम् । "किञ्चित्" अर्थात् दृश्यविनाशसाक्षिस्वरूपं किम् अपि अनिर्वाच्यं वस्तु । "शिष्यते" शिष्टं भवति । अन्यथा भासमानस्य इयतः जगतः कुत्रावस्थानं स्यान् । न हि भासमानस्य विनाशो घटस्वरूपनाशवत् युक्तः । शुक्तिकारजतनाशवद् अन्यरूपतया स्फुरणमात्ररूपत्वात् । अन्यरूपतया स्फुरणं प्राधान्यं विना नोपपद्यत इति । "किञ्चित्" कथम्भूतम् । "स्तिमितगम्भीरम्" । "स्तिमितम्" चेत्यौन्मुख्याख्यस्पन्दरहितम् । "गम्भीरम्" स्वविषयावगाहित्रभावेनावगाहनक्रियाविषयत्वाभावेन च अवगाहितुम् अशक्यम् । तादृशं च तत् तादृशं चेति । पुनः कथम्भूतं । "न तेजः" शुद्धचिन्मात्ररूपत्वेन जीवादिस्वरूपलौकिकचेतनव्यतिरिक्तम् इत्य् अर्थः । तथा "न तमः" जडपदार्थव्यतिरिक्तम् इत्य् अर्थः । अथ वा चिन्मात्ररूपत्वेन चेत्यस्वरूपबाह्यतेजस्तमोव्यतिरिक्तम् इति ज्ञेयम् । पुनः कथम्भूतम् । सर्वत्रानुस्यूतम् । पुनः कथम्भूतम् । "अनाख्यम्" आख्याकर्तृत्वेनावस्थानात् आख्याविषयत्वाभावाच् चाख्यातुम् अशक्यम् इत्य् अर्थः । पुनः कथम्भूतं । "अनभिव्यक्तम्" बाह्यान्तःकरणागोचरत्वेन अप्रकटस्वरूपम् । कृतश् च पूर्वम् एषां विशेषणानां हेतुहेतुमद्भावेन शृङ्खलाबन्ध इति न पुनर् आयस्तम् ॥ (मोटी_३,९.४९ ॥

अवशिष्टतया प्रोक्तं वस्तु पुनर् अपि विस्तरेण विशिनष्टि

न शून्यं नापि चाकाशं न दृश्यं न च दर्शनम् ।
न च भूतपदार्थौघो यद् अनन्ततया स्थितम् ॥ (मो_३,९.५० ॥

"अनन्ततया" अनन्तभावेन । "स्थितं यत्" वस्तु । "शून्यं न" भवति । तत्त्वे हि जगदधिष्ठानत्वम् अयुक्तं स्यात् । न हि शून्यं कस्यापि अधिष्ठानं दृष्टम् । तत्र भासमानस्य पिच्छिकादेः नायनरश्म्यधिष्ठानत्वात् । तथा "यत्" वस्तु । "आकाशं न" भवति । प्रोक्तन्यायेन शून्यव्यतिरिक्तत्वात् । आकाशस्य च शून्यैकमयत्वात् । "यत् दृश्यं न" भवति । केवलद्रष्टृस्वरूपत्वात् । "यत्" वस्तु । "दर्शनम् न" भवति । द्रष्टृदृश्यानपेक्षसिद्धिकत्वात् । "यत् भूतपदार्थौघः न" भवति । तत्त्वे हि जडं स्यात् ॥ (मोटी_३,९.५० ॥

किम् अप्य् अव्यपदेशात्म पूर्णात् पूर्णतराकृति ।
न सन् नासन् न सदसन् नाभावो भवनं न च ॥ (मो_३,९.५१ ॥

"पूर्णात्" पूर्णत्वेनाभिमतात् आकाशादेः । "पूर्णतराकृति" पूर्णतराकारम् । यत् वस्तु । "किम् अप्य् अव्यपदेशात्म" किम् अप्य् अनिर्वाच्यस्वरूपं भवति । तथा यत् "सत् न" भवति । [...] जगदधिष्ठानत्वायोगात् । तथा यत् "सदसत् न" भवति । उभयदोषप्रसङ्गात् । तथा यत् "अभावः न" भवति । तद्विरुद्धाभावतयाप्य् अवस्थानात् ॥ (मोटी_३,९.५१ ॥

चिन्मात्रं चेत्यरहितम् अनन्तम् अजरं शिवम् ।
नादिमध्यपर्यन्तं यद् अनाधि निरामयम् ॥ (मो_३,९.५२ ॥

"यत्" एवंविधं भवति । एवंविधं कीदृग् इत्य् अपेक्षायाम् आह "चिन्मात्रम्" इत्यादि । "चिन्मात्रम्" केवलं चित्स्वरूपम् । अत एव "चेत्यरहितम्" चेत्यारूषितम् । "अनन्तम्" स्वान्तस्यापि साक्षित्वेन स्थितत्वात् । तत्र हि "अनादिमध्यपर्यन्तम्" आदिमध्यपर्यन्तव्यवस्थाकारिदेशकालभासकत्वात् आदिमध्यपर्यन्तरहितम् । "अनाधि" चित्ताभावेन तदाश्रिताधिरहितम् । "निरामयम्" भावाभावादिस्वरूपरोगरहितम् ॥ (मोटी_३,९.५२ ॥

यस्मिञ् जगत् प्रस्फुरति दृष्टिमौक्तिकहंसवत् ।
यश् चेदं यश् च नैवेदं देवः सदसदात्मकः ॥ (मो_३,९.५३ ॥

"यस्मिन्" वस्तुनि । "जगत् प्रस्फुरति" अधिष्ठेयतया विलसति । कथं । "दृष्टिमौक्तिकहंसवत्" । दृष्टौ स्फुरितौ मौक्तिकहंसौ "दृष्टिमौक्तिकहंसौ" । ताव् इव तद्"वत्" । रोगवशेन हि दृष्ट्यवयवभूताः रश्मयः मौक्तिकभावेन हंसभावेन चाकाशे स्फुरन्ति । "सदसदात्मकः" सदसत्स्वरूपः । अनिर्वाच्य इति यावत् । "यः देवः" । "यः" क्रीडाशीलः द्योतनशीलश् "च" । "इदं" इदन्तया विषयीकृतं भावजातं भवति । सारभावेन स्थितत्वात् । "यः देवः इदं न" भवति । अहन्तासारत्वेन स्थितत्वात् ॥ (मोटी_३,९.५३ ॥

कर्णजिह्वोऽनासात्वङ्नेत्रः सर्वत्र सर्वदा ।
यः शृणोत्य् आस्वादयति जिघ्रन् स्पृशति पश्यति ॥ (मो_३,९.५४ ॥

"अकर्णजिह्वः" श्रोत्रेन्द्रियरसनेन्द्रियरहितः । तथा "अनासात्वङ्नेत्रः" घ्राणेन्द्रियत्वगिन्द्रियनेत्रेन्द्रियरहितः । "यः सर्वत्र" सर्वदेशेषु । "सर्वदा" सर्वकालेषु । "शृणोति" समस्तशब्दश्रवणक्रियां करोति । "आस्वादयति" समस्तास्वादास्वादनक्रियां करोति । "जिघ्रन्" भवति । समस्तगन्धशिङ्घणक्रियां कुर्वन् भवति । "स्पृशति" सम्स्तस्पर्शस्पर्शनक्रियां करोति । "पश्यति" समस्तरूपदर्शनक्रियां करोति । समस्तदेशकालगतसमस्तप्रसादसमस्तेन्द्रियसारत्वेन स्थितत्वात् श्रवणादिक्रियाकर्तृत्वाभिमानग्रस्तसमस्तदेशकालगतसमस्तप्रमातृभावेन वा स्थितत्वात् । न चेन्द्रियसारत्वेन स्थितस्यास्यान्येन्द्रियापेक्षा युक्ता । इन्द्रियाणाम् इन्द्रियान्तरनैरपेक्ष्येण तत्सारस्यापि तद्वत् तदपेक्षायाः अयुक्तवात् । कल्प्यमानानाम् अपि तेषां एतत्सारत्वं विना नकिञ्चिद्रूपत्वापत्तेः । एतत्सारत्वे तु एतस्यैव तद्भावेनापि स्थितत्वात् । सर्वप्रमातृभावेन स्थितत्वे अपि नेन्द्रियान्तरापेक्षा । तदिन्द्रियैर् एवेन्द्रियमत्त्वेन इन्द्रियान्तराणाम् अनुपयोगित्वात् ॥ (मोटी_३,९.५४ ॥

स एव सदसद्रूपं येनालोकेन लक्ष्यते ।
सर्गचित्रम् अनाद्यन्तं खरूपं चाप्य् अरञ्जनम् ॥ (मो_३,९.५५ ॥

"स एव" चिन्मात्रस्वरूपः सन् द्रष्टृताम् आपन्नः स एव । न त्व् अन्यः कश्चित् । "येनालोकेन" यत्स्वरूपेण । "सर्गचित्रं" जगद्रूपं चित्रम् । चित्प्रकाशेन "लक्ष्यते" दृश्यते । चिदालोकं विना द्रष्टुः जगद्दर्शनासम्भवात् । कथम्भूतं "सर्गचित्रं" । "सदसद्रूपं" । फलतः सदसद्भ्याम् अनिर्वचनीयम् । पुनः कथम्भूतम् । "अनाद्यन्तम्" अनाद्यन्तचिन्मात्रसारत्वेनाद्यन्तरहितम् इत्य् अर्थः । पुनः कथम्भूतं "च" । "खरूपं च" । आभासमात्ररूपत्वेन स्वप्नवत् आकाशरूपं चेत्य् अर्थः । पुनः कथम्भूतम् । "अरञ्जनम्" भासमानाभिः भावाभावरञ्जनाभिः शुद्धत्वेन परमार्थतो मुक्तम् इत्य् अर्थः । "अपि"शब्दः पादपूरणार्थः ॥ (मोटी_३,९.५५ ॥

र्धोन्मीलितदृग्भ्रूभूमध्यतारकवज् जगत् ।
व्योमात्मैव सदाभासं स्वरूपं योऽभिपश्यति ॥ (मो_३,९.५६ ॥

"यः स्वरूपं" चिन्मात्राख्यं स्वभावं । "जगत्" नश्वरचेत्यरूपं । "पश्यति" स्वगोचरीकरोति । कथम्भूतम् "जगत्" । "व्योमात्मैव" परमार्थतो जगद्रूपताभावात् नकिञ्चिद्रूपम् एव । पुनः कथम्भूतं । "सदाभासं" सद् इवाभासत इति "सदाभासम्" । परमार्थतो न सद् इत्य् अर्थः । कथं "पश्यति" । "अर्धोन्मीलितदृग्भ्रूभूमध्यतारकवत्" । अर्धम् उन्मीलिता दृक् येन । सः "अर्धोन्मीलितदृक्" । "भ्रुवौ" एव "भूः" स्थानं । तस्या मध्यं "भ्रूभूमध्यं" । अर्धोन्मीलितदृशः भ्रूभूमध्ये भासमाना या "तारका" । तद्"वत्" । अर्धोन्मीलितनेत्रः पुरुषः स्वभ्रूमध्ये स्वदृष्टिरश्मिम् एव तारकाकारां यथा पश्यति । तथेत्य् अर्थः । अभिनयगम्यश् चार्थः ॥ (मोटी_३,९.५६ ॥

यस्यान्यद् अस्ति न विभोः कारणं शशशृङ्गवत् ।
यस्येदं च जगत् कार्यं तरङ्गौघ इवाम्भसः ॥ (मो_३,९.५७ ॥

"यस्य विभोः कारणं ना"स्तीत्य् अर्थः । ननु कथं नास्य कारणम् अस्ति । सत्यम् । तत्कारणं चिद्रूपम् अचिद्रूपं वा । नान्त्यः चिद्रूपं प्रति अचिद्रूपकारणत्वायोगात् । आद्ये तु स एव चिद्रूपः चिद्रूपस्य स्वस्य कारणं कथं स्यात् । इति सर्वस्य जगतः तत्कार्यत्वं कथयति "यस्येदम्" इति । जगतः चिन्मात्रकार्यत्वं स्वप्नजगद्वज् ज्ञेयम् ॥ (मोटी_३,९.५७ ॥

ज्वलतः सर्वतोऽजस्रं चित्तस्थालीषु तिष्ठतः ।
यस्य चिन्मात्रदीपस्य भासा भाति जगत्त्रयम् ॥ (मो_३,९.५८ ॥

"यस्य चिन्मात्रदीपस्य" । दीपत्वं चास्य प्रकाशकत्वेन ज्ञेयम् । "भासा" इन्द्रियद्वारनिर्गतया चित्प्रभया । "जगत्त्रयम्" अवस्थात्रये भासमानं प्रपञ्चत्रयं । "भाति" स्फुरति । कथम्भूतस्य । "सर्वतः" सर्वत्र । "ज्वलतः" सर्वं प्रकटयितुं समर्थस्येत्य् अर्थः । पुनः कथम्भूतस्य । "चित्तस्थालीषु" चित्तरूपेषु पात्रेषु । "तिष्ठतः" सारभावेन स्थितवतः । युक्तं च दीपस्य पात्रेष्व् अवस्थानम् । यद्य् अपि सुषुप्तौ चित्तं लीयत एव तथापि बीजत्वेनात्रास्यावस्थानात् एवम् उक्तम् । बहिर् अपि भूर्भुवस्स्वराख्यं जगत्त्रयं चित्तेनैव भाति ॥ (मोटी_३,९.५८ ॥

यं विनार्कादयोऽप्य् एते प्रकाशास् तिमिरोपमाः ।
सति यस्मिन् प्रवर्तन्ते त्रिजगन्मृगतृष्णिकाः ॥ (मो_३,९.५९ ॥

"यं विना" चक्षुरिन्द्रियसारभावेन स्थितं यं विना । "एते" दृश्यमानाः । "अर्कादयोऽपि तिमिरोपमा" अन्धकारसदृशाः । भवन्ति । चक्षुषा अप्रकाशिताः सूर्यादयो हि स्फुटम् एवान्धकारसदृशा एव । "सती"ति । यथा सूर्यसन्निधाने "मृगतृष्णिकाः प्रवर्तन्ते" । तथा यत्सन्निधाने "त्रिजगद्" इत्य् अर्थः ॥ (मोटी_३,९.५९ ॥

सस्पन्दे समुदेतीव निःस्पन्देऽन्तर्गतेव च ।
इयं यस्मिञ् जगल्लक्ष्मीर् अलात इव चक्रता ॥ (मो_३,९.६० ॥

"यस्मिन् सस्पन्दे" दृश्यौन्मुख्याख्यस्पन्दयुक्ते सति । "जगल्लक्ष्मीः समुदेतीव" । "निःस्पन्दे" सति । "अन्तर्गतेव" तदन्तर्गतेव "च" भवति । परमार्थतो नोदेति नान्तर्गच्छतीति "इव"शब्दोपादानम् । कस्मिन्न् "इवालात इव" । यथ्"आलाते सस्पन्दे" भ्रामिते सति । "चक्रता" चक्राकारत्वम् । "उदेति" । "अस्पन्दे" सति । अलात्"आन्तर्गतेव" भवति । तथेत्य् अर्थः ॥ (मोटी_३,९.६० ॥

जगन्निर्माणविलयविलासो व्यापको महान् ।
स्पन्दास्पन्दात्मको यस्य स्वभावो निर्मलोऽक्षयः ॥ (मो_३,९.६१ ॥

"जगन्निर्माणविलयविलासः" जगत्सृष्टिसंहारविलासः । "यस्याक्षयः" नाशरहितः । "निर्मलः" भेदमालिन्यादूषितः । "महान्" महत्त्वयुक्त । अत एव "व्यापकः" । "स्वभावः" स्वरूपम् एव । भवति । न त्व् अन्यत् । कथं । सृष्टिसंहारविलासः चेत्यमानोऽचेत्यमानो वा इत्य् एतस्यासत्कल्पत्वाद् अलं तच्चिन्तयाद्ये चिद्विषयतया चिदन्तर्गतत्वात् तद्रूप एवेति न विरोधः । कथम्भूतः । "स्पन्दास्पन्दात्मकः" स्पन्दास्पन्दस्वरूपः । तत्र सृष्टिविलासः स्पन्दमयः । अस्पन्दमयः संहारविलासः ॥ (मोटी_३,९.६१ ॥

स्पन्दास्पन्दमयी यस्य पवनस्येव सर्वगा ।
सत्ता नाम्नैव भिन्नेव व्यवहारान् न वस्तुतः ॥ (मो_३,९.६२ ॥

"यस्य स्पन्दास्पन्दमयी सत्ता" । चेत्यौन्मुख्ययुक्ता सत्ता स्पन्दमयी । तद्रहित्"आस्पन्दमयी" । "व्यवहारान् नाम्नैव" व्यवहारार्थं कृतेन नाम्ना एव । "भिन्ना इव" । कथम्भूता । "सर्वगा" विश्वे तदुत्तीर्णे च स्वरूपे गता । कस्य्"एव" । "पवनस्येव" । "पवनस्य" स्पन्दमयी सत्ता यया वृक्षादयः कम्पन्ते ।ऽस्पन्दमयी आकाशस्वरूपा । ननु कथं स्पन्दास्पन्दमय्याः सत्ताया एकत्वं । सत्यं । सस्पन्दस्य निःस्पन्दस्य च जलस्यैकत्वं यथा निपुणैर् निश्चीयते तथात्रापीति न विरोधः ॥ (मोटी_३,९.६२ ॥

सर्वदैव प्रबुद्धो यः सुप्तो यः सर्वदैव च ।
न प्रसुप्तो न बुद्धश् च यः सर्वत्रैव सर्वदा ॥ (मो_३,९.६३ ॥

"यः सर्वदैव" सर्वासु दशास्व् एव । "प्रबुद्धः" साक्षितयावस्थानात् प्रकृष्टज्ञानयुक्त एव । "यः सर्वदा एव सुप्तश्" च । तत्परामर्शरहितत्वात् सुप्तिं गतश् च भवति । "यः सर्वत्रैव" सर्वदेशेषु एव । "सर्वदा" सर्वावस्थाविशेषेषु । "प्रसुप्तो न" भवति । नित्यं बोधरूपत्वात् । "बुद्धश् च न" भवति । उपेक्षया स्वपरामर्शेऽपि विमुखत्वात् ॥ (मोटी_३,९.६३ ॥

यदस्पन्दः शिवं शान्तं यत्स्पन्दस् त्रिजगत्स्थितिः ।
स्पन्दास्पन्दविलासात्मा य एको भरिताकृतिः ॥ (मो_३,९.६४ ॥

इति । "यदस्पन्दः" यच्चेत्यौन्मुख्यराहित्यम् । "शान्तं" क्षोभरहितं । "शिवम्" आनन्दः । भवति । "यत्स्पन्दः" यच्चेत्यौन्मुख्यम् । "त्रिजगत्स्थितिः" त्रिजगत्सत्ता । भवति । "यः एकः स्पन्दास्पन्दविलासात्मा" चेत्यौन्मुख्यतायुक्ततद्रहितस्वरूपः । भवति । कथम्भूतः । "भरिताकृतिः" । "भरिता" सर्वमयी । "आकृतिः" स्वरूपं यस्य । तादृशः । एकस्य युगपत्स्पन्दमयत्वं वैचित्र्यावहम् ॥ (मोटी_३,९.६४ ॥

आमोद इव पुष्पेषु न नश्यति विनाशिषु ।
प्रत्यक्षस्थोऽप्य् अथाग्राह्यः शौक्ल्यं शुक्लपटेष्व् इव ॥ (मो_३,९.६५ ॥

यः "विनाशिषु" पदार्थेषु । "न नश्यति" तन्नाशेऽपि तदुपादानतया सूक्ष्मत्वेनावस्थानात् । न हि घटे नष्टेऽपि तदपेक्षया सूक्ष्मम् उपादानभूतं मृत्स्वरूपं नश्यति । क "इवामोद इव" । यथा "पुष्पे" नष्टेऽपि तदामोदः आकाशे भ्राम्यन् किञ्चित् कालं "न नश्यति" । तथेत्य् अर्थः । यः "अग्राह्यः" केनापि बाह्येनान्तरेण वेन्द्रियेण ग्रहीतुं शक्यो न भवति । कथम्भूतो "ऽपि" । "प्रत्यक्षस्थोऽपि" प्रत्यक्षे वर्तमानोऽपि । न हि कस्यचित् स्वात्माप्रत्यक्षः नाहम् अत्रास्मीति । किम् "इव" । "शौक्ल्यम् इव" । यथा पटे वर्तमानं शुक्लत्वं प्रत्यक्षम् अपि न हस्तेन ग्राह्यं भवति । तथेत्य् अर्थः ॥ (मोटी_३,९.६५ ॥

मूकोपमोऽपि यो वक्ता मन्ता योऽप्य् उपलोपमः ।
यो भोक्ता नित्यतृप्तोऽपि कर्ता यश् चाप्य् अकिञ्चन ॥ (मो_३,९.६६ ॥

"यः वक्ता" भवति । सर्ववक्तृरूपतया स्थितत्वात् । कथम्भूतो "ऽपि" । "मूकोपमोऽपि" मूकोपमत्वं चास्य निर्विकल्पत्वात् । "यः मन्तापि" ज्ञाता । न हि तं विना कोऽप्य् अन्यो मन्ता नाम स्यात् । "उपलोपमः" भवति । चिन्मात्रस्वरूपत्वेन मन्तृत्वलेपरहितत्वात् । "यः नित्यतृप्तोऽपि" परानन्दरूपत्वेन सर्वदैव स्वेनैव तृप्तोऽपि । "भोक्ता" भवति । भोक्तुः तद्रूपतानपायात् । "यः कर्तापि" सर्वकर्तॄणां सामर्थ्यापादकत्वेन कर्तृत्वम् आपन्नोऽपि । "अकिञ्चन" भवति । किञ्चनात्र कर्ता ज्ञेयः । कर्तातो न भवतीत्य् अर्थः । अकर्तृत्वं चास्य नकिञ्चनत्वेनैव ज्ञेयम् । कर्तृत्वस्य किञ्चिद्रूपत्वात् ॥ (मोटी_३,९.६६ ॥

योऽनङ्गोऽपि समस्ताङ्गः सहस्रकरलोचनः ।
न किञ्चित् संस्थितेनापि येन व्याप्तम् इदं जगत् ॥ (मो_३,९.६७ ॥

"यः अनङ्गोऽपि" शुद्धचिन्मात्रत्वेनाङ्गरहितोऽपि । "समस्ताङ्गो" भवति । "यः" कथम्भूतः । "सहस्रकरलोचनः" । "सहस्र"पदम् अत्रानन्ततावाचकं । तेन अनन्तकरलोचन इत्य् अर्थः । अनन्तकरलोचनत्वं चास्यानन्तदेहे स्वात्मभूततया ज्ञेयम् । "सहस्रे"ति विशेषणद्वारेण हेतुः । तथा "येन" सर्वम् "इदं व्याप्तम्" । अन्यथा किंमयम् एतत् स्याद् इति भावः । "येन" कथम्भूतेन्"आपि" । "न संस्थितेनापि" कुत्रापि न वर्तमानेनापि । कथं । "किञ्चित्" लेशेनापीत्य् अर्थः । नसंस्थितत्वं वास्य ग्रहीतुम् अशक्यत्वात् ॥ (मोटी_३,९.६७ ॥

निरिन्द्रियबलस्यापि यस्याशेषेन्द्रियक्रियाः ।
यस्य निर्मनसोऽप्य् एता मनोनिर्माणरीतयः ॥ (मो_३,९.६८ ॥

"यस्याशेषेन्द्रियक्रियाः" भवन्ति । कथम्भूतस्य्"आपि" । "निरिन्द्रियबलस्यापि" । अशेषेन्द्रियक्रियत्वम् अस्येन्द्रियसाररूपतया । "यस्य निर्मनसोऽपि" निर्विकल्पचिन्मात्रतया मनोरूपस्यापि । "मनोनिर्माणरीतयः" भवन्ति । अन्यथा येन तेन रूपेण भासमानानाम् आसां कुत उत्थानं स्यात् ॥ (मोटी_३,९.६८ ॥

यदनालोचनाद् भान्ति संसारोरगभीतयः ।
यस्मिन् दृष्टे पलायन्ते सर्वथा सर्वदेतयः ॥ (मो_३,९.६९ ॥

"यदनालोचनात्" यद्विषयसम्यग्ज्ञानाभावात् । "संसारोरगभीतयः" संसाराख्यसर्पोद्भवानि भयानि । "भान्ति" विलसन्ति । यथा रज्जुसम्यग्ज्ञानाभावात् उरगभीतयः स्फुरन्तीत्य् "उरग"पदाभिप्रायः । परमात्माज्ञानाद् एव हि तस्मिन् संसारः तद्भीतयश् च "भान्ति" । "यस्मिन्" परमात्मनि । "दृष्टे" स्वरूपत्वेनानुभूते सति । "सर्वथा" सर्वप्रकारेण वर्तमाना । "ईतयः" बाधाः । "सर्वदा" सर्वकालेषु । "पलायन्ते" दूरे गच्छन्ति । ईतीनां पलायनम् ईतिरूपताविपर्ययेण परमात्मरूपताज्ञानम् एव । तासाम् अपि परमार्थतः तद्रूपत्वात् ॥ (मोटी_३,९.६९ ॥

साक्षिणि स्फार आभासे ध्रुवे दीप इव क्रियाः ।
सति यस्मिन् प्रवर्तन्ते चित्रेहाः स्पन्दपूर्विकाः ॥ (मो_३,९.७० ॥

"साक्षिणि" सर्वासां स्तैमित्यस्पन्दावस्थानां ग्राहकत्वेन साक्षिभूते । "स्फारे" व्यापके । "आभासे" स्फुरत्तैकसारे । "ध्रुवे" उदासीने । "यस्मिन् सति" सन्निधिमात्रं भजति सति । "चित्रेहाः" नानाविधाः मनोव्यापाराः । कथम्भूताः । "स्पन्दपूर्विकाः" शरीरचेष्टाः । "प्रवर्तन्ते" । तत्सहिता इत्य् अर्थः । असति आन्तरे कस्मिन् चित्तत्त्वे विकल्पानां शरीरचेष्टानां चोत्थानं युक्तं न स्याद् इति भावः । का "इव" । "क्रिया इव" लोकक्रिया इव । यथा "दीपे" सन्निधिमात्रं भजति लोकक्रिया स्वयम् एव प्रवर्तन्ते । तथेत्य् अर्थः ॥ (मोटी_३,९.७० ॥

यस्माद् घटपटाकारपदार्थशतपङ्क्तयः ।
तरङ्गकणकल्लोलवीचयो वारिधेर् इव ॥ (मो_३,९.७१ ॥

"यस्माद्" उपादानभूतात् । यतः "घटपटाकारपदार्थशतपङ्क्तयः" घटपटस्वरूपाः पदार्थशतसमूहाः । भवन्ति । यद्य् अपि परमाण्वादेर् एवोपादानत्वम् अन्यैर् उक्तं तथापि चेतनान् प्रति तस्योपादानत्वाभावात् किम् अपि चेतनाचेतनस्वरूपम् उपादानं कल्प्यम् इति न विवादः । का "इव" । "तरङ्गकणकल्लोलवीचय इव" । यथा ताः अम्बुधेः भवन्ति । तथेत्य् अर्थः ॥ (मोटी_३,९.७१ ॥

स एवान्यतयोदेति यः पदार्थशतभ्रमैः ।
कटकाङ्गदकेयूरनूपुरैर् इव काञ्चनम् ॥ (मो_३,९.७२ ॥

"स एव" चिदाख्योऽपूर्वरूपेण वर्तमान एव्"आन्यतया"न्यस्वरूपेण्"ओदेति" उदयं यात्य् । अन्यस्वरूपताम् इव भजत इत्य् अर्थः । कैः कृत्वा । "पदार्थशतभ्रमैः" पदार्थशतरूपाः भ्रमाः । तैः । पदार्थशतैर् इत्य् अर्थः । "शत"पदं चात्रानन्ततापरम् । किम् "इव" । "काञ्चनम् इव" । यथा "काञ्चनं" । तद् एव "कटकाङ्गदकेयूरनूपुरैर्" उदेति । तथेत्य् अर्थः ॥ (मोटी_३,९.७२ ॥

यस् त्वम् एकावभासात्मा योऽहम् एते जनाश् च ये ।
यश् च न त्वम् अबुद्धात्मन् नाहं नैते जनाश् च यः ॥ (मो_३,९.७३ ॥

हे "अबुद्धात्मन्" अद्य तावत् अज्ञातपरमात्मतत्त्व । "एकावभासात्मा" केवलज्ञानस्वरूपः । "यः त्वम्" उपदेश्यभूतः अस्ति । त्वत्तया भातीत्य् अर्थः । "यः अहम्" उपदेशकभूतः अस्ति । मत्तया भातीत्य् अर्थः । "यश् च य एते जनाः" अस्ति । तत्तया भातीत्य् अर्थः । सर्वत्र सारतया स्थितत्वात् । ननु परिच्छिन्न एव तर्ह्य् असौ नेत्य् आह "यश् चे"ति । त्वत्तादिविकल्परहितशुद्धचिन्मात्ररूपेण परमार्थतः स्थितत्वाद् इत्य् अर्थः ॥ (मोटी_३,९.७३ ॥

न्येवाव्यतिरिक्तैव सैवासेव च भङ्गुरा ।
पयसीव तरङ्गाली यस्मिन् स्फुरति दृश्यभूः ॥ (मो_३,९.७४ ॥

"भङ्गुरा" नश्वरस्वभावा । "दृश्यभूः" । "दृश्यं" दृशिक्रियाविषयो भावजातं । तद् एव "भूः" नानारचनाधारत्वात् भूमिः । "सा यस्मिन्न्" आधारभूते । "स्फुरति" विलसति । चित्स्वरूपस्य दृश्याधारत्वं स्वप्नदृष्टान्तेन ज्ञेयं । कथम्भूत्"ऐवाव्यतिरिक्तैव" ततो व्यतिरेकम् अनापन्नैव । "अन्येवा"न्यवत् । भासमानेत्य् अर्थः । अव्यतिरिक्तस्यान्यताभासनं वैचित्र्यावहं । व्यतिरेकाभावेऽपि जातिव्यक्त्योर् इव ऐक्याभावम् आशङ्क्य तन्मयतां कथयति "सैवे"ति । "सैव" न तु लेशेनाप्य् अतद्रूपतामती । "असेव" अतद्वद् भासमाना । क्"एव" । "तरङ्गालीव" । तरङ्गाल्याः च "पयसि" तद्रूपतायाम् अप्य् अतद्रूपतयेव भासनं सर्वप्रतीतिसिद्धम् एव ॥ (मोटी_३,९.७४ ॥

यतः कालस्य कलना यतो दृश्यस्य दृश्यता ।
मानसी कलना येन येन भासां विभासनम् ॥ (मो_३,९.७५ ॥

"कालस्य" वर्तमानाद्युपाध्यसहितस्य वस्तुनः । "यतः कलना" कल्पना भवति । न ह्य् आन्तरं कल्पयितारं विना कालस्य कल्पना युक्तेति भावः । "यतः दृश्यस्य दृश्यता" भवति । न हि द्रष्टारं विना दृश्यस्य दृश्यत्वम् उपपद्यते । "येन मानसी कलना" भवति । न हि साक्षिणं विना मनोऽपि सिध्यति । "येन भासां" घटादिज्ञानानां । "विभासनं" स्फुरणं । भवति । न हि ज्ञातारं विना ज्ञानान्य् उत्पद्यन्ते ॥ (मोटी_३,९.७५ ॥

क्रियां रूपं रसं गन्धं स्पर्शं शब्दं च चेतनम् ।
यद् वेत्सि तद् असौ देवो येन वेत्सि तद् अप्य् असौ ॥ (मो_३,९.७६ ॥

"क्रियाम्" इत्य् अनेन "वेत्सी"त्य् अस्य स्थाने करोषीत्य् एतत् सम्बन्धनीयम् । तेनायम् अर्थः । त्वं । "क्रियां यत्" करोषि । "तत्" करणम् । "अपि असौ" पूर्वोक्तः । "देवः" क्रीडाकारी । भवति । "येन" कर्मेन्द्रियेण करोषि । "तत्" कर्मेन्द्रियम् । "अप्य् असौ देवः" भवति । तथा "रूपं रसं गन्धं स्पर्शं शब्दं यद् वेत्सि तद्" वेदनम् । "असौ देवः" भवति । "येन" धीन्द्रियपञ्चकेन "वेत्सि तद् अप्य् असौ देवः" भवति । तथा "चेतनम्" सङ्कल्पादिकं । "यद् वेत्सि तद् असौ देवः" भवति । "येना"न्तःकरणेन । "वेत्सि तद् अप्य् असौ देवः" भवति । एतेन क्रियाफलस्य तत्करणस्य च तन्मयता कथिता । कर्तुस् तु सा निर्विवादसिद्धैव ॥ (मोटी_३,९.७६ ॥

एवं विशेषणद्वारेण तत्स्वरूपम् उक्त्वा तत्प्रवेशोपायम् आह

द्रष्टृदर्शनदृश्यानां मध्ये यद् दर्शनं स्थितम् ।
साधो तदवधानेन स्वात्मानम् अवबुध्यसे ॥ (मो_३,९.७७ ॥

हे "साधो" परमात्मबोधार्ह । त्वं "तदवधानेन" तत्रावधानदानेन । "स्वात्मानं" स्वरूपभूतं परमात्मानम् । "अवबुध्यसे" जानासि । तत्र कुत्र । "द्रष्टृदर्शनदृश्यानां" त्रयाणां । "मध्ये" । "यद् दर्शनं स्थितं" भवति । अयम् अत्र निर्णयः । सर्वो व्यवहारः तावत् त्रिपुट्याम् एव सम्पद्यते । तत्र "द्रष्टा" कर्ता । "दर्शनं" क्रिया । "दृश्यम्" आलम्बनभूतं कर्म । यद्विषया क्रियोत्पद्यते । करणं त्व् असाधारणकारणरूपम् एतेभ्यो न व्यतिरिच्यते । सामग्र्या एव करणत्वात् । तत्राहं द्रष्टेत्य् अभिमानग्रस्ताद् द्रष्टुः ग्राह्यैकरूपदृश्यविषयं दर्शनम् उत्पद्यते ।ऽन्यथा तयोः द्रष्टृदृश्यतायोगात् । द्रष्टाभिमानग्रस्तत्वान् न झगिति शुद्धीकर्तुं शक्यते । दृश्यं त्व् अत्यन्तजडतया तत्तुल्ययोगक्षेमम् एवातः तौ हित्वा दर्शन एवावधानं विहितं । ननु दर्शनम् अप्य् आश्रयविषयदोषेण दूषितं । नतरां शुद्धीकर्तुं शक्यते । सत्यं । द्रष्टरि स्थिताया अहन्तायाः दृश्यस्थायाः जडतायाश् च निवारणम् अशक्यम् एव । लेशत उभयस्पर्शदूषितस्य दर्शनस्य तु अंशभावेन स्थितदोषद्वयनिवारणं सुशकम् एव । तत्रेयं रीतिः । दर्शनं मद्रूपं नास्ति । स्फुटं मद्व्यतिरिक्तत्वात् । मद्व्यतिरिक्तत्वं चास्य द्रष्टृत्वाभावात् दृश्यरूपम् अपि नास्ति । ग्राहकत्वात् । अतः ताभ्यां व्यतिरिक्तं किम् अपि ग्रहीतुम् अशक्यम् अव्यपदेश्यं दर्शनं नामास्तीति सिद्धा दर्शनस्य परमात्मरूपता । ततो द्रष्टृदृश्ययोश् च सा सिद्धतरैव । न हि दर्शनसम्बन्धविलये द्रष्टृदृश्ययोः स्थितिः सम्भवति । दर्शनाश्रयत्वेनैव द्रष्टुर् द्रष्टृत्वात् । तद्विषयत्वेन च दृश्यस्य दृश्यत्वात् । अथवा "दर्शनम्" अत्र दर्शनेच्छाकालीनं ज्ञेयं । तद् धि तदा आश्रयविषयोपरागाभावेन शुद्धतयैव स्फुरति । पश्चात् तु स्थूलतां याति ॥ (मोटी_३,९.७७ ॥

पूर्वोक्तं सर्गान्तश्लोकेन सङ्गृह्णाति

जम् अजरम् अजाड्यं शाश्वतं ब्रह्म नित्यं
शिवम् अमलम् अनाद्यं वन्ध्यवेद्यैर् अनिन्द्यम् ।
सकलकलनशून्यं कारणं कारणानाम्
नुभवनम् अवेद्यं वेदनं वित्त्वम् अन्तः ॥ (मो_३,९.७८ ॥

"वित्त्वं" वेत्तीति यावत् । "अन्तः" भवति । सर्वस्य दृश्यजातस्य पर्यवसानरूपं भवति । महाप्रलये शिष्यते इति यावत् । कथम्भूतं । "अजम्" सर्वदैव वर्तमानत्वात् । "अजरं" शरीरव्यतिरिक्तत्वात् । "अजाड्यं" मनोव्यतिरिक्तत्वात् । "शाश्वतं" विश्वात्मकत्वेऽपि स्वरूपाद् अच्युतत्वात् । "ब्रह्म" जगद्रूपेण बृंहणात् । "नित्यं" कालत्रयानपायित्वात् । "शिवं" सुखैकरूपत्वात् । "अमलं" भेदमालिन्यरहितत्वात् । "अनाद्यं" कस्यापि तदाद्यत्वेनावर्तमानत्वात् । "वन्ध्यवेद्यैः" व्यर्थवेद्यैर् । "अनिन्द्यम्" अकदर्थितं । तत्स्थैर् भावाभावैर् अदूषितत्वात् । "सकलकलनशून्यं" निर्विकल्पस्वरूपत्वात् । "कारणानां" कारणत्वेनाभिमतानां ब्रह्मादीनां । "कारणं" । तेषाम् अप्य् आकृतिमत्त्वेन सकारणत्वात् । "अनुभवनम्" अनुभवस्वरूपं । अनुभव एव पूर्वोक्तविशेषाणां सम्भवात् । अनुभवस्वरूपत्वेऽपि वेद्यमालिन्यम् आशङ्क्याह्"आवेद्यम्" इति । "अवेद्यं" वेद्यस्पर्शादूषितं । "वेदनम्" । अचेत्यचिद्रूपम् इति यावत् । इति शिवम् ॥ (मोटी_३,९.७८ ॥


इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायाम् उत्पत्तिप्रकरणे नवमः सर्गः ॥ ३,९ ॥



ओं । अत्र मोहम् आपन्न इव श्रीरामः पृच्छति

महाप्रलयसम्पत्तौ यद् एतद् अवशिष्यते ।
भवत्व् एतद् अनाकारं नाम नास्त्य् अत्र संशयः ॥ (मो_३,१०.१ ॥

"अत्र संशयो नास्ति" । "एतत्" वस्तु । "अनाकारम्" आकाररहितं । "भवतु" । अत्र ममापि विश्वासोऽस्तीतीति भावः । "एतत्" किं । "महाप्रलयसम्पत्तौ" सर्वभावक्षये । "यत् एतत्" सद् वस्तु । "अवशिष्यते" अवशिष्टतया तिष्ठति ॥ (मोटी_३,१०.१ ॥

बहिर् अनुभूयमानाकाररहितशून्यादिवस्तुरूपतानिरासस् तु तस्य न युज्यत इति कथयति

न शून्यं कथम् एतत् स्यान् न प्रकाशः कथं भवेत् ।
कथं वा न तमोरूपं कथं वा नैव खात्मकम् ॥ (मो_३,१०.२ ॥

तत् "शून्यं कथं न भवेत्" । तद् एव भवत्व् इत्य् अर्थः । एवं सर्वत्र योज्यम् । "प्रकाशः" महाभूतप्रकाशः । "खात्मकम्" आकाशरूपम् ॥ (मोटी_३,१०.२ ॥

कथं वा नैव चिद्रूपं जीवो वा न कथं भवेत् ।
कथं न बुद्धितत्त्वं स्यात् कथं वा न मनो भवेत् ॥ (मो_३,१०.३ ॥

चिद्रूपत्वस्यापि तत्र परमार्थतया निवारणाद् एतद् उक्तम् ॥ (मोटी_३,१०.३ ॥

कथं वा न न किञ्चित् स्यात् कथं वा सर्वम् इत्य् अपि ।
नया च वचोभङ्ग्या मम मोह इवोदितः ॥ (मो_३,१०.४ ॥

"न किञ्चित्" केनापि रूपेण स्थितं न भवति । नकिञ्चित्त्वस्यापि निराकरणात् । "सर्वम् इत्य् अपि कथं वा" न भवति ॥ (मोटी_३,१०.४ ॥

श्रीवसिष्ठ उत्तरम् आह

विषमोऽयम् अति प्रश्नो भवता समुदाहृतः ।
भिनद्म्य् एनं त्व् अयत्नेन नैशं तम इवांशुमान् ॥ (मो_३,१०.५ ॥

"अति"शब्दो भिन्नक्रमः । "भवता अयं प्रश्नः अतिविषमः" दुर्बोधतरः । "समुदाहृतः" । "तु" विशेषे ।ऽहं "एनम् अयत्नेन" सुखेनैव । "भिनद्मि" । मनोग्रन्थिरूपत्वात् प्रश्नस्य "भिनद्मी"ति कथनम् । क "इवांशुमान् इव" सूर्य इव । अंशुमान् यथा "नैशं" निशासम्बन्धि । "तमः" भिनत्ति । तथेत्य् अर्थः ॥ (मोटी_३,१०.५ ॥

प्रश्नम् एव भिनत्ति

महाकल्पान्तसम्पत्तौ यत् तत् सद् अवशिष्यते ।
तद् राम न यथा शून्यं तद् इदं शृणु कथ्यते ॥ (मो_३,१०.६ ॥

"महाकल्पान्तसम्पत्तौ" तुर्ये तुर्यातीते महाप्रलयसमयनिष्पत्तौ वा । "तत्" प्रसिद्धं केनापि अपलपितुम् अशक्यं । हे "राम" । "तत्" "यच्"छब्दकथितं "सद्" वस्तु । "यथा" येन प्रकारेण । "शून्यं न" भवति । "तत्" तम् एव प्रकारम् । "इदं" समनन्तरम् एव कथ्यमानं । "शृणु" । यतो मया "कथ्यते" ॥ (मोटी_३,१०.६ ॥

तद् एव कथयति

नुत्कीर्णा यथा स्तम्भे संस्थिता सालभञ्जिका ।
तथा विश्वं स्थितं तत्र तेन शून्यं न तत् पदम् ॥ (मो_३,१०.७ ॥

"अनुत्कीर्णा" तक्षकारेण निस्तक्ष्य न प्रकटीकृता । स्तम्भे संस्थितत्वम् अस्या अग्रे प्रकटीभावात् । विश्वस्य सद्रूपे स्थितत्वम् अद्यैव भासमानत्वाद् । इति तु विशेषः । "तत् पदं" परमात्माख्यं पदम् । यदि तच् "छून्यं" स्यात् तदा जगत् कुत्र भूयात् । निरधिष्ठानस्य भ्रमस्यायुक्तत्वाद् इति भावः । भेदेनैव भातीत्य् "अनुत्कीर्णे"त्य् उक्तम् ॥ (मोटी_३,१०.७ ॥

एतद् एवम् विस्तरं कथयति

यम् इत्थं महाभोगो जगदाख्योऽवभासते ।
सत्यो भवत्व् असत्यो वा यत्र तत्र क्व शून्यता ॥ (मो_३,१०.८ ॥

"अयम्" अनुभूयमानः विस्तारः । "सत्यो भवतु" सत्स्वरूपो भवाख्यः । "जगद्" इति नामधेयः । "महाभोगः" महाविस्तारः । "सत्यो भवतु" सत्स्वरूपो भवत्व्। "असत्यो वा"सत्स्वरूपो वा भवतु । सः "यत्र" आधारभूते यस्मिन् वस्तुनि । "अवभासते" स्फुरति । "तत्र क्व शून्यता" । न युक्तेति भावः ॥ (मोटी_३,१०.८ ॥

यथा न पुत्रिकाशून्यः स्तम्भोऽनुत्कीर्णसालिकः ।
तथा तात जगद् ब्रह्म तेन शून्यं न तत् पदम् ॥ (मो_३,१०.९ ॥

"अनुत्कीर्णसालिकः" अनुत्कीर्णपुत्रिकः । दार्ष्टान्तिके योजयति "तथे"ति । हे "तात" हे पूज्य । "तथे"त्य् अनेन पूर्ववाक्यस्थं "ने"ति "शून्य" इति च पदद्वयम् आकृष्यते । तेनायम् अर्थः । "तथा ब्रह्म" "जगच्छून्यं न" भवति । फलितम् आह "तेने"ति ॥ (मोटी_३,१०.९ ॥

सोम्याम्भसि यथा वीचिर् न चास्ति न च नास्ति च ।
तथा जगद् ब्रह्मणीदं शून्याशून्यपदं गतम् ॥ (मो_३,१०.१० ॥

"सोम्याम्भसि" क्षोभरहिते जले । "न चास्ति" । तदानीम् अलभ्यत्वात् । "न च नास्ति" । अग्रे स्फुटीभविष्यमाणत्वात् । दार्ष्टान्तिकम् आह "तथे"ति । भासमानत्वाद् "अशून्यपदं गतं" । परमार्थतो नकिञ्चिद्रूपत्वाच् "छून्यपदं गतम्" इति योज्यम् ॥ (मोटी_३,१०.१० ॥

ननु तर्हि पुत्रिकादिसादृश्येन सिद्धा एव ब्रह्मणि जगत्स्थितिर् इत्य् । अत्राह

देशकालादिशान्तत्वात् पुत्रिकारचनं द्रुमे ।
सम्भवत्य् अजधातौ तु केन नान्तर् विमुह्यते ॥ (मो_३,१०.११ ॥

"द्रुमे" लक्षणया स्तम्भे । "पुत्रिकारचनं" देशवशेन कालवशेन कर्त्रादिवशेन च "सम्भवति" । "तु" विशेषे । "अजधातौ" नवीनप्रादुर्भावरहितचिदाख्यमूलकारणविषये । "ऽन्तः" मनसि । "केन" पुरुषेण । "न मुह्यते" मोहितेन भूयते ।ऽपि तु सर्वेणैवेत्य् अर्थः । कुतो "मुह्यते" । "देशकालादिशान्तत्वात्" । "आदि"शब्देन कर्त्रादीनां ग्रहणम् । देशकालकर्त्रादिशान्तेर् इत्य् अर्थः । तच्छान्तिश् चात्र शुद्धचिन्मात्रतयैव ज्ञेया । मोहश् च देशकालादिस्पर्शरहिते ब्रह्मणि कथं जगद् भाति इत्य् एवंरूपो ज्ञेयः ॥ (मोटी_३,१०.११ ॥

फलितम् आह

तत् स्तम्भपुत्रिकाद्य् एतत् परमार्थजगत्स्थितेः ।
एकदेशेन सदृशम् उपमानं न सर्वतः ॥ (मो_३,१०.१२ ॥

यतः देशकालादिसम्भवेन स्तम्भे पुत्रिकारचनं युक्तं । तच्छान्त्या तु चिद्धातौ तु न युक्तम् । "तत्" ततो हेतोः । "एतत्" समनन्तरम् एवोक्तं "स्तम्भपुत्रिकादि" । "आदि"शब्देन वीच्यम्भसोर् ग्रहणम् । "परमार्थे" या "जगत्स्थितिस्" । तस्याः "एकदेशेन" शून्यतानिवारणमात्रेण । "सदृशम् उपमानं" भवति । "न सर्वतः" न सर्वेण प्रकारेण । न भवतीत्य् अर्थः ॥ (मोटी_३,१०.१२ ॥

जगदाधारत्वेन शून्यत्वं निरस्य तद्रूपतया निरस्यति

न कदाचिद् उदेतीदं परस्मान् न च शाम्यति ।
इदंरूपं केवलं सद् ब्रह्म स्वात्मनि संस्थितम् ॥ (मो_३,१०.१३ ॥

"परस्मात्" परमात्मनः । ननु यदि जगन् नोदेति न च शाम्यति तर्हि किम् इदं भासत इत्य् । अत्राह "इदम्" इति । "केवलम्" अद्वितीयं । "सत्" सत्स्वरूपं । "ब्रह्म" बृंहितं वस्तु । "स्वात्मनि" स्वस्वरूपे । "संस्थितं" भवति । कथम्भूतं "इदंरूपं" । "इदं" शान्त्युदयसहितं जगत् । "रूपं" स्वरूपं । यस्य । तत् । तादृशं । शान्त्युदयसहितस्य जगतो ब्रह्मत्वं ब्रह्माश्रयबृंहाविषयत्वेन ज्ञेयं । बृंहाविषयो हि ब्रह्मस्वरूपम् एव भवति । तथा च ब्रह्मणः शून्यत्वं न युक्तम् इति भावः ॥ (मोटी_३,१०.१३ ॥

अशून्यत्वासम्भवेन शून्यत्वनिरासम् आह

शून्यापेक्षया शून्यशब्दार्थपरिकल्पना ।
शून्यत्वासम्भवतः शून्यत्वाशून्यते कुतः ॥ (मो_३,१०.१४ ॥

"अशून्यत्वापेक्षयाशून्यत्वस्य" किञ्चिद्रूपत्वस्य्"आपेक्सया" तद् अपेक्ष्येत्य् अर्थः । "शून्यत्वपरिकल्पना "। "शून्यत्वस्य" नकिञ्चिद्रूपत्वस्य । "परिकल्पना" कल्पनं । भवति । ततः किम् इत्य् । अत्राह "अशून्यत्वे"ति । "अशून्यत्वासम्भवतः" उक्तयुक्त्या किञ्चिद्रूपत्वासम्भवेन । "शून्यत्वाशून्यते" नकिञ्चित्त्वकिञ्चित्त्वे । "कुतः" । न स्त इत्य् अर्थः । सापेक्षयोर् एकनाशे द्वयोर् अपि नाशाद् इति भावः । किञ्चिद्रूपत्वाभावश् च निरालम्बशुद्धचिन्मात्रतया ज्ञेयः ॥ (मोटी_३,१०.१४ ॥

शून्यत्वं निवार्य प्रकाशरूपत्वं निवारयति

ब्रह्मण्य् अयं प्रकाशो हि न सम्भवति भूतजः ।
सूर्यानलेन्दुतारादि कुतस् तत्र किलाव्यये ॥ (मो_३,१०.१५ ॥

"अयं" नेत्रेण दृश्यमाणः । "भूतजः" अग्न्यादिभूतोत्पन्नः । "प्रकाशः" तेजः । "हि" निश्चये । "ब्रह्मणि" व्यापके वस्तुनि । "न सम्भवति" । चिन्मात्रतया तदुत्तीर्णत्वात् । अत्र हेतुत्वेनोत्तरार्धम् आह "सूर्ये"ति । "किल"शब्दो हेतुत्वद्योतनार्थः । "अव्यये" नाशरहिते । "सूर्यादीनाम्" आकृतिमत्त्वेन नाशसम्भवान् नात्र स्थितिर् युक्ता । तद्रूपतायास् तु का कथा इति भावः ॥ (मोटी_३,१०.१५ ॥

तमोरूपत्वं निवारयति

महाभूतप्रकाशानाम् अभावस् तम उच्यते ।
महाभूताभावजं तु तेनात्र न तमः क्वचित् ॥ (मो_३,१०.१६ ॥

तेजोऽभावस्यैव तमस्त्वं वादिभिः प्रतिपादितम् इति भावः । फलितम् आह "महाभूते"ति । "तु" विशेषे । "महाभूताभावजं" लक्षणया महाभूतप्रकाशाभावात् जातं । तद्रूपम् इति यावत् । "तमो" । "ऽत्र" सद्वस्तुनि । "तेन" महाभूतप्रकाशाभावत्वेन हेतुना । "ना"स्ति । कुत्र । "क्वचित्" कस्मिन्न् अप्य् अंशे महाभूतस्थित्यायतने । महाभूतप्रतियोगिकाभावासम्भवेन तमोऽप्य् अत्र न युक्तं । तद्रूपस्य तु का कथेति भावः ॥ (मोटी_३,१०.१६ ॥

ननु तेजसोऽभावे कथं तत् प्रकाशत इत्य् । अत्राह

स्वानुभूतिप्रकाशोऽस्य केवलं व्योमरूपिणः ।
योऽन्तर् अस्ति स तेनैव न त्व् अन्येनानुभूयते ॥ (मो_३,१०.१७ ॥

"व्योमरूपिणः" नकिञ्चिद्रूपस्य्"आस्य" सद्वस्तुनः । "स्वानुभूतिः" स्वास्वरूपभूता चासाव् "अनुभूतिः" अनुभवः । "स्वानुभूतिः" । सैव "प्रकाशः" प्राकट्यकरणभूतं तेजः । स्वानुभूत्यैवासौ भाति न बाह्यतेजसेत्य् अर्थः । कथम्भूतद् इत्य् । अत्राह "योऽन्तर्" इति । "योऽन्तर् अस्ति" । पुरुषेण "स तेनैवा"करणभूतेन तेनैव्"आनुभूयते" । स्वप्रतीतिविषयतां नीयते । "न त्व् अन्येन" । अन्यस्य तत्र प्रवेशासम्भवात् । स्वयम् एवासाव् अनुभवोऽनुभवितानुभवनम् अनुभूतिविषयश् चेति । न तत्र कस्याप्य् अपेक्षेति भावः ॥ (मोटी_३,१०.१७ ॥

प्रकृतम् अनुसन्धत्ते

मुक्तं तमःप्रकाशाभ्याम् इत्य् एतद् अजरं पदम् ।
आकाशकोशम् एवैनं विद्धि कोशं जगत्स्थितेः ॥ (मो_३,१०.१८ ॥

"इति" अनेन प्रकारेण । "एतत्" अवशेषतया कथ्यमानम् । "अजरं" जरादोषरहितं । "पदं" स्थानं । "तमःप्रकाशाभ्यां" तमसा प्रकाशेन च । "मुक्तं" भवति । खात्मकत्वम् अस्य निवारयितुं प्रस्तौति । "आकाशे"ति । त्वम् "एनं" परमात्मानम् । "आकाशकोशम् एव" आकाशमध्यम् एव । "जगत्स्थितेः कोशं" भाण्डागारं । "विद्धि" जानीहि ॥ (मोटी_३,१०.१८ ॥

दृष्टान्तेनैतद् एव दृढयति

बिल्वस्य बिल्वसंज्ञस्य यथा भेदो न कश्चन ।
तथेह ब्रह्मजगतोर् न मनाग् अपि भिन्नता ॥ (मो_३,१०.१९ ॥

"बिल्वस्य" बिल्वफलस्य । "बिल्वसञ्ज्ञस्य" बिल्वेति संज्ञाप्रवृत्तिनिमित्तस्य वस्तुनः । "यथा" येन प्रकारेण । "कश्चन" कोऽपि । "भेदः ना"स्ति । "तथा" तेन प्रकारेण्"एहा"स्मिंल् लोकत्रये । "ब्रह्मजगतोर्" "मनाग् अपि भिन्नता न" भवति । यद् एव ब्रह्म तद् एव जगत् । यद् एव जगत् तद् एव ब्रह्मेति भावः । "बिल्वस्य" "बिल्वमध्यस्ये"ति वा पाठः ॥ (मोटी_३,१०.१९ ॥

ननु तथापि प्रकृते किम् आयातम् इत्य् । अत्राह

सलिलेऽन्तर् यथा वीचिर् मृदोऽन्तर् घटको यथा ।
तथा यत्र जगत्सत्ता तत् कथं खात्मकं भवेत् ॥ (मो_३,१०.२० ॥

"सलिले" जले । "ऽन्तः वीचिः यथा" भवति । "तथा" तेन प्रकारेण । "यत्र" यस्मिन्न् उपादानभूते । "जगत्सत्ता" भवति । "तद्" वस्तु । "खात्मकम्" आकाशस्वरूपं । "कथं भवेत्" ॥ (मोटी_३,१०.२० ॥

चिद्रूपतानिवारणार्थं प्रक्रियाम् आरभते

मृज्जलाद्युपमानश्रीः साकारात्र समा न सा ।
ब्रह्म त्व् आकाशविशदं तस्यान्तःस्थं तथैव तत् ॥ (मो_३,१०.२१ ॥

"मृज्जलाद्युपमानश्रीः" । "अत्र" ब्रह्मविषये । "समा" योग्या । "न" भवति । कुत इत्य् अपेक्षायाम् आह । "साकारे"ति । यतः "साकारा" आकारसहिता भवति । साकारत्वेन कथं मृज्जलादेर् उपमानयोग्यत्वम् इत्य् । अत्राह "ब्रह्मे"ति । "तुः" विशेषे । "ब्रह्माकाशविशदं" निराकारं । भवति । साकारस्य मृदादेः निराकारं ब्रह्म प्रति उपमानत्वं न युक्तम् इति भावः । फलितम् आह । "तस्ये"ति । "तत्" ततो हेतोः । तद्"अन्तःस्थं" तदन्तरे स्थितं । जगत् "तथैव" निराकारं भवतीत्य् अर्थः ॥ (मोटी_३,१०.२१ ॥

पुनर् अप्य् उपसंहारव्याजेन जगतो निराकारत्वं साधयति

तस्माद् यादृक् चिदाकाशम् आकाशाद् अपि निर्मलम् ।
तदन्तःस्थं तादृग् एव जगच्छब्दार्थभाग् अपि ॥ (मो_३,१०.२२ ॥

"आकाशाद्" "अपि" निर्मलत्वं चिदाकाशस्य जडत्वाभावेन ज्ञेयम् । "तदन्तःस्थं" जगत् । "तादृग् एव" निराकारम् एव भवति । कथम्भूतम् "अपि" । "जगच्छब्दार्थभाग् अपि" । भावप्रधानो निर्देशः । तेन जगद्रूपतया भासमानत्वेन जगच्छब्दार्थताभाग् अपीत्य् अर्थः ॥ (मोटी_३,१०.२२ ॥

मरिचेऽन्तर् यथा तैक्ष्ण्यम् ऋते भोक्तुर् न लक्ष्यते ।
चिन्मात्रत्वं पराकाशे तथा चेत्यकलां विना ॥ (मो_३,१०.२३ ॥

"यथा" केनचित् "मरिचेऽन्तः" मरिचान्तरे । स्थितं "तैक्ष्ण्यं" तिक्तता । "भोक्तुः ऋते न लक्ष्यते" न दृश्यते । भोक्तरि तु सति तेनैव लक्ष्यते इत्य् अर्थः । "तथा पराकाशे" परमात्मनि । स्थितं "चिन्मात्रत्वं" । "चेत्यकलां" चेत्यांशं "विना" । "न लक्ष्यते" । चेत्यचर्वणाद् एव हि चिन्मात्रस्य चिन्मात्रता ज्ञायते ॥ (मोटी_३,१०.२३ ॥

फलितम् आह

तस्माच् चिद् अप्य् अचिद्रूपा चेत्यरिक्ततयात्मनि ।
जगत्ता तादृश्य् एवेयं तादृङ्मात्रात्मतावशा ॥ (मो_३,१०.२४ ॥

"तस्मात्" ततो हेतोः । "चेत्यरिक्ततया" चेत्यराहित्येन्"आत्मनि" चिन्मात्राख्ये स्वस्वरूपे । "चिद् अपि अचिद्" एव भवति । चेत्यस्यैव पूर्वनयेन चिन्मात्रतादृढीकरणसामर्थ्यात् तस्य चात्राभावात् । तस्याभावश् चात्र ब्रह्मान्तःस्थत्वेन ब्रह्मतयैव ज्ञेयः । ब्रह्माभिन्ने जगत्य् अपि अचित्त्वम् अतिदिशति । "जगत्ते"ति । "इयं" "जगत्ता"पि । "तादृशी एव" चिद्रूपब्रह्माभिन्नत्वेनाचिद्रूपैव भवति । अत्र हेतुतया विशेषणम् आह । "तादृङ्मात्रात्मतावशे"ति । यतः "तादृङ्मात्रात्मतायाः" अचिद्रूपब्रह्ममात्रस्वरूपतायाः । "वशा" आयत्ता । अचिद्ब्रह्मस्वरूपिणीत्य् अर्थः । एतेन ब्रह्मजगतोः सर्वथाभेदोऽपि साधितः । न ब्रह्मणोऽचिद्रूपमात्रता । तस्या अग्रेऽपि साध्यमानत्वात् ॥ (मोटी_३,१०.२४ ॥

ननु जगतः सर्वथाभिन्नत्वे रूपालोकमनस्काराः किंरूपा इत्य् । अत्राह

रूपालोकमनस्कारास् तन्मया एव नेतरत् ।
यथास्थितम् अतो विश्वं सुषुप्तं तुर्यम् एव वा ॥ (मो_३,१०.२५ ॥

"रूपालोकमनस्काराः" । "रूपं" नीलपीतादि । "आलोकः" तद्दर्शनम् करणभूतः प्रकाशो वा । "मनस्कारः" मानसः परामर्शः । तद्विषयाः एते "तन्मया एव" । "एव"शब्दार्थम् आह "नेतरद्" इति । तन्मयत्वं चैषां तद्विषयत्वं विनासत्कल्पत्वात् । फलितम् आह "यथे"ति । "अतो" हेतोः । "विश्वं" जगत् । "यथास्थितम्" अनेन प्रकारेणैव वर्तमानं । न तु यया कयापि शक्त्यान्तर्धिम् आपादितं । "सुषुप्तं" भवति । सुषुप्तौ भेदसंस्कारम् आशङ्क्याह "तुर्यम्" इति । तुर्यस्वरूपचिन्मात्रैकमयम् एव वा भवतीत्य् अर्थः ॥ (मोटी_३,१०.२५ ॥

जगतः तुर्यरूपब्रह्मत्वेन योगिनो व्यवहारेऽपि ब्रह्ममयताम् आह

तेन योगी सुषुप्तात्मा व्यवहार्य् अपि शान्तधीः ।
आस्ते ब्रह्म निराभासं सर्वभासां समुद्गकम् ॥ (मो_३,१०.२६ ॥

"तेन" पूर्वोक्तेन हेतुना । "योगी" जगद्ब्रह्मैकत्वे समाहितः । "ब्रह्म" ब्रह्मस्वरूपम् । "आस्ते" । कुत एवंरूप आस्ते । यतः "व्यवहार्य् अपि" व्यवहारं कुर्वाणोऽपि । "शान्तधीः" क्षोभरहितबुद्धिः । ईदृशोऽपि कुतः । यतः "सुषुप्तात्मा" प्रपञ्चं प्रति सुप्तान्तःकरणः । प्रपञ्चं प्रति सुप्तमनसो हि शान्तधीत्वं युक्तम् एव । कथम्भूतं "ब्रह्म" । "निराभासं" नानाभासेभ्यो निष्क्रान्तं । तदुत्तीर्णम् इत्य् अर्थः । पुनः कथम्भूतं । "सर्वभासां" सर्वेषां घटपटादिज्ञानानां । "समुद्गकम्" उद्भूतिस्थानम् ॥ (मोटी_३,१०.२६ ॥

पुनर् अपि प्रकृतं ब्रह्मजगदभेदम् एव कथयति

आकारिणि यथा सौम्ये स्थितस् तोये द्रवक्रमः ।
नाकृतौ तथा विश्वं स्थितं तत्सदृशं परे ॥ (मो_३,१०.२७ ॥

"आकारिणि" बाह्येन्द्रियग्राह्यस्वरूपयुक्ते । "सौम्ये" क्षोभरहिते । "तोये" । "द्रवक्रमः" आद्यस्पन्दनासमवायिकारणभूतगुणविशेषपरिपाटी । "यथा स्थितः" भवति । "तथानाकृतौ परे" परब्रह्मणि । "विश्वं" "स्थितं" भवति । कथम्भूतं । "तत्सदृशम्" अनाकृतीत्य् अर्थः । सौम्ये जले यथा स्फुटीभविष्यमाणत्वेन किञ्चित्त्वार्होऽपि द्रवाख्यो गुणः तन्मयः । तथा भासमानत्वेन भिन्नत्वार्होऽपि प्रपञ्चः ब्रह्ममय इति भावः ॥ (मोटी_३,१०.२७ ॥

अभेदम् उक्त्वा तत्त्वम् एव कथयति

पूर्णात् पूर्णं प्रसरति निराकारान् निराकृति ।
ब्रह्मणो विश्वम् आभातं तद् विश्वार्थविवर्जितम् ॥ (मो_३,१०.२८ ॥

"पूर्णाद्" ब्रह्मणः । "पूर्ण"रूपं जगत् । "प्रसरति" विलसति । प्रसरणं चात्र प्रपञ्चाक्रान्तबुद्धिं शिष्यं प्रयुक्तम् । "निराकारात्" ब्रह्मणः । "निराकृति" जगत् । "प्रसरति" । अतः "ब्रह्मणः" यद् "विश्वम् आभातं" भानम् आगतं । तत् "विश्वार्थविवर्जितम्" विश्वार्थैः घटपटादिभिः विवर्जितं भवति । ब्रह्मैकमयं भवतीत्य् अर्थः ॥ (मोटी_३,१०.२८ ॥

पूर्णात् पूर्णं प्रसरति संस्थितं पूर्णम् एव तत् ।
तो विश्वम् अनुत्पन्नं यच् चोत्पन्नं तद् एव तत् ॥ (मो_३,१०.२९ ॥

"पूर्णाद्" ब्रह्मणः । "पूर्ण"रूपं जगत् । "प्रसरति" विलसति । प्रसरणं "संस्थितं" भवति । न तु तत्प्रसरणेन काचित् खण्डनास्य जायते इत्य् अर्थः । फलितम् आह्"आत" इति । "अतः" पूर्वोक्ताद् धेतोः । "विश्वम् अनुत्पन्नं" भवति । ब्रह्मत्वेन तस्य सदा स्थितत्वात् । विश्वानुत्पन्नत्वम् असहमानं प्रत्य् आह "यच् चे"ति । "यत् चोत्पन्नं" भवति । "तत् तद् एव" ब्रह्मैव । भवति । उत्पन्नस्यापि ब्रह्मत्वाविरुद्धत्वाद् इत्य् अर्थः ॥ (मोटी_३,१०.२९ ॥

एतावत्या प्रक्रियया सिद्धम् अचिद्रूपत्वं ब्रह्मणः कथयति

चेत्यासम्भवतस् तस्मिन् पदे केव चिदर्थता ।
आस्वादकासम्भवतो मरिचे केव तीक्ष्णता ॥ (मो_३,१०.३० ॥

अत इत्य् अध्याहार्यम् । अतो हेतोः । "चेत्यासम्भवतः" । "चेत्यस्य" चिद्विषयस्य जगतो । "ऽसम्भवतः" । "तस्मिन् पदे" ब्रह्मस्वरूपे पदे । "केव चिदर्थता" चिच्छब्दप्रवृत्तिनिमित्तता । भवति । न कापीत्य् अर्थः । चेत्यविषयीकरणेनैव हि चितः चिद् इति नाम युक्तम् । चेत्याभावे तु तन् न युक्तम् । चेत्याभावश् च सविस्तरं पूर्वं साधितः । चिदर्थतानिषेधश् चात्र तदुत्तीर्णतया ज्ञेयः न जडतयेति । अत्र समर्थकं दृष्टान्तम् आह "आस्वादके"ति । "केव" न कापीत्य् अर्थः । "आस्वादकासम्भवत" आस्वादकासम्भवेन इत्य् अर्थः ॥ (मोटी_३,१०.३० ॥

पुनर् अप्य् एतद् एव कथयति

सत्येवेयम् असत्यैव चितेश् चित्तोदिता परे ।
भावात् प्रतिबिम्बस्य प्रतिबिम्बार्हता कुतः ॥ (मो_३,१०.३१ ॥

"चितेः" "चित्ता" चित्सम्बन्धी चिद्भावः । "परे" परमात्मनि । "असत्यैव" परमार्थतोऽसत्स्वरूपैव सती । "सत्येव" सत्यवद् । "उदिता"त्र दृष्टान्तम् आह "अभावाद्" इति । दर्पणस्येति शेषः । यथा दर्पणस्य "प्रतिबिम्बार्हता" प्रतिबिम्बेनैव ज्ञायते । तदभावे तु सा न ज्ञायते । एवं परस्य चित्ता चेत्येनैव ज्ञायते । तदभावे तु "कुतो" ज्ञायते इति भावः ॥ (मोटी_३,१०.३१ ॥

जीवादिरूपतानिरासार्थं परमात्मतत्त्वं विशिनष्टि

परमाणोर् अपि परं तद् अणीयोऽप्य् अणीयसः ।
शुद्धं सूक्ष्मं परं शान्तं तद् आकाशोदराद् अपि ॥ (मो_३,१०.३२ ॥

"तत्" ब्रह्म । "परमाणोर् अपि परम् अणीयः" अतिसूक्ष्मं । भवति । कथम्भूताद् "अपि" । "अणीयसोऽपि" द्व्यणुकाद्यपेक्षया सूक्ष्मतराद् अपि । सूक्ष्मतरत्वं चास्य बाह्येन्द्रियाग्राह्यत्वेन ज्ञेयम् । "तत्" ब्रह्म । कथम्भूतं । "शुद्धं" रागादिरजोऽदूषितं । "सूक्ष्मं" । "परम्" उत्तीर्णं । "शान्तं" सर्वप्रचारशून्यं । कस्माद् "अपि" । "आकाशोदराद् अपि" ॥ (मोटी_३,१०.३२ ॥

दिक्कालाद्यनवच्छिन्नरूपत्वाद् अतिविस्तृतम् ।
तद् अनाद्यन्तम् आभासं भासनीयविवर्जितम् ॥ (मो_३,१०.३३ ॥

"तत्" ब्रह्म्"आतिविस्तृतम्" अतिविस्तीर्णं भवति । कुतः । "दिक्कालाद्यनवच्छिन्नरूपत्वात्" । "आदि"शब्देन वस्तुपरिग्रहः त्रिविधपरिच्छेदशून्यत्वाद् इत्य् अर्थः । ननु कथम् अस्य दिगादिपरिच्छेदशून्यत्वं । तथात्वेऽप्य् अतिविस्तृतत्वम् इति चेत् । "दिक्" तावत् चेत्यमाना न वा । न चेत् तर्हि स्वयम् एवासिद्धा कथम् अन्यं परिच्छेदयेत् । चेत्यमाना चेत् तर्हि चितैव सा परिच्छिन्ना कथं तां परिच्छेदयेत् । एवं "काला"देर् अपि ज्ञेयम् । "दिग्"आदिभिः परिच्छिन्नम् एव परिच्छिन्नं भवति । तदभावे त्व् अतिविस्तृतम् एवेति स्थितम् अस्यातिविस्तृतत्वम् । पुनः कथम्भूतम् । "अनाद्यन्तं" यथा तथा कल्प्यमानयोर् अप्य् आद्यन्तयोः साक्षित्वाद् आद्यन्तरहितम् । पुनः कथम्भूतं । "भासनीयविवर्जितम्" आभासज्ञेयरहितज्ञानस्वरूपम् इत्य् अर्थः ॥ (मोटी_३,१०.३३ ॥

प्रोक्तविशेषणावष्टम्भेन जीवादिरूपताम् अस्य निवारयति

चिद्रूपम् एव नो यत्र लभ्यते तत्र जीवता ।
कथं स्याच् चित्तताकारा वासनानिलरूपिणी ॥ (मो_३,१०.३४ ॥

"यत्रै"वंविधगुणविशिष्टे ब्रह्मणि । "चिद्रूपम् एव" भावप्रधानो निर्देशः चिद्रूपत्वम् एव । "नो लभ्यते" पूर्वन्यायेन नानुभूयते । "तत्र" तादृशे ब्रह्मणि । "जीवता" जीवभावः । "कथं स्यात्" । कथम्भूता । "चित्तताकारा" चेत्यशयनाविष्टं चित्तत्वं चित्तं । तद्रूपिणीत्य् अर्थः । पुनः कथम्भूता । "वासनानिलरूपिणी" । चेत्यभावना "वासना" । सैव चलत्तय्"आनिलः" । तद्"रूपिणी" । शुद्धा चिद्रूपतापि यत्र नास्ति चेत्यशयनाविष्टाया जीवतायाः का तत्र वार्तेति भावः ॥ (मोटी_३,१०.३४ ॥

चिद्रूपत्वाभावेनैव युगपज्जीवादितां निराकरोति

चिद्रूपानुदयाद् एव तत्र नास्त्य् एव जीवता ।
न बुद्धिता न चित्तत्त्वं नेन्द्रियत्वं न वासनाः ॥ (मो_३,१०.३५ ॥

"चिद्रूपानुदयाद् एव" चित्स्वरूपानुद्भूतेर् एव । न त्व् अन्येन हेतुना । तद्रूपानुदयस् तु पूर्वं कथितः । सूक्ष्मरूपेण स्थिता चेत्यभावना वासना । ननु चिद्रूपानुदयेन कथम् अत्र जीवादिता नास्ति । सत्यं । चिदुच्छूनताया एव जीवादिभावेन तद्रूपत्वानुदये युक्तम् एव जीवताद्यभावत्वम् इति न विरोधः ॥ (मोटी_३,१०.३५ ॥

फलितम् आह

एवं स्थितं लयारम्भपूर्णम् अप्य् अजरं पदम् ।
स्मद्दृष्ट्या स्थितं शान्तं शून्यम् आकाशतोऽधिकम् ॥ (मो_३,१०.३६ ॥

"लयारम्भपूर्णं स्थितम् अपि अजरं" जराख्यशरीरधर्मरहितं । "पदं" परमात्मलक्षणं स्थानम् । "अस्मद्दृष्ट्याकाशतः" आकाशापेक्षय्"आधिकं शान्तं" । तथा "शून्यं" नकिञ्चिद्रूपं । "स्थितं" भवति । कथम् । "एवं" पूर्वोक्तया युक्त्येत्य् अर्थः ॥ (मोटी_३,१०.३६ ॥

परमात्मस्वरूपं दुर्बोधं ज्ञात्वा पुनर् अपि श्रीरामः पृच्छति

परमार्थस्य किं रूपं तस्यानन्तचिदाकृतेः ।
पुनर् एतत् समाचक्ष्व निपुणं बोधवृद्धये ॥ (मो_३,१०.३७ ॥

त्वं "पुनः निपुणं" सम्यक् । "बोधवृद्धये" परमात्मविषयज्ञानवृद्धये । "एतत् समाचक्ष्व" कथय । "एतत्" किं । "तस्य" प्रसिद्धस्य्"आनन्तचिदाकृतेः" दिगाद्यपरिच्छिन्नचित्स्वरूपस्य । "परमार्थस्य" सत्यस्वरूपस्य परमात्मनः । "किं रूपम्" अस्तीति ॥ (मोटी_३,१०.३७ ॥

श्रीवसिष्ठ उत्तरम् आह

महाप्रलयसम्पत्तौ सर्वकारणकारणम् ।
शिष्यते यत् परं ब्रह्म तद् इदं वर्ण्यते शृणु ॥ (मो_३,१०.३८ ॥

"महाप्रलयसम्पत्तौ" तुर्ये तुर्यातीते महाकल्पान्तसमये वा । "कारणकारणं" मूलकारणं । "यत् परं ब्रह्म" जगद्भावेन बृंहां गतं परमात्मलक्षणं वस्तु । "शिष्यते" महाप्रलयसाक्षिभावेन शिष्टं भवति । मया "तद् इदं वर्ण्यते" ।ऽतः त्वं "शृणु" ॥ (मोटी_३,१०.३८ ॥

परमात्मस्वरूपम् एव वर्णयति

नाशयित्वा स्वम् आत्मानं मनसो वृत्तिसङ्क्षये ।
यद् रूपं यद् अनाख्येयं तद् रूपं तस्य वस्तुनः ॥ (मो_३,१०.३९ ॥

"तस्य वस्तुनः" परं ब्रह्मापरपर्यायस्य परमात्मलक्षणस्य वस्तुनः । "तत् रूपं" भवति । "तत्" किं । "यत् तद् रूपं" । शिष्यत इति शेषः । "शिष्यते" स्वनाशसाक्षिभावेन शिष्टं भवति । कस्य । "मनसः" । किं कृत्वा । "स्वम् आत्मानं नाशयित्वा" शुद्धचिन्मात्रे लयं नीत्वा । कस्मिन् सति । "वृत्तिसङ्क्षये" वृत्तिनाशे सति इत्य् अर्थः । "तद् रूपं" किं । "यत् अनाख्येयं" भवति । अतिशुद्धत्वेन आख्यायोग्यं न भवतीत्य् अर्थः । अयं भावः । मनसैव मनः छित्त्वेति न्यायेन किञ्चिन्मात्रं सम्यक्ज्ञानेन संसारकलनाभ्यो निष्क्रान्तं शुद्धं मनः भावनाबलेन शुद्धाशुद्धवृत्तिक्षयेण हेतुना शुद्धाशुद्धं स्वं रूपं नाशयति । ततः तन् मनः शुद्धतरे कुत्राप्य् अनाख्येये लयीभूतम् अनाख्येयं भवति । एतद्रूपता च सुषुप्तौ सर्वैर् अनुभूयते । किं तु मूढतामिश्रा । तच् च मनो यदा तादृक् स्यात् तदास्य परमात्मताभावः भवतीति । तत्रैव योगिना सावधानेन भाव्यम् इति ॥ (मोटी_३,१०.३९ ॥

नास्ति दृश्यं जगद् द्रष्टा दृश्याभावाद् विलीनवत् ।
भातीति भासनं यत् स्यात् तद् रूपं तस्य वस्तुनः ॥ (मो_३,१०.४० ॥

"तस्य वस्तुनः" परमात्मलक्षणस्य वस्तुनः । "तद् रूपं" भवति । "तत्" किं । "यद्" "इति" एवं । "भासनं" स्फुरणं "स्यात्" । "इति" किम् । "इति दृश्यं" दृशिक्रियाविषयो । "जगत् नास्ति" प्रतीतिमात्रसिद्धत्वात् । "द्रष्टा" दृशिक्रियाकर्ता । "दृश्याभावाद् विलीनवत्" लीन इव । "भाती"ति । अयं भावः । पूर्वं सम्यग्ज्ञानेन दृश्यात्यन्ताभावो युक्त्या निश्चेयः । ततः दृश्यात्यन्ताभावेन द्रष्टापि लयीभूत इव भवति । ततश् च द्रष्टा दृश्यं च नास्तीति स्फुरति । तत्स्फुरणं च द्रष्टृदृश्यलेपरहितत्वेन नकिञ्चिद्रूपत्वाद् अनाख्येयं भवति । तद् एव च परमात्मस्वरूपम् इति । तत्र योगिना सावधानेन भाव्यम् इति ॥ (मोटी_३,१०.४० ॥

चितेर् जीवस्वभावो यो यदि चेत्योन्मुखो वपुः ।
चिन्मात्रं विमलं शान्तं तत् तत् कारणकारणम् ॥ (मो_३,१०.४१ ॥

"तत्" प्रसिद्धं । "तच्" चिन्मात्रं । "कारणकारणं" मूलकारणभूतं परमात्मस्वरूपं भवति । "तत् चिन्मात्रं" किं । "चितेः" जीवोपादानकारणभूतायाः चितेः । "वपुः" स्वरूपं । चिन्मात्रस्वरूपत्वात् चितेः । पुनः कथम्भूतं । "विमलं" चेत्यमालिन्येनादूषितं । पुनः कथम्भूतं । "शान्तं" चेत्यक्षतक्षोभरहितं । "तत् चिन्मात्रं" किं । "यः जीवस्वभावः" जीवस्य रूपो । भवति । "स्वभाव"शब्दापेक्षया "यच्"छब्दस्य पुंलिङ्गता । ननु कदासौ जीवस्वभावो भवतीत्य् आह "यदी"ति । "यदि चेत्योन्मुखः" स्यात् । चेत्योन्मुखायाः चितेर् एव जीवत्वात् । अयं भावः । यच् चिन्मात्रं चेत्योन्मुखं सत् जीवतां याति तद् एव सम्यग्ज्ञानेन चेत्यासत्त्वं निश्चित्य शुद्धीकृतं सत् अनाख्येयं भवति । तद् एव च परमात्मरूपम् इति । तत्र योगिना सावधानेन भाव्यम् इति । चितिश् च स्वपरामर्शकारितया परामर्शकर्तृत्वेन परामर्शविषयत्वेन च द्विविधास्ति । तत्र प्रथमायाः चिन्मात्रम् इति नाम द्वितीयस्याः चितिर् इति ॥ (मोटी_३,१०.४१ ॥

ङ्गुष्ठस्याथ वाङ्गुल्या वाताद्यस्पर्शने सति ।
जीवतश् चेतसो रूपं यत् तत् परमम् आत्मनः ॥ (मो_३,१०.४२ ॥

रूपम् इति शेषः । "तत् परमम्" उत्कृष्टं वस्तु । परम्"आत्मनः" रूपं भवति । "तत्" किं । "चेतसः" मनसः । "यद् रूपं" भवति । कथम्भूतस्य "चेतसः" । "जीवतः" स्वव्यापारं प्रति समर्थस्य । न तु मूर्छाद्यवस्थावत् तत्राशक्तस्य । तदा हि तस्य मूढत्वम् एव भवति । न परमात्मत्वम् । कस्मिन् "सति" । "अङ्गुष्ठस्याथ वाङ्गुल्या" । उपलक्षणं चैतत् । सर्वशरीरावयवानां "वाताद्यस्पर्शने सति" । "आदि"शब्देन तेजःप्रभृतीनां ग्रहणम् । "अस्पर्शनम्" अस्पर्शः । अयं भावः । पुरुषस्य यस्मिन् कस्मिंश्चिच् छरीरावयवे कस्यापि द्रव्यस्य स्पर्शे असति तदा निरालम्बम् एव तद् अवयवव्यापि चैतन्यं भवेत् । तदा तदवयवमात्रानुसन्धानपरस्य तस्य बाह्यग्रहणसमर्थम् अपि मनः शुद्धनिरालम्बाचेत्यचिन्मात्ररूपपरमात्मरूपम् एव तिष्ठतीति । तदैव सर्वाः मनोवृत्तीः विहाय योगिना सावधानेन परीक्ष्यम् इति ॥ (मोटी_३,१०.४२ ॥

स्वप्नाया अनन्ताया अजडाया घनस्थितेः ।
यद् रूपं चिरचिन्तायास् तत् तदानघ शिष्यते ॥ (मो_३,१०.४३ ॥

हे "ऽनघ" रागादिदोषरहित । "तत्" वस्तु । "तदा" महात्मलयसमये । "शिष्यते" । "तत्" किं । "यत् रूपं" भवति । कस्याः । "चिरचिन्तायाः" । "चिरं" सर्वरात्रं । कृता या "चिन्ता" प्राप्तेष्टविषयम् आध्यानम् । तस्याः चिन्ताविशेषणान्य् आह्"आस्वप्नाया" इत्यादि । "अस्वप्नायाः" स्वप्नत्वेनापरिणतायाः । जाग्रति क्रियमाणा चिन्ता स्वप्नत्वेन परिणमते । स्वप्नतया परिणतत्वे तु अनायत्ततयान्यविषयिण्य् अपि स्याद् इति युक्तम् उक्तम् "अस्वप्नाया" इति । "अनन्तायाः" अच्छिन्नसन्तानत्वेन प्रवृत्तायाः । अन्या काचिच् चिन्ता तत्र मध्ये नायातीत्य् अर्थः । "अजडायाः" काचिद् धि चिन्ता नैरन्तर्येण क्रियमाणा मूर्छाम् आवहति । तन्निवारणार्थम् "अजडाया" इति विशेषणम् । "घनस्थितेः" । "घना" निबिडा । चिन्त्यमानस्यापि प्रवेशम् अदधती । "स्थितिर्" अवस्थानं । यस्याः । सा । तादृश्याः । निरालम्बाया इत्य् अर्थः । अयं भावः । जाग्रति क्रियमाणा छिन्ना जाड्यदोषरहिता चिन्त्यमानस्पर्शदूषिता चिन्ताच्छिन्नबोधमयाचेत्यचिन्मयताम् एव यात्य् । अचेत्यचिन्मयम् एव च परमात्मरूपम् इति योगिना तत्र सावधानेन भाव्यम् इति ॥ (मोटी_३,१०.४३ ॥

यद् व्योम्नो हृदयं यद् वा शिलायाः पवनस्य च ।
तस्याचेत्यस्य चिद्व्योम्नस् तद् रूपं परमात्मनः ॥ (मो_३,१०.४४ ॥

"तस्य" प्रसिद्धस्य । "अचेत्यस्य" स्पर्शादूषितस्य । "चिद्व्योम्नः" भानाकाशरूपस्य । "परमात्मनः रूपं" स्वरूपं । "तत्" भवति । "तत्" किं । "यत् व्योम्नः हृदयं" शून्याख्यं । भवति । "यद् वा" । "यत्" हृदयं । "शिलायाः पवनस्य च" भवति । तत्र "शिलाया हृदयं" अन्यस्य प्रवेशानर्हं सूक्ष्मावयवनैविद्ध्यरूपं भवति । "पवनस्य" "हृदयं" मृग्यमानं शून्यतायाम् एव विश्राम्यति । नन्व् एतेन जडत्वम् अस्यायातम् इति चेन् । न । "चिद्व्योम्न" इति नामधेयकथनेन तन्निवारणात् । विचारे क्रियमाणे व्योमादीनां हृदयं यथायथं शून्यरूपम् अन्यप्रवेशाम् अर्हं भवति । तादृग् एव च परमात्मनो रूपम् इति योगिना तत्र सावधानेन भाव्यम् ॥ (मोटी_३,१०.४४ ॥

चेत्यस्यामनस्कस्य जीवतो या क्रियावतः ।
स्यात् स्थितिः सा परा शान्ता सत्ता तस्याद्यवस्तुनः ॥ (मो_३,१०.४५ ॥

"परा" उत्कृष्टा । "शान्ता" क्षोभरहिता । "सत्ता"वस्थितिः । "तस्याद्यवस्तुनः" परमात्मलक्षणस्य वस्तुनः । "सा स्यात्" । "सा" का । "या स्थितिः सत्ता स्यात्" । कस्य । "जीवतः" जीवयुक्तस्य पुरुषस्य । न तु मृतस्य । कथम्भूतस्य्"आचेत्यस्य" । सम्यग्ज्ञानेन चेत्याभावे निश्चितत्वात् । चेत्यरहितस्यात एव्"आमनस्कस्य" मनोरहितस्य । पुनः कथम्भूतस्य । "क्रियावतः" चलनादिक्रियाकारिणः । अयं भावः । चेत्यं प्रति मनोव्यापारम् अकुर्वन् अत एव सर्वथानुसन्धानशून्यः पुरुषः चलनादिक्रियाकारी यादृशो भवति तादृग् एव सृष्ट्यादिव्यापारकारि परम् आत्मतत्त्वं भवतीति । तत्र योगिना सावधानेन भाव्यम् इति ॥ (मोटी_३,१०.४५ ॥

चित्प्रकाशस्य यन् मध्यं प्रकाशस्य घनस्य च ।
दर्शनस्य च यन् मध्यं तद् रूपं ब्रह्मणो विदुः ॥ (मो_३,१०.४६ ॥

पण्डिताः । "ब्रह्मणः" नानापदार्थभावेन बृंहितस्य परमात्मनः । "तद् रूपं विदुः" जानन्ति । "तत्" किं । "चित्प्रकाशस्य" चित उत्थितस्य चेत्यप्रकाट्यरूपस्य प्रकाशस्य । "यत् मध्यं" मध्यावस्था । भवति । तथा "घनस्य" निबिडस्य । "प्रकाशस्य" सूर्यमण्डलादेर् उत्थितस्य । "यन् मध्यं" मध्यावस्था । भवति । तथा "दर्शनस्य" द्रष्टुर् उत्थितायाः दृशिक्रियायाः । "यन् मध्यं" मध्यावस्था । भवति । अयं भावः । चित्प्रकाशस्य बाह्यप्रकाशस्य दर्शनस्य च तिस्रोऽवस्था भवन्ति । आद्यावस्था मध्यावस्थान्त्यावस्था । तत्र बाह्यप्रकाशस्यादित्यादेर् उत्थानसमये याद्यावस्था सादित्यस्पर्शदूषिता । या च पदार्थप्रकाशनसमयेऽन्त्यावस्था सा पदार्थस्पर्शदूषिता । मध्यावस्था तु शुद्धप्रकाशस्वरूपानाख्या च भवति । तादृग् एव च परमात्मस्वरूपम् इति । तत्र योगिना सावधानेन भाव्यम् । चित्प्रकाशदर्शनयोर् अप्य् एवं योज्यम् । चित्प्रकाशस्य दर्शनस्य च परिमितत्वापरिमितत्वमात्रकृतो भेदो ज्ञेयः ॥ (मोटी_३,१०.४६ ॥

वेदनस्य प्रकाशस्य दृश्यस्य तमसस् तथा ।
वेदनं यद् अनाद्यन्तं तद् रूपं परमात्मनः ॥ (मो_३,१०.४७ ॥

"तत् परमात्मनः रूपं" भवति । "तत्" किं । "यद् वेदनम्" अनुसन्धानं । भवति । कथम्भूतम् । "अनाद्यन्तं" नैरन्तर्येण प्रवृत्तम् । सान्तरस्यैव हि मध्ये पुनः पुनः सादित्वं सान्तत्वं च भवति । कस्य । "प्रकाशस्या"र्थप्रकाशरूपस्य । "वेदनस्य" ज्ञानस्य । पुनः कस्य । "तमसः" ग्राह्यैकस्वरूपस्य । "दृश्यस्य" अवश्यदर्शनीयतया कल्पितस्य कस्यचिद् देवताविशेषस्य । अयं भावः । ज्ञानधारणा ज्ञेयैकरूपदेवताधारणा च नैरन्तर्येण प्रवर्तमाना ज्ञानैकमयतया देवतैकमयतया च परिणता सती एकस्वरूपपरमात्मरूपा भवतीति । तत्र योगिना सावधानेन भाव्यम् । अथ वा "वेदनस्य" ज्ञानकरणस्य । "प्रकाशस्य" । "दृश्यस्या"लोकाभाम् [?]कृतचक्षुर्ग्राह्यस्य । "तमसः" बाह्यतमस इति योज्यम् । बाह्यतेजसः बाह्यतमसश् च धारणायाः कैश्चिद् उक्तत्वात् ॥ (मोटी_३,१०.४७ ॥

यतो जगद् उदेतीव नित्यानुदितरूप्य् अपि ।
विभिन्नवद् इवाभिन्नं तद् रूपं पारमात्मिकम् ॥ (मो_३,१०.४८ ॥

"तत् पारमात्मिकम्" परमात्मसम्बन्धि । "रूपं" भवति । किं "तत्" । "यतः" यस्मात् । "जगद् उदेतीव" उदयं यातीव । भासमानत्वात् । कथम्भूतम् "अपि" । "नित्यानुदितरूप्य् अपि" नित्यम् अनुदितं । परमार्थतः चिन्मात्ररूपतया जगद्रूपेणाप्रादुर्भूतं "रूपम्" अस्यास्तीति । तादृशम् "अपि" । पुनः कथम्भूतम् । "अभिन्नं" तन्मयं । पुनः कथम्भूतं । स्थितम् इति शेषः । "स्थितं" वर्तमानं । कथं । "विभिन्नवत्" विभिन्नम् इव । परमार्थतः भिन्नत्वनिरासाय "वत्"इशब्दोपादानम् । अयं भावः । यतः सूक्ष्मतराद् वस्तुन इदं जगत् पयस इव वीचिकदम्बकं निर्याति । तद् एव परमात्मनो रूपम् इति । तत्र योगिना सावधानेन भाव्यम् इति ॥ (मोटी_३,१०.४८ ॥

व्यवहारपरस्यापि यत् पाषाणवद् आसनम् ।
व्योम्न एव व्योमत्वं तद् रूपं पारमात्मिकम् ॥ (मो_३,१०.४९ ॥

"तत् पारमात्मिकम्" परमात्मसम्बन्धि । "रूपं" भवति । किं "तत्" । "यत् व्यवहारपरस्यापि" व्यवहारं कुर्वाणस्यापि । "पाषाणवत् आसनं" स्थितिः । भवति । तद् "आसनं" किं । "अव्योम्न एव" जडत्वादिव्योमधर्मरहितत्वेनाकाशस्वरूपव्यतिरिक्तस्य एव । "व्योमत्वं" व्योमभावः । अयं भावः । व्यवहारं कुर्वन्न् अपि पुरुषः तत्रत्यसिद्ध्यसिद्ध्यनुसन्धानरहितः परमात्मरूप एव भवतीति । तत्र योगिना सावधानेन भाव्यम् इति ॥ (मोटी_३,१०.४९ ॥

वेद्यवेदनवेत्तृत्वरूपत्रयम् इदं पुनः ।
यत्रोदेत्य् अस्तम् आयाति तत् तत् परमम् उत्तमम् ॥ (मो_३,१०.५० ॥

"तत् तत्" प्रसिद्धं । "परमम्" उत्कृष्टं । "उत्तमम्" निरतिशयम् परमात्मलक्षणं वस्तु । भवति । "तत्" किं । "यत्र" यस्मिन् । "इदम्" अनुभूयमानं । "वेद्यं" विदिक्रियाविषयो । "वेदनं" विदिक्रिया । "वेत्ता" विदिक्रियाकर्ता । तेषां भावः "वेद्यवेदनवेत्तृत्वम्" । तदाख्यं "रूपत्रयं" "वेद्यवेदनवेत्तृत्वरूपत्रयं उदेति अस्तं याति" । अयं भावः । वेद्यादित्रिपुटी चेत्यमानत्वेन कुत्रचिच् चिन्मात्राख्ये वस्तुनि उदेति लयीभवति च । तद् एव परमात्मनो रूपम् इति । योगिना तत्र सावधानेन भाव्यम् इति ॥ (मोटी_३,१०.५० ॥

वेद्यवेदनवेत्तृत्वं यत्रेदं प्रतिबिम्बति ।
बुद्ध्यादौ महादर्शे तद् रूपं परमं स्मृतम् ॥ (मो_३,१०.५१ ॥

पण्डितैः । "तत् परमं" उत्कृष्टं । "रूपं" परमात्मलक्षणं स्वरूपं । "स्मृतम्" । "तत्" किं । "यत्र महादर्शे वेद्यवेदनवेत्तृत्वं" वेद्यादित्रिपुटी । "प्रतिबिम्बति" प्रतिबिम्बतया स्फुरति । कथम्भूते । "ऽबुद्ध्यादौ" बुद्ध्यादिरहिते । युक्तं चादर्शस्य बुद्ध्यादिरहितत्वम् । आदर्शस्य जाड्येन बुद्ध्यादिरहितत्वम् अस्य उत्तीर्णत्वेनेति विशेषः । अयं भावः । वेद्यादित्रिपुटी क्षण एव स्फुरमाणा क्षण एव च लयभागिनी स्वस्फूर्त्याश्रयस्य किम् अपि मालिन्यम् अनादधती प्रतिबिम्बतयैव भाति । यतः प्रतिबिम्बम् अपि क्षण एव स्फुरति क्षण एव च लयीभवति स्वाश्रयस्य मकुरादेः मालिन्यं न दधाति । तव वेद्यादित्रिपुटीप्रतिबिम्बाश्रयं त्रिपुटीव्यतिरिक्तं किम् अपि वस्तु स्वीकार्यम् । अन्यथा त्रिपुटीप्रतिबिम्बायोगात् । तच् च तादृशं स्वीक्रियमाणम् अनाख्यम् एव भवति । तद् एव च परमात्मतत्त्वम् इति । तत्र योगिना सावधानेन भाव्यम् इति ॥ (मोटी_३,१०.५१ ॥

मनष्षष्ठेन्द्रियातीतं यद् रूपं स्यान् महाचितेः ।
जङ्गमे स्थावरे वापि तत् सर्गान्तेऽवशिष्यते ॥ (मो_३,१०.५२ ॥

"तत्" वस्तु । "सर्गान्ते" महाप्रलये । "ऽवशिष्यते" । "तत्" किं । "यत् महाचितेः" चिन्मात्रस्य । "रूपं स्यात्" । कथम्भूतं । "मनष्षष्ठेन्द्रियातीतं" । मन एव षष्ठं येषां । तानि "मनःषष्ठानि" । तानि च तानीन्द्रियाणि "मनःषष्ठेन्द्रियाणि" । तान्य् अतीतं "मनःषष्ठेन्द्रियातीतं" । तदगोचरम् इत्य् अर्थः । कुत्र । "जङ्गमे स्थावरे वापि" । अयं भावः । "जङ्गमे" चित्तत्वं तावन् निर्विवादम् एव । "स्थावरे" तृणादाव् अपि तथैव पर्वतादाव् अपि । तृणाद्युद्गमेन नैव निर्णीतम् । न । न हि निश्चेतनात् कस्याप्य् उद्गमो युक्तः । मृतशरीराद् रोमाद्युद्गमादर्शनात् । तथा च येन रूपेण सर्वत्र चिद् अस्ति तद् अनाख्यम् एव । तद् एव च परमात्मतत्त्वम् इति । तत्र योगिना सावधानेन भाव्यम् इति ॥ (मोटी_३,१०.५२ ॥

स्थावराणां हि यद् रूपं तच् चेद् बोधमयं भवेत् ।
मनोबुद्ध्यादिनिर्मुक्तं तत् परेण समं भवेत् ॥ (मो_३,१०.५३ ॥

"हि"शब्दोपादानं पादपूरणार्थं । "तत् परेण" परमात्मना । "समं" तुल्यं । "भवेत्" स्यात् । "तत् "तदा । कदा । "तत् बोधमयं" बोधनस्वरूपं । "चेत्" स्यात् । "तत्" किं । "स्थावराणां यद् रूपं" भवति । अयं भावः । स्थावराणां रूपं अवश्यं क्षोभरहितम् एव किं तु जाड्यदूषितम् । अतः जाड्यं विहाय ज्ञेयास्पर्शेनैव स्वं ज्ञानतत्त्वं क्षोभरहितं कार्यं । ततश् च परमात्मप्राप्तिर् भवतीति । तत्र योगिना सावधानेन भाव्यम् इति । एताश् च धारणाः प्रत्येकं परमात्मप्राप्त्युपायभूता इति स्फुटीकृताः इति ॥ (मोटी_३,१०.५३ ॥

सर्गान्तश्लोकेन पूर्वोक्तम् उपसंहरति

ब्रह्मार्कशक्रहरविष्णुसदाशिवादि-
शान्तौ शिवं परमम् एतद् इहैकम् आस्ते ।
शिष्टं प्रदिष्टम् अविनष्टम् अकष्टम्
इष्टं मिश्रं न मिश्रम् अणुनाश्रितम् आश्रितेन ॥ (मो_३,१०.५४ ॥

"एतत्" स्वात्मत्वेन स्थितं । "शिवं" परानन्दस्वरूपं । "परमम्" उत्कृष्तं । वस्तु । "आस्ते" स्वस्वरूपे तथैव तिष्ठति । न तु नश्यति । कस्यां सत्यां । "ब्रह्मार्कशक्रहरविष्णुसदाशिवादिशान्तौ" सत्यां । "आदि"शब्देन सुरादितृणान्तानां ग्रहणम् । "ब्रह्मादीनां" तत्तद्भुवनाधिपतीनां । "शान्ति"रूपे महाकल्पान्तसमये सति । "हरः" संहारकारी । "सदाशिवः" सर्वस्य स्वमयतापादनेनानन्दकारी । अथ वा "ब्रह्मादीनां" सङ्कल्पोत्पत्त्यादिकारिणां मनःप्रभृतीनां । "शान्तौ" तुर्याख्ये सतीत्य् अर्थः । कथम्भूतं । "शिष्टं प्रदिष्टं" सर्वशान्तिसाक्षितया शेषत्वेन कथितं । पुनः कथम्भूतम् । "अविनष्टम्" नाशागोचरं । पुनः कथम्भूतम् । "अकष्टं" सुबोधं । पुनः कथम्भूतम् । "इष्टं" सर्वस्य प्रियतमं । पुनः कथम्भूतं । "मिश्रं" नानाभावाभावस्वरूपं । पुनः कथम्भूतं । "न मिश्रं" शुद्धचिन्मात्ररूपं । पुनः कथम्भूतम् । "अणुना" परिमितेन्"आश्रितेन" धर्मभूतेन जगत्"आश्रितम्" आधारत्वेन गृहीतम् । इति शिवम् ॥ (मोटी_३,१०.५४ ॥


इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायाम् उत्पत्तिप्रकरणे दशमः सर्गः ॥ ३,१० ॥



ओं श्रीरामः पृच्छति

इदंरूपम् इदं दृश्यं जगन् नामास्ति भासुरम् ।
महाप्रलयसम्पत्तौ भो ब्रह्मन् क्व नु गच्छति ॥ (मो_३,११.१ ॥

"इदं" पुरः स्फुरत् । "दृश्यं" दृशिक्रियाविषयो । "जगन् नाम" जगदाख्यं वस्तु । "अस्ति" परमार्थत एवास्ति । अन्यथा भासमानत्वायोगात् । कथम्भूतम् "इदंरूपम्" । "इदम्" अनुभूयमानभावाभावमयं । "रूपं" स्वरूपं यस्य । तत् "इदंरूपम्" । ततः किम् इत्य् । अत्राह "महाप्रलये"ति । "भो ब्रह्मन्" । इदम् एव जगत् "महाप्रलयसम्पत्तौ क्व नु गच्छति" । कं देशं यातीत्य् अर्थः ॥ (मोटी_३,११.१ ॥

श्रीवसिष्ठोऽप्य् एतत्सदृशं किञ्चित् पृच्छति

कुत आयाति कीदृग् वा वन्ध्यापुत्रः क्व गच्छति ।
क्व याति कुत आयाति वद वा व्योमकाननम् ॥ (मो_३,११.२ ॥

"कुतः आयाति" । उत्पत्तिसमये इत्य् अर्थः । "कीदृग् वा" किंस्वरूपो वा । "याति" । "क्व गच्छति" । नाशसमय इत्य् अर्थः । एतत्सदृशः तव प्रश्न इति भावः ॥ (मोटी_३,११.२ ॥

श्रीरामोऽत्रोत्तरं दधाति

वन्ध्यापुत्रो व्योमवनं नैवास्ति न भविष्यति ।
कीदृशी दृश्यता तस्य कीदृशी तस्य नास्तिता ॥ (मो_३,११.३ ॥

वर्तमानभविष्यन्निषेधेन भूतनिषेधोऽप्य् आक्षिप्तः । ततः किम् इत्य् । अत्राह "कीदृशी"ति । "दृश्यता" दर्शनयोग्यता । लक्षणयास्तितेति यावत् ॥ (मोटी_३,११.३ ॥

श्रीवसिष्ठः श्रीरामोक्तम् उत्तरं दृष्टान्तीकृत्योत्तरम् आह

वन्ध्यापुत्रव्योमवने यथा न स्तः कदाचन ।
जगदाद्य् अखिलं दृश्यं तथा नास्ति कदाचन ॥ (मो_३,११.४ ॥

"जगदादी"त्य् "आदि"शब्देन प्रलयः गृह्यते । "कदाचन" कदापीत्य् अर्थः ॥ (मोटी_३,११.४ ॥

फलितम् आह

न चोत्पन्नं न च ध्वंसि यत् किलादौ न विद्यते ।
उत्पत्तिः कीदृशी तस्य नाशशब्दस्य का कथा ॥ (मो_३,११.५ ॥

"किले"ति निश्चये । "यत्" वस्तु । "आदौ" पूर्वं । "न चोत्पन्नं" भवति । "न च ध्वंसि" भवति । नाशभाग् अपि न भवति । तथा "न विद्यते" स्थितिविषयतां च न याति । "तस्य कीदृशी" किंरूपा । "उत्पत्तिर्" भवति । उत्पत्त्यभावे च "नाशशब्दस्य का कथा" । एतद् वक्तुम् अपि न युक्तम् इति भावः ॥ (मोटी_३,११.५ ॥

श्रीरामः पुनः पृच्छति

वन्ध्यापुत्रनभोवृक्षकल्पना तावद् अस्ति हि ।
सा यथा नाशजन्माढ्या तथैवेदं न किं भवेत् ॥ (मो_३,११.६ ॥

"तावच्"छब्दो विप्रतिपत्त्यभावद्योतकः । "हि" निश्चये । वन्ध्यापुत्रादिकल्पनाभावे वन्ध्यापुत्रेत्यादिकथैव न युक्ता स्याद् इति भावः । ततः किम् इत्य् । अत्राह "सा" इति । "सा" वन्ध्यापुत्रादिकल्पना । असत्यत्वेऽपि "नाशजन्माढ्या" नाशजन्मयुक्ता । "यथा" भवति । "तथेदं" दृश्यम् । असत्यत्वेऽपि नाशजन्माढ्यं "किं न भवेत्" । भवत्व् इत्य् अर्थः । तथा च "क्व नु गच्छती"ति प्रश्नो युक्त एवेति भावः ॥ (मोटी_३,११.६ ॥

अन्यत्र स्त्रियि दृष्टस्य पुत्रस्यारोपेण युक्तैव वन्ध्यापुत्रकल्पनात्र तु दृश्यस्य क्व यत्रापि सत्तैव नास्तीति न तत्कल्पना युक्तेत्य् उत्तरं श्रीवसिष्ठो भङ्ग्यान्तरेणाह

फुल्लस्यातुलभुः सम्यग् आलकैः कुरु कोलनम् ।
निरन्वया यथैवोक्तिर् जगत्सत्ता तथैव हि ॥ (मो_३,११.७ ॥

"हि" निश्चये । "जगत्सत्ता तथैव" तेन प्रकारेणैव । "निरन्वया" कम् अप्य् अर्थम् अनुद्दिश्य प्रवृत्ता । व्यर्थेति यावत् । भवति । "तथा" कथं । "फुल्लस्ये"त्यादि "कोलनम्" इत्यन्त्"ओक्तिर् यथा निरन्वया" भवति ॥ (मोटी_३,११.७ ॥

निरन्वयत्वम् एव दृष्टान्तान्तरैः प्रतिपादयति

यथा सौवर्णकटके दृश्यमानम् अपि स्फुटम् ।
कटकत्वं तु नास्त्य् एव जगत्त्वं तु तथा परे ॥ (मो_३,११.८ ॥

"यथा सौवर्णकटके स्फुटं दृश्यमानम् अपि कटकत्वं नास्ति" परमार्थतः सुवर्णैकमयत्वात् । "परे" चिन्मात्रे । "जगत्त्वं तथै"व "नास्ती"त्य् अर्थः ॥ (मोटी_३,११.८ ॥

आकाशे च यथा नास्ति शून्यत्वं व्यतिरेकवत् ।
जगत्त्वं ब्रह्मणि तथा नास्त्य् एवाप्य् उपलब्धिमत् ॥ (मो_३,११.९ ॥

"च"शब्दः समुच्चये । "व्यतिरेकवत्" व्यतिरेकयुक्तम् । आकाशशून्यत्वयोः व्यतिरेकानुपलब्धेर् इत्य् अर्थः । दार्ष्टान्तिकम् आह "जगत्त्वम्" इति । "जगत्त्वम्" जगद्रूपत्वम् । "तथा" तेन प्रकारेण । "ब्रह्मणि" व्यापके चित्स्वरूपे । "नास्त्य् एव" । विचारासहत्वाद् इत्य् अर्थः । कथम्भूतम् "अपि" । "उपलब्धिमद् अपि" भासमानत्वेन उपलब्धम् अपीत्य् अर्थः ॥ (मोटी_३,११.९ ॥

कज्जलान् न यथा कार्ष्ण्यं श्वैत्यं च न यथा हिमात् ।
पृथग् एवं भवेद् बुद्धं जगन् नास्ति परे पदे ॥ (मो_३,११.१० ॥

"यथा" "कार्ष्ण्यं" कृष्णता । "कज्जलात् पृथक् न" "भवेत्" । तथा "श्वैत्यं" श्वेतता । "हिमाद् यथा पृथङ् न" "भवेत्" । "बुद्धं" परमार्थेन निश्चितं । "जगत्" । "परे पदे" परमात्मनि । "एवं" तथा । "पृथक् नास्ति" । "परे पदे" इति सप्तमीद्वयं पञ्चमीस्थाने ज्ञेयम् ॥ (मोटी_३,११.१० ॥

यथा शैत्यं च शशिनो न हिमाद् व्यतिरिच्यते ।
ब्रह्मणो न तथा सर्गो विद्यते व्यतिरेकवान् ॥ (मो_३,११.११ ॥

"च"शब्दः समुच्चये । "यथा शैत्यं" शीतता । "हिमात्" शीतलात् । "शशिनः" । "न व्यतिरिच्यते" नाधिका भवति । "तथा सर्गः ब्रह्मणः व्यतिरेकवान्" भेदवान् । "न" भवति ॥ (मोटी_३,११.११ ॥

गुणिगुणनिदर्शनेनैक्यम् उक्त्वा जगतो भ्रमसिद्धतया ऐक्यं कथयति

मरुनद्यां यथा तोयं द्वितीयेन्दौ यथेन्दुता ।
नास्त्य् एवैवं जगन् नास्ति दृष्टम् अप्य् अमलात्मनि ॥ (मो_३,११.१२ ॥

दार्ष्टान्तिकं कथयति "एवम्" इति । "अमलात्मनि" शुद्धचित्स्वरूपे परमात्मनि । "एवम्" तथा । "दृष्टम् अपि" भातम् अपि । "जगन् नास्ती"त्य् अर्थः । ननु पूर्वं कटकादयः दृष्टान्तत्वेनोपात्ता इह तु मरुजलादीति वैषम्यम् आपतितम् इति चेन् । न । पूर्वदृष्टान्तैः ब्रह्मैकरूपत्वं जगत उक्तम् । इहासत्यत्वम् । फलतस् तु सर्वेषां दृष्टान्तानां ब्रह्मैकतायाम् एव तात्पर्यम् इति न किञ्चिद् विरुद्धम् ॥ (मोटी_३,११.१२ ॥

पुनर् अप्य् एतद् एव दृष्टान्तान्तरेण दृढयति

संविद्विलोचनालोको भात्य् अयं संविदम्बरे ।
जगदाख्येऽमले व्योम्नि दृष्टिमुक्तावली यथा ॥ (मो_३,११.१३ ॥

"अयं" आत्मत्वेन प्रत्यक्षे स्थितः । "संविद्विलोचनालोकः" । "संविद्" एव चिद् एव । "विलोचनं" प्रकाशकत्वसाम्येन नेत्रं । तस्य्"आलोकः" रश्मिः । "भाति" पदार्थभावेन स्फुरति । कुत्र । "जगदाख्ये" जगन्नाम्नि । "संविदम्बरे" चिदाकाशे । का "यथा" । "दृष्टिमुक्तावली यथा" । यथा सा "अमले व्योम्नि" भूताकाशे । स्फुरति । तथेत्य् अर्थः । अयं भावः । यथा नेत्रान् निर्गताः रश्मयः आकाशे स्फुरन्तः मुक्तावलीरूपेण दृश्यन्ते । तथा चित उत्थिताः चिदालोकाख्याः रश्मयः जगदाख्ये चिदम्बरे स्फुरन्तः नानापदार्थरूपेण दृश्यन्ते इति ॥ (मोटी_३,११.१३ ॥

चिदाकाशे चिदाकाशश् चित्त्वाद् यः कचति स्वयम् ।
तद् एव तेन रूपं स्वं जगद् इत्य् अवबुध्यते ॥ (मो_३,११.१४ ॥

"चिदाकाशः" "चिदाकाशे" चिदाकाशाख्यायां स्वभित्तौ । "चित्त्वाच्" चिद्भावेन । "कचति" स्फुरति । अहम् इति स्वपरामर्शविषयो भवतीति यावत् । परामर्शाभावे हि तस्य चित्त्वम् एव न स्यात् । "तेन" तेन चिदाकाशेन । "तत्" कचनाख्यं स्वं रूपं । "जगद् इत्य् अवबुध्यते" ज्ञायते । कचनरूपत्वाद् एव जगतः ॥ (मोटी_३,११.१४ ॥

प्रकृतम् अनुसरति

आदाव् एव हि यन् नास्ति कारणासम्भवात् स्वयम् ।
वर्तमानेऽपि तन् नास्ति नाशः स्यात् तत्र कीदृशः ॥ (मो_३,११.१५ ॥

"हि" निश्चये । "यत्" यत् जगदाख्यं वस्तु । "कारणासम्भवात् आदौ एव स्वयं नास्ति" । "तत् वर्तमानेऽपि नास्ति" । "तत्र" तस्मिन् वस्तुनि । "नाशः" वन्ध्यापुत्रदृष्टान्तेन शङ्कितः नाशः । "कीदृशः" किंरूपः । "स्यात्" विषयाभावेनायोग्यत्वान् न स्याद् इत्य् अर्थः ॥ (मोटी_३,११.१५ ॥

ननु परमात्मलक्षणस्य कारणस्य सद्भावात् कारणासम्भवः कथम् उदेत्य् । अत्राह

क्वासम्भवद्भूतजाड्यं पृथ्व्यादेर् जडवस्तुनः ।
कारणं भवितुं शक्तं छायाया आतपो यथा ॥ (मो_३,११.१६ ॥

भूतेषु दृश्यमानं जाड्यं "भूतजाड्यम्" । "असम्भवत् भूतजाड्यं" यस्य । तत् "असम्भवद्भूतजाड्यं" । अर्थात् चिदाख्यं वस्तु । "पृथ्व्यादेः जडवस्तुनः कारणं भवितुं क्व शक्तं" । न शक्तम् इत्य् अर्थः । अत्र दृष्टान्तम् आह "छायाया" इति । आतपस्य छायाया नाशकत्वेन स्फुटं छायाकारणत्वायोगाद् दृष्टान्तता ॥ (मोटी_३,११.१६ ॥

ननु कारणाभावेऽपि जगद् अस्तु इत्य् । अत्राह

कारणाभावतः कार्यं नेदं तत् किञ्चनोदितम् ।
यत् तत्कारणम् एवास्ति तद् एवेत्थम् अवस्थितम् ॥ (मो_३,११.१७ ॥

"तत्" पूर्वोक्ताद् धेतोः । "कारणाभावतः" कारणाभावात् । "इदम्" अनुभूयमानं । "कार्यं" जगदाख्यं कार्यम् । "उदितम्" उत्पन्नं । "नास्ति" । कथं । "किञ्चन" लेशेनापीत्य् अर्थः । पुनः किम् एतद् दृश्यत इत्य् । अत्राह "यद्" इति । "तद् एव" वस्तु । "इत्थं" जगद्रूपेण्"आवस्थितं" वर्तमानं भवति । "तद् एव" किं । "यत्" वस्तु । "तत्कारणम्" एतस्य जगतः कारणत्वेन शङ्कितं वस्तु । "एव" भवति । न त्व् अन्यत् किञ्चिद् इति भावः ॥ (मोटी_३,११.१७ ॥

जातम् एव यद् भाति संविदो भानम् एव तत् ।
यज् जगद् दृश्यते स्वप्ने संवित्कचनम् एव तत् ॥ (मो_३,११.१८ ॥

"यद्" वस्तु । "अजातम् एव भाति" । "तत् संविदो" ज्ञानस्य । "भानम् एव" तथात्वेन स्फुरणम् एव । भवति । अत्रानुरूपं दृष्टान्तम् आह "यद्" इति । "तत्" इत्य् अनेन जगतः परामर्शः । स्वप्नस्य संवित्कचनरूपत्वं सर्वप्रतीतिसिद्धम् एवेति दृष्टान्तत्वेन गृहीतम् ॥ (मोटी_३,११.१८ ॥

संवित्कचनम् एवान्तर् यथा स्वप्नजगद्भ्रमः ।
सर्गादौ ब्रह्मणि तथा जगत्कचनम् आततम् ॥ (मो_३,११.१९ ॥

"अन्तः" मनसि । "स्वप्नजगद्भ्रमः" स्वप्नजगद्रूपो भ्रमः । स्वप्नजगद् इति यावत् । "सर्गादौ" बुद्ध्यारोपिते सर्गारम्भे । "तथा"शब्देन "संवित्कचनम्" आक्षिप्यते । "आततम्" विस्तीर्णम् ॥ (मोटी_३,११.१९ ॥

यद् इदं दृश्यते किञ्चित् तत् सद् एवात्मनि स्थितम् ।
नास्तम् एति न चोदेति जगत् किञ्चित् कदाचन ॥ (मो_३,११.२० ॥

"यत् इदम्" अनुभूयमानं । "किञ्चित्" वस्तु । "दृश्यते" । "तत् सद् एव" सद् वस्त्व् एव । स्व्"आत्मनि" चिन्मये स्वस्वरूपे । "स्थितं" भवति । फलितम् आह "नास्तम्" इति । अत इत्य् अध्याहार्यं । चिन्मात्राख्येन रूपेण सदैव स्थितत्वाद् इति भावः ॥ (मोटी_३,११.२० ॥

यथा द्रवत्वं सलिलं स्पन्दत्वं पवनो यथा ।
यथा प्रकाश आभासो ब्रह्मैव त्रिजगत् तथा ॥ (मो_३,११.२१ ॥

न हि कश्चित् "द्रवत्वा"दि "सलिला"देः पृथक्कृत्य दर्शयितुं समर्थ इति भावः । "प्रकाशः" सूर्यादिप्रकाशः । "आभासः" अर्थप्राकट्यं ॥ (मोटी_३,११.२१ ॥

यथा पुरम् इवास्तेऽन्तर् विद् एव स्वप्नसंविदि ।
तथा जगद् इवाभाति स्वात्मैव परमात्मनि ॥ (मो_३,११.२२ ॥

"यथा स्वप्नसंविदि" स्वप्नज्ञाने । स्वप्नावस्थायाम् इति यावत् । "अन्तः" अन्तःकरणे । "विद् एव" ज्ञानम् एव । "पुरम् इवाभाति" विलसति । "तथा स्वात्मैव परमात्मनि" । "परमात्मे"त्याख्यायां स्वभित्तौ । "जगद् इवाभाति" । न त्व् अन्यज् जगन् नामास्तीति भावः ॥ (मोटी_३,११.२२ ॥

अत्र श्रीरामः पृच्छति

एवं चेत् तत् कथं ब्रह्मन् सुघनप्रत्ययं वद ।
इदं दृश्यविषं जातम् असत्स्वप्नानुभूतिवत् ॥ (मो_३,११.२३ ॥

हे "ब्रह्मन्" । त्वं "वद" । "एवं चेत्" पूर्वोक्तः प्रकारो यदि भवति । "तत्" तर्हि । "इदम्" अनुभूयमानं । "दृश्यविषं" । "दृश्यम्" एव मोहादायकत्वेन "विषं" विषद्रव्यं । "सुघनप्रत्ययं" । "सुघनः प्रत्ययः" आश्वासः यस्मिन् । तत् । तादृशं । "कथं" केन हेतुना । "जातम्" उत्पन्नं । कथम् । "असत्स्वप्नानुभूतिवत्" । "असती" या "स्वप्नानुभूतिः" स्वप्नाकारा अनुभूतिः । स्वप्नम् इति यावत् । तद्"वत्" ॥ (मोटी_३,११.२३ ॥

दृश्यात्यन्तासम्भवं विना मुक्तिम् अमन्यमानः तम् एव विस्तरेण पृच्छति

सति दृश्ये किल द्रष्टा सति द्रष्टरि दृश्यता ।
एकसत्त्वे द्वयोर् बन्धो मुक्तिर् एकक्षये द्वयोः ॥ (मो_३,११.२४ ॥

"किले"ति निश्चये । दृश्यसत्तायां द्रष्टृसत्ता भवति । द्रष्टृसत्तायां च दृश्यसत्ता भवति । यतः त्वयैवेति भावः । फलितम् आह "एकसत्त्वे"ति । "द्वयोः" मध्ये "एकसत्त्वे बन्धः" स्यात् । "द्वयोः" मध्ये "एकक्षये मुक्तिः" स्यात् । तस्मात् मुक्त्यर्थम् एकक्षय एव साध्यः इति भावः ॥ (मोटी_३,११.२४ ॥

ननु तत्रापि किं पुनः पुनः दृश्यात्यन्ताभावम् एव पृच्छसीत्य् । अत्राह

त्यन्तासम्भवो यावद् बुद्धो दृश्यस्य नाक्षयः ।
तावद् द्रष्टुर् अद्रष्टृत्वं न सम्भवति मोक्षदम् ॥ (मो_३,११.२५ ॥

"बुद्धः" सम्यक् ज्ञातः । "अक्षयः" अविच्छिन्नः । "अद्रष्टृत्वं" अद्रष्टृभावः । शुद्धचिन्मात्रतेति यावत् । दृश्यात्यन्ताभावस्य सुकरत्वाद् द्रष्टृतानिरासस्य च दृश्यात्यन्ताभावं विना दुष्करत्वाच् च पुनः पुनः दृश्यात्यन्ताभावप्रश्न इति भावः ॥ (मोटी_३,११.२५ ॥

ननु दृश्यात्यन्ताभावे तव किं प्रयोजनं । दृश्यध्वंसेनापि कार्यसिद्धेर् इत्य् । अत्राह

दृश्यं चेत् सम्भवत्य् आदौ पश्चात् क्षयम् उपागतम् ।
तद् दृश्यस्मरणानर्थरूपो बन्धो न नश्यति ॥ (मो_३,११.२६ ॥

"तत्" तदा । "दृश्यस्मरणानर्थरूपः" दृश्यस्मरणम् एवानर्थः । सः रूपं यस्य । सः तादृशः "बन्धः" । "न नश्यति" नाशं न याति । पूर्वं सत्यतया ज्ञातस्य ततो नष्टस्यार्थस्य स्मरणं हि दुर्निवारम् एव । यथा मात्रादेर् इति भावः । "तत्" कदा । "चेत्" यदि । "आदौ" पूर्वं । "दृश्यं" "सम्भवति" सत्यतया उपपत्तिमद् भवति । "पश्चात् क्षयं" नाशम् । "उपागतं" भवति । तस्मात् त्रैकालिक एवाभावोऽत्राङ्गीकरणीय इति भावः ॥ (मोटी_३,११.२६ ॥

ननु नष्टस्य दृश्यस्य का स्मृतिर् भवतीत्य् । अत्राह

यत्र क्वचन संस्थस्य स्वादर्शस्येव चिद्गतेः ।
प्रतिबिम्बो लगत्य् एव सर्गस्मृतिमयो ह्य् अयम् ॥ (मो_३,११.२७ ॥

"हि" निश्चये । "अयं" समनन्तरम् उक्तः । "सर्गस्मृतिमयः" सर्गस्मरणस्वरूपः । "प्रतिबिम्बः लगत्य् एवा"वश्यं लगति । कस्याः । "चिद्गतेः" चित्प्रकारस्य । कस्य्"एवादर्शस्येव" । यथा यत्र क्वचन संस्थितस्यादर्शस्य पदार्थसान्निध्ये प्रतिबिम्बो लगति तथा यत्र क्वचन स्थितायाः चिद्गतेः सूक्ष्मत्वेन स्थितदृश्यसान्निध्यात् प्रतिबिम्बो लगतीत्य् अर्थः ॥ (मोटी_३,११.२७ ॥

तर्हि मुक्तिः कदा सम्भवतीत्य् । अत्राह

आदाव् एव हि नोत्पन्नं दृश्यं नास्त्य् एव चेत् स्वयम् ।
द्रष्टृदृश्यभ्रमाभावात् तत् सम्भवति मुक्तता ॥ (मो_३,११.२८ ॥

"दृश्यं" दृशिक्रियाविषयो भावजातं । "आदाव् एव" प्रथमम् एव । "स्वयं" स्वभावेन्"आनुत्पन्नं" अजातं सत् । "चेत्" यदि । "नास्त्य् एव" । "तत्" तदा । "मुक्तता" "सम्भवति" उपपत्तियुक्ता भवति । कुतः । "द्रष्टृदृश्यभ्रमाभावात्" । अयं भावः । दृश्यात्यन्ताभावे सति पुरुषस्येदं दृश्यम् इति भ्रमः शाम्यति । तच्छान्तौ चाहं द्रष्टेति भ्रमोऽपि शाम्यत्य् एव । ततश् च शुद्धचिन्मात्रस्वरूप एवासौ शिष्यते । तद् एव च मुक्तिर् इति ॥ (मोटी_३,११.२८ ॥

प्रश्नम् उपसंहरति

तस्माद् असम्भवन्मुक्तेर् मम प्रोत्साहयुक्तितः ।
त्यन्तासम्भवं दृश्ये कथयात्मविदां वर ॥ (मो_३,११.२९ ॥

हे "आत्मविदां वर" श्रेष्ठ । "तस्मात्" ततो हेतोः । "असम्भवन्मुक्तेः" दृश्यात्यन्ताभावज्ञानं विनानुपपद्यमानमुक्तेः । "मम" । "दृश्ये" वर्तमानम् "अत्यन्तासम्भवं" । "कथय" । कुतः । "प्रोत्साहयुक्तितः" प्रकृष्टम् उद्योगं कृत्वेत्य् अर्थः ॥ (मोटी_३,११.२९ ॥

श्रीवसिष्ठ उत्तरम् आह

सद् एव यथा भाति जगत् सर्वात्मकं तथा ।
शृण्व् अहं कथया राम दीर्घया कथयामि ते ॥ (मो_३,११.३० ॥

त्वं "शृणु" । "अहं तथा" तं प्रकारं । "कथयामि" । कया । "दीर्घया" सविस्तरया । "कथया" वाक्यप्रबन्धेन । "तथा" कथं । "सर्वात्मकं" समस्तदृश्यस्वरूपं । "जगत्" । "यथा" येन प्रकारेण । "असद् एव भाति" बुद्बुदौ असत्यतया स्फुरति ॥ (मोटी_३,११.३० ॥

ननु किमर्थं दीर्घया कथया कथयसीत्य् । अत्राह

व्यवसायकथावाक्यैर् यावत् तन् नानुवर्णितम् ।
न विश्राम्यति ते तावद् धृदि पांसुर् यथा ह्रदे ॥ (मो_३,११.३१ ॥

"व्यवसायकथावाक्यैः" । "व्यवसायस्य" विशिष्टस्य निश्चयस्योत्पादिका "कथा" "व्यवसायकथा" । तदभिधायकैः "वाक्यैः" "व्यवसायकथावाक्यैः" । "तत्" दृश्यासत्त्वं । "यावत् नानुवर्णितं" स्यात् । "तावत् ते हृदि न विश्राम्यति" न स्थितिं करोति । को "यथा" । "पांसुर् यथा" । "यथा पांसू" रजः । "ह्रदे न विश्राम्यति" । तथेत्य् अर्थः ॥ (मोटी_३,११.३१ ॥

ननु दृश्यात्यन्ताभावज्ञानेन किं मम सेत्स्यतीत्य् । अत्राह

त्यन्ताभावम् अस्यास् त्वं जगत्सर्गभ्रमस्थितेः ।
बुद्ध्वैकध्याननिष्ठात्मा व्यवहारं करिष्यसि ॥ (मो_३,११.३२ ॥

"त्वं व्यवहारं" परम्परायातं राज्यरूपं व्यवहारं । "करिष्यसि" कूटकार्षापणव्यवहारवत् करिष्यसि । न तु वैराग्यावस्थावत् तद्विमुखो भविष्यसि । मूढत्वावस्थावद् वा तदासक्तः । "त्वं" कथम्भूतः । "एकध्याननिष्ठात्मा" । "एकस्य" चिन्मात्राख्यस्य वस्तुनः । "ध्याने" चिन्तायां । "निष्ठा" यस्य । तादृशः "आत्मा" सत्त्वरूपं मनः यस्य । सः । तादृशः । अन्तः चिन्मात्रध्यान एकनिष्ठः । बहिः व्यवहारभाग् अपि भविष्यसीत्य् अर्थः । किं कृत्वा । "अस्याः" अनुभूयमानायाः । "जगत्सर्गभ्रमस्थितेः" । "जगत्सर्ग"रूपा जगत्सृष्टिरूपा । या "भ्रमस्थितिः" भ्रमदार्ढ्यं । तस्याः "अत्यन्ताभावं" त्रैकालिकाभावं । "बुद्ध्वा" ज्ञात्वेत्य् अर्थः ॥ (मोटी_३,११.३२ ॥

ननु ततोऽपि किम् इत्य् अपेक्षायां फलान्तरम् अपि कथयति

भावाभावग्रहोत्सर्गस्थूलसूक्ष्मचलाचलाः ।
दृशस् त्वां वेधयिष्यन्ति न महाद्रिम् इवेषवः ॥ (मो_३,११.३३ ॥

दृश्यात्यन्ताभावज्ञाने सति "भावाभावग्रहोत्सर्गस्थूलसूक्ष्मचलाचलाः दृशः त्वां न वेधयिष्यन्ति" हर्षामर्षोत्पादनरूपां ताडनां न कुर्वन्ति । "भावः" उद्भूतिः । "अभावः" अन्तर्धिः । "ग्रहः" ग्रहणं । "उत्सर्गः" त्यागः । भावादीनाम् अपि दृश्यतयात्यन्ताभावस्य सम्पन्नत्वान् न तत्कृता ताडना तव भविष्यति । न हि वन्ध्यापुत्रेण कश्चित् ताडित इति भावः । ताः का "इव" । "इषवः इव" । यथा इषवः महान्तं पर्वतं न विध्यन्ति । तथेत्य् अर्थः ॥ (मोटी_३,११.३३ ॥

दृश्यात्यन्ताभावकथनं प्रतिजानीते

स एषोऽस्त्य् एक एवात्मा न द्वितीयास्ति कल्पना ।
जगद् अत्र यथोत्पन्नं तत् ते वक्ष्यामि राघव ॥ (मो_३,११.३४ ॥

"सः" प्रसिद्धः । "एषः" सर्वेषाम् अपरोक्षत्वेन वर्तमानः । "एक एवास्ति" । "एव"शब्दार्थं स्फुटयति "ने"ति । "द्वितीया कल्पना" दृश्यमयी कल्पना । "नास्ति" । तथा च दृश्यात्यन्ताभावः स्फुट एवेति भावः । तर्हि भासमानं जगत् कथम् अस्तीत्य् । अत्राह "जगद्" इति । "अत्रा"द्वितीये ब्रह्मणि । "जगत् यथा उत्पन्नं तत् ते वक्ष्यामि" । तेनैव दृश्यात्यन्ताभावः स्फुटीभविष्यतीति भावः ॥ (मोटी_३,११.३४ ॥

सर्गान्तश्लोकेनैतत् सङ्गृह्णाति

तस्माद् इमानि सकलानि विजृम्भितानि
यो हीदम् अङ्ग सकले सकलं महात्मा ।
रूपावलोकनमनोमननप्रकाश-
कोशास्पदं स्वयम् उदेति च लीयते च ॥ (मो_३,११.३५ ॥

"तस्मात्" परमात्मलक्षणात् उपादानकारणात् । "इमानि" अनुभूयमानानि । "विजृम्भितानि" दृश्यरूपाणि विलासितानि । मृद इव घटा निर्यान्तीति शेषः । "तस्मात्" कस्मात् । "हि" निश्चये । हे "अङ्ग" । "यः सकलं" समस्तदृश्यप्रपञ्चरूपं भूत्वा । "स्वयं" स्वेनैव्"ओदेति च" उदयं याति च । "विलीयते" लयं याति च । "यः महात्मा" किं । "रूपावलोकनमनोमननं" मनस्कारः । "प्रकाशः" इन्द्रियेणालोकितस्य रूपस्य मनोमननद्वारेण साक्षिभूते चिन्मात्रे स्फुरणम् । तेषां "कोश"रूपम् "आस्पदं" स्थानं । तत्रैवैते तिष्ठन्ति । तत एव च निर्यान्तीत्य् अर्थः । इति शिवम् ॥ (मोटी_३,११.३५ ॥


इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायाम् उत्पत्तिप्रकरणे एकादशः सर्गः ॥ ३,११ ॥



ओं । "वक्ष्यामी"ति प्रतिज्ञां सम्पादयति

एतस्मात् परमाच् छान्तात् पदात् परमपावनात् ।
यथेदम् उत्थितं विश्वं तच् छृणूत्तमया धिया ॥ (मो_३,१२.१ ॥

"एतस्मात्" समनन्तरम् एव प्रतिपादितस्वरूपात् । "परमात्" सर्वोत्कृष्टात् । "शान्तात्" प्रपञ्चक्षोभरहितात् । "परमपावनात्" पावनानाम् अपि पावकत्वेन निरतिशयपावनात् । "पदात्" परात्मलक्षणात् स्थानात् । "यथा" येन प्रकारेण्"एदम्" अनुभूयमानं । "विश्वं" जगत् । "उत्थितं" प्रादुर्भूतं । "तत्" तं प्रकारम् । "उत्तमयो"त्कृष्टया । "धिया" । "शृणु" । एतेनोत्तमधीर् एवाधिकारित्वेनोक्तः ॥ (मोटी_३,१२.१ ॥

तद् एव कथयति

सुषुप्तं स्वप्नवद् भाति भाति ब्रह्मैव सर्गवत् ।
सर्वम् एकं च तच् छान्तं तत्र तावत् क्रमं शृणु ॥ (मो_३,१२.२ ॥

"सुषुप्तं" सुषुप्तिः । "स्वप्नवत्" स्वप्न इव । "भाति" स्फुरति । घननिद्रात उत्थितस्य एव स्वप्नप्रादुर्भावात् । "ब्रह्मैव" सर्गभावेन बृंहितं चिन्मात्राख्यं वस्तु एव । "सर्गवत्" सर्ग इव । "भाति" । ननु तर्हि जगदुपादानभूतं ब्रह्म जगद्वद् एव जडं स्यात् । कार्यवैगुण्ययुक्तस्य कारणस्यादर्शनात् इत्य् । अत्राह "सर्वम्" इति । "तत्" ब्रह्म । "सर्वं" भवति । "एकं च" भवति । "शान्तं च" भवति । सर्वथाश्चर्यम् एव तद् इति भावः । ननु कथम् उत्पद्यत इत्य् । अत्राह "तत्रे"ति । "तावच्"छब्दः साकल्ये ॥ (मोटी_३,१२.२ ॥

क्रमम् एव कथयति

तस्यानन्तप्रकाशात्मरूपस्याततचिन्मणेः ।
सत्तामात्रात्म कचनं यद् अजस्रं स्वभावतः ॥ (मो_३,१२.३ ॥
तद् आत्मनि स्वयं किञ्चिच् चेत्यताम् इव गच्छति ।
गृहीतात्मकं संविदीहामर्षणसूचकम् ॥ (मो_३,१२.४ ॥

"तत्" कचनं । "किञ्चित्" लेशेन । "चेत्यताम् इव गच्छति" परमार्थतो न गच्छतीत्"ईव"शब्दोपादानम् । कथं । "स्वयं" स्वेनैव । न तु परप्रेरणया । परस्य तत्राभावात् । कस्मिन् । "आत्मनि" स्फुरणाख्यचेतकस्वभावे खरूपे । तद्व्यतिरेकेण तदा कस्याप्य् अभावात् । "तत्" किं । "यत्" "कचनं" स्फुरणम् । अहम् इति परामर्श इति यावत् । "अजस्रं" सन्ततं । "स्वभावतः" स्वभावेनैव । भवति । कस्य । "तस्य" सर्वेष्व् अहम् इति भासमानत्वेन प्रसिद्धस्य्"आनन्तप्रकाशात्मरूपस्यानन्तः" अपरिच्छिन्नः । यः "प्रकाशः" तद्"आत्मा" । तदेकमयः स्वभावः "स्वरूपं" यस्य । सः । तस्यानन्तप्रकाशरूपस्येति यावत् । "आततचिन्मणेः" । "आततः" सर्वत्र व्याप्तः यः "चिन्मणिः" । तस्य । कथम्भूतं "कचनं" । "सत्तामात्रात्म" सत्तामात्रस्वरूपं । स्फुरत्तारूपे कचन एव सत्ताव्यवहारात् । अयं भावः । शुद्ध ...




... मानत्वं च चिद्विषयत्वं । तच् च चित्सम्बन्धः । चिताथाचिद्रूपस्य सम्बन्धो न युज्यते विरुद्धत्वात् । न हि तेजस्तमसोः सम्बन्धः क्वापि दृष्टः । चितश् च शान्तत्वम् उक्तन्यायेन चेत्यासम्भवेनैव सिद्धम् इति ॥ (मोटी_३,१३.५० ॥

ब्रह्मैव कचति स्वच्छम् इत्थम् आत्मात्मनात्मनि ।
चित्त्वाद् द्रवत्वात् सलिलम् इवावर्ततयात्मनि ॥ (मो_३,१३.५१ ॥

"इत्थं" जगद्रूपतया । "स्वच्छं" चेत्यमलरहितं । "आत्मना" स्वयम् । "आत्मनि" भित्तिभूते स्वस्वरूपे । "आत्म" सर्वात्मभूतं । "ब्रह्मैव कचति" भाति । कुतः । "चित्त्वात्" चिद्भावात् । चेत्यरूपजगत्तयाभाने चित्त्वम् एव तस्य न स्याद् इति भावः । अत्र दृष्टान्तम् आह "द्रवत्वाद्" इति । यथा "सलिलं द्रवत्वात् आत्मनि" सलिलाख्ये स्वरूपे । "आवर्त"रूपेण स्फुरत् भवति । तथेत्य् अर्थः ॥ (मोटी_३,१३.५१ ॥

सद् एवेदम् आभाति सद् इवेहानुभूयते ।
विनश्यत्य् असद् एवान्ते स्वप्ने स्वमरणं यथा ॥ (मो_३,१३.५२ ॥

"इदं" जगत् । "असद् एव भाति" विलसति । अस्माभिः "सद् इव" सद्वत् । "इह" परात्मस्वरूपे । "ऽनुभूयते" । "ऽन्ते" संहारे । "असद् एव विनश्यति" । अत्र दृष्टान्तम् आह "स्वप्न" इति ॥ (मोटी_३,१३.५२ ॥

जगदत्यन्ताभावं विस्तरेणोक्त्वा सिद्धान्तभूतं ब्रह्ममयत्वं तस्य कथयति

थ वाजस्वरूपत्वात् सदैवेदम् अनामयम् ।
खण्डितम् अनाद्यन्तं ज्ञातमात्राम्बरोदरम् ॥ (मो_३,१३.५३ ॥

"अथ वा इदं" जगत् । "सदैवाजस्वरूपत्वात्" जन्मरहितचिन्मात्रस्वरूपत्वात् । "अनामयम्" पूर्वोक्ताधारत्वाधेयत्वादिरोगरहितं भवति । न त्व् अभावयुक्तम् । तदभावश् च तदाक्रान्तबुद्धीन् सत्यं तद्रूपम् अपश्यतः प्रत्य् एवोक्तः । कथम्भूतम् "इदं" । "अखण्डितं" पूर्णस्वरूपं । "अनाद्यन्तं" आद्यन्तरहितम् । "ज्ञातमात्राम्बरोदरम्" । "ज्ञातमात्रम्" एव । न तु मुद्गरादिप्रहारैः नाशितं सत् । "अम्बरोदरम्" सम्यग्ज्ञानेनालोचितं हि जगत् अम्बरोदरम् एव भवति ॥ (मोटी_३,१३.५३ ॥

सर्गान्तश्लोकेन पूर्वोक्तं सङ्गृह्णाति

आकाश एव परमे प्रथमः प्रजेशो
नित्यं स्वयं कचति शून्यतया समानः ।
स ह्य् आतिवाहिकवपुर् न तु भूतरूपी
पृथ्व्यादि तेन न सद् अस्ति यदा न जातम् ॥ (मो_३,१३.५४ ॥

"प्रथमः" आद्यः । "प्रजेशः" ब्रह्मा । "परमे" सर्वोत्तीर्णे । "आकाशे" चिदाकाशे । "नित्यं" सदा । "स्वयं" स्वेनैव । "कचति" स्फुरति । तथा च पूर्वोक्ता सर्वा प्रक्रिया सर्गारम्भं विना अतुष्टमनसः प्रत्य् एवेति भावः । कथम्भूतः । "शून्यतया" शून्यभावेन । "समानः" शुद्धत्वेन तत्समानः । न तु तद्रूपः जडत्वापत्तेः । "हि" निश्चये । "सः" प्रजेशः । "आतिवाहिकवपुः" सूक्ष्मशरीरमयः । भवति । "न तु भूतरूपः" । "तु" विशेषे । सः स्थूलपृथ्व्यादिभूतरूपी न भवति । "तेन" तदभूतरूपिताख्येन हेतुना । "पृथ्व्यादि सत् नास्ति" । ननु प्रजेशस्यापृथ्व्यादिरूपतया कथं न पृथ्व्यादि सत् अस्तीत्य् । अत्राह "यदे"ति । यत इत्य् अस्यार्थे । यतः "जातम्" उत्पन्नं । "ना"स्ति । शुद्धमनोरूपस्य प्रजेशस्य तद्रूपताग्रहणेन पृथ्व्यादेर् जातत्वं स्यान् । न तु पूर्वन्यायेन प्रजेशस्य तद्रूपताग्रहणं सम्भवत्य् । अतः पृथ्व्यादेर् अपि जातत्वं न सम्भवतीति भावः । इति शिवम् ॥ (मोटी_३,१३.५४ ॥

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायाम् उत्पत्तिप्रकरणे त्रयोदशः सर्गः ॥ ३,१३ ॥



ओं । एवं जगतोऽत्यन्ताभावं परमात्मैकमयतां च पुनः पुनः उक्त्वा तावन्मात्रम् एव साधनीयं ज्ञात्वा पुनर् अपि तद् एव कथयति

इत्थं जगद् अहन्तादि दृश्यं जातं न किञ्चन ।
जातत्वाच् च नास्त्य् एव यच् चास्ति परम् एव तत् ॥ (मो_३,१४.१ ॥

"अहन्तादि" अहन्ताप्रभृति । "दृश्यं जगत् इत्थं" पूर्वप्रकारेण । "किञ्चन" लेशेनापि । "न जातं" भवति । ततः किम् इत्य् । अत्राह "अजाते"ति । जगत् "अजातत्वात्" । "च"शब्दः पादपूरणार्थः । "नास्त्य् एव" । ननु कथम् अजातत्वेन जगतोऽसत्त्वं साधयसि भासमानत्वेन सत्त्वाद् इत्य् । अत्राह "यच् चे"ति । "तत् परम् एव" उत्तीर्णं चिन्मात्रम् एव । भवति । न तु जगत् । "तत्" किं । "यत् अस्ति" यत् भासमानत्वेन निराकर्तुं न शक्यत इत्य् अर्थः ॥ (मोटी_३,१४.१ ॥

ननु तर्हि पूर्वं साधिता जीवता कथम् अस्तीत्य् । अत्राह

परमाकाश एवासौ जीवतां चेतति स्वयम् ।
निःस्पन्दाम्भोधिजठरे सलिलं स्पन्दताम् इव ॥ (मो_३,१४.२ ॥

"असौ" पूर्वोक्तः । "परमाकाश एव" चिन्मात्राकाश एव । "स्वयं" स्वेन । "जीवतां" जीवभावं । "चेतति" अनुभवति । किम् "इव" । "सलिलम् इव" । यथा "निःस्पन्दाम्भोधिजठरे" निःस्पन्दसमुद्रमध्ये । स्थितं जलं "स्पन्दतां" । "स्पन्द"शब्देनात्र स्पन्दयुक्तो लक्ष्यते । स्पन्दयुक्ततां । "चेतति" । चेतनं चात्र तद्योग्यतामात्रम् एव । न हि तत्र सलिलस्य सस्पन्दता केनाप्य् अंशेन युक्ता । एवं ब्रह्मण्य् अपि जीवतायोग्यत्वमात्रम् एव । न तु तत्र जीवता नाम काचिद् अस्ति । सलिलेऽग्रे सस्पन्दतायुक्तत्वात् योग्यताज्ञानं । ब्रह्मणि जीवरूपतया भासनेनेति विशेषः ॥ (मोटी_३,१४.२ ॥

एतद् एव नानाभङ्गीभिः प्रतिपादयति

आकाशरूपम् अजहद् एव वेत्तीव दृश्यताम् ।
स्वप्नसङ्कल्पशैलादाव् इव चिद्वृत्तिर् आन्तरी ॥ (मो_३,१४.३ ॥

असौ परमाकाशः "दृश्यताम्" दृश्यभावं । "वेत्ति इव" अनुभवति इव । कथम्भूत "एव" । "आकाशरूपं" चिन्मात्राकाशाख्यं रूपम् । "अजहद् एव" । तत्त्यागे तु वेदनम् अस्य न स्याद् इति भावः । क्"एवान्तरी" अहम्परामर्शस्य सारभूतान्तःकरणोपहिता । "चिद्वृत्तिर् इव" सा यथा । "स्वप्नसङ्कल्पशैलादौ" स्वप्ने सङ्कल्पे च स्वविषयीकृते स्वस्वरूपपर्वतादौ स्थितां । "दृश्यतां वेत्ति" । शैलोऽयम् इति । तथेत्य् अर्थः ॥ (मोटी_३,१४.३ ॥

पृथ्व्यादिरहितो देहो यो विराडात्मनो महान् ।
आतिवाहिक एवासौ चिन्मात्राच्छनभोमयः ॥ (मो_३,१४.४ ॥

"पृथ्व्यादिरहितः" स्थूलपृथ्व्यादिस्पर्शादूषितः । "विराडात्मनः" विराट्स्वरूपतया स्थितस्य परमात्मनः । "महान्" व्यापकः । "यो देहो"ऽस्ति । सः "आतिवाहिक एव" सूक्ष्म एव । भवति । अत्र हेतुत्वेन विशेषणम् आह "चिन्मात्रे"ति । यतः चिन्मात्राख्यनिर्मलाकाशस्वरूपः । चिन्मात्रमयस्य शरीरस्यातिवाहिकत्वं स्वप्ने दृष्टम् इति नायस्तम् ॥ (मोटी_३,१४.४ ॥

क्षयस्वप्नशैलाभः स्थिरस्वप्नपुरोपमः ।
चित्रकृत्स्थितचित्तस्थचित्रसैन्यसमाकृतिः ॥ (मो_३,१४.५ ॥
निखातमहास्तम्भपुत्रिकौघसमोपमः ।
ब्रह्माकाशेऽनिखातात्मा सुस्तम्भे सालभञ्जकः ॥ (मो_३,१४.६ ॥
आद्यः प्रजापतिः पूर्वं स्वयम्भूर् इति विश्रुतः ।
प्राक्तनानां स्वकार्याणाम् अभावाद् अपकारणः ॥ (मो_३,१४.७ ॥

"आद्यः" कारणभूतः । "स्वयम्भूर् इति विश्रुतः" । स्वयम्भूर् इति नाम्ना प्रसिद्धः । "प्रजापतिः" । "पूर्वं" सर्गारम्भे । "अपकारणः" कारणरहितः । भवति । कुतः । "प्राक्तनानां स्वकार्याणां" पूर्वकल्पकृतकर्मणाम् । "अभावात्" । कर्मणां च जन्महेतुत्वं सर्वशास्त्रेषु प्रसिद्धम् एव । कार्याणाम् अभावश् चास्य चिन्मात्रतः सद्य उत्थितत्वेन ज्ञेयः । किंरूपोऽसौ । "अक्षय" इत्यादि । "अक्षयः" इतरस्वप्नशैलवत् क्षणिकत्वदोषरहितः यः स्वप्नशैलः । तद्वद् आभा यस्य । स "अक्षयस्वप्नशैलाभः" । "स्थिरस्वप्नपुरोपमः" । इतरस्वप्नपुरवैलक्ष्येण "स्थिरं" स्थिराकारं । यत् "स्वप्नपुरं" । तस्य्"ओपमा" यस्य । सः । एतेन विशेषणद्वयेनातिवाहिकतायाम् अप्य् अस्य स्थिरतोक्ता । चित्रकृति स्थितं चित्तं "चित्रकृत्स्थितचित्तं" । तत्र"स्थं" यत् "चित्रसैन्यम्" अग्रे प्रकटीभवद् आलेख्यसैन्यं । तेन "समाकृतिः" स्वरूपं यस्य । सः "चित्रकृत्स्थितचित्तस्थचित्रसैन्यसमाकृतिः" । "अनिखातो"ऽनुत्कीर्णः । यः "महास्तम्भपुत्रिकौघः" । तेन "समा उपमा" यस्य । सः "अनिखातमहास्तम्भपुत्रिकौघसमोपमः" । "ब्रह्माकाशे सुस्तम्भे" "अनिखातात्मा" अनुत्कीर्णस्वरूपः । "सालभञ्जकः" महती पुत्रिका । "अनिखाते"ति विशेषणस्यैवेयं व्याख्या । एतेन विशेषणद्वयेन ब्रह्मैकमयतास्योक्ता ॥ (मोटी_३,१४.५-७ ॥

महाप्रलयपर्यन्तेष्व् आद्याः किल पितामहाः ।
मुच्यन्ते सर्व एवातः प्राक्तनं कर्म तेषु किम् ॥ (मो_३,१४.८ ॥

"सर्वे एव आद्याः पितामहाः महाप्रलयपर्यन्तेषु" । "पर्यन्त"शब्देनात्र उद्रेकता विवक्षिता । "मुच्यन्ते" चिन्मात्राख्ये स्वरूपे लयीभवन्ति । फलितम् आह्"आतः" इति । "अतो" हेतोः । "तेषु" सर्वेषु आद्येषु पितामहेषु । "प्राक्तनं कर्म किं" भवति । न किञ्चिद् अपीत्य् अर्थः । तथा च । सर्वेऽपि तेऽपकारणा एवेति भावः ॥ (मोटी_३,१४.८ ॥

मोक्तव्य एव कुड्यात्मा दृश्योऽदृश्यश् च संस्थितः ।
न च दृश्यं न च द्रष्टा न स्रष्टा सर्वम् एव च ॥ (मो_३,१४.९ ॥
प्रतिच्छन्दः पदार्थानां सर्वेषाम् एष एव सः ।
स्माद् उदेति जीवाली दीपाली दीपकाद् इव ॥ (मो_३,१४.१० ॥

"एष स एव" पूर्वोक्तः प्रजापतिर् एव । "सर्वेषां पदार्थानां प्रतिच्छन्दः" समष्टिरूपः आभासः । भवति । सर्वेषाम् आभासानाम् एतत्स्वरूपत्वात् । कथम्भूतोऽसौ । "मोक्तव्य एव" मोक्तुं मध्ये गन्तुं शक्य एव । "कुड्यात्मा" । "कुड्यं" हि रोधकत्वेन मध्ये गन्तुं न शक्यते ।ऽयं तु अपूर्वम् एव कुड्यः । मोक्तव्यत्वम् अस्य सर्वेषां दृश्यसञ्चाराणां प्रवेशनिर्गममहत्त्वात् । कुड्यत्वं तु सर्वाधारत्वेन । पुनः कथम्भूतः । "दृश्यः संस्थितः" दृश्यरूपेणास्थितः । "अदृश्यश् च स्थितः" द्रष्टृरूपेण च स्थितः । चिन्मात्राभासशुद्धमनोरूपप्रजापतिरूपत्वाद् द्रष्टृदृश्ययोः । पुनः किं । "न दृश्यं न च द्रष्टा न स्रष्टा" न सृजिक्रियाकर्ता सर्वोत्तीर्णरूपत्वात् । पुनः किं । "सर्वम् एव च" । ननु कथम् अयं प्रतिच्छन्दः अस्तीत्य् । अत्राह "अस्माद्" इति । यतः "अस्मात्" प्रजापतेः । "जीवाली उदेति" प्रादुर्भवति । ननु मृदो घटाली रज्जुसमूहात् वा सर्पालीन्यं तथा उदेति । न तयोः तत्प्रतिच्छन्दत्वं दृश्यते इत्य् । अत्राह "दीपाली"ति । विवर्तपरिणामाभ्याम् अन्य एव प्रतिच्छन्द्यप्रतिच्छन्दकरूपः प्रकारः अत्रास्तीति भावः ॥ (मोटी_३,१४.९-१० ॥

सङ्कल्प एव सङ्कल्पात् किलैति क्ष्मादिवर्जितः ।
क्ष्मादिमान् इव निष्कुड्यः स्वप्नात् स्वप्नान्तरं यथा ॥ (मो_३,१४.११ ॥

"किले"ति निश्चये । "क्ष्मादिवर्जितः" आभासरूपत्वेन स्थूलपृथ्व्यादिरहितः । "क्ष्मादिमान् इव" भासमानत्वेन तत्सहित इव भासमानः । "निष्कुड्यः" भासमानैः कुड्यरूपैः पर्वतादिभिः हीनः । "सङ्कल्पः" जगदाख्यः सङ्कल्पः । "सङ्कल्पात्" शुद्धमनोरूपाद् ब्रह्मणः । "एति" प्रादुर्भवति । अत्र दृष्टान्तम् आह "स्वप्नाद्" इति । "स्वप्नात्" सङ्कल्परूपात् । "स्वप्नान्तरं" सङ्कल्परूपम् अन्यस्वप्नम् । यथैति । तथेत्य् अर्थः ॥ (मोटी_३,१४.११ ॥

स्माद् एव प्रतिच्छन्दाज् जीवाः सम्प्रसरन्त्य् अमी ।
सहकारिकारणानाम् अभावाच् च स एव ते ॥ (मो_३,१४.१२ ॥

"अस्मात्" प्रजापतिनाम्नः । "प्रतिच्छन्दात्" आभासात् । "अमी" प्रत्यक्सं स्फुरमाणाः । "जीवाः" । "सम्प्रसरन्ति" सञ्चारं यान्ति । तर्हि तत उत्पन्नत्वेन ततो भिन्ना एव स्युर् इत्य् । अत्राह "सहकारी"ति । "ते" जीवाः । "स एव" भवन्ति । न तु ततो भिन्नाः । कुतः । "सहकारिकारणानाम्" प्राक्तनकर्मरूपाणां सहकारिकारणानाम् । "अभावात्" । सहकारिकारणाभावे कार्यं कारणरूपम् एवेति हि प्रसिद्धिः ॥ (मोटी_३,१४.१२ ॥

सहकारिकारणानाम् अभावे कार्यकारणम् ।
एकम् एतद् अतो नान्यः परस्मात् सर्गविभ्रमः ॥ (मो_३,१४.१३ ॥

कार्यं च तत् कारणं च "कार्यकारणं" । "परस्मात्" दृश्यापेक्षया उत्कृष्टात् प्रजापतेः । "सर्गविभ्रमः" सर्गविलासः ॥ (मोटी_३,१४.१३ ॥

ब्रह्मैवाद्यो विराडात्मा विराडात्मैव सर्गता ।
जीवाकाशः स एवेत्थं स्थितः पृथ्व्याद्य् असद् यतः ॥ (मो_३,१४.१४ ॥

"ब्रह्म एव" ब्रह्मतत्त्वम् एव्"आद्यः विराडात्मा" विराट्स्वरूपो परमात्मा । भवति । "विराडात्मा एव सर्गता" सर्गः । भवति । पादपूरणार्थो भावप्रत्ययः । उपसंहारं करोति "जीवे"ति । "स" पूर्वोक्तः । "जीवाकाश" "एव" चेत्यत्वादितन्मात्रान्तवलितचिन्मात्राख्यः "जीवाकाश एव" । "इत्थं" प्रजापत्यादिसर्गरूपेण । "स्थितो" भवति । अत्र हेतुम् आह "पृथ्व्यादी"ति । "यतः" यस्मात् कारणात् । "पृथ्व्यादि असत्" भवति ॥ (मोटी_३,१४.१४ ॥

जीवाकाश इति श्रुत्वा किञ्चित् संशयम् आपन्नः श्रीरामः पृच्छति

किं स्यात् परिमितो जीवराशिर् आहो अनन्तकः ।
आहोस्विद् अस्त्य् अनन्तात्मा जीवपिण्डोऽचलोपमः ॥ (मो_३,१४.१५ ॥

"जीवराशिः" जीवाकाशत्वेनोक्तः जीवपुञ्जः । "परिमितः किं स्यात् आहो अनन्तकः" अपरिमितः स्यात् । "आहोस्वित् अनन्तात्मा जीवपिण्डः अचलोपमः" पर्वतप्रख्यः । "अस्ति" । "राशिः" भिन्नत्वेन वर्तमानानां समूहः । "पिण्डः" मृत्पिण्डवत् एक एव कश्चिज् जीवमयः पिण्ड इति भेदः ॥ (मोटी_३,१४.१५ ॥

ननु किं तव राशिपिण्डत्वयोः प्रश्नेनेत्य् आशङ्क्याह

धाराः पयोमुच इव शीकरा इव वारिधेः ।
कणास् तप्तायस इव कस्मान् निर्यान्ति जीवकाः ॥ (मो_३,१४.१६ ॥

"धारा" जलधाराः । "शीकराः" जलकणाः । "तप्तायसः" वह्न्यभिज्वलितात् अयसः । "कणाः" वह्निमयाः लेशाः । "कस्माद्" इति । जीवराशेः जीवपिण्डस्य वानङ्गीकारे एतेषां निर्याणं न सम्भवतीति भावः ॥ (मोटी_३,१४.१६ ॥

प्रश्नम् उपसंहरति

इति मे भगवन् ब्रूहि जीवजालविनिर्णयम् ।
ज्ञातम् एतन् मया प्रायस् तद् एव प्रकटीकुरु ॥ (मो_३,१४.१७ ॥

हे "भगवन्" त्वं । "इति" पृष्टं । "जीवजालविनिर्णयं मे ब्रूहि" । एतावद् उक्त्वा त्वया किं न श्रुतम् इत्य् । अत्राह "ज्ञातम्" इति । "मया एतत् प्रायः" बाहुल्येन । "ज्ञातम्" । न त्व् अशेषेणातः "तद् एव प्रकटीकुरु" येनाशेषेण जानामीति भावः ॥ (मोटी_३,१४.१७ ॥

श्रीवसिष्ठ उत्तरम् आह

एक एव न जीवोऽस्ति राशीनां सम्भवः कुतः ।
शशशृङ्गं समुड्डीय प्रयातीतीव ते वचः ॥ (मो_३,१४.१८ ॥

परमार्थतः "एक एव जीवो नास्ति" । त्वत्पृष्टानां "राशीनां सम्भवः कुतः" स्यात् । एतत्प्रश्नस्यासम्बद्धार्थत्वं कथयति "शशे"ति । "शशशृङ्गं समुड्डीय प्रयाति इति" एतद्वचनसदृशं । "ते वचः" अस्ति । आदौ शशशृङ्गम् एव नास्ति । का कथा तदुड्डयनस्य । तथा जीव एव नास्ति । का कथा तद्राश्यादेर् इति भावः ॥ (मोटी_३,१४.१८ ॥

सर्वम् एतत् पृष्टं निराकरोति

न जीवोऽस्ति न जीवानां राशयः सन्ति राघव ।
न चैकः पर्वतप्रख्यो जीवपिण्डोऽस्ति कश्चन ॥ (मो_३,१४.१९ ॥

परमार्थतः सर्वस्य शुद्धचिन्मात्रैकमयत्वात् "जीवो नास्ति" । हे "राघव" । "जीवानां" " राशयो न सन्ति" । "न च एकः कश्चन पर्वतप्रख्यः जीवपिण्डोऽस्ति" । अतश् च त्वत्प्रश्नोऽयं न युक्त इति भावः ॥ (मोटी_३,१४.१९ ॥

आशीःप्रकारेण निश्चयम् अस्य कर्तव्यत्वेन कथयति

जीवशब्दार्थकलनाः समस्तकलनान्विताः ।
न च काश्चन सन्तीति निश्चयोऽस्तु तवाचलः ॥ (मो_३,१४.२० ॥

"तवेति निश्चयः" अयं निश्चयः । "अचलः" स्थिरो । "ऽस्तु" । "इति" किं । "इति जीवशब्दार्थकलनाः" । ताः "समस्तकलनान्विताः" समस्ताभिः अहम्भावादिकलनाभिः अन्विताः । "न सन्ति" ॥ (मोटी_३,१४.२० ॥

ननु जीवादीनां प्रत्यक्षेण स्फुरणात् कथम् अयं निश्चयः युक्तः स्याद् इत्य् । अत्राह

शुद्धं चिन्मात्रम् अमलं ब्रह्मास्तीह हि सर्वगम् ।
तद् यथा सर्वशक्तित्वाद् विन्दते यां स्वयं कलाम् ॥ (मो_३,१४.२१ ॥
चिन्मात्रानुक्रमेणैव सम्प्रफुल्लां लताम् इव ।
ननु मूर्ताम् अमूर्तां वा ताम् एवाशु प्रपश्यति ॥ (मोटी_३,१४.२२ ॥


"हि" निश्चये । "शुद्धं चिन्मात्रं" शुद्धचिन्मात्रस्वरूपम् । अत एव्"आमलं ब्रह्मास्ति" । कथम्भूतं । "सर्वगम्" समस्तदेशकालव्यापकम् । ततः किम् इत्य् । अत्राह "तद्" इति । "तत्" ब्रह्म । "सर्वशक्तित्वात्" यतः सर्वशक्तिर् अस्ति । ततः "यां" जीवादिमयीं । "कलां" कलनां । "यथा" येन प्रकारेण । "स्वयं" स्वेन । न तु पारतन्त्र्येण । "विन्दते" स्वोपलब्धिविषयं करोति । कथम्भूतां "कलां" । "चिन्मात्रानुक्रमेण" चिन्मात्रपरिपाट्या । "लताम् इव" लतावत् । "सम्प्रफुल्लां" विकसितां । चिन्मात्रस्यैव हीयं परिपाटी यत् कलनाः विकासयति । "ननु" निश्चये । "तां" कलनां । "मूर्ताम् अमूर्तां वा" स्थूलां सूक्ष्मां व्"आशु" तस्मिन्न् एव क्षणे । "प्रपश्यति" सम्पन्नाम् एव पश्यति । तथा च । जीवः परमार्थतः स्वयं सिद्धो नास्ति । कस्य राशिता पिण्डता वा भवेद् इति भावः ॥ (मोटी_३,१४.२१-२२ ॥

ननु यदि ब्रह्म जीवादि पश्यति तदा तद्भिन्नम् एवैतत् स्यात् । स्वभिन्नस्यैव दृष्टिगोचरत्वाद् इत्य् । अत्राह

जीवो बुद्धिः क्रियास्पन्दो मनो द्वित्वैक्यम् इत्य् अपि ।
स्वसत्तां प्रकचन्तीं तां नियोजयति वेदने ॥ (मो_३,१४.२३ ॥

तत् ब्रह्म । "तां" प्रसिद्धां । "स्वसत्तां" स्वस्फुरत्तां । "वेदने नियोजयति" वेदनविषयां करोति । पश्यतीति यावत् । "स्वसत्तां" कथम्भूतां । "जीवः बुद्धिः क्रियास्पन्दः" हिताहितप्राप्तिपरिहारार्थाश् चेष्टाः । "मनः" । द्वित्वं च तत् ऐक्यं च "द्वित्वैक्यम्" । "इत्य् अपि" एतद्रूपेण । "कचन्तीं" स्फुरन्तीं । तथा च । दृष्टिगोचरत्वेऽपि न जीवादेर् भिन्नत्वं युक्तम् इति भावः ॥ (मोटी_३,१४.२३ ॥

ननु ब्रह्मसत्ता कथं जीवादिभावेन स्फुरतीत्य् । अत्राह

साबुद्धैवं भवत्य् एव भवेद् ब्रह्मैव बोधतः ।
बोधः प्रेक्षया याति नाशं न तु स बुध्यते ॥ (मो_३,१४.२४ ॥

"सा" ब्रह्मसत्त्"आबुद्धा" ब्रह्मसत्ताभावेनाज्ञाता सती । "एवं भवति एव" जीवादिरूपतया भासत एव । "बोधतः" ब्रह्मसत्ताभावेन ज्ञानात् । "ब्रह्मैव भवेत्" । सत्तातद्वतोः भेदाभावात् । ननु जीवादेः ब्रह्मसत्ताभावेन ब्रह्ममयत्वेऽपि ब्रह्मसत्ताविषयस् तु यः अबोध आसीत् सः अबोधत्वेन ज्ञातः सन् घटादिवत् तथैव तिष्ठति । तथा च न ब्रह्मैकमयता सिध्यति इत्य् । अत्राह "अबोध" इति । "अबोधः प्रेक्षया" बोधेन । "नाशं याति" । "तु" पक्षान्तरे । "सः" अबोधः । "न बुध्यते" बोधविषयो न सम्पद्यते विरुद्धत्वात् तदुद्बोधकाले एव नष्टत्वात् । न हि तमः तेजोविषयो भवतीति भावः ॥ (मोटी_३,१४.२४ ॥

एतद् एव दृष्टान्तेन दृढीकरोति

यथान्धकारो दीपेन प्रेक्ष्यमाणः प्रणश्यति ।
न चास्य ज्ञायते तत्त्वम् अबोधस्यैवम् एव हि ॥ (मो_३,१४.२५ ॥

"यथान्धकारः दीपेन प्रेक्ष्यमाणः" द्रष्टुम् आरब्धः । "प्रणश्यति" । "अस्या"न्धकारस्य । "तत्त्वं" स्वरूपं । "न च ज्ञायते" । पुरुषेणेति शेषः । दार्ष्टान्तिके योजयति "अबोधस्ये"ति । "हि" निश्चये । "ऽबोधस्या"ज्ञानस्य्"ऐवम् एव तत्त्वं न ज्ञायते" इत्य् अर्थः ॥ (मोटी_३,१४.२५ ॥

जीवस्य ब्रह्मत्वम् उपसंहरति

एवं ब्रह्मैव जीवात्मा निर्विभागो निरन्तरः ।
सर्वशक्तिर् अनाद्यन्तो महाचित्साररूपधृत् ॥ (मो_३,१४.२६ ॥

"एवं" पूर्वोक्तप्रकारेण । "जीवात्मा ब्रह्मैव" भवति । ब्रह्मत्वापादकान्य् अस्य विशेषणान्य् आह "निर्विभाग" इति । "निर्विभागः" विभागरहितः । न हि जीवस्वरूपे कश्चिद् विभागोऽस्ति निरवयवत्वात् । "निरन्तरः" प्रकाशनिर्भरितत्वेन मध्येऽवकाशहीनः । "सर्वशक्तिः" सर्वशक्तित्वं चास्य स्वप्नादौ प्रत्यक्षदृष्टम् एव । "अनाद्यन्तः" आद्यन्तरहितत्वं चास्याद्यन्तपरिच्छेदकत्वेनैव सिद्धम् । न हि परिच्छेद्यः परिच्छेदकस्य परिच्छेदं कर्तुं शक्नोति । "महाचित्साररूपधृत्" । "महाचित्" विमर्शशक्तिः । तस्याः "सारः" प्रकाशः । तस्य रूपं धारयति "महाचित्साररूपधृत्" । प्रकाशस्वरूप इत्य् अर्थः ॥ (मोटी_३,१४.२६ ॥

सर्वथैव भेदकलनां निराकरोति

सर्वानन्ततया त्व् अस्य न काचिद् भेदकल्पना ।
विद्यते या हि कलना सा तद् एवानुभूतितः ॥ (मो_३,१४.२७ ॥

"तु" विशेषे । "ऽस्य" ब्रह्मणः । "सर्वानन्ततया" सर्वश् चासाव् अनन्तश् च "सर्वानन्तः" । तस्य भावः "सर्वानन्तता" । तया । "काचिद् भेदकलना" भेदाकारा कलना । भेद इति यावत् । "ना"स्ति । सर्वरूपस्यानन्तस्य च भेदायोगात् । न हि घटाद्यपेक्षयानन्तस्य घटशरावादिसर्वरूपस्य मृदादेः घटभेदो युक्तः । ननु सर्वत्वम् अनन्तत्वं च असर्वात् सान्ताच् च भेदकम् एव । तथा च ताभ्याम् एव तस्य भेदः सम्पद्यत इत्य् । अत्राह "विद्यत" इति । "हि" यस्मादर्थे । "या कलना" भेदकलना । "विद्यते" । "सा तद् एव" ब्रह्मैव । भवति । कुतो । "ऽनुभूतितः" अनुभूतिस्वरूपतः । अयं भावः । या काचित् कलनास्ति सानुभूता न वा । न चेत् सा स्वयम् असिद्धा ब्रह्मणि भेदं कथं कुर्यात् । अनुभूता चेत् तर्हि अनुभवरूपैवानुभवस्य च चिद्रूपत्वेन ब्रह्मत्वं सिद्धम् एवेति । ब्रह्मैव सा भवेद् इति ॥ (मोटी_३,१४.२७ ॥

अत्र श्रीरामः पृच्छति

एवम् एतत् कथं ब्रह्मन्न् एकजीवेच्छयाखिलाः ।
जगज्जीवा न युज्यन्ते महाजीवैकतावशात् ॥ (मो_३,१४.२८ ॥

हे "ब्रह्मन्" । "एतत्" त्वयोक्तम् । "एवं" भवति । सत्यम् एव भवतीत्य् अर्थः । सर्वेषां जीवानां तत्रैकजीवेच्छानुवर्तित्वम् आशङ्कते । "कथम्" इति । "अखिलाः जगज्जीवाः" । जगति स्थिता जीवाः "जगज्जीवाः" । "महाजीवैकतावशात्" । "महाजीवेन" चेत्यत्वादितन्मात्रान्तप्रपञ्चवलितचिन्मात्राख्यमहाजीवेन । या "एकता" ऐक्यं । तस्याः "वशात्" वशेन । "एकजीवेच्छया" एकस्य कस्यापि सामान्यजीवस्येच्छया । "कथं न युज्यन्ते" । अयं भावः । सर्वेषां जीवानां प्रोक्तस्वरूपमहाजीवैकमयत्वे एकस्मिन् जीवे उदितयेच्छया सर्वेषां जीवानां योगो युक्तः ॥ (मोटी_३,१४.२८ ॥

श्रीवसिष्ठ उत्तरम् आह

महाजीवात्म तद् ब्रह्म सर्वशक्तिमयात्मकम् ।
स्थितं यथेच्छम् एवेह निर्विभागं निरन्तरम् ॥ (मो_३,१४.२९ ॥

"महाजीवात्म" महाजीवः । "तत् ब्रह्म इह यथेच्छं" स्वेच्छासदृशं । "स्थितं" भवति । "तत् ब्रह्म" कथम्भूतं । "सर्वशक्तिमयात्मकम्" । "सर्वशक्तिमयः" सर्वशक्तिनिर्भरः । "आत्मा" यस्य । तत् । तादृशम् । सर्वशक्तिमयात्मकत्वं च ब्रह्मणः सर्वशक्तीनां तत एवोत्थानात् । पुनः कथम्भूतं । "निर्विभागं" अखण्डस्वरूपत्वेन विभागान् निष्क्रान्तम् । पुनः कथम्भूतं । "निरन्तरम्" प्रकाशाख्यसारभरितम् ॥ (मोटी_३,१४.२९ ॥

ननु ब्रह्म यथेच्छं स्थितं भवतु । ततः किम् इत्य् । अत्राह

यद् एवेच्छति तत् तस्य भवत्य् आशु महात्मनः ।
पूर्वं तु नश्यतीच्छा चिद् अतो द्वित्वम् उदेति तत् ॥ (मो_३,१४.३० ॥

तत् ब्रह्म । "यद् एवेच्छति" इच्छाविषयं करोति । "तद्" एव । न त्व् अन्यत् । "तस्य महात्मनः" व्यापकस्वरूपस्य ब्रह्मणः । "आशु" इच्छाक्षणे एव । "भवति" सम्पद्यते । एकतेच्छानाशेन द्वित्वोत्पत्तिम् अस्मात् कथयति "पूर्वम्" इति । "चित्" इच्छा । नीलम् उत्पलम् इतिवत् चिद्विशेषितेच्छा ज्ञेया । चिद्विशेषितत्वं चात्र चिद्विषयत्वं ज्ञेयम् । यत इत्य् अध्याहार्यम् । तेनायम् अर्थः । यतः "चित्" इच्छा । चिद्रूप एव भवामीत्य् एवंरूपा एकतेच्छा । "पूर्वं" प्रथमसर्गारम्भे । "ऽतः" सप्तम्यर्थे तसिल् स्मिन् ब्रह्मणि । "तु"शब्दः इवार्थे । "नश्यति तु" सुस्फूर्त्यविषयतारूपं नाशं यातीव । परमार्थतः तु न नश्यति तस्याः सर्वत्रानुगमात् । इति "तु"शब्दोपादानम् । चिद्विषयेच्छानाशश् च चेत्यविषयेच्छोद्भूतेर् एव ज्ञेयः । "तत्" तस्मात् कारणात् । "द्वित्वं" चेत्यस्वरूपजीवादिरूपेण स्थितो द्विधाभावः । "उदेति" प्रादुर्भवति । एकतेच्छानाशहेतुभूततया द्वित्वेच्छया एव द्वित्वम् उदेतीति भावः ॥ (मोटी_३,१४.३० ॥

द्वित्वोदयानन्तरं शक्तिक्रियाक्रमकरणं कथयति

पश्चाद् द्वित्वविभक्तानां स्वशक्तीनां प्रकल्पितः ।
नेनेत्थं हि भवतीत्य् एवं तेन क्रियाक्रमः ॥ (मो_३,१४.३१ ॥

"पश्चात्" । "तेन" ब्रह्मणा । "द्वित्वविभक्तानां" । "द्वित्वेन" द्विधाभावेन । "विभक्तानां" विभागेन स्थापितानां । "स्वशक्तीनां" । "इत्य् एवं" इति प्रकारेण । "क्रियाक्रमः" "कल्पितः" । "हि" निश्चये । "इत्य्" "एवं" कथं । "अनेन" सम्पद्यते ॥ (मोटी_३,१४.३१ ॥

सम्पन्नं स्वेष्टं कथयति

शक्त्याद्यया तया ब्राह्म्या नियमो यः प्रकल्पितः ।
तं विना नोदयोऽन्यासां प्रधानेच्छैव रोहति ॥ (मो_३,१४.३२ ॥

"तया" प्रसिद्धय्"आद्यया" मूलकारणभूतया । "ब्राह्म्या" ब्रह्मसम्बन्धिन्या । "शक्त्या" । "यः नियमः" स्वेच्छासदृशी नियतिः । "प्रकल्पितः" । "तं" नियमं । "विना" ऋते । "ऽन्यासां" जीवस्थानानाम् । "उदयो न" स्यात् । अत इत्य् अध्याहार्यम् । अतः "प्रधानेच्छैव रोहति" । "प्रधानस्य" महाजीवात्मभूतस्य ब्रह्मणः । "इच्छैव रोहति" जीवेच्छारूपेण परिणमते । तथा च प्रधानेच्छानुवर्तित्वम् एव । न सा नियमकारित्वम् उक्तम् । इह तु तच्छक्तेर् इति चेन् । न । शक्तितद्वतोर् अभेदात् ॥ (मोटी_३,१४.३२ ॥

एतद् एव नानारचनाभिः कथयति

यस्या जीवाभिधानायाः शक्त्या येच्छा फलत्य् असौ ।
प्रधानशक्तिनियमानुष्ठानेन विना न तु ॥ (मो_३,१४.३३ ॥

"यस्याः जीवाभिधानायाः शक्त्याः" शक्तिरूपस्य यस्य जीवस्य । "या इच्छा फलति" फलयुक्ता भवति । तस्या इत्य् अध्याहार्यम् । तस्याः शक्तेः "असौ" इच्छा । "प्रधानशक्तिनियमानुष्ठानेन विना" । "प्रधानशक्तेः" ब्रह्मशक्तेः । यत् "नियमानुष्ठानं" नियमकरणं । तद् "विना न" भवति । स्वरूपम् एव न लभते । का कथा तत्फलस्येति भावः ॥ (मोटी_३,१४.३३ ॥

प्रधानशक्तिनियमः सुप्रतिष्ठो भवेन् न चेत् ।
तत् फलं शक्त्यशक्तत्वान् नेहितानां क्वचिद् भवेत् ॥ (मो_३,१४.३४ ॥

"प्रधानशक्तेः" ब्रह्मशक्तेः । नियमः "प्रधानशक्तिनियमः" । "सुप्रतिष्ठः" सुस्थिरः । "न चेद् भवेत्" यदि न स्यात् । "तत्" तदा । रोहितानां "क्वचित्" कुत्रापि देशे काले वा । "फलं न" स्यात् । कुतः । "शक्त्यशक्तत्वात्" । "शक्त्या" ब्रह्मशक्त्या । लक्षणया तन्नियमेन । यत् "शक्तत्वं" फलं प्रति सामर्थ्यं । तदभावः "अशक्तत्वं" । तस्मात् "शक्त्यशक्तत्वात्" । यतः रोहितानां नानाविधानां क्रियाणां फलं विद्यतेऽतः अनुमीयते कोऽपि नियमोऽस्ति येन क्रियाणां फलोत्पादनं प्रति सामर्थ्यम् अस्तीति भावः ॥ (मोटी_३,१४.३४ ॥

प्रकृतम् अनुसरति

एवं ब्रह्म महाजीवो विद्यतेऽन्तादिवर्जितः ।
जीवत्कोटिमहाकोटी भवत्य् अथ न किञ्चन ॥ (मो_३,१४.३५ ॥

"एवं" पूर्वोक्तप्रकारेण । "ब्रह्मान्तादिवर्जितः" अन्तमध्यादिरहितः । "महाजीवः" "विद्यते" । "कुतो निर्यान्ति जीवका" इति पूर्वतरोक्तस्य प्रश्नस्योत्तरम् आह "जीवत्कोटी"ति । तत् ब्रह्म । "जीवत्कोटिमहाकोटी" । "जीवतां" जीवनक्रियाकर्तृकाणां । "कोटिमहाकोटी" कोटिमहाकोटिसङ्ख्ये । "भवति" स्वयम् एव तद्रूपो भवति । न तु ततो जीवाः निर्यान्तीति भावः । "अथ" तथापि । "न किञ्चन" "भवति" । चिन्मये स्वरूपे तथैव स्थितत्वात् ॥ (मोटी_३,१४.३५ ॥

ननु ब्रह्म केन जीवतां यातीत्य् । अत्राह

चेत्यसंवेदनाज् जीवो भवत्य् आयाति संसृतिम् ।
तदसंवेदनाद् रूपं शमम् आयाति संसृतेः ॥ (मो_३,१४.३६ ॥

"चेत्यसंवेदनात्" चिद्विषयभूतभावजातपरामर्शात् । ब्रह्म "जीवो भवति" । ततः "संसृतिं याति" सुखदुःखलेपस्वरूपसंसारभाक् भवति । ननु कदाचित् संसृतिर् अस्य निवर्तते न वेत्य् । अत्राह "तद्" इति । "तदसंवेदनात्" चेत्यापरामर्शात् । अस्येत्य् अध्याहार्यम् । अस्य जीवस्य । "संसृतेः" संसारस्य । "रूपं शमं" शान्तिं । "याति" ॥ (मोटी_३,१४.३६ ॥

ननु संसृत्युपशमेन जीवस्य किं सम्पद्यत इत्य् । अत्राह

एवं कनिष्ठजीवानां ज्येष्ठजीवक्रियाक्रमैः ।
समुदेत्य् आद्यजीवत्वं ताम्राणाम् इव हेमता ॥ (मो_३,१४.३७ ॥

"एवं "सति संसृत्युपशमे सति । "ज्येष्ठजीवस्य" ब्रह्मणः । क्रियाक्रमैः "ज्येष्ठजीवक्रियाक्रमैः" । "कनिष्ठजीवानाम् आद्यजीवत्वं" ब्रह्मत्वं । "समुदेति" प्रादुर्भवति । "ज्येष्ठजीवक्रियाक्रमा" अत्र ब्रह्मकृताः क्रियाक्रमा ज्ञातव्याः । ब्रह्मकृतक्रियाक्रमस्यैव जीवानां ब्रह्मत्वापादने समर्थत्वात् । अत्र दृष्टान्तम् आह "ताम्राणाम्" इति । स्वर्णकारक्रियाक्रमैः "ताम्राणां" यथा "हेमत्वं" समुदेति । तथेत्य् अर्थः ॥ (मोटी_३,१४.३७ ॥

पूर्वतरोक्तं स्मरति

त्रानन्ते पराकाशे इत्थम् एष गणोऽप्य् असन् ।
खात्मैव सन्न् इवोदेति चिच्चमत्करणात्मकः ॥ (मो_३,१४.३८ ॥

"इत्थं" पूर्वोक्तक्रमेण्"आत्रानन्ते पराकाशे" प्रसिद्धेऽपरिमेये चिदाकाशे । "एषः" पूर्वोक्तः । "गणः" चेत्यत्वादिरूपः प्रपञ्चः । "असन्न् अपि" "सन्न् इवोदेति" । कथम्भूतः । "खात्मैव" नकिञ्चिद्रूप एव । पुनः कथम्भूतः । "चिच्चमत्करणात्मकः" । "चितः" यत् "चमत्करणं" स्वशक्त्यास्वादकरणं । तत् "आत्मा" स्वरूपं यस्य । सः "चिच्चमत्करणात्मकः" । "चमत्करणं" विना स्वतन्त्रायाः चितेः चेत्योन्मुखतायोगात् ॥ (मोटी_३,१४.३८ ॥

ननु चमत्करणार्थम् अन्यापेक्षाया अवश्यम्भावात् कुतोऽस्याः स्वतन्त्रादीत्य् । अत्राह

स्वयम् एव चमत्कारो यः समागम्यते चिता ।
भविष्यन्नामदेहादि तद् अहम्भावनं विदुः ॥ (मो_३,१४.३९ ॥

"यः चमत्कारः चिता" सह "स्वयं" चिदाश्रयेण स्वविषयेन च यत्नेन विना । "समागम्यते" स्वयं समागमविषयतां भजति । पण्डिताः "तद् अहम्भावनम्" अहङ्कारं । "विदुः" । अहङ्कारोऽपि चिच्चमत्कार एव । का कथा जीवस्येति अहम्भावग्रहणाभिप्रायः । कथम्भूतं । "भविष्यन्नामदेहादि" । "भविष्यत् नाम" च "देहादि" च यस्य । तत् । "नामा"हङ्कारेत्य् अभिधा । "देहः" स्थूलसूक्ष्मरूपः । चिन्नैरपेक्ष्यद्योतनाय "समागम्यत" इति कर्मकर्तृव्यपदेशः ॥ (मोटी_३,१४.३९ ॥

प्रकृतं चिदैक्यं बहुविस्तरेण कथयति

चितो यः स्याच् चिदालोकस् तन्मयत्वाद् अनन्तकः ।
स एष भुवनाभोग इति तस्याः प्रबिम्बति ॥ (मो_३,१४.४० ॥

"चितः" अनन्तस्वभावस्य चित्प्रकाशस्य । "यः आलोकः" भावप्रकटनहेतुः स्वभावविशेषः । "स्याद्" अस्ति । कथम्भूतः । "तन्मयत्वात्" चिन्मयत्वाद् । "अनन्तकः" चिद्वद् अपरिमेयः । अपरिमेयत्वं च चितः परिमातुर् अभावेन स्वयं स्वस्मिन् परिमातृतासम्भवाच् च ज्ञेयम् । "स एषः" पूर्वोक्तः विषयस्य स्वव्यतिरिक्तस्य चिदालोकः । "तस्याः" चितः । "भुवनाभोग इति" भुवनविस्तारोऽयम् इति । "प्र"ति"बिम्बति" मालिन्यानादायकत्वेन प्रतिबिम्बभावेन स्फुरति ॥ (मोटी_३,१४.४० ॥

परिणामविकारादिशब्दैः सैव चिद् अव्यया ।
तादृग्रूप्याद् अभेद्यापि स्वशक्त्यैव विबुध्यते ॥ (मो_३,१४.४१ ॥

"स्वशक्त्या एव" प्रमातृभावेन स्फुरन्त्या निजशक्त्या एव कर्त्र्य्"आव्यया" नाशरहिता । "सैव चित् परिणामविकारादिशब्दैः" "विबुध्यते" विज्ञायते । शब्दस्यार्थबोधं प्रति कारणत्वं सुप्रसिद्धम् एवेति नायस्तम् । कथम्भूत्"आपि" । "तादृग्रूप्यात्" चिद्रूपतायाः । "अभेद्यापि" भिन्नीकर्तुम् अयोग्यापि । ननु स्वरूपाद् अभिन्नत्वे कथं परिणामादिशब्दवाच्यत्वं अस्या इति चेत् । सत्यम् । यथा तोयं स्वरूपाद् अभिन्नम् अपि तरङ्गताम् आसाद्य तोयपरिणामशब्देन तद्विकारशब्देन च कथ्यते तथेयम् अपीति न विरोधः ॥ (मोटी_३,१४.४१ ॥

विच्छिन्नविलासात्म स्वतो यत् स्वदनं चितः ।
चेत्यस्य प्रकाशस्य जगद् इत्य् एव तत् स्थितम् ॥ (मो_३,१४.४२ ॥

"अचेत्यस्य प्रकाशस्य" चेत्यलेपरहितप्रकाशरूपायाः "चितः" । "स्वयम्" अयत्नेन । "यत् स्वदनं" स्वशक्त्यास्वादः भवति । कथम्भूतम् । "अविच्छिन्नविलासात्म" । "अविच्छिनविलासः" छेदरहितस्फुरणयुक्तः । "आत्मा" यस्य । तत् "अविच्छिन्नविलासात्म" । तत् "स्वदनं जगद् इत्य् एव" जगत्स्वरूपेण । "स्थितं" भवति ॥ (मोटी_३,१४.४२ ॥

आकाशाद् अपि सूक्ष्मैषा या शक्तिर् वितता चितः ।
सा स्वभावत एवैनाम् अहन्तां परिपश्यति ॥ (मो_३,१४.४३ ॥

"या एषा आकाशाद् अपि सूक्ष्मा"परिच्छेद्या । "वितता" सर्वत्र व्याप्ता । "चितः शक्तिः" सामर्थ्यं अस्ति । "सा" चित् । "स्वभावत एव" स्वसत्तयैव । न तु यत्नादिना । "एनां" प्रोक्तविशेषणां । "अहन्तां परिपश्यति" अहङ्कारभावेन चेतति ॥ (मोटी_३,१४.४३ ॥

आत्मन्य् आत्मात्मनैवास्या यत् प्रस्फुरति वारिवत् ।
जगदन्तम् अहन्ताणुं तद् एवासौ प्रपश्यति ॥ (मो_३,१४.४४ ॥

"अस्याः" चितः । "आत्मा" स्फुरत्ताख्यं स्वरूपम् । "आत्मनि" स्फुरत्ताख्ये स्वरूपे स्वस्वरूपे । "आत्मना" स्वभावेन । न तु यत्नेन । "यत् स्फुरति" विलसति । कथं । "वारिवत्" जलवत् । "तद् एव" स्फुरणम् एव्"आसौ" चिद् । "अहन्ताणुं प्रपश्यति" परिमिताहन्तारूपतया परामृशति । कीदृशम् "अहन्ताणुं" । "जगदन्तम्" जगत्पर्यन्तम् ॥ (मोटी_३,१४.४४ ॥

चमत्कारकरी चारु यच् चमत्कुरुते चितिः ।
इयं स्वात्मनि तस्यैव जगन्नाम कृतं ततम् ॥ (मो_३,१४.४५ ॥

"चमत्कारकरी" चमत्कारकरण[ ? ]"स्यैव" । "ततं" विस्तीर्णं । "जगन्नाम" जगद् इति नाम । "कृतं" । तयैवेति शेषः ॥ (मोटी_३,१४.४५ ॥

चितश् चित्त्वम् अहङ्कारः सैव राघव कल्पना ।
तन्मात्रादि चिद् एवातो द्वित्वैकत्वे क्व संस्थिते ॥ (मो_३,१४.४६ ॥

"चितः चित्त्वम् अहङ्कारः" भवति । अहङ्कारतया चित्त्वस्यैव परिणामाद् इत्य् अर्थः । हे "राघव" । "सैवा"हङ्कार एव । "कल्पना" भवति । "कल्पना"पदापेक्षं स्त्रीत्वं । "अतः तन्मात्रादि" अहङ्कारोत्पन्नं तन्मात्रादिकम् । "चिद् एव" भवति । तन्मात्रकारणस्याहङ्कारस्य चित्त्वात् । "द्वित्वैकत्वे क्व संस्थिते" भवतः । न स्त इति भावः । ननु द्वित्वं मा भवतु । एकत्वं कथं नास्तीति चेन् । मैवं । स्वप्रतिपक्षं द्वित्वं विनैकत्वस्याप्य् असिद्धेः । न हि छायां विना प्रकाशः प्रकाशो भवति अनिर्वाच्यत्वात् ॥ (मोटी_३,१४.४६ ॥

एवं चिदेकमयत्वं सर्वस्य प्रसाध्य भेदत्यागं शिष्यं प्रति अनुष्ठेयत्वेन विदधाति

जीवहेताव् असन्त्यागे त्वं चाहं चेति सन्त्यज ।
शेषं सदसतोर् मध्ये भवेत्यर्थात्मको भवेत् ॥ (मो_३,१४.४७ ॥

पुरुषः । "इत्यर्थात्मकः" । "इति"शब्दाक्षिप्तगुरूपदेशवाक्य्"आर्थात्मकः" । तत्पर इति यावत् । "भवेत्" । "इति"शब्दाक्षिप्तं गुरूपदेशम् आह "त्वं चाहं चेति त्यज" । येन जीवता दूरे गच्छतीति भावः । पुनः किंरूपः तिष्ठामीत्य् । अत्राह "शेषम्" इति । "सदसतोः मध्ये" स्थितं सत्त्वासत्त्वाभ्याम् अनिर्वचनार्हं । "शेषं" सर्वप्रपञ्चबाधेऽपि साक्षितया शुद्धं चिन्मात्रं । "भव" ॥ (मोटी_३,१४.४७ ॥

एवं शिष्यं प्रति अभेदं विधेयत्वेनोक्त्वा तत्कृपया पुनर् अप्य् अभेदम् एव कथयति

चिता यथादौ कलिता स्वसत्ता सा तथोदिता ।
भिन्ना दृश्यते व्योम्नः सत्तासत्तेऽथ वेद्म्य् अहम् ॥ (मो_३,१४.४८ ॥

"चितादौ" सर्गारम्भे । "स्वसत्ता" स्फुरामीतिरूपा निजा सत्ता । "यथा" येन जीवादिरूपेण । "कलिता" । अस्या इत्य् अध्याहार्यम् । अस्याः चितः "सा" सत्ता । "तथा" तेन रूपेण्"ओदिता" प्रादुर्भूता सती । चिदाकाशात् "अभिन्ना दृश्यते" । ज्ञानिभिर् इति शेषः । "अहम्" इत्य् अनेन सत्तासामान्यप्रमाता कथितः । "अथाहं सत्तासत्ते वेद्मि" जानामि । न तु तथास्तीति भावः ॥ (मोटी_३,१४.४८ ॥

चित्खं खं जगदीहाः खं खम् अब्धिविबुधाचलाः ।
खाकारचिच्चमत्काररूपत्वान् नान्यद् अस्ति हि ॥ (मो_३,१४.४९ ॥

"चित्खं" "खम्" आकाशं भवति । "जगदीहाः" । "जगतां" हिताहितप्राप्तिपरिहारार्थाः चेष्टाः । "खं" भवन्ति । "अब्धिश्" च "विबुधाश्" च्"आचलाश्" च । ते अपि "खम्" एव भवन्ति । अत्र हेतुत्वेनोत्तरार्धम् आह "खाकारे"ति । "हि" यस्मादर्थे । "खाकारः" यः "चिच्चमत्कारः" । स एव "रूपं" यस्य । सः । तस्य भावः तत्"त्वं" । तस्मात् "खाकारचिच्चमत्काररूपत्वात्" । "अन्यत् नास्ति" । यतः सर्वं खरूपं चिच्चमत्कारमात्ररूपं भवतीत्य् अर्थः ॥ (मोटी_३,१४.४९ ॥

यो यद्विलासस् तस्मात् स न कदाचन भिद्यते ।
पि सावयवात् तत्त्वात् कैवानवयवे कथा ॥ (मो_३,१४.५० ॥

"यः यद्विलासः" यस्य स्फुरणं भवति । "सः सावयवात्" "तत्त्वाद् अपि तस्मात् कदा न" जातु न । "भिद्यते" । न हि कश्चित् तरङ्गं तोयात् भिन्नं वदतीति भावः । "अनवयवे" अवयवरहिते । स्वप्नेऽपि तद् वाच्यम् इति भावः ॥ (मोटी_३,१४.५० ॥

ननु चितः जगद्रूपत्वेऽपि तद्ग्राहिण्या अन्यस्याश् चितः सद्भावात् नाभेदमयतेत्य् । अत्राह

चितेर् नित्यम् अचेत्यायाश् चिन् नास्त्य् अवितताकृतेः ।
यद् रूपं जगतो रूपं तत्तत्स्फुरणरूपिणः ॥ (मो_३,१४.५१ ॥

"नित्यम् अचेत्यायाः" चेतितुम् अयोग्यायाः । "चितेः चित्" स्वग्राहिणी चित् । "नास्ति" चिद्रूपत्वहानेर् इति भावः । "चितेः" कथम्भूतायाः । "अवितताकृतेः" । सूक्ष्मतय्"आवितता" कुत्रापि न स्थित्"आकृतिः "रूपं यस्याः । सा । तस्याः । ननु एतद् असिद्धं । स्फुरामीतिरूपेण युक्तत्वाद् इत्य् । अत्राह "यद् रूपम्" इति । "यद् रूपं" । "यत्" स्फुरामीत्यादिकं । "रूपं" भवति । तद् इत्य् अध्याहार्यम् । तत् "जगत" एव "रूपम्" । न तु चितेः । मुख्यतः चितित्वं हि स्फुरामीत्य् अस्य ग्राहिकायाः चितेर् एव । स्फुरामीति ग्राह्यरूपायास् तु गौणं चितित्वं भवद् अपि न जगत्त्वं व्यभिचरति । कथम्भूतस्य "जगतः" । "तत्तत्स्फुरणरूपिणः" । "तत्तत्स्फुरणानि" स्फुरामीत्यादीनि । "रूपं" यस्य । तत् । तस्य "तत्तत्स्फुरणरूपिणः" । यत् किञ्चिच् चेत्यताम् आयाति तत् सर्वं जगद् एवेत्य् अर्थः ॥ (मोटी_३,१४.५१ ॥

मनो बुद्धिर् अहङ्कारो भूतानि गिरयो दिशः ।
इति पर्यायरचना चितस् तत्त्वाज् जगत्स्थितेः ॥ (मो_३,१४.५२ ॥

"मनो बुद्धिर्" इत्यादिरूपेणोक्ता शब्दसन्ततिः । "चितः पर्यायरचना" भवति । कुतः । "जगत्स्थितेः" मनोबुद्ध्यादिरूपायाः जगत्स्थितेः । "तत्त्वात्" चिद्रूपत्वात् । सर्वे शब्दाः चिद्वाचका एवेति भावः ॥ (मोटी_३,१४.५२ ॥

चितश् चित्त्वं जगद् विद्धि नाजगच् चित्त्वम् अस्ति हि ।
जगत्त्वाद् अचिच् चित् स्याद् भावाभेदाज् जगत् कुतः ॥ (मो_३,१४.५३ ॥

"चितः" सम्बन्धि "चित्त्वं" चिद्भावं । येन सा चिद् इति नामयोग्या भवति स कोऽपि धर्मः । तम् इति यावत् । "जगत् विद्धि" जानीहि । अत्र हेतुम् आह "ने"ति । "हि" यस्मात् कारणात् । "चित्त्वम् अजगत्" जगतो व्यतिरिक्तं । "नास्ति" । चेत्यरूपजगदभावेऽनिर्वाच्यायाः चितः स्फुटं चित्त्वायोग्यत्वात् । अवान्तरं फलितम् आह "अजगद्" इति । अत इत्य् अध्याहार्यम् । अतो हेतोः । "चित् अजगत्त्वाद्" धेतोर् । "अचित् स्यात्" चिन्नामयोग्या न स्यात् । यदि जगन् न स्याद् अनिर्वाच्यायाः चितेर् अपि चित्त्वं न स्याद् इति भावः । परमं फलितम् आह "भावाभेदाद्" इति । "भावाभेदात्" पूर्वन्यायसिद्धेन चिज्जगतोर् अभेदेन सिद्धात् पदार्थाभेदात् । "जगत् कुतः" कथं । स्यात् । चित्त्वजगतोर् अभेदे सति चित्त्वस्य चिदेकमयतया चित एव सर्वथा स्थितत्वात् जगन् नास्तीति भावः ॥ (मोटी_३,१४.५३ ॥

चितेर् मरिचबीजस्य निजा यान्तश् चमत्कृतिः ।
सैवैषा जीवतन्मात्रमात्रं जगद् इति स्थिता ॥ (मो_३,१४.५४ ॥

"चितेः" चिन्नाम्नः । "मरिचबीजस्यान्तः" मध्ये । "या चमत्कृतिः" अर्थात् तीक्ष्णतास्थानीयः स्वशक्त्यास्वादाख्यः चमत्कारः । भवति । "सैवैषा जगद् इति" जगद्रूपेण । "स्थिता" भवति । कथम्भूतं "जगत्" । "जीवतन्मात्रमात्रं" केवलं जीवपञ्चतन्मात्रस्वरूपं । न तु स्थूलभूतमयं । स्वप्नन्यायेन स्थूलताया असत्यत्वात् ॥ (मोटी_३,१४.५४ ॥

चित्त्वात् स्वशक्तिकचनं यद् अहम्भावनं चितेः ।
जीवः स्पन्दात्मकर्मात्मा भविष्यदभिधो ह्य् असौ ॥ (मो_३,१४.५५ ॥

"चितेः" "स्वशक्तिकचनं" स्वशक्तिस्फुरणरूपं । "अहम्भावनं यद्" अस्ति । कुतः । "चित्त्वात्" चिद्भावाख्यात् हेतोः । "हि" निश्चये । "असौ" स्वशक्तिस्फुरणं । "जीवः" भवति । "जीवा"पेक्षया पुंलिङ्गता । कथम्भूतो "जीवः" । "स्पन्दात्म" किञ्चित्स्फुरणरूपं । यत् "कर्म" । तत् "आत्मा" स्वरूपं । यस्य । "स्पन्दात्मकर्मात्मा" चित्स्पन्दरूप एवेत्य् अर्थः । पुनः कथम्भूतः । "भविष्यदभिधः" वैखरीप्रादुर्भाव इत्य् अर्थः ॥ (मोटी_३,१४.५५ ॥

यच् चिच् चित्त्वेन कलनं सुसम्पाद्याभिधार्थदिक् ।
व्यवच्छेदविकारैस् तद् भिद्यतेऽतो न विद्यते ॥ (मो_३,१४.५६ ॥

"चित्" आर्षः षष्ठीलोपः चितः । "यत् चित्त्वेन" चिद्भावेन । "कलनं" परिच्छेदः । भवति । कथम्भूतं । "सुसम्पाद्या" सुखेन "सम्पादयितुं" शक्य्"आभिधार्थदिक्" नामार्थलेशः येन । तत् "सुसम्पाद्याभिधार्थदिक्" । परिच्छिन्नस्यैव हि वस्तुनः नाम तद्वाच्यत्वं च कर्तुं शक्यं । "तत् भिद्यते" चितः भिन्नत्वेन स्थीयते । कैः । "व्यवच्छेदविकारैः" । चित्तं न स्पृशतीति यावत् । भवन्तु जडेभ्यः भिन्नतापादनानि । त एव विकाराः । तैः । तद्युक्तत्वाद् इति यावत् । चितो भिन्नं । का हानिर् इत्य् । अत्राह्"आत" इति । "अतः" चितो भिन्नत्वात् । "न विद्यते" । चिद्भिन्नस्य चेत्यमानतायोगात् । तदयोगे च सतोऽपि । तस्यासङ्कल्पत्वात् । चिद्रूपत्वेन कलनाभावेन व्यर्थस्य चित्त्वस्याप्य् अभावः । चित्त्वाभावे च जगतोऽभावः । तदभावे च शुद्धस्य चिन्मात्रस्यैव साम्राज्यम् इति भावः ॥ (मोटी_३,१४.५६ ॥

ननु भवतु चिदेकमयत्वं सर्वस्य । तदंशभूतयोः कर्तृकर्मणोस् तु परस्परं भेदो दुर्निवार इत्य् । अत्राह

चित्स्पन्दरूपिणोर् अस्ति न भेदः कर्तृकर्मणोः ।
स्पन्दमात्रं भवेत् कर्म स एव पुरुषः स्मृतः ॥ (मो_३,१४.५७ ॥

"चित्स्पन्दरूपिणोः" चित्स्फूर्त्याख्यरूपयुक्तयोः । "कर्तृकर्मणोः भेदः नास्ति" । कथम् एतद् इत्य् । अत्राह "स्पन्दे"ति । "स्पन्दमात्रं कर्म भवेत्" । बहिःस्पन्दस्यैव कर्मत्वदर्शनात् । "स एव पुरुषः स्मृतः" । पण्डितैर् इति शेषः । अयं भावः । अन्तः विचार्यमाणं ज्ञानं विना न किञ्चिल् लभ्यते । घटपटादिश् च बहिर्भूतः । अतः ज्ञानस्य तैः सह कोऽपि सम्बन्धो नास्तीति शुद्धं ज्ञानं शिष्टं । स एव च चितः स्फुरणाख्यः स्पन्दः । तद् एव कर्म । बहिःस्थितस्य शरीरचलनादिरूपस्य कर्मणोऽपि तत्पूर्वकत्वात् । तत् तत्त्वम् एव । स एव च पुरुषः । अन्तर् अन्यस्यानुपलम्भात् बहिःशरीरस्य मृत्पिण्डरूपस्य पुरुषत्वायोगात् इति सिद्धं कर्मणः पुरुषत्वम् ॥ (मोटी_३,१४.५७ ॥

सर्वस्य जीवादेर् वर्गस्यैकत्वं साधयति

जीवश् चित्त्वे परिस्पन्दः पुंसां चित्तं स एव च ।
मनस् त्व् इन्द्रियरूपं सन् नानानानैव गच्छति ॥ (मो_३,१४.५८ ॥

"जीवः चित्त्वे" चिद्भावे । चित्स्वरूप इति यावत् । "परिस्पन्दः" भवति । "पुंसां स एव" कर्मापरपर्यायं "चित्तं" भवति । परिस्पन्द "एव च" । चित्स्पन्दत्वव्यतिरिक्तस्य जीवस्य चित्तस्य वाभावात् । "तु" विशेषे । "मन" एव चित्स्पन्दरूपं चित्तम् । "इन्द्रियरूपं सत्" । "नानानाना"त्वं "गच्छति" । "चित्तं" कथम्भूतम् "एव" । "अनानैव" । परमार्थतः एकत्वात् नानात्वरहितं । इदम् अत्र तात्पर्यम् । "जीवस्" तावत् चित्स्पन्द एव । तच्चित्तम् अपि विकल्पात्मकं तथैव । तद् एव च चित्तम् इन्द्रियरूपेण परिणमते । ततश् च स्वपरिणामभूतेन्द्रियद्वारेण बहिर् निर्गत्य रूपादिपञ्चकस्वरूपविषयरूपताम् आपद्यते । ततश् च तदाधारभूतपञ्चकताम् आसाद्यते । ततश् च तत्कार्यभावेन परिणमते इति चित्स्पन्द एव स्थूलसूक्ष्मभावरूपेण स्थितः । स च चिदव्यतिरिक्त इति सर्वं चिद्रूपम् एव स्थितम् इति ॥ (मोटी_३,१४.५८ ॥

शान्ताशेषविशेषं हि चित्प्रकाशच्छटा जगत् ।
कार्यकारणकादित्वं तस्माद् अन्यन् न विद्यते ॥ (मो_३,१४.५९ ॥

"हि" यस्मात् अर्थे ।ऽशेषं समस्तं "जगत् चित्प्रकाशच्छटा" चित्प्रकाशे सिद्धपदार्थपङ्क्तिमयत्वात् चित्प्रकाशपङ्क्तिः । भवति । कथम्भूतं । "शान्ताशेषविशेषं" । "शान्ताः" चिन्मात्रे प्रलीनाः । "अशेषाः" समस्ताः । "विशेषाः" भावाः यस्य । तत् । "तस्मात्" ततो हेतोः । "कार्यकारणकादित्वम् अन्यत्" चिन्मात्रात् पृथक् । "न विद्यते" । कार्यकारणत्वादेर् अपि जगत्त्वेन चित्प्रकाशच्छटात्वानपायात् ॥ (मोटी_३,१४.५९ ॥

च्छेद्योऽहम् अदाह्योऽयम् अक्लेद्योऽशोष्य एव च ।
नित्यः सततगः स्थाणुर् अचलोऽहम् इति स्थितम् ॥ (मो_३,१४.६० ॥

सर्वस्य जीवादेर् जगतः चित्प्रकाशमयत्वे सति "इति स्थितम्" भवति । अयं निश्चय एव प्रतिष्ठितो भवति इति । किम् "इति" । "अहं" चित्प्रकाशरूपः अहम् । "अच्छेद्यः" अशरीरवत् छेदयोग्यो नास्मि । एवम् "अदाह्योऽयम्" इत्य् आदाव् अपि सम्बन्धनीयम् । "अहं नित्यो"ऽस्मि । नित्यत्वे विशेषणद्वारेण हेतुम् आह "सततग" इति । सर्वकालग इत्य् अर्थः । पुनः कथम्भूतः । "स्थाणुः" स्वस्वरूपे दृढं स्थितः । अत्रापि हेतुम् विशेषणत्वेनाह्"आचल" इति । यतः निष्कम्प इत्य् अर्थः ॥ (मोटी_३,१४.६० ॥

ननु चिदेकमयत्वे सति वादिनः किमर्थं विवदन्ति इत्य् । अत्राह

विवदन्ते यथा ह्य् अत्र विवदन्ते तथा भ्रमैः ।
भ्रमन्तो न वयं त्व् एते जाता विगतविभ्रमाः ॥ (मो_३,१४.६१ ॥

वादिन इति शेषः । वादिनः तार्किकादयः । "अत्र" चित्प्रकाशे । "यथा" येन प्रकारेण । "विवदन्ते" विवादं कुर्वन्ति । "तथा भ्रमैः" मिथ्याज्ञानैः । "विवदन्ते" । ज्ञाततत्त्वानां विवादाभावात् । तथा हि । तार्किकाः आत्मानं ज्ञानगुणं संसारिणं च कथयन्ति । साङ्ख्याः उदासीनं ज्ञानरूपम् अपि परमाणुरूपम् । चार्वाका भूतरूपं । बौद्धाः शून्यरूपं । वेदान्तिनः शान्तस्वरूपं । एवम् अन्येऽप्य् अन्यत् किञ्चित् । यद्य् अपि एतेऽधिकारिकृपयैव विवदन्ते तथापि अधिकारिणां तत्तत्पदनिष्ठानाम् अधःस्थं पदं परित्यज्योर्ध्वपदगमनार्थं वादिनां भ्रमः उक्तः । यदि वादिनः भ्रमेण विवदन्ते तर्हि यूयं कथं स्थिताः इत्य् । अत्राह "भ्रमन्त" इति । "तु" व्यतिरेके । "एते वयं विगतभ्रमाः" वाद्युक्तनानागुणोत्तीर्णशुद्धचिन्मात्राङ्गीकारात् दूरीभूतमिथ्याज्ञानाः । "जाताः" । कथम्भूताः । "न भ्रमन्त" इत्य् अर्थः । ननु श्रीवसिष्ठेन तन्मतनिरासपरेण विवाद एव कृतः । मैवम् । बोधनार्थतन्मतनिरासेऽपि चिन्मात्राङ्गीकारेणैव सर्वमताङ्गीकारात् । चिन्मात्रं हि सर्वेऽङ्गीकुर्वन्त्य् एव । किं तु तद्विशेषेषु विवदन्ते ॥ (मोटी_३,१४.६१ ॥

पुनर् अपि चिदेकमयत्वम् एव कथयति

दृश्ये मूर्तेऽज्ञसंरूढे विकारादि पृथग् भवेत् ।
नामूर्ते तज्ज्ञकचिते चित्खे सदसदात्मनि ॥ (मो_३,१४.६२ ॥

"मूर्ते" स्थूले । "दृश्ये" दृशिक्रियाविषये भावजाते । कथम्भूते । "ऽज्ञसंरूढे" । "अज्ञेषु" मूर्खेषु । "संरूढे" दृढीभूते । मूर्खज्ञाते इति यावत् । "विकारादि" । "आदि"शब्दात् परिणामादेर् ग्रहणम् । "पृथक् भवेत्" । स्थूलस्य दृश्यस्य विकारादिधर्माधिकरणत्वे योग्यतास्तीति भावः । "अमूर्ते" सूक्ष्मे । "तज्ज्ञकचिते" तत्त्वज्ञेषु स्फुरिते । "चित्खे" चिदाकाशे । विकारादि पृथक् "न" भवेत् । कथम्भूते "चित्खे" । "सदसदात्मनि" सदसत्स्वरूपे । विकारादि यदि सत् तदापि तन्मयम् एव । यद्य् असत् तदापि तथैवेति भावः ॥ (मोटी_३,१४.६२ ॥

चित्तत्त्वं चेत्यरसतः शक्तीः कालादिनामिकाः ।
तनोत्य् आकाशविशदाश् चिन्मधुश्रीः स्वमञ्जरीः ॥ (मो_३,१४.६३ ॥

"चिन्मधुश्रीः" चिदाख्यावसन्तलक्ष्मीः । "कालादिनामिकाः" कालदेशादिनामयुक्ताः । "शक्तीः स्वमञ्जरीः तनोति" विस्तारयति । कुतः । "चेत्यरसतः" चेत्यास्वादेन युक्तम् । युक्तं च वसन्तलक्ष्म्याः रसेन मञ्जरीतननम् । "शक्तीः" किं । "चित्तत्त्वम्" चिन्मात्ररूपिण्य एव । शक्तितद्वतोर् अभेदात् । पुनः कथम्भूताः । "आकाशविशदाः" । न तु भासमानस्थूलरूपयुक्ताः ॥ (मोटी_३,१४.६३ ॥

स्वभावेन चिन्मात्रस्य चेत्यरूपतया स्फुरणं कथयति

स्वयं विचित्रं स्फुरति चित्कञ्चुकम् अनाहतम् ।
स्वयं विचित्रं कचति चिद्रत्नम् अपकारणम् ॥ (मो_३,१४.६४ ॥

"चित्कञ्चुकम्" । "कञ्चुकं" लक्षणया पटः । चिदाख्यः पटः । "स्वयं" स्वभावेन । "विचित्रं स्फुरति" चित्रपटवत् विचित्रतायुक्तं भवतीत्य् अर्थः । विचित्रता चार्थचेत्यकृता ज्ञेया । तथा "चिद्रत्नं स्वयं विचित्रं कचति" । रत्नस्य च कचनं युक्तम् एव । "स्वयम्" इत्य् अस्यार्थं स्वयम् एवाह्"आपकारणं" इति ॥ (मोटी_३,१४.६४ ॥

स्वयं विलक्षणस्पन्दश् चिद्वायुर् अजडात्मकः ।
स्वयं विचित्रवलनं चिद्वारि न निखातगम् ॥ (मो_३,१४.६५ ॥

"विलक्षणस्पन्दः" बाह्यवायोः व्यतिरिक्तस्पन्दयुक्तः । अत्र हेतुत्वेन विशेषणम् आह "अजडात्मक" इति । जडाजडयोः स्पन्दोऽवश्यं विलक्षण एव स्याद् इति भावः । "वारि निखातगं" सत् । "विचित्रवलनं" विचित्रस्फुरणं भवति । "चिद्वारि" तु "निखातगं" सत् । "विचित्रवलनं" "न" भवति ॥ (मोटी_३,१४.६५ ॥

स्वयं विचित्रधातूच्चैश् चिच्छृङ्गम् अपनिर्मितम् ।
स्वयं चित्ररसोल्लासा चिज्ज्योत्स्ना सततोदिता ॥ (मो_३,१४.६६ ॥

"उच्चैः" "चिच्छृङ्गम् अपनिर्मितम्" निर्माणरहितम् । "विचित्रधातु" । "विचित्रा" नानाविधाः । "धातवः" भूताख्यानि कारणद्रव्याणि । यस्मिन् । तत् । भवति । शृङ्गम् अपि विचित्रधातु विचित्रगैरिकादिधातुयुक्तं भवति । किं तु निर्मितम् । "स्वयं चिज्ज्योत्स्ना" "चित्ररसोल्लासा" नानाविधचेत्यरसोल्लासयुक्ता । तया "सततोदिता" भवति । बाह्यज्योत्स्नापि विचित्रामृतरसोल्लासयुक्ता भवति । किं तु शुक्लपक्ष एवोदिता भवति ॥ (मोटी_३,१४.६६ ॥

स्वयं सदैव प्रकटश् चिदालोकोऽमलात्मकः ।
स्वयम् अस्तङ्गतेवाज्ञे ज्ञे ज्ञानाद् उदिता चितिः ॥ (मो_३,१४.६७ ॥

आलोकस्य प्रकटतागुणयुक्तत्वात् इति भावः । "स्वयम्" इति । "चितिः स्वयं अज्ञे" मूर्खे । "ऽस्तङ्गतेव" भवति । अस्तङ्गतत्वं च अस्याः स्थितायाः अपि ज्ञानाविषयीभाव एवात "इव"शब्दोपादानम् । "चितिः स्वयं ज्ञे" ज्ञानयुक्ते । "ज्ञानाद् उदिता" भवति । यथाकाशे ज्वलन्न् अपि सूर्योऽन्धं प्रत्य् अनुदितः । नेत्रसहितं प्रति तूदितः । एवम् इयम् अपीति भावः ॥ (मोटी_३,१४.६७ ॥

स्वयं जडेषु जाड्येन पदं सौषुप्तम् आगता ।
स्वयं स्पन्दि तथास्पन्दि चित्त्वाच् चितिमहानभः ॥ (मो_३,१४.६८ ॥

चितिः "जडेषु" स्थावरादिषु । "जाड्येन" जडभावेन । "स्वयं सौषुप्तपदं" सुषुप्तिस्थानम् । "आगता" भवति । "चितिमहानभः" चिदाख्यो महाकाशः । "स्वयम् स्पन्दि" स्फुरत्तायुक्तं भवति । "तथा" तेन प्रकारेण्"आस्पन्दि" शान्ततायुक्तो भवति । बाह्याकाशस्य तु वातरूपेण सस्पन्दत्वं स्वरूपेणास्पन्दत्वम् ॥ (मोटी_३,१४.६८ ॥

गुणिनि गुणवत् चिति जगतः सदसत्त्वं कथयति

चित्प्रकाशप्रकाशो हि जगद् अस्ति च नास्ति च ।
चिदाकाशैकशून्यत्वं जगद् अस्ति च नास्ति च ॥ (मो_३,१४.६९ ॥

"हि" निश्चये । "चित्प्रकाशप्रकाशः" । "चित्प्रकाशस्य" चिदाख्यस्य तेजसः । "प्रकाशः" आलोकाख्यगुणभूतः । "जगत् अस्ति च नास्ति च" । "च"कारः स्वयं अस्तित्वनास्तित्वयोः समप्रधानत्वं द्योतयति । अयं भावः । यथा तेजोरूपे गुणिनि आलोकाख्यो गुणः भेदेन भासमानत्वात् अस्ति । ततो व्यतिरेकेण लब्धुम् अशक्यत्वान् नास्ति । तथा जगद् अपि चिदाख्ये आधारभूते गुणिनि भासमानत्वाद् अस्ति । तद्व्यतिरेकेण लब्धुम् अशक्यत्वान् नास्तीति । एवम् अग्रेऽपि योज्यम् । "चिदाकाशे"ति । चिदाकाशस्यैकं "शून्यत्वं" शून्यत्वाख्यो गुणः । "चिदाकाशैकशून्यत्वम्" ॥ (मोटी_३,१४.६९ ॥

चिदालोकमहारूपं जगद् अस्ति च नास्ति च ।
चिन्मारुतघनस्पन्दो जगद् अस्ति च नास्ति च ॥ (मो_३,१४.७० ॥

"महारूपं" भासुरः शुक्लाख्यगुणः । "चिन्मारुते"ति । स्पन्दस्य च वायुगुणत्वं प्रसिद्धम् एव ॥ (मोटी_३,१४.७० ॥

चिद्घनध्वान्तकृष्णत्वं जगद् अस्ति च नास्ति च ।
चिदर्कालोकदिवसो जगद् अस्ति च नास्ति च ॥ (मो_३,१४.७१ ॥

"ध्वान्तस्य" च "कृष्णत्वं" गुणः । "चिदर्के"ति । दिवसस्यार्कालोकानुविधायित्वात् तद्गुणत्वम् ॥ (मोटी_३,१४.७१ ॥

पूर्वोक्तं दृढयितुं सर्वथा चिद्गुणत्वम् एव जगतः कथयति

चित्कज्जलरजःशैलपरमाणुर् जगद्भ्रमः ।
चिदग्न्यौष्ण्यं जगल्लेखा जगच् चिच्छङ्खशुक्लता ॥ (मो_३,१४.७२ ॥

"चित्" एव "कज्जलरजःशैलः" अञ्जनाद्रिः । तस्य "परमाणुः" । परमाणोः पर्वतगुणत्वं तदाश्रितत्वेनोपचाराज् ज्ञेयम् । जगदाकारः "जगद्भ्रमः" । जगद् इति यावत् । "जगल्लेखा" जगत्पङ्क्तिः ॥ (मोटी_३,१४.७२ ॥

जगच् चिच्छैलजठरं चिज्जलद्रवता जगत् ।
जगच् चिदिक्षुमाधुर्यं चित्क्षीरस्निग्धता जगत् ॥ (मो_३,१४.७३ ॥

"जगत् चिच्छैलस्य जठरम्" अन्तःस्थः साररूपः भागः । भवति । "द्रवता" द्रवत्वं । "स्निग्धता" स्नेहाख्यो गुणः ॥ (मोटी_३,१४.७३ ॥

जगच् चिद्धिमशीतत्वं चिज्ज्वालाज्वलनं जगत् ।
जगच् चित्सर्पिषि स्नेहो वीचिश् चित्सरितो जगत् ॥ (मो_३,१४.७४ ॥

"चिज्ज्वाला" चिदाख्याग्निशिखा । तस्या "ज्वलनं" ज्वलनक्रिया । "वीचेः" रचनारूपत्वात् जलगुणत्वम् ॥ (मोटी_३,१४.७४ ॥

जगच् चित्क्षौद्रमाधुर्यं जगच् चित्कनकाङ्गदम् ।
जगच् चित्पुष्पसौगन्ध्यं चिल्लताग्रफलं जगत् ॥ (मो_३,१४.७५ ॥

रूपत्वेन गुणत्वम् । फलस्य लतागुणत्वं तदाश्रितत्वेनोपचारात् ॥ (मोटी_३,१४.७५ ॥

फलितम् आह

चित्सत्तैव जगत्सत्ता जगत्सत्तैव चिद्वपुः ।
त्र भेदविकारादि न खे मलम् इव स्थितम् ॥ (मो_३,१४.७६ ॥

अतः "चित्सत्तैव जगत्सत्ता" भवति । "जगत्सत्तैव चिद्वपुर्" भवति । न हि गुणसत्ता गुणिनो भिन्ना गुणिसत्ता च गुणाद् भिन्ना भवतीति भावः । "अत्र" चिज्जगतोः । "भेदविकारादि" । "आदि"शब्देन परिणामादेर् ग्रहणम् । "स्थितं न" भव-ति । किम् "इव" । "खे" आकाशे । "मलम् इव" ॥ (मोटी_३,१४.७६ ॥

जगतः सदसन्मयताम् उपसंहरति

इतीदं सन्मयत्वेन सदसद् भुवनत्रयम् ।
विकल्प्यतदात्मत्वात् सत्तासत्ते तद् एव वा ॥ (मो_३,१४.७७ ॥

"इति" पूर्वोक्तप्रकारेण । "भुवनत्रयं" भूर्भुवःस्वराख्यं जाग्रदादिकं वा भुवनत्रितयं । "सन्मयत्वेन" सत्स्वरूपचिद्विकारत्वेन । "सदसद्" भवति । मूलकारणायाः चितः सदसदसत्त्वे सत्तासत्ताधारत्वकृतं भेदम् आशङ्क्याह "अविकल्प्ये"ति । "वा"शब्दः पक्षान्तरद्योतकः । "तद् एव" त्रिभुवनम् एव । "सत्तासत्ते" भवति । कुतः । "अविकल्प्यतदात्मत्वात्" । "अविकल्प्यः" सत्त्वासत्त्वविकल्पायोग्यः । यः "तदात्मा" चिदात्मा । तस्य भावः तत्"त्वं"। तस्मात् । अयं भावः । सदसद् इति पदद्वयम् अस्तिनास्तिक्रियाकर्तारं कथयति । तथा च कर्तृकर्मविकल्पः दुर्निवारः । सत्तासत्ते तु शुद्धनिरालम्बास्तिनास्तिक्रियावाचकेऽविकल्प्यं चित्स्वरूपम् एव कथयतः । तदभिन्नस्य त्रिभुवनस्यापि सत्तासत्तात्वम् एव युक्तं । न सदसत्त्वम् इति ॥ (मोटी_३,१४.७७ ॥

ननु जगद्ब्रह्मणोर् अवयवावयविभावोऽस्तु इत्य् । अत्राह

वयवावयविताशब्दार्थौ शशशृङ्गवत् ।
नुभूत्यपलापाय कल्पितौ यैर् धिग् अस्तु तान् ॥ (मो_३,१४.७८ ॥

"यैः" जडैः । "अनुभूत्यपलापाय" जगच्चिदैक्याख्यम् अनुभवम् अपलपितुं । "अवयवावयविताशब्दः" अवयवावयविभावाख्यः शब्दः । "अर्थः" तद्वाच्यः सम्बन्धविशेषः । तौ "अवयवावयविताशब्दार्थौ" । "कल्पितौ" स्वविकल्पेन सम्भावितौ । कथं "कल्पितौ" । "शशशृङ्गवत्" । यथा कश्चिद् बहिर् असद् अपि शशशृङ्गं कल्पयति । तथेत्य् अर्थः । "तान् धिग् अस्तु" ते धिक्कारविषया एवेत्य् अर्थः । धिक्कारविषयत्वं च तेषां अवयवाभिन्नस्यावयविनः भेदेन ज्ञानात् । न ह्य् अवयवभिन्नोऽवयवी नाम कश्चिद् अस्तीति भावः ॥ (मोटी_३,१४.७८ ॥

न विद्यते जगद् यत्र साद्रिद्यूर्वीनदीश्वरम् ।
चिदेकत्वात् प्रसङ्गः स्यात् कस् तत्रेतरविभ्रमे ॥ (मो_३,१४.७९ ॥

"यत्र" यस्मिन् चिद्रूपाख्ये स्थाने । "साद्रिद्यूर्वीनदीश्वरम्" पर्वताकाशभूमिसमुद्रसहितं । "जगत्" । "चिदेकत्वात्" चिदैक्यात् । "न विद्यते" । "तत्रेतरविभ्रमे" षष्ठ्यर्थे सप्तमी । "इतरस्य" तत्कार्यरूपस्य "भ्रमस्य" । "कः प्रसङ्गः" ॥ (मोटी_३,१४.७९ ॥

चितः सर्वमयत्वं शिलादृष्टान्तेन कथयति

शिलाहृदयपीनापि स्वाकाशविशदैव चित् ।
धत्तेऽन्तर् अखिलं शान्तं सन्निवेषं यथा शिला ॥ (मो_३,१४.८० ॥

"चित् शान्तं" परमार्थतो भावाभावादिक्षोभरहितं । "अखिलं" समस्तं । "सन्निवेशं" चेत्याख्यं रचनाविशेषम् । "अन्तः" स्वमध्य एव । "धत्ते" । कथम्भूत्"ऐव" । "शिलाहृदयपीनापि" । प्रकाशाख्यसारभरितत्वेन शिलाहृदयवत् "पीनापि" सती । "स्वाकाशविशदैव" । "सु"ष्ठु "आकाश"वत् "विशदा" निर्मला "एव" । न तु जगदन्तर्धारणे योग्या । अत्र दृष्टान्तम् आह "यथे"ति । "शिला यथा" सारेण पूरितापि लेखौघाख्यं "सन्निवेशं अन्तर् धत्ते" । तथेत्य् अर्थः ॥ (मोटी_३,१४.८० ॥

ननु तथाप्य् अहं प्रष्टा भिन्न एवास्म्य् । अन्यथा प्रश्नायोगाद् इत्य् । अत्राह

पदार्थनिकराकाशे त्वम् आकाशलवोपमः ।
त्वत्तामत्तात्मतात्वत्तामत्तोल्लेखा न सन्ति ते ॥ (मो_३,१४.८१ ॥

"पदार्थनिकराकाशे" । "पदार्थानां निकरः" समूहः । स एव नकिञ्चिद्रूपत्वेन्"आवकाशः" । तस्मिन् । तन्मध्य इत्य् अर्थः । "त्वं" प्रष्टा । "आकाशलवोपमः" असि । फलितम् आह "त्वत्ते"ति । अतः "ते" तव प्रष्टुः । "त्वत्तामत्तात्मतात्वत्तामत्तोल्लेखाः" । "त्वत्तामत्तात्मतया" त्वद्भावमद्भावरूपत्वेन । स्थिताः उल्लेखाः । "त्वत्तामत्तोल्लेखाः" त्वद्भावमद्भावविकल्पाः । त्वद्भावरूपत्वेन स्थिताः त्वत्ताविकल्पाः । मद्भावरूपत्वेन स्थिता मत्ताविकल्पाः । "न सन्ति" । आकाशरूपत्वात् ॥ (मोटी_३,१४.८१ ॥

पल्लवदृष्टान्तेन प्रकृतं चितः सर्वमयत्वं कथयति

पल्लवान्तरलेखौघसन्निवेशवद् आततम् ।
न्यानन्यात्मकम् इदं धत्तेऽन्तश् चित् स्वभावतः ॥ (मो_३,१४.८२ ॥

"चित्" । "इदं" चेत्यम् । "अन्तः" स्वमध्ये । "धत्ते" । कुतः । "स्वभावतः" । ननु कयापि प्रयोजनापेक्षया कथम्भूतं । "अन्यानन्यात्मकम्" । "अन्यः" स्वतः भिन्नः । "अनन्यः" स्वतोऽभिन्नः । "आत्मा" यस्य । तत् "अन्यानन्यात्मकम्" । पुनः कथम्भूतम् । "आततं" विस्तारयुक्तम् । कथं "धत्ते" । "पल्लवान्तरे" पल्लवमध्ये स्थितः । लेखौघसन्निवेशः इव "पल्लवान्तरलेखौघसन्निवेशवत्" । पल्लवे लेखौघस्य च भासमानत्वेन भिन्नत्वं पृथक्कृत्य लब्धुम् अशक्यत्वाद् अभिन्नत्वं च स्फुटम् स्थितम् एवेत्य् उपमानम् ॥ (मोटी_३,१४.८२ ॥

समस्तकारणौघानां कारणादिपितामहम् ।
स्वभावतोऽकारणात्म चित्त्वं विद्ध्य् अनुभूतितः ॥ (मो_३,१४.८३ ॥

त्वं । "चित्त्वं" चिद्भावं । "स्वभावतः" स्वरूपेण्"आनुभूतितः" स्वानुभवेन । न तु मत्कथनमात्रेण्"आकारणात्म" अकारणः । कारणरहितः "आत्मा" स्वरूपं यस्य । तत् । तादृशं । "विद्धि" जानीहि । कथम्भूतं । कारणनाम्न्"आदि"भूतः यः "पितामहः" । तत्स्वरूपं "कारणादिपितामहं" । केषां "कारणानां" । "समस्तकारणौघानां" । "समस्तस्य" दृश्यस्य । ये "कारणौघाः" । तेषाम् । अयं भावः । सर्वस्य दृश्यस्य कारणानि पञ्चतन्मात्राणि । तेषां कारणम् अहङ्कारः । तत्कारणं "चित्त्वम्" इति ॥ (मोटी_३,१४.८३ ॥

ननु जगद्वत् चिद् अपि असत्यैव भवत्व् इत्य् । अत्राह

न चासत्त्वम् अचेत्यायाश् चितो वाचापि सिध्यति ।
यद् अस्ति तद् उदेतीति दृष्टं बीजाद् इवाङ्कुरम् ॥ (मो_३,१४.८४ ॥

"अचेत्यायाः" चेत्यमलादूषितायाः । "चितः असत्त्वं वाचापि न सिध्यति" वक्तुम् अपीदं न योग्यम् इत्य् अर्थः । अत्र हेतुत्वेनोत्तरार्धम् आह "यद्" इति । यतः "यद् अस्ति तद् उदेति" अन्यतया प्रादुर्भवति । "इति दृष्टम्" अस्माभिर् इति शेषः । अत्र दृष्टान्तम् आह "बीजाद्" इति । अयं भावः । यथा बीजभावेन स्थितम् "अङ्कुरं बीजात्" उदेति । तथा चिन्मात्रस्वरूपेण स्थितं चेत्यम् अपि । तथा च चेत्यान्यथानुपपत्त्या चिन्मात्रस्यासत्यत्वं न युक्तम् इति ॥ (मोटी_३,१४.८४ ॥

सर्गान्तश्लोकेन पूर्वोक्तं सङ्गृह्णाति

गगनम् इव सुशून्यभेदम् अस्ति
त्रिभुवनम् अङ्ग महाचितोऽन्तर् अस्याः ।
परमपदमयं समस्तदृश्यं त्व्
इदम् इति निश्चयवान् भवानुभूतेः ॥ (मो_३,१४.८५ ॥

हे "अङ्ग" । "त्रिभुवनं अस्याः महाचितः" चिन्मात्रस्य्"आन्तः" मध्ये । "सुशून्यभेदम्" । "सुशून्यः" अतिशयेन नकिञ्चिद्रूपः । "भेदो" यस्य । तत् । सर्वथा स्वरूपभेदरहितम् इत्य् अर्थः । "अस्ति" । किम् "इव" । "गगनम् इव" । यथा गगनं भेदरहितम् अस्ति । तथेत्य् अर्थः । फलितम् आह "परमे"ति । अतः त्वं "इति निश्चयवान्" एवं निश्चययुक्तो । "भव" । कुतो । "ऽनुभूतितः" स्वानुभवेन । न तु मदुक्त्या कृतेन श्रद्धामात्रेण इति । किम् "इति" । "समस्तदृश्यं परमपदमयं" सर्वोत्तीर्णचित्स्वरूपम् एव । भवति ॥ (मोटी_३,१४.८५ ॥

श्रीवाल्मीकिर् भरद्वाजं प्रति तत्रत्यं सर्गान्तश्लोकेन दिनावसानं कथयति

इत्य् उक्तवत्य् अथ मुनौ दिवसो जगाम
सायन्तनाय विधयेऽस्तम् इनो जगाम ।
स्नातुं सभा कृतनमस्करणा जगाम
श्यामाक्षये रविकरैश् च सहाजगाम ॥ (मो_३,१४.८६ ॥

"इति" पूर्वोक्तं । "मुनौ" श्रीवसिष्ठे । "उक्तवति" कथयति सति । "अथ" पूर्वश्लोकोक्तोपदेशानन्तरम् । "दिवसः" दिनं । "जगाम" गतः । अत्र हेतुम् आह "अस्तम्" इति । यतः "इनः" सूर्यः । "अस्तं जगाम" । "सभा" श्रोतॄणां सभा । "सायन्तनविधये" सायन्तनाग्निहोत्राद्यर्थं । "स्नातुं जगाम" । स्नानं विना कुत्रापि विधाव् अधिकाराभावात् । सा सभा "श्यामाक्षये" रात्र्यवसाने । दिनादाव् इति यावत् । "रविकरैः" सूर्यकिरणैः । "सह" । पुनः "आजगामा"गता । श्रवणार्थम् इति शेषः । इति शिवम् ॥ (मोटी_३,१४.८६ ॥

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायाम् उत्पत्तिप्रकरणे चतुर्दशः सर्गः ॥ ३,१४ ॥



ओं श्रीवसिष्ठः पूर्वदिने कथ्यमानम् उपस्तौति

जगद् आकाशम् एवेदं यथा हि व्योम्नि मौक्तिकम् ।
विमले भाति खात्मैव जगच् चिद्गगने तथा ॥ (मो_३,१५.१ ॥

"इदम्" अनुभूयमानं । "जगत्" । "आकाशम् एव" भवति । अत्र हेतुत्वेन दृष्टान्तयुक्तं वाक्यम् आह "यथा ही"ति । "हि" यस्मादर्थे । यस्मात् "जगत् विमले चिद्गगने" चिदाकाशे । "तथा" "भाति" । कथम्भूतम् "एव" । "खात्मैव" चिदाकाशस्वरूपम् एव । "तथा" कथं । "यथा व्योम्नि" भूताकाशे । "मौक्तिकं" मुक्तासमूहो । "भाति" । अयं भावः । यथा गगने भ्रमदृष्ट्या दृश्यमानं मौक्तिकम् आकाशम् एव तथा चिद्गगने दृश्यमानं जगद् अपि चिद्गगनम् एवेति ॥ (मोटी_३,१५.१ ॥

नुत्कीर्णैव भातीव त्रिजगत्सालभञ्जिका ।
चित्स्तम्भे न च सोत्कीर्णा न चोत्कर्तात्र विद्यते ॥ (मो_३,१५.२ ॥

"चित्स्तम्भे" चिदाख्ये स्तम्भे । "त्रिजगत्सालभञ्जिका" त्रिजगदाख्या पुत्रिक्"आनुत्कीर्णैव" सती । "भातीव" । परमार्थतस् तु न भातीत्"ईव"शब्दोपादानम् । ननु किमर्थं नोत्कीर्णास्तीत्य् । अत्राह "न चे"ति । "सा" जगदाख्या पुत्रिका । "न चोत्कीर्णा" । अर्हप्रत्ययार्थोऽत्र स्वयं बोद्धव्यः । उत्कर्तुं योग्या न भवति । नकिञ्चिद्रूपत्वात् । "न चात्रोत्कर्ता" उत्करणकर्ता । "विद्यते" । द्वैताभावात् ॥ (मोटी_३,१५.२ ॥

समुद्रेऽन्तर् जलास्पन्दाः स्वभावाद् अच्युता अपि ।
विदि वेद्या भवन्तीव परे दृश्यविदस् तथा ॥ (मो_३,१५.३ ॥

यथेत्य् अध्याहार्यम् । "समुद्रेऽन्तः" समुद्रान्तर्भागे स्थिताः । "जलास्पन्दाः" तरङ्गाः । "स्वभावाद् अच्युता अपि" जलाख्यात् स्वरूपाद् अभ्रष्टा अपि । यथा "विदि" ज्ञाने विषये । "वेद्याः" वीचितया वेदितुं योग्या । "भवन्तीव" । परमार्थतस् तु न भवन्तीति "इव"शब्दोपादानम् । "तथा परे" उत्तीर्णे चित्स्वरूपे । "दृश्यविदः" दृश्यरूपा विदः । दृश्यानीति यावत् । "भवन्तीव" ॥ (मोटी_३,१५.३ ॥

जलान्तर्गतसूर्याभाजालकारचनान्य् अपि ।
जगद्भानं प्रति स्थूलान्य् अणुं प्रति यथाचलाः ॥ (मो_३,१५.४ ॥

जलस्यान्तर्गता सूर्याभा "जलान्तर्गतसूर्याभा" । तस्याः जालकारचनानि "जलान्तर्गतसूर्याभाजालकारचनान्य् अपि" । स्वभावश् चायं जलान्तर्गता सूर्याभा जालकरूपा सम्पद्यते । तानि "जगद्भानं प्रति" तथा "स्थूलानि" भवन्ति । "यथाचलाः" पर्वताः । "अणुं प्रति" स्थूलाः भवन्ति ॥ (मोटी_३,१५.४ ॥

उक्तं दृष्टान्तस्थूलत्वं दृढयति

जगद्भानम् अभानाभं ब्रह्मणोऽव्यतिरेकतः ।
जलसूर्यांशुजालं तु व्यतिरेकानुभूतिदम् ॥ (मो_३,१५.५ ॥

"जगद्भानम् अभानाभं" भवति । कुतः । "ब्रह्मणः अव्यतिरेकतः" ब्रह्मरूपत्वाद् इत्य् अर्थः । "तु" व्यतिरेके । "जलसूर्यांशुजालं व्यतिरेकानुभूतिदम्" भेदप्रथाकारि भवति । अतोऽत्र स्थूलत्वं युक्तम् इति भावः ॥ (मोटी_३,१५.५ ॥

नुभूतान्य् अपीमानि जगति व्योमरूपिणि ।
पृथ्व्यादीनि न सन्त्य् एव स्वप्नसङ्कल्पयोर् इव ॥ (मो_३,१५.६ ॥

"व्योमरूपिणि" चिन्मात्राकाशस्वरूपे । "जगति" । कयोर् "इव" । "स्वप्नसङ्कल्पयोर् इव" । स्वप्ने सङ्कल्पे च "अनुभूतान्य् अपि पृथ्व्यादीनि" । यथा "न सन्ति" । तथेत्य् अर्थः ॥ (मोटी_३,१५.६ ॥

पिण्डग्राहः सद् इत्य् अस्मिन् विज्ञानाकाशरूपिणि ।
मरुनद्यां जलम् इव न सम्भवति कुत्रचित् ॥ (मो_३,१५.७ ॥

ग्रहणं "ग्राहः" । पिण्डवत् ग्राहः "पिण्डग्राहः" । "सद् इति" "पिण्डग्राहः" सद्व्यवहारहेतुः पिण्डग्राहः । "विज्ञानाकाशरूपिणि अस्मिन्न्" अनुभूयमाने । भवति । "कुत्रचित्" कुत्रापि । लेशेन "सम्भवति" । अत्र दृष्टान्तम् आह "मरुनद्याम्" इति ॥ (मोटी_३,१५.७ ॥

नन्व् असत्स्वरूपे जगति दृश्यता कथं भाति इत्य् । अत्राह

जगत्य् अपिण्डग्राहेऽस्मिन् सङ्कल्पनगरोपमे ।
मरौ सरिद् इवाभाति दृश्यता भ्रान्तिरूपिणी ॥ (मो_३,१५.८ ॥

अविद्यमानः पिण्डवत् ग्राहः यस्य । तस्मिन् "अपिण्डग्राहे" । "सङ्कल्पनगरोपमे" सङ्कल्पोल्लिखितनगरसदृशे । "ऽस्मिन् जगति दृश्यता" दृश्यभावः । "भ्रान्तिरूपिणी" मिथ्याज्ञानरूपा । "भाति" विलसति । क्"एव" । "मरौ" मरुदेशे । "सरिद् इव" ॥ (मोटी_३,१५.८ ॥

भ्रमरूपत्वेनासद्रूपस्य जगतः स्वप्नवत् तुलादेशापूरणं कथयति

स्वप्नाद्रिणेव जगता तुलादेशौ न कौचन ।
पूरितौ कलनोन्मुक्ता दृश्यश्रीर् व्योम केवलम् ॥ (मो_३,१५.९ ॥

"स्वप्नाद्रिणेव" स्वप्नाद्रिवत् । "जगता तुलादेशौ पूरितौ न" भवतः । गुरुत्वस्यासद्रूपत्वात् "तुला"पूरणं । विस्तारस्यासद्रूपत्वात् "देशा"पूरणं । एतच् च स्वप्नादौ सर्वप्रतीतिसिद्धम् एवेति तस्य दृष्टान्तता । फलितम् आह "कलने"ति । "कलनोन्मुक्ता" दृश्यत्वाख्यकलनामुक्ता ॥ (मोटी_३,१५.९ ॥

वर्जयित्वाज्ञविज्ञातजगच्छब्दार्थभावनाम् ।
जगद्ब्रह्मखशब्दानाम् अर्थे नास्त्य् एव भिन्नता ॥ (मो_३,१५.१० ॥

"अज्ञैः" चित्स्वरूपज्ञानशून्यैः । "विज्ञाता" स्वानुभवविषयीकृता । "जगच्छब्दार्थभावना" । "जगद्" इति "शब्दस्य" । तद्"अर्थस्य" च "भावना"नुसन्धानं । तां "अज्ञविज्ञातजगच्छब्दार्थभावनां वर्जयित्वा" परित्यज्य । "जगद्ब्रह्मखशब्दानाम् अर्थे भिन्नता" भेदो । "नास्त्य् एव" । पर्यायरूपा एवैते शब्दा इत्य् अर्थः । अज्ञस्याज्ञाततत्त्वतया जगतः आकाशरूपत्वं न सिद्धम् इति जगत्सत्यत्वनिष्ठायाः तद्भावनायाः परित्याग उक्तः ॥ (मोटी_३,१५.१० ॥

इदं त्व् अचेत्यचिन्मात्रभानोर् भानं नभः प्रति ।
तथा सूक्ष्मं यथा मेघं प्रति सङ्कल्पवारिदः ॥ (मो_३,१५.११ ॥

"तु" विशेषे । "अचेत्यचिन्मात्रभानोः" चेत्यादूषितचित्सूर्यस्य । "भानम्" आभासः । "इदं" जगत् । "नभः प्रति" बाह्याकाशापेक्षया । "तथा" तेन प्रकारेण । "सूक्ष्मं" भवति । "यथा मेघं प्रति" जाग्रद्दृष्टमेघापेक्षया । "सङ्कल्पवारिदः" स्वविकल्पोल्लेखितः मेघः सूक्ष्मो भवति ॥ (मोटी_३,१५.११ ॥

यथा स्वप्नपुरं स्वच्छं जाग्रत्पुरवरं प्रति ।
तथा जगद् इदं स्वच्छं सङ्कल्पितजगत् प्रति ॥ (मो_३,१५.१२ ॥

"यथा" लौकिकबुद्ध्या । "जाग्रत्पुरवरं प्रति स्वप्नपुरं स्वच्छं" केवलाभासरूपत्वेन स्थूलताख्यमलरहितं । भवति । "तथा" ज्ञानिदृष्ट्या । "इदं" जाग्रत्य् अनुभूयमानं । "जगत्" । "सङ्कल्पितजगत् प्रति स्वच्छं" सङ्कल्पाख्यमलरहितशुद्धचिन्मात्ररूपत्वात् निर्मलं भवति । यद्य् अपि ज्ञानिनः स्वप्नपुरम् अपि तादृशम् एव तथाप्य् अज्ञबोधनार्थम् एवम् उक्तम् ॥ (मोटी_३,१५.१२ ॥

तस्माद् अचेत्यचिद्रूपं जगद् व्योमैव केवलम् ।
शून्यौ व्योमजगच्छब्दौ पर्यायौ विद्धि चिन्मयौ ॥ (मो_३,१५.१३ ॥

"तस्मात्" पूर्वोक्तात् हेतोः । "अचेत्यचिद्रूपं" शुद्धचिन्मात्ररूपं । "जगत्" । "केवलं व्योमैव" भवति । फलितम् आह "शून्याव्" इति । अतः "शून्यौ" पिण्डग्राहाभावेन नकिञ्चिद्रूपौ । "चिन्मयौ" चित्स्वरूपौ । "व्योमजगच्छब्दौ पर्यायौ विद्धि" एकार्थवाचकत्वात् ॥ (मोटी_३,१५.१३ ॥

वक्ष्यमाणवृत्तान्ताकाङ्क्षया पूर्वोक्तम् उपसंहरति त्रिभिः

तस्मान् न किञ्चिद् उत्पन्नं जगदादीह दृश्यकम् ।
नाख्यम् अनभिव्यक्तं यथास्थितम् अवस्थितम् ॥ (मो_३,१५.१४ ॥

"तस्मात्" चिदेकमयत्वात् हेतोः । "जगदादि दृश्यं किञ्चित्" लेशेनापि । "उत्पन्नं न" भवति । कथम्भूतं । "अनाख्यं" नामानर्हम् । अत्र हेतुत्वेन विशेषणम् आह्"आनभिव्यक्तम्" इन्द्रियागोचरम् । अन्यरूपत्वेन अनभिव्यक्तस्य हि नामायुक्तम् । ननु तर्हि अपूर्वत्वं जगतः स्याद् इत्य् आशङ्क्य विशेषणम् आह्"आवस्थितम्" इति । "अवस्थितं" तिष्ठत् । कथं । "यथास्थितं" । यथैव पूर्वं तथैव । न त्व् अपूर्वतयेत्य् अर्थः । यथा पूर्वं सर्पतया ज्ञाता रज्जुः ततः रज्जुतया ज्ञातापि पूर्ववद् एव तिष्ठति । न त्व् अन्यरूपतां प्राप्नोति । तथेत्य् भावः ॥ (मोटी_३,१५.१४ ॥

जगद् एव महाकाशं चिदाकाशम् अभित्तिमत् ।
तद् देशस्याणुमात्रस्य तुलायाश् चाप्रपूरकम् ॥ (मो_३,१५.१५ ॥

"जगत्" "चिदाकाशम् एव" भवति । कथम्भूतं "चिदाकाशं" । "महाकाशं" बाह्याकाशापेक्षया महत्त्वात् महाकाशाख्यायुक्तम् । पुनः कथम्भूतम् । "अभित्तिमत्" । जीवादिप्रपञ्चः तत्तद्धर्माधारतया "भित्तिः" । तद्रहितम् । फलितम् आह "तद्" इति । अतः "तत्" चिदाकाशमयं जगत् । गुरुत्वाभावेन वैपुल्याभावेन च्"आणुमात्रस्य देशस्य तुलायाश् चापूरकम्" भवति । पूरणकारि न भवति ॥ (मोटी_३,१५.१५ ॥

तद् एव पुनः विशिनष्टि

आकाशरूपम् एवाच्छं पिण्डग्रहविवर्जितम् ।
व्योम्नि व्योममयं चित्रं सङ्कल्पपुरवत् स्थितम् ॥ (मो_३,१५.१६ ॥

"आकाशरूपम् एव" नकिञ्चिद्रूपम् एव । "अच्छं" शुद्धबोधस्वरूपं । "पिण्डग्रहविवर्जितम्" । "पिण्ड"वत् यः "ग्रहः" । तेन "वर्जितम्" । युक्तं चाकाशस्य पिण्डग्रहरहितत्वं । "व्योम्नि" चिदाकाशे । "व्योममयं" चिदाकाशमयं । "चित्रम्" आलेख्यं । "सङ्कल्पपुरवत्" सङ्कल्पोल्लिखितपुरवत् । "स्थितम्" व्यवतिष्ठमानं । सङ्कल्पपुरस्य चाकाशमयत्वं तुलादेशापूरकत्वं च युक्तम् एवेति सिद्धः सर्वस्य जगतः विवक्षितः अत्यन्ताभावः । यच् चोत्पत्तिः पूर्वम् उक्ता साप्य् अनुत्पत्तिकल्पत्वेनात्यन्ताभावस्यैव साधनीति न पूर्वापरविरोधः ॥ (मोटी_३,१५.१६ ॥

अथ जगतः तुलादेशाद्यपूरकत्वसाधकं महावृत्तान्तं वृत्तान्तकामान् प्रति कृपया कथयति

त्रेदं मण्डपाख्यानं शृणु श्रवणभूषणम् ।
निःसन्देहो यथैषोऽर्थश् चित्ते विश्रान्तिम् एष्यति ॥ (मो_३,१५.१७ ॥

त्वम् । "अत्र" जगतो देशाद्यपूरकत्वे । "मण्डपाख्यानं" । मण्डपेति नाम्ना प्रसिद्धम् आख्यानं "मण्डपाख्यानं" । "शृणु" । कथम्भूतं । "श्रवणभूषणं" श्रवणार्हम् इत्य् अर्थः । ततः किम् इत्य् । अत्राह "निःसन्देह" इति । "यथा" येन । "निःसन्देहः" सन्देहान् निष्क्रान्तः । "एषः" पूर्वोक्तः । "अर्थः" । "चित्ते" त्वच्चित्ते । "विश्रान्तिम् एष्यति" ॥ (मोटी_३,१५.१७ ॥

त्वरयाविष्टः श्रीरामः मण्डपाख्यानं प्रति श्रीवसिष्ठं प्रार्थयति

सद्बोधवृद्धये ब्रह्मन् समासेन वदाशु मे ।
मण्डपाख्यानम् अखिलं येन बोधो विवर्धते ॥ (मो_३,१५.१८ ॥

जगतः तुलादेशापूरकत्वज्ञानं "सद्बोधः" । तस्य "वृद्धये" । फलितम् आह "येने"ति । "येन" उदितेनेत्य् अर्थः ॥ (मोटी_३,१५.१८ ॥

श्रीवसिष्ठः मण्डपाख्यानम् एव कथयति

भूद् अस्मिन् महीपीठे कुलपद्मो विकासवान् ।
पद्मो नाम नृपः श्रीमान् बहुपुत्रोऽतिकोशवान् ॥ (मो_३,१५.१९ ॥

"अस्मिन् महीपीठे पद्मो नाम नृपः अभूत्" । तस्यैव नानाविधानि विशेषणान्य् आह "कुले"ति । "विकासवान् कुलपद्मः" । पद्मस्य च विकासो युक्तः । "पद्म"शब्दोऽत्र लक्षणया श्रेष्ठवाचकः । "अतिकोशवान्" बहुभाण्डागारयुक्तः ॥ (मोटी_३,१५.१९ ॥

मर्यादापालनेऽम्भोधिर् द्विषत्तिमिरभास्करः ।
कान्ताकुमुदिनीचन्द्रो दोषतृष्णाहुताशनः ॥ (मो_३,१५.२० ॥

"अम्भोधेः मर्यादपालनं" प्रसिद्धम् एव । "कान्ताकुमुदिनीचन्द्रः" । "चन्द्रत्वम्" अस्य तद्विकासकारित्वेन । "दोषतृष्णाहुताशनत्वं" दोषतृष्णादाहकत्वेन ॥ (मोटी_३,१५.२० ॥

मेरुर् विबुधवृन्दानां यशश्चन्द्रोद्भवार्णवः ।
सरः सद्गुणहंसानां कलाकमलभास्करः ॥ (मो_३,१५.२१ ॥

"विबुधाः" पण्डिताः । त एव विबुधा देवाः । तेषां । "मेरुः" बहुकाञ्चनप्रदत्वेनाश्रयत्वेन च मेरुपर्वतसदृशः । "यश" इति । "यशःचन्द्रोद्भवेऽर्णवः" समुद्रः । "सद्गुण"रूपाणां "हंसानां सरः" । "कला" एव "कमलानि" । तेषां विकासप्रदत्वेन "भास्करः" ॥ (मोटी_३,१५.२१ ॥

शात्रवाम्भोदपवनो मत्तमातङ्गकेसरी ।
समस्तविद्यादयितः सर्वाश्चर्यगुणाकरः ॥ (मो_३,१५.२२ ॥

"शात्रवं" शत्रुसमूहः । स एव्"आम्भोदः" मेघः । तस्य "पवनः" नाशकारित्वात् । "मातङ्गा" अत्र शत्रुसेना या विवक्षिताः । "समस्ता" या "विद्या"रूपाः नायिकाः । तासां "दयितः" पतिः । "सर्वे" च ते "आश्चर्य"भूताः "गुणाः" । तेषाम् "आकरः" उत्पत्तिस्थानम् ॥ (मोटी_३,१५.२२ ॥

शूरारिसागरक्षोभविलसन्मन्दराचलः ।
विलासपुष्पौघमधुः सौभाग्यकुसुमायुधः ॥ (मो_३,१५.२३ ॥

"शूराश्" च ते "ऽरयः" । तद्रूपः यः "सागरः" । तस्य "क्षोभे विलसन् मन्दराचलः" । "विलासा" विभ्रमा एव । "पुष्पाणि" । तेषां यः "ओघः" । तस्य "मधुः" वसन्तः । विकासकारित्वात् । "सौभाग्येन" सुभगभावेन । "कुसुमायुधः" कामः ॥ (मोटी_३,१५.२३ ॥

लीलालतालास्यमरुत् साहसोत्सवकेशवः ।
सौजन्यकैरवशशी दुर्लीलालतिकानलः ॥ (मो_३,१५.२४ ॥

"लीला" इव "लता" । तस्या "लास्ये" नर्तने । "मरुत्" । लीलायुक्त इत्य् अर्थः । "साहसम्" एव हिताहितानपेक्षं कर्म एव । "उत्सवः" महः । तस्य "केशवः" विष्णुः । तस्य हिरण्याख्यादिवधसाहसकारित्वाद् उपमानत्वं । "सौजन्यम्" एव "कैरवं" । तस्य विकासकारित्वात् "शशी" चन्द्रः । "दुर्लीलालतिकानां" दाहकत्वाद् "अनलः" अग्निः ॥ (मोटी_३,१५.२४ ॥

तस्यासीत् सुभगा भार्या लीला नाम विलासिनी ।
सर्वसौभाग्यवलिता कमलेवोदितावनौ ॥ (मो_३,१५.२५ ॥

"तस्य" पद्माख्यस्य राज्ञः । "लीला नाम भार्या" लीलाख्या भार्य्"आसीत्" । अस्या विशेषणान्य् आह "सुभगे"ति । "सुभगा" प्रशस्तरूपयुक्ता । "विलासिनी" विलासयुक्ता । "सर्वसौभाग्यैः वलिता" भरित्"आवनौ" भूमौ । "कमलेवोदिता" उत्पन्ना ॥ (मोटी_३,१५.२५ ॥

सर्वसम्पत्तिवलिता लीलामधुरभाषिणी ।
सानन्दमन्दचलिता द्वितीयेन्दूदयस्मिता ॥ (मो_३,१५.२६ ॥

"लीले"ति । "लीलया मधुरं भाषिणी" । "सानन्दे"ति । "सानन्दं मन्दं चलितं" यस्याः । सा । "द्वितीये"ति । "द्वितीयेन्दूदय"भूतं "स्मितं" यस्याः । सा ॥ (मोटी_३,१५.२६ ॥

लकालिमनोहारिवदनाम्भोजशालिनी ।
शीताङ्गी कर्णिकागौरी जङ्गमेव सरोजिनी ॥ (मो_३,१५.२७ ॥

"अलकाल्या" "मनोहारि" यत् "वदनाम्भोजं" । तेन "शालिनी" । "शीताङ्गी" शिशिराङ्गी । "कर्णिके"ति । "कर्णिका"वद् "गौरी" । क्"एव" । "जङ्गमा" सञ्चारिणी । "सरोजिनीव" । सरोजिन्य् अपि "अलिमनोहारि" "अम्भोजशालिनी शीताङ्गी कर्णिकया गौरी" भवति ॥ (मोटी_३,१५.२७ ॥

लताविलासकुन्दौघहासिनी रसशालिनी ।
प्रबालहस्ता पुष्पाढ्या मधुश्रीर् इव देहिनी ॥ (मो_३,१५.२८ ॥

"शालिनी" शृङ्गारसुशालिनी । "प्रबाले"ति । प्रबालवत् "हस्तौ" यस्याः । सा । "पुष्पे"ति । "पुष्पैर्" आभरणभूतैः पुष्पैर् । "आढ्या "। क्"एव" । "देहिनी" मूर्तिमती । "मधुश्रीर् इव" । सापि "कुन्दौघैः हासिनी" । "रसेन" वसन्तरसेन । "शालिनी" च भवति । शेषं समानम् ॥ (मोटी_३,१५.२८ ॥

वदाता तनुः पुण्या जनताह्लाददायिनी ।
गङ्गेव गां गता देवनदी हंसविलासिनी ॥ (मो_३,१५.२९ ॥

"अवदाता तनुः" सिताङ्गी । "पुण्या" भाग्यवती । "जनते"ति । "जनतायाः आह्लाददायिनी" । "हंसे"ति । "हंस"वत् "विलास"युक्ता । क्"एव" । "गां" भूमिं । "गता" । "देवनदी गङ्गेव" । सापि तादृश्य् एव भवति ॥ (मोटी_३,१५.२९ ॥

तस्य भूतलपुष्पेषोः सकलाह्लाददायिनः ।
परिचर्यां चिरं कर्तुम् अन्या रतिर् इवोदिता ॥ (मो_३,१५.३० ॥

"पुष्पेषोः" "रतेः" "परिचर्यां कर्तुं" युक्तत्वात् एतद् उक्तम् ॥ (मोटी_३,१५.३० ॥

सर्गान्तश्लोकेन तस्याः सतीगुणान् आह

उद्विग्ने प्रोद्विग्ना मुदिता मुदिते समाकुलाकुलिते ।
प्रतिबिम्बसमा कान्ता सङ्क्रुद्धे केवलं भीता ॥ (मो_३,१५.३१ ॥

सा "कान्ता" । तस्येति शेषः । तस्य राज्ञः । "प्रतिबिम्बसमा"सीत् । कथम्भूता । तस्मिन् प्र्"ओद्विग्ने" सति । "प्रोद्विग्ना" । तस्मिन् "मुदिते" सति । "मुदिता" । तस्मिन् सम्"आकुले" सति । "समाकुला" । तस्मिन् "सङ्क्रुद्धे" सति । "केवलं भीता" । एतावन्मात्रेणैव "केवलं" सा विरुद्धासीद् इति भावः । इति शिवम् ॥ (मोटी_३,१५.३१ ॥

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायाम् उत्पत्तिप्रकरणे पञ्चदशः सर्गः ॥ ३,१५ ॥



ओं तस्य राज्ञः तया राज्ञ्या सह क्रीडाम् आह

भूतलाप्सरसा सार्धम् अनन्यवनितापतिः ।
कृत्रिमप्रेमरसं स रेमे कान्तया तया ॥ (मो_३,१६.१ ॥

"स" राजा । "तया" लीलाख्यया । "कान्तया सहाकृत्रिमः प्रेमरसः" यत्र तत् "अकृत्रिमप्रेमरसं" । वक्ष्यमाणेषु स्थानेषु वक्ष्यमाणैः क्रीडाविशेषैः । "रेमे" । "तया" किंरूपया । "भूतलाप्सरसा" । "स" कथम्भूतः । "अनन्यवनितापतिः" नान्यवनितायाः पतिः । तस्याम् एव रत इत्य् अर्थः ॥ (मोटी_३,१६.१ ॥

क्रीडास्थानान्य् आह

उद्यानवनगुल्मेषु तमालगहनेषु च ।
पुष्पमण्डपतल्पेषु लतावलयसद्मसु ॥ (मो_३,१६.२ ॥

"उद्यानवनेषु" विहितानि यानि "गुल्मानि" वेश्मानि । तेषु । "पुष्पे"ति । "पुष्पैः" कृतानि यानि "मण्डपतल्पानि" । तेषु । "मण्डपः" जनाश्रयः । "लतावलयसद्मसु" लतामण्डलगृहेषु ॥ (मोटी_३,१६.२ ॥

पुष्पान्तःपुरशय्यासु पुष्पसम्भारवीथिषु ।
वसन्तोद्यानदोलासु क्रीडापुष्करिणीषु च ॥ (मो_३,१६.३ ॥

"पुष्पैः" रचिता याः "अन्तःपुरशय्याः" । तासु । "पुष्पे"ति । "पुष्पसम्भारेण" पुष्पसमूहेन युक्ताः "वीथ्यः" मार्गाः । तासु । "वसन्ते"ति । "वसन्ते" रचिताः "उद्यानदोलाः" । तासु ॥ (मोटी_३,१६.३ ॥

चन्दनद्रुमषण्डेषु सन्तानकतलेषु च ।
कदम्बनिम्बगेहेषु पारिभद्रोदरेषु च ॥ (मो_३,१६.४ ॥

"षण्डाः" समूहाः । "सन्तानकाः" द्रुमविशेषाः । "कदम्बे"ति । "कदम्बनिम्ब"तलेषु रचितानि यानि "गेहानि" । तेषु । "पारिभद्रे"ति । "पारिभद्राः" वृक्षविशेषाः ॥ (मोटी_३,१६.४ ॥

शैलकन्दरकच्छेषु वातायनपुरेषु च ।
सरित्तटकटप्रेषु वारणोपरिसद्मसु ॥ (मो_३,१६.५ ॥

"शैलकन्दरेषु" स्थिताः ये "कच्छाः" । तेषु । "वातायने"ति । "वातायन"युक्तानि च तानि "पुराणि" गृहोपरिगृहाणि । तेषु । "सरिद्" इति । "सरित्तटानां" ये "कटप्राः" समूहाः । तेषु । "वारणे"ति । "वारणोपरि"कृतेषु "सद्मसु" ॥ (मोटी_३,१६.५ ॥

ग्रीष्मे तुषारहर्म्येषु लतामण्डपकेषु च ।
हेममन्दिरवृक्षेषु मुक्तामाणिक्यभित्तिषु ॥ (मो_३,१६.६ ॥

"तुषारहर्म्येषु" शीतलगृहेषु । "हेमे"ति । "हेममन्दिरो"परिरोपिताः ये "हेममन्दिरवृक्षाः" । तेषु । "मुक्ते"ति । "मुक्तामाणिक्यैः" रचिताः "भित्तयः" येषां गृहाणां । तेषु ॥ (मोटी_३,१६.६ ॥

विकसत्कुन्दमन्दारमकरन्दसुगन्धिषु ।
वसन्तवनजालेषु कूजत्कोकिलमालिषु ॥ (मो_३,१६.७ ॥

"वसन्ते" पुष्पितानि यानि "वनजालानि" । तेषु । "विकसद्" इति "कूजद्" इति च विशेषणद्वयं "वसन्तवनजालेष्व्" इत्य् अस्यैव ॥ (मोटी_३,१६.७ ॥

नानारत्नतृणानां च स्थलेषु मृदुदीप्तिषु ।
निर्झरेषु तरत्तारशीकरासारवर्षिषु ॥ (मो_३,१६.८ ॥

"नाना" च तानि "रत्न"भूतानि "तृणानि" । तेषां । "स्थलेषु" कथम्भूतेषु । "मृदुदीप्तिषु" कमलेष्व् इत्य् अर्थः । "निर्झरे"ति । "निर्झरेषु" कथम्भूतेषु । "तरद्" इति । "तरन्तः" उत्थितवन्तः ये "ताराः" उद्भटाः । "शीकराः" जलकणाः । तेषाम् "आसारः" धारासाराः । तं "वर्षन्ति" । तादृशेषु ॥ (मोटी_३,१६.८ ॥

शैलानां हेममाणिक्यशिलाफलहकेषु च ।
देवर्षिमुनिगेहेषु दूरपुण्याश्रमेषु च ॥ (मो_३,१६.९ ॥

"शैलानां हेममाणिक्यो"त्पत्तिस्थानभूतानि यानि "शिलाफलहकानि" । तेषु ॥ (मोटी_३,१६.९ ॥

कुमुद्वतीषु फुल्लासु स्मेरासु नलिनीषु च ।
वनस्थलीषु फुल्लासु फुल्लासूत्पलिनीषु च ॥ (मो_३,१६.१० ॥

"स्मेरासु" फुल्लासु ॥ (मोटी_३,१६.१० ॥

क्रीडास्थानान्य् उक्त्वा क्रीडाप्रकारान् आह

प्रहेलिकाभिर् आख्यानैस् तथैवाक्षरमुष्टिभिः ।
ष्टापदैर् बहूद्द्योतैस् तथा गूढचतुर्थकैः ॥ (मो_३,१६.११ ॥

"आख्यानैः" वृत्तान्तकथनैः । "अक्षरमुष्टिभिः" क्रीडाविशेषैः ॥ (मोटी_३,१६.११ ॥

नाटकाख्यायिकाभिश् च श्लोकैर् बिन्दुमतीभ्रमैः ।
देशभाषाविभागैश् च नगरग्रामचेष्टितैः ॥ (मो_३,१६.१२ ॥

"नाटकेषू"क्ता या "आख्यायिकाः" । ताभिः । "बिन्दुमतीभ्रमैः" क्रीडाविशेषैः । "देशे"ति । "देशभाषाणां विभागैः" विभागकरणैः । "नगरे"ति । "नगरचेष्टितैः ग्रामचेष्टितैश्" चेति योज्यम् ॥ (मोटी_३,१६.१२ ॥

स्रग्दाममाल्यवलनैर् नानाभरणयोजनैः ।
लीलाविलोलचलनैर् विचित्ररसभाजनैः ॥ (मो_३,१६.१३ ॥

"वलनैः" परिवर्तनैः । "नाने"ति । "नानाभरणानां योजनैः" अन्योऽन्यं संयोजनैः । "लीले"ति । "लीलया विलोलानि" यानि "चलनानि" गमनानि । तैः कथम्भूतैः । "विचित्रे"ति । "विचित्राणां" नानाविधानां । "रसानां" शृङ्गारादीनां । "भाजनैः" पात्रैः ॥ (मोटी_३,१६.१३ ॥

आर्द्रक्रमुककर्पूरताम्बूलीदलचर्वणैः ।
फुल्लपुष्पलताकुञ्जदेहगोपनखर्वणैः ॥ (मो_३,१६.१४ ॥

"चर्वणैः" चर्वितैः । "फुल्ले"ति । "फुल्लपुष्पाश्" च ताः "लताः" । तासां यानि "कुञ्जानि" । तेषु । "देहगोपना" शरीरगुप्तिकरणं । तदर्थं यानि "खर्वणानि" ह्रस्वीभवनानि । तैः ॥ (मोटी_३,१६.१४ ॥

समालम्भनलीलाभिर् दोलारोहणविभ्रमैः ।
गृहे कुसुमदोलाभिर् अन्योऽन्यान्दोलनक्रमैः ॥ (मो_३,१६.१५ ॥

"समालम्भनं" अङ्गरागकरणम् । "अन्योऽन्ये"ति । "अन्योऽन्यं" परस्परम् । "आन्दोलनम्" दोलाकम्पनं । तस्य "क्रमैः" ॥ (मोटी_३,१६.१५ ॥

नौयानयुग्यहस्त्यश्वदान्तोष्ट्रादिगमागमैः ।
जलकेलिविलासेन परस्परसमुक्षणैः ॥ (मो_३,१६.१६ ॥

"नौयानं" च "युग्य"भूतैर् वाहनभूतैः । "हस्त्यश्वदान्तोष्ट्रादिभिः" । "गमागमाश्" च । तैः । "दान्तो" वलीवृन्दः । "परस्परे"ति । "परस्परम्" अन्योऽन्यं । "समुक्षणानि" सेचनानि । तैः ॥ (मोटी_३,१६.१६ ॥

नृत्तगीतकलालास्यताण्डवोद्भटवृत्तिभिः ।
सङ्गीतकैः सङ्कथनैर् वीणामुरजवादनैः ॥ (मो_३,१६.१७ ॥

"नृत्ताद्या" या "उद्भटाः" उद्रिक्ताः । "वृत्तयः" व्यापाराः । ताभिः ॥ (मोटी_३,१६.१७ ॥

पुनर् अपि क्रीडास्थानान्य् आह

उद्यानेषु सरित्तीरवृक्षेषु वनवीथिषु ।
न्तःपुरेषु हर्म्येषु तेषु तेषु तथा तथा ॥ (मो_३,१६.१८ ॥

"तथा तथा" पूर्वोक्तैः नानाविधैः क्रीडाविशेषैः ॥ (मोटी_३,१६.१८ ॥

सा बाला सुखसंवृद्धा तस्य प्रणयिनी प्रिया ।
एकदा चिन्तयाम् आस शुभसङ्कल्पशालिनी ॥ (मो_३,१६.१९ ॥

"तस्य" पद्माख्यस्य राज्ञः । "प्रणयिनी" पत्नी । "सा" लीलाख्या । "बाला" । "एकदा" एकस्मिन् दिने । "चिन्तयाम् आस" चिन्तां कृतवती । कथम्भूता । "सुखसंवृद्धा" । पुनः कथम्भूता । "शुभे"ति । "शुभसङ्कल्पेन" वक्ष्यमाणेन प्रशस्तेन सङ्कल्पेन । "शालिनी" ॥ (मोटी_३,१६.१९ ॥

किं चिन्तयाम् आसेत्य् । अत्राह

प्राणेभ्योऽपि प्रियो भर्ता ममैष जगतीपतिः ।
यौवनोल्लासलक्ष्मीवान् कथं स्याद् अजरामरः ॥ (मो_३,१६.२० ॥

"मम एसः भर्ता अजरामरः" जरामरणाख्यदोषरहितः । "कथं स्यात्" केन हेतुना स्याद् इत्य् अन्वयः । "प्राणेभ्यः" जीवेभ्यः ॥ (मोटी_३,१६.२० ॥

भर्त्रानेन सहोत्तुङ्गस्तनी कुसुमसद्मसु ।
कथं स्वैरं चिरं कान्ता रमेयाब्दशतान्य् अहम् ॥ (मो_३,१६.२१ ॥

"अहं कान्तानेन भर्त्रा सहाब्दशतानि कथं रमेय" केनोपायेन वर्षशतानि क्रीडां कुर्याम् इत्य् अर्थः ॥ (मोटी_३,१६.२१ ॥

तथा यतेय क्रमतस् तपोजपयमेहितैः ।
रजनीशरुची राजा यथा स्याद् अजरामरः ॥ (मो_३,१६.२२ ॥

अत इत्य् अध्याहार्यम् । अतोऽहं "तथा तपोजपयमेहितैः" करणभूतैः । अतो यत्नं करोमि । "यथा रजनीशरुचिः" चन्द्रप्रभा । "राजाजरामरः स्यात्" ॥ (मोटी_३,१६.२२ ॥

ज्ञानवृद्धांस् तपोवृद्धान् विद्यावृद्धान् अहं द्विजान् ।
पृच्छामि तावन् मरणं कथं न स्यान् नृणाम् इति ॥ (मो_३,१६.२३ ॥

"अहं ज्ञानवृद्धान् तपोवृद्धान्" तथा "विद्यावृद्धान् द्विजान् इति तावत् पृच्छामि इति" । किम् "इति" । "नृणां मरणं कथं न स्यात्" केन हेतुना न स्यात् ॥ (मोटी_३,१६.२३ ॥

तस्याः सङ्कल्पम् उक्त्वा बाह्यप्रयत्नम् आह

थानाय्याशु सम्पूज्य द्विजान् पप्रच्छ सानता ।
मरत्वं कथं विप्रा भवेद् इति पुनः पुनः ॥ (मो_३,१६.२४ ॥

"अथ" सङ्कल्पानन्तरम् । "आनाय्ये"त्य् अत्र । परिजनैर् इति शेषः । "पुनः पुनर्" इति इच्छोद्रेकद्योतनपरम् ॥ (मोटी_३,१६.२४ ॥

विप्रा उत्तरं कथयन्ति

तपोजपयमैर् देवि समस्ताः सिद्धसिद्धयः ।
सम्प्राप्यन्तेऽमरत्वं तु न कदाचन लभ्यते ॥ (मो_३,१६.२५ ॥

"सिद्धसिद्धयः" । "सिद्धानां" सिद्धियुक्तानां । "सिद्धयः" । "तु" व्यतिरेके ॥ (मोटी_३,१६.२५ ॥

द्विजेभ्यः स्वेप्सितासिद्धिं श्रुत्वा पुनर् अपि तच्चिन्ताम् आह

इत्य् आकर्ण्य द्विजमुखाच् चिन्तयाम् आस सा पुनः ।
इदं स्वप्रज्ञयैवाशु भीता प्रियवियोगतः ॥ (मो_३,१६.२६ ॥

"स्वप्रज्ञयैव" । न तु तदुक्तानुसारेण ॥ (मोटी_३,१६.२६ ॥

किं चिन्तयाम् आसेत्य् । अत्राह

मरणं भर्तुर् अग्रे मे यदि दैवाद् भविष्यति ।
तत् सर्वदुःखनिर्मुक्ता संस्थास्ये सुखम् आत्मनि ॥ (मो_३,१६.२७ ॥

भर्तृमृतिदुःखादर्शनाद् इति भावः ॥ (मोटी_३,१६.२७ ॥

थ वर्षसहस्रेण भर्तादौ म्रियते यदि ।
तत् करिष्ये तथा येन जीवो गेहान् न यास्यति ॥ (मो_३,१६.२८ ॥

"वर्षसहस्रेणे"ति पदम् आशीर्द्योतकम् । "अथ यदि" " भर्तादौ" वर्षसहस्रान्ते "म्रियते तत्" तदा । "तथा" तम् उपायं । "करिष्ये येन जीवः" भर्तृजीवः । "गेहात् न यास्यति" ॥ (मोटी_३,१६.२८ ॥

ततः किम् इत्य् । अत्राह

तद्भ्रमाद् भर्तृजीवेऽस्मिन् निजे शुद्धान्तमण्डपे ।
भर्त्रावलोकिता नित्यं निवत्स्यामि यथासुखम् ॥ (मो_३,१६.२९ ॥

अहं "तद्भ्रमात्" । भर्तावलोकते माम् इति भ्रमात् । "नित्यं" सदा । "यथासुखं निवर्त्स्यामि" । कथम्भूताहं । "अस्मिन् भर्तृजीवे निजे" स्वकीये । "शुद्धान्तमण्डपे" मया साधितेनोपायेन स्थिते सति । "भर्त्रावलोकिता" वीक्षिता ॥ (मोटी_३,१६.२९ ॥

द्यैवारभ्यैतदर्थं देवीं ज्ञप्तिं सरस्वतीम् ।
जपोपवासनियमैर् आ तोषं पूजयाम्य् अहम् ॥ (मो_३,१६.३० ॥

"अद्यैव" । न तु श्वः । "एतदर्थं" भर्तृजीवस्य स्वगेहान् निर्गमाभावार्थम् । "ज्ञप्तिं देवीं" स्वप्रतिभां देवीं । "आ तोषं" प्रसादपर्यन्तम् । ननु ज्ञप्त्याराधनतया कुतः श्रुतम् । ज्ञप्तिप्रसादाद् एवेति ब्रूमः । सर्वत्र ज्ञप्तिप्रसादस्यैव कारणत्वात् । अग्रे वक्ष्यमाणः ज्ञप्त्युपदेशश् च स्वप्रतिभाकृतः ज्ञेयः । यतः यत् यत् लीलया कृतं श्रुतं वा तत् स्वप्रतिभयैव । यद् अपि गुर्वादिमुखेन श्रूयते तद् अपि स्वप्रतिभयैव । सर्वत्र स्वप्रतिभायाः स्थितत्वात् ॥ (मोटी_३,१६.३० ॥

चिन्तानन्तरं तत्प्रयत्नं कथयति

इति निश्चित्य सा नाथम् अनुक्त्वैव वराङ्गना ।
यथाशास्त्रं चचारोग्रं तपो नियमम् आस्थिता ॥ (मो_३,१६.३१ ॥

"नियमम् आस्थिता"श्रिता । तं विना तपसो व्यर्थत्वात् ॥ (मोटी_३,१६.३१ ॥

तत् तपः विशेषणद्वारेण कथयति

त्रिरात्रस्य त्रिरात्रस्य पर्यन्ते कृतपारणा ।
देवद्विजगुरुप्राज्ञविद्वत्पूजापरायणा ॥ (मो_३,१६.३२ ॥

"त्रिरात्रस्य त्रिरात्रस्ये"ति वीप्सायां द्वित्वम् ॥ (मोटी_३,१६.३२ ॥

स्नानदानतपोध्याननित्योद्युक्तशरीरिका ।
सर्वास्तिक्यसदाचारकारिणी क्लेशकारिणी ॥ (मो_३,१६.३३ ॥

"स्नानादिषु नित्यम् उद्युक्तं" चेष्टायुक्तं । शरीरं यस्याः । सा । "सर्वे"ति । "आस्तिक्यः" आस्तिकयोग्यः । "क्लेशः" तपोरूपः ॥ (मोटी_३,१६.३३ ॥

यथाकालं यथोद्योगं यथाशास्त्रं यथाक्रमम् ।
तोषयाम् आस भर्तारम् अपरिज्ञाततत्स्थितिम् ॥ (मो_३,१६.३४ ॥

"अपरिज्ञाता" । "तस्या" लीलायाः । त्रयम् एतत् तपः करोतीत्य् एवंरूपा "स्थितिर्" । येन । सः ॥ (मोटी_३,१६.३४ ॥

त्रिरात्रशतम् एवं सा बाला नियमशालिनी ।
नारततपोनिष्ठम् अतिष्ठत् कष्टचेष्टया ॥ (मो_३,१६.३५ ॥

"अनारते"ति । "अनारतं तपसि निष्ठा "यत्र । तत् । क्रियाविशेषणम् एतत् । "कष्टचेष्टया" रात्रित्रयानन्तरं पारणादिरूपया दुःखदया चेष्टया ॥ (मोटी_३,१६.३५ ॥

अथ ज्ञप्तिप्रसादम् आह

त्रिरात्राणां शतेनाथ पूजिता प्रतिमाम् इता ।
तुष्टा भगवती गौरी वागीशीदम् उवाच ताम् ॥ (मो_३,१६.३६ ॥

"अथ" नियमानन्तरम् । "वागीशी" ज्ञप्तिः । "गौरी" शुद्धस्वरूपा । वागीशीत्वम् अस्याः वाचां मूलकारणत्वेन ज्ञेयं । "प्रतिमाम् इता" शिलादिप्रतिमाम् आश्रिता । स्वया प्रतिभया प्रतिमायाम् आभासेन तस्याः दर्शनं दत्तवान् इति भावः ॥ (मोटी_३,१६.३६ ॥

ज्ञप्त्या कथ्यमानं वाक्यम् आह

निरन्तरेण तपसा भर्तृभक्त्यतिशायिना ।
परितुष्टास्मि ते वत्से गृहाण वरम् ईप्सितम् ॥ (मो_३,१६.३७ ॥

"निरन्तरेणा"च्छिन्नेन ॥ (मोटी_३,१६.३७ ॥

ज्ञप्तिवाक्यं श्रुत्वा राज्ञी तां स्तौति

जय जन्मजराज्वालादाहदोषशशिप्रभे ।
जय हार्दान्धकारौघनिवारणरविप्रभे ॥ (मो_३,१६.३८ ॥

"शशिप्रभायाः दाहदोष"निवारकत्वं "रविप्रभायाः" च्"आन्धकार"निवर्तकत्वं प्रसिद्धम् एव ॥ (मोटी_३,१६.३८ ॥

म्ब मां त्रिजगन्मातस् त्रायस्व कृपणाम् इमाम् ।
इदं वरद्वयं देहि यद् इह प्रार्थये शुभम् ॥ (मो_३,१६.३९ ॥

"कृपणां" दीनां । "शुभम्" इति "वरद्वय"विशेषणम् ॥ (मोटी_३,१६.३९ ॥

वरद्वयमध्ये एकं कथयति

एकं तावद् विदेहस्य भर्तुर् जीवो ममाम्बिके ।
स्माद् एव हि मा यासीन् निजान्तःपुरमण्डपात् ॥ (मो_३,१६.४० ॥

वरद्वयमध्ये "एकम्" इदं वरं देहि । किम् इत्य् अपेक्षायाम् आह "विदेहे"ति । "विदेहस्य" मृतस्य । "मा यासीत्" मा गच्छतु ॥ (मोटी_३,१६.४० ॥

द्वितीयं कथयति

द्वितीयं त्वां महादेवि प्रार्थयेऽहं यदा यदा ।
दर्शनाय वरार्थेन तदा मे देहि दर्शनम् ॥ (मो_३,१६.४१ ॥

"द्वितीयम्" इदं देहि । किम् इत्य् अपेक्षायाम् आह "त्वाम्" इति । हे "देवि" । "अहं त्वां यदा दर्शनाय प्रार्थये तदा त्वं वरार्थेन" वरानुरोधेन । "दर्शनं देहि" ॥ (मोटी_३,१६.४१ ॥

वरद्वयम् अङ्गीकृत्य ज्ञप्त्य ...